अरण्यपर्व - अध्याय 131
॥ श्रीः ॥
3.131. अध्यायः 131
Mahabharata - Vana Parva - Chapter Topics
लोमशेन युधिष्ठिरंप्रति नानातीर्थमहिमानुवर्णनम् ॥ 1 ॥Mahabharata - Vana Parva - Chapter Text
3-131-0 (20923)
लोमश उवाच। 3-131-0x (2130)
अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः।
सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम् ॥ 3-131-1 (20924)
अम्बरीषश्च नाभाग इष्टवान्यमुनामनु।
यत्रेष्ट्वा दशपद्मानि सदस्येभ्योऽभिसृष्टवान् ॥ 3-131-2 (20925)
यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः।
देशश्च नाहुषस्यायं य़ज्वनः पुण्यकर्मणः ॥ 3-131-3 (20926)
सार्वभौमस्य कौन्तेय ययातेरमितौजसः।
स्पर्धमानस्य शक्रेण तस्येदं यज्ञवास्त्विह ॥ 3-131-4 (20927)
पश्य नानाविधाकारैरग्निभिर्निचितां महीम्।
मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः ॥ 3-131-5 (20928)
एषा शम्येकपत्रा सा शकटं चैतदुत्तमम्।
पश्य रामह्रदानेतान्पश्य नारायणाश्रमम् ॥ 3-131-6 (20929)
एतच्चर्चीकपुत्रस्य योगैर्विचरतो महीम्।
प्रसर्पणं महीपाल रौप्यायाममितौजसः ॥ 3-131-7 (20930)
अत्रानुवंशं पठतः शृणु मे कुरुनन्दन।
उलूखलैराभरणैः पिशची यदभाषत ॥ 3-131-8 (20931)
युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले।
तद्वद्भूतलये स्नात्वा सपुत्रा वस्तुमर्हसि ॥ 3-131-9 (20932)
एकरात्रमुवित्वेह द्वितीयं यदि वत्स्यसि।
एतद्वै ते गदेवावृत्तं रात्रौ वृत्तमितोऽन्यथा ॥ 3-131-10 (20933)
अद्य चात्र निवत्स्यामः क्षपां भरतसत्तम।
द्वारमेतत्तु कौन्तेय कुरुक्षेत्रस्य भारत ॥ 3-131-11 (20934)
अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान्।
ययातिर्बहुरत्नौर्घर्यत्रेन्द्रो मुदमभ्यगात् ॥ 3-131-12 (20935)
एतत्प्लक्षावतरणं यमुनातीर्थमुत्तमम्।
एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः ॥ 3-131-13 (20936)
अत्रसारस्वतैर्यज्ञैरीजानाः परमर्षयः।
यूपोलूखलिकास्तात गच्छन्त्यवभृथप्लवम् ॥ 3-131-14 (20937)
अत्रवै भरतो राजा राजन्क्रतुभिरिष्टवान्।
हयमेधेन यज्ञेन मेध्यमश्वमवासृजत् ॥ 3-131-15 (20938)
असकृत्कृष्णसारङ्गं धर्मेणाप्य च मेदिनीम्।
अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम्।
प्राप चैवर्षिमुख्येन संवर्तेनाभिपालितः ॥ 3-131-16 (20939)
अत्रोपस्पृश्य राजेन्द्र सर्वाल्लोँकान्प्रपश्यति।
पूयते दुष्कृताच्चैव अत्रापि समुपस्पृश ॥ 3-131-17 (20940)
वैशम्पायन उवाच। 3-131-18x (2131)
तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः।
लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत् ॥ 3-131-18 (20941)
सर्वाँल्लोकान्प्रपश्यामि तपसा सत्यविक्रम।
इहस्तः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम् ॥ 3-131-19 (20942)
लोमश उवाच। 3-131-20x (2132)
एवमेतन्महाबाहो पश्यन्ति परमर्षयः।
इह स्नात्वा तपोयुक्तांस्त्रील्लोँकान्सचराचरान् ॥ 3-131-20 (20943)
सरस्वतीमिमां पुण्यां पुण्यैकशरणावृताम्।
यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यसि ॥ 3-131-21 (20944)
इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः।
ऋषयश्चैव कौन्तेय तथा राजर्षयोपि च ॥ 3-131-22 (20945)
वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना।
कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः ॥ 3-131-23 (20946)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकत्रिंशदधिकशततमोऽध्यायः ॥ 131 ॥
Comments
Post a Comment