अरण्यपर्व - अध्याय 130

 

॥ श्रीः ॥

3.130. अध्यायः 130

Mahabharata - Vana Parva - Chapter Topics

युधिष्ठिरेण मार्कण्डेयाश्रमगमनम् ॥ 1 ॥ लोमशेन युधिष्ठिरंप्रति संग्रहेण मार्कण्डेयचरित्रकथनम् ॥ 2 ॥

Mahabharata - Vana Parva - Chapter Text

3-130-0 (20888) `वैशम्पायन उवाच। 3-130-0x (2128) सोमकस्याश्रमे पुण्ये धर्मराजो युधिष्ठिरः। षड्रात्रमुष्य नियतो भ्रात्रादिभिररिंदमः। तस्मान्निर्गम्य सहसा दिशं प्रायात्तथोत्तराम् ॥ 3-130-1 (20889) बहुदूरं ततो गत्वा वनं तत्र मनोहरम्। बहुपष्पफलाकीर्णं महानद्युपशोभितम् ॥ 3-130-2 (20890) दृष्ट्वा पप्रच्छ राजाऽसौ लोमशं मुनिसत्तमम्। किमिदं दृश्यते रम्यं वनं बहुमृगद्विजम् ॥ 3-130-3 (20891) बहुपुष्पफलोपेतं मुनिसङ्घैर्निषेवितम्। स्रवन्त्या च समायुक्तं महत्या पुण्यतोयया ॥ 3-130-4 (20892) ऋषीणामाश्रमाः पुण्या दृश्यन्ते विविधा मुने। कस्यायमाश्रमः पुण्यः कस्येमे मुनयोऽमलाः। एतदिच्छाम्यहं श्रोतुं वद त्वं वदतांवर ॥ 3-130-5 (20893) लोमश उवाच। 3-130-6x (2129) शृणु राजेनद्र भद्रं ते वनस्यास्य पुरातनम्। वृत्तान्तं निखिलेनाद्य प्रोच्यमानं मयाऽनघ ॥ 3-130-6 (20894) मृकण्डुपुत्रो मेधावी मार्कण्डेयो महामुनिः। बाल एव महाबुद्धिः सर्वविद्याविशारदः ॥ 3-130-7 (20895) मातापित्रोः प्रियं कुर्वंस्तपोर्थं वनमाविशत्। अत्राश्रमपदं कृत्वा तपस्तेपे सुदारुणम् ॥ 3-130-8 (20896) ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः। जलस्थः शिशिरे योगी बहुकालमवर्तत ॥ 3-130-9 (20897) ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः। जितेन्द्रियो जितप्राणश्चिन्तयन्दृढमव्ययम्। अनाहारो जितक्रोधश्चिरमेवमवर्तत ॥ 3-130-10 (20898) एतस्मिन्नन्तरे राजन्ननावृष्टिः सुदारुणा। संभूता सर्वसंहर्त्री तया दग्धं चराचरम् ॥ 3-130-11 (20899) अनावृष्ट्यां प्रवृत्तायां सर्वे च निधनं गताः। केचिदन्ये महात्मानो मुनयो द्विजपुङ्गवाः ॥ 3-130-12 (20900) ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा सर्वाश्च योषितः। पशुपक्षिमृगाः सर्वे क्षुत्पिपासासमाकुलाः। कृशाः शुष्कोष्ठकण्ठाश्च श्रान्ता भ्रान्ता विचेतसः ॥ 3-130-13 (20901) केनचित्पुण्यशेषेण मार्कण्डेयस्य धीमतः। आश्रमं शनकैः प्राप्ता मूर्च्छिताः सहसाऽपतन् ॥ 3-130-14 (20902) समाधिविरतो योगी मार्कण्डेयो महातपाः। तद्वनं निबिडं दृष्ट्वा जनैः क्षुत्तृट्समाकलैः ॥ 3-130-15 (20903) दयार्द्रहृदयो योगी शिवं ध्यात्वा हृदम्बुजे। तेषां संरक्षणार्थाय वेदगन्धिस्वरेण सः। आजुहाव तदा गङ्गां तपोयोगेन भारत ॥ 3-130-16 (20904) गङ्गा समागता शीघ्रं तेनाहूताऽतिपावना। नाम्ना वेदनदीत्येव प्रख्याता लोकपावना ॥ 3-130-17 (20905) पर्जन्यश्च समाहूतः सुखं वर्षति भारत। सस्यानि च समृद्धानि फलमूलान्यनेकशः। संभूतान्यत्रराजेनद्र सर्वे ते रक्षिता जनाः ॥ 3-130-18 (20906) मार्कण्डेयं प्रशंसन्तो जनाः सर्वे द्विजात्तयः। चिरं सुखमवर्तन्त तेन संरक्षिता नृप ॥ 3-130-19 (20907) एवं विधाय रक्षां स सर्वेषां पुण्यकर्मणाम्। पुनश्चचार च तपः परमेश्वरतुष्टये ॥ 3-130-20 (20908) एवं बहुतिथे काले प्रादुरासीन्महेश्वरः ॥ 3-130-21 (20909) दृष्ट्वा च सर्वदेवेशं चन्द्रमौलिमुमापतिम्। ब्रह्मविष्ण्वादिभिर्देवैः सिद्धविद्याधरोरगैः ॥ 3-130-22 (20910) गन्धर्वयक्षप्रवरैः सकिन्नरपतत्रिभिः। स्तूयमानं महादेवमव्ययं निष्कलं शिवम्। प्रणनाम मुनिर्भक्त्या साष्टाङ्गं च पुनः पुनः ॥ 3-130-23 (20911) प्रणम्योत्थाय सहसा बद्धाञ्जलिपुटो मुनिः। तुष्टाव विविधैः स्तोत्रैर्महादेवं जगत्पतिम् ॥ 3-130-24 (20912) तमुवाच महादेवो मार्कण्डेयं महामुनिम्। वरं वरय भद्रं ते वरदोस्मि मुने तव ॥ 3-130-25 (20913) एवं संबोधितस्तेन शिवेन परमात्मना। सगद्गदमिदं वाक्यमुवाच परमेश्वरम् ॥ 3-130-26 (20914) नान्यं वरं वृणे शंभो ---त्वत्पादपङ्कजे। भक्तिंह्यनन्यसुलभां स्व व्यभिचारिणीम् ॥ 3-130-27 (20915) एवमुक्तोऽथ मुनिना भरतगीश्वरेश्वरः। पुनरेवाब्रवीद्वाक्यं मार्कण्डेय महामुनिम् ॥ 3-130-28 (20916) सम्यगाराधितः पित्रा तव पुत्रार्थमादरात् ॥ 3-130-29 (20917) शतायुर्निर्गुणः पुत्रः शुभः षोडशवार्षिकः। उभयोरन्यमिच्छ त्वमित्युक्तः सोऽब्रवीच्च माम् ॥ 3-130-30 (20918) निर्गुणो मास्तु देवेश शतायुः षोडशाब्दकः। सुगुणोऽस्तु सुतो मेऽद्य इति पित्रावृत पुरा ॥ 3-130-31 (20919) त्वया तप्तेन तपसा तोषितोऽहं भृशं मुने। दीर्घमायुर्मया दत्तं मृत्युश्च प्रतिषेधितः ॥ 3-130-32 (20920) इत्युक्त्वा भगवानीशस्तत्रैवान्तरधीयत। तस्यायमाश्रमः पुण्यस्तस्येमे मुनयोऽमलाः ॥ 3-130-33 (20921) अत्रैकरात्रमुषिताः सर्वे मृत्युं तरन्ति वै। अत्रैव भरतश्रेष्ठ प्रयतो वस भूमिप' ॥ 3-130-34 (20922) इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रिंशदधिकशततमोऽध्यायः ॥ 130 ॥

Comments

Popular posts from this blog

॥ चतुःश्लोकी स्तुति ॥

॥श्री कृष्ण कृपा-कटाक्ष स्त्रोत्र ॥

॥ काशी विश्वनाथाष्टकम ॥