||१ महाभारते आदिपर्वम् ||

Select script   

    ||१ महाभारते आदिपर्वम् ||

    अनुक्रमणीपर्व १ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् | देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ||०|| लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे | ००१ | समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् | विनयावनतो भूत्वा कदाचित्सूतनन्दनः ||२|| तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः | चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ||३|| अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः | अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ||४|| अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु | निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ||५|| सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च | अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ||६|| कुत आगम्यते सौते क्व चायं विहृतस्त्वया | कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ||७|| सूत उवाच|| जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः | समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ||८|| कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः | कथिताश्चापि विधिवद्या वैशम्पायनेन वै ||९|| श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः | बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च ||१०|| समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् | गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ||११|| पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ||११|| दिदृक्षुरागतस्तस्मात्समीपं भवतामिह | आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ||१२|| अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः | कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः ||१३|| भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ||१३|| पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः | इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ||१४|| ऋषय ऊचुः|| द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा | सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ||१५|| तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः | सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ||१६|| भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् | संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ||१७|| जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान् | यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ||१८|| वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः | संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ||१९|| सूत उवाच|| आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् | ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ||२०|| असच्च सच्चैव च यद्विश्वं सदसतः परम् | परावराणां स्रष्टारं पुराणं परमव्ययम् ||२१|| मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् | नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ||२२|| महर्षेः पूजितस्येह सर्वलोके महात्मनः | प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ||२३|| आचख्युः कवयः केचित्सम्प्रत्याचक्षते परे | आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ||२४|| इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् | विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ||२५|| अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः | छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ||२६|| निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते | बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ||२७|| युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते | यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ||२८|| अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् | अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ||२९|| यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः | ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ||३०|| प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये | ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ||३१|| पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः | विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ||३२|| यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा | ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः ||३३|| राजर्षयश्च बहवः सर्वैः समुदिता गुणैः | आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ||३४|| संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् | यच्चान्यदपि तत्सर्वं सम्भूतं लोकसाक्षिकम् ||३५|| यदिदं दृश्यते किञ्चिद्भूतं स्थावरजङ्गमम् | पुनः सङ्क्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ||३६|| यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये | दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ||३७|| एवमेतदनाद्यन्तं भूतसंहारकारकम् | अनादिनिधनं लोके चक्रं सम्परिवर्तते ||३८|| त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च | त्रयस्त्रिंशच्च देवानां सृष्टिः सङ्क्षेपलक्षणा ||३९|| दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः | सविता च ऋचीकोऽर्को भानुराशावहो रविः ||४०|| पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः | देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः ||४१|| सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः | दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ||४२|| दश पुत्रसहस्राणि दशज्योतेर्महात्मनः | ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ||४३|| भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः | तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ||४४|| ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः | सम्भूता बहवो वंशा भूतसर्गाः सविस्तराः ||४५|| भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् | वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ||४६|| धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च | लोकयात्राविधानं च सम्भूतं दृष्टवानृषिः ||४७|| इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च | इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ||४८|| विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षेपमब्रवीत् | इष्टं हि विदुषां लोके समासव्यासधारणम् ||४९|| मन्वादि भारतं केचिदास्तीकादि तथापरे | तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ||५०|| विविधं संहिताज्ञानं दीपयन्ति मनीषिणः | व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ||५१|| तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् | इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ||५२|| पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः | मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ||५३|| क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा | त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ||५४|| उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च | जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ||५५|| तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् | अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ||५६|| जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः | शशास शिष्यमासीनं वैशम्पायनमन्तिके ||५७|| स सदस्यैः सहासीनः श्रावयामास भारतम् | कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ||५८|| विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् | क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ||५९|| वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् | दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ||६०|| चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् | उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ||६१|| ततोऽध्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः | अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ||६२|| इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् | ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ||६३|| नारदोऽश्रावयद्देवानसितो देवलः पितृन् | गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ||६४|| दुर्योधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः | दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी ||६५|| युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः | माद्रीसुतौ पुष्पफले समृद्धे; मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ||६६|| पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च | अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा ||६७|| मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् | जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ||६८|| मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति | धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ||६९|| तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः | मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ||७०|| ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् | शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ||७१|| पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः | पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ||७२|| तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा | शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ||७३|| आहुः केचिन्न तस्यैते तस्यैत इति चापरे | यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ||७४|| स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् | उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ||७५|| तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् | अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् ||७६|| पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः | आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ||७७|| तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः | शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ||७८|| तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च | न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ||७९|| युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् | धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ||८०|| गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च | तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ||८१|| समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् | प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ||८२|| ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् | आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ||८३|| स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् | आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ||८४|| अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः | युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः ||८५|| सुनयाद्वासुदेवस्य भीमार्जुनबलेन च | घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् ||८६|| दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः | मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ||८७|| समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् | ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ||८८|| विमानप्रतिमां चापि मयेन सुकृतां सभाम् | पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ||८९|| यत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात् | प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ||९०|| स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च | कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ||९१|| अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः | तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ||९२|| नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत | द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत ||९३|| निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् | विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् ||९४|| जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् | दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा ||९५|| धृतराष्ट्रश्चिरं ध्यात्वा सञ्जयं वाक्यमब्रवीत् ||९५|| शृणु सञ्जय मे सर्वं न मेऽसूयितुमर्हसि | श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ||९६|| न विग्रहे मम मतिर्न च प्रीये कुरुक्षये | न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ||९७|| वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः | अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् ||९८|| मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ||९८|| राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः | तच्चावहसनं प्राप्य सभारोहणदर्शने ||९९|| अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे | निरुत्साहश्च सम्प्राप्तुं श्रियमक्षत्रियो यथा ||१००|| गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् ||१००|| तत्र यद्यद्यथा ज्ञातं मया सञ्जय तच्छृणु | श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ||१०१|| ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत ||१०१|| यदाश्रौषं धनुरायम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम् | कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय सञ्जय ||१०२|| यदाश्रौषं द्वारकायां सुभद्रां; प्रसह्योढां माधवीमर्जुनेन | इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय सञ्जय ||१०३|| यदाश्रौषं देवराजं प्रवृष्टं; शरैर्दिव्यैर्वारितं चार्जुनेन | अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय सञ्जय ||१०४|| यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम् | अन्वागतं भ्रातृभिरप्रमेयै; स्तदा नाशंसे विजयाय सञ्जय ||१०५|| यदाश्रौषं द्रौपदीमश्रुकण्ठीं; सभां नीतां दुःखितामेकवस्त्राम् | रजस्वलां नाथवतीमनाथव; त्तदा नाशंसे विजयाय सञ्जय ||१०६|| यदाश्रौषं विविधास्तात चेष्टा; धर्मात्मनां प्रस्थितानां वनाय | ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां; तदा नाशंसे विजयाय सञ्जय ||१०७|| यदाश्रौषं स्नातकानां सहस्रै; रन्वागतं धर्मराजं वनस्थम् | भिक्षाभुजां ब्राह्मणानां महात्मनां; तदा नाशंसे विजयाय सञ्जय ||१०८|| यदाश्रौषमर्जुनो देवदेवं; किरातरूपं त्र्यम्बकं तोष्य युद्धे | अवाप तत्पाशुपतं महास्त्रं; तदा नाशंसे विजयाय सञ्जय ||१०९|| यदाश्रौषं त्रिदिवस्थं धनञ्जयं; शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् | अधीयानं शंसितं सत्यसन्धं; तदा नाशंसे विजयाय सञ्जय ||११०|| यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीममन्यांश्च पार्थान् | तस्मिन्देशे मानुषाणामगम्ये; तदा नाशंसे विजयाय सञ्जय ||१११|| यदाश्रौषं घोषयात्रागतानां; बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन | स्वेषां सुतानां कर्णबुद्धौ रतानां; तदा नाशंसे विजयाय सञ्जय ||११२|| यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत | प्रश्नानुक्तान्विब्रुवन्तं च सम्य; क्तदा नाशंसे विजयाय सञ्जय ||११३|| यदाश्रौषं मामकानां वरिष्ठा; न्धनञ्जयेनैकरथेन भग्नान् | विराटराष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय सञ्जय ||११४|| यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्तामुत्तरामर्जुनाय | तां चार्जुनः प्रत्यगृह्णात्सुतार्थे; तदा नाशंसे विजयाय सञ्जय ||११५|| यदाश्रौषं निर्जितस्याधनस्य; प्रव्राजितस्य स्वजनात्प्रच्युतस्य | अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय सञ्जय ||११६|| यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतो नारदस्य | अहं द्रष्टा ब्रह्मलोके सदेति; तदा नाशंसे विजयाय सञ्जय ||११७|| यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम् | यस्येमां गां विक्रममेकमाहु; स्तदा नाशंसे विजयाय सञ्जय ||११८|| यदाश्रौषं कर्णदुर्योधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य | तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय सञ्जय ||११९|| यदाश्रौषं वासुदेवे प्रयाते; रथस्यैकामग्रतस्तिष्ठमानाम् | आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय सञ्जय ||१२०|| यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शान्तनवं च तेषाम् | भारद्वाजं चाशिषोऽनुब्रुवाणं; तदा नाशंसे विजयाय सञ्जय ||१२१|| यदाश्रौषं कर्ण उवाच भीष्मं; नाहं योत्स्ये युध्यमाने त्वयीति | हित्वा सेनामपचक्राम चैव; तदा नाशंसे विजयाय सञ्जय ||१२२|| यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर्गाण्डिवमप्रमेयम् | त्रीण्युग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय सञ्जय ||१२३|| यदाश्रौषं कश्मलेनाभिपन्ने; रथोपस्थे सीदमानेऽर्जुने वै | कृष्णं लोकान्दर्शयानं शरीरे; तदा नाशंसे विजयाय सञ्जय ||१२४|| यदाश्रौषं भीष्मममित्रकर्शनं; निघ्नन्तमाजावयुतं रथानाम् | नैषां कश्चिद्वध्यते दृश्यरूप; स्तदा नाशंसे विजयाय सञ्जय ||१२५|| यदाश्रौषं भीष्ममत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् | शिखण्डिनं पुरतः स्थापयित्वा; तदा नाशंसे विजयाय सञ्जय ||१२६|| यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः | भीष्मं कृत्वा सोमकानल्पशेषां; स्तदा नाशंसे विजयाय सञ्जय ||१२७|| यदाश्रौषं शान्तनवे शयाने; पानीयार्थे चोदितेनार्जुनेन | भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय सञ्जय ||१२८|| यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानामनुलोमौ जयाय | नित्यं चास्माञ्श्वापदा व्याभषन्त; स्तदा नाशंसे विजयाय सञ्जय ||१२९|| यदा द्रोणो विविधानस्त्रमार्गा; न्विदर्शयन्समरे चित्रयोधी | न पाण्डवाञ्श्रेष्ठतमान्निहन्ति; तदा नाशंसे विजयाय सञ्जय ||१३०|| यदाश्रौषं चास्मदीयान्महारथा; न्व्यवस्थितानर्जुनस्यान्तकाय | संशप्तकान्निहतानर्जुनेन; तदा नाशंसे विजयाय सञ्जय ||१३१|| यदाश्रौषं व्यूहमभेद्यमन्यै; र्भारद्वाजेनात्तशस्त्रेण गुप्तम् | भित्त्वा सौभद्रं वीरमेकं प्रविष्टं; तदा नाशंसे विजयाय सञ्जय ||१३२|| यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः | महारथाः पार्थमशक्नुवन्त; स्तदा नाशंसे विजयाय सञ्जय ||१३३|| यदाश्रौषमभिमन्युं निहत्य; हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् | क्रोधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय सञ्जय ||१३४|| यदाश्रौषं सैन्धवार्थे प्रतिज्ञां; प्रतिज्ञातां तद्वधायार्जुनेन | सत्यां निस्तीर्णां शत्रुमध्ये च तेन; तदा नाशंसे विजयाय सञ्जय ||१३५|| यदाश्रौषं श्रान्तहये धनञ्जये; मुक्त्वा हयान्पाययित्वोपवृत्तान् | पुनर्युक्त्वा वासुदेवं प्रयातं; तदा नाशंसे विजयाय सञ्जय ||१३६|| यदाश्रौषं वाहनेष्वाश्वसत्सु; रथोपस्थे तिष्ठता गाण्डिवेन | सर्वान्योधान्वारितानर्जुनेन; तदा नाशंसे विजयाय सञ्जय ||१३७|| यदाश्रौषं नागबलैर्दुरुत्सहं; द्रोणानीकं युयुधानं प्रमथ्य | यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ; तदा नाशंसे विजयाय सञ्जय ||१३८|| यदाश्रौषं कर्णमासाद्य मुक्तं; वधाद्भीमं कुत्सयित्वा वचोभिः | धनुष्कोट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय सञ्जय ||१३९|| यदा द्रोणः कृतवर्मा कृपश्च; कर्णो द्रौणिर्मद्रराजश्च शूरः | अमर्षयन्सैन्धवं वध्यमानं; तदा नाशंसे विजयाय सञ्जय ||१४०|| यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं व्यंसितां माधवेन | घटोत्कचे राक्षसे घोररूपे; तदा नाशंसे विजयाय सञ्जय ||१४१|| यदाश्रौषं कर्णघटोत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम् | यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय सञ्जय ||१४२|| यदाश्रौषं द्रोणमाचार्यमेकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् | रथोपस्थे प्रायगतं विशस्तं; तदा नाशंसे विजयाय सञ्जय ||१४३|| यदाश्रौषं द्रौणिना द्वैरथस्थं; माद्रीपुत्रं नकुलं लोकमध्ये | समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय सञ्जय ||१४४|| यदा द्रोणे निहते द्रोणपुत्रो; नारायणं दिव्यमस्त्रं विकुर्वन् | नैषामन्तं गतवान्पाण्डवानां; तदा नाशंसे विजयाय सञ्जय ||१४५|| यदाश्रौषं कर्णमत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् | तस्मिन्भ्रातृणां विग्रहे देवगुह्ये; तदा नाशंसे विजयाय सञ्जय ||१४६|| यदाश्रौषं द्रोणपुत्रं कृपं च; दुःशासनं कृतवर्माणमुग्रम् | युधिष्ठिरं शून्यमधर्षयन्तं; तदा नाशंसे विजयाय सञ्जय ||१४७|| यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत | सदा सङ्ग्रामे स्पर्धते यः स कृष्णं; तदा नाशंसे विजयाय सञ्जय ||१४८|| यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन | हतं सङ्ग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय सञ्जय ||१४९|| यदाश्रौषं श्रान्तमेकं शयानं; ह्रदं गत्वा स्तम्भयित्वा तदम्भः | दुर्योधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय सञ्जय ||१५०|| यदाश्रौषं पाण्डवांस्तिष्ठमाना; न्गङ्गाह्रदे वासुदेवेन सार्धम् | अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय सञ्जय ||१५१|| यदाश्रौषं विविधांस्तात मार्गा; न्गदायुद्धे मण्डलं सञ्चरन्तम् | मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय सञ्जय ||१५२|| यदाश्रौषं द्रोणपुत्रादिभिस्तै; र्हतान्पाञ्चालान्द्रौपदेयांश्च सुप्तान् | कृतं बीभत्समयशस्यं च कर्म; तदा नाशंसे विजयाय सञ्जय ||१५३|| यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं प्रयुक्तम् | क्रुद्धेनैषीकमवधीद्येन गर्भं; तदा नाशंसे विजयाय सञ्जय ||१५४|| यदाश्रौषं ब्रह्मशिरोऽर्जुनेन; मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् | अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय सञ्जय ||१५५|| यदाश्रौषं द्रोणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे | द्वैपायनः केशवो द्रोणपुत्रं; परस्परेणाभिशापैः शशाप ||१५६|| शोच्या गान्धारी पुत्रपौत्रैर्विहीना; तथा वध्वः पितृभिर्भ्रातृभिश्च | कृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यमसपत्नं पुनस्तैः ||१५७|| कष्टं युद्धे दश शेषाः श्रुता मे; त्रयोऽस्माकं पाण्डवानां च सप्त | द्व्यूना विंशतिराहताक्षौहिणीनां; तस्मिन्सङ्ग्रामे विग्रहे क्षत्रियाणाम् ||१५८|| तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम् | सञ्ज्ञां नोपलभे सूत मनो विह्वलतीव मे ||१५९|| इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः | मूर्च्छितः पुनराश्वस्तः सञ्जयं वाक्यमब्रवीत् ||१६०|| सञ्जयैवङ्गते प्राणांस्त्यक्तुमिच्छामि माचिरम् | स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ||१६१|| तं तथावादिनं दीनं विलपन्तं महीपतिम् | गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् ||१६२|| श्रुतवानसि वै राज्ञो महोत्साहान्महाबलान् | द्वैपायनस्य वदतो नारदस्य च धीमतः ||१६३|| महत्सु राजवंशेषु गुणैः समुदितेषु च | जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ||१६४|| धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः | अस्मिँल्लोके यशः प्राप्य ततः कालवशं गताः ||१६५|| वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् | सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम् ||१६६|| बाह्लीकं दमनं शैब्यं शर्यातिमजितं जितम् | विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् ||१६७|| मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च | रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ||१६८|| ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् | चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा ||१६९|| इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा | पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः ||१७०|| तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः | महारथा महात्मानः सर्वैः समुदिता गुणैः ||१७१|| पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः | अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ||१७२|| विजिती वीतिहोत्रश्च भवः श्वेतो बृहद्गुरुः | उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ||१७३|| दम्भोद्भवः परो वेनः सगरः सङ्कृतिर्निमिः | अजेयः परशुः पुण्ड्रः शम्भुर्देवावृधोऽनघः ||१७४|| देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः | महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ||१७५|| सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः | जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभव्रतः ||१७६|| बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः | धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ||१७७|| अविक्षित्प्रबलो धूर्तः कृतबन्धुर्दृढेषुधिः | महापुराणः सम्भाव्यः प्रत्यङ्गः परहा श्रुतिः ||१७८|| एते चान्ये च बहवः शतशोऽथ सहस्रशः | श्रूयन्तेऽयुतशश्चान्ये सङ्ख्याताश्चापि पद्मशः ||१७९|| हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः | राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तमाः ||१८०|| येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च | माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम् ||१८१|| विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः | सर्वर्द्धिगुणसम्पन्नास्ते चापि निधनं गताः ||१८२|| तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना | लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्शोचितुमर्हसि ||१८३|| श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः | येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत ||१८४|| निग्रहानुग्रहौ चापि विदितौ ते नराधिप | नात्यन्तमेवानुवृत्तिः श्रूयते पुत्ररक्षणे ||१८५|| भवितव्यं तथा तच्च नातः शोचितुमर्हसि | दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति ||१८६|| विधातृविहितं मार्गं न कश्चिदतिवर्तते | कालमूलमिदं सर्वं भावाभावौ सुखासुखे ||१८७|| कालः पचति भूतानि कालः संहरति प्रजाः | निर्दहन्तं प्रजाः कालं कालः शमयते पुनः ||१८८|| कालो विकुरुते भावान्सर्वाँल्लोके शुभाशुभान् | कालः सङ्क्षिपते सर्वाः प्रजा विसृजते पुनः ||१८९|| कालः सर्वेषु भूतेषु चरत्यविधृतः समः ||१८९|| अतीतानागता भावा ये च वर्तन्ति साम्प्रतम् | तान्कालनिर्मितान्बुद्ध्वा न सञ्ज्ञां हातुमर्हसि ||१९०|| सूत उवाच|| अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् | भारताध्ययनात्पुण्यादपि पादमधीयतः ||१९१|| श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ||१९१|| देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस्तथा | कीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः ||१९२|| भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः | स हि सत्यमृतं चैव पवित्रं पुण्यमेव च ||१९३|| शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् | यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ||१९४|| असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्तते | सन्ततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः ||१९५|| अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम् | अव्यक्तादि परं यच्च स एव परिगीयते ||१९६|| यत्तद्यतिवरा युक्ता ध्यानयोगबलान्विताः | प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ||१९७|| श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः | आसेवन्निममध्यायं नरः पापात्प्रमुच्यते ||१९८|| अनुक्रमणिमध्यायं भारतस्येममादितः | आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ||१९९|| उभे सन्ध्ये जपन्किञ्चित्सद्यो मुच्येत किल्बिषात् | अनुक्रमण्या यावत्स्यादह्ना रात्र्या च सञ्चितम् ||२००|| भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च | नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ||२०१|| ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् | यथैतानि वरिष्ठानि तथा भारतमुच्यते ||२०२|| यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः | अक्षय्यमन्नपानं तत्पितृंस्तस्योपतिष्ठति ||२०३|| इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् | बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ||२०४|| कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते | भ्रूणहत्याकृतं चापि पापं जह्यान्न संशयः ||२०५|| य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि | अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ||२०६|| यश्चेमं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः | स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः ||२०७|| चत्वार एकतो वेदा भारतं चैकमेकतः | समागतैः सुरर्षिभिस्तुलामारोपितं पुरा ||२०८|| महत्त्वे च गुरुत्वे च ध्रियमाणं ततोऽधिकम् ||२०८|| महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते | निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ||२०९|| तपो न कल्कोऽध्ययनं न कल्कः; स्वाभाविको वेदविधिर्न कल्कः | प्रसह्य वित्ताहरणं न कल्क; स्तान्येव भावोपहतानि कल्कः ||२१०||

    पर्वसंग्रहपर्व २ ऋषय ऊचुः|| समन्तपञ्चकमिति यदुक्तं सूतनन्दन | एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् ||१|| सूत उवाच|| शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः | समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः ||२|| त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः | असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः ||३|| स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः | समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ||४|| स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः | पितृन्सन्तर्पयामास रुधिरेणेति नः श्रुतम् ||५|| अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् | तं क्षमस्वेति सिषिधुस्ततः स विरराम ह ||६|| तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् | समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् ||७|| येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते | तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ||८|| अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत् | समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः ||९|| तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते | अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ||१०|| एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः | पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः ||११|| तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः | यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः ||१२|| ऋषय ऊचुः|| अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन | एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् ||१३|| अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् | यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव ||१४|| सूत उवाच|| एको रथो गजश्चैको नराः पञ्च पदातयः | त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ||१५|| पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः | त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ||१६|| त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः | स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ||१७|| चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी | अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ||१८|| अक्षौहिण्याः प्रसङ्ख्यानं रथानां द्विजसत्तमाः | सङ्ख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ||१९|| शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः | गजानां तु परीमाणमेतदेवात्र निर्दिशेत् ||२०|| ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव | नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ||२१|| पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च | दशोत्तराणि षट्प्राहुर्यथावदिह सङ्ख्यया ||२२|| एतामक्षौहिणीं प्राहुः सङ्ख्यातत्त्वविदो जनाः | यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः ||२३|| एतया सङ्ख्यया ह्यासन्कुरुपाण्डवसेनयोः | अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः ||२४|| समेतास्तत्र वै देशे तत्रैव निधनं गताः | कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा ||२५|| अहानि युयुधे भीष्मो दशैव परमास्त्रवित् | अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् ||२६|| अहनी युयुधे द्वे तु कर्णः परबलार्दनः | शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् ||२७|| तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः | प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् ||२८|| यत्तु शौनकसत्रे ते भारताख्यानविस्तरम् | आख्यास्ये तत्र पौलोममाख्यानं चादितः परम् ||२९|| विचित्रार्थपदाख्यानमनेकसमयान्वितम् | अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः ||३०|| आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम् | इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् ||३१|| इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा | स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् ||३२|| अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः | भारतस्येतिहासस्य श्रूयतां पर्वसङ्ग्रहः ||३३|| पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसङ्ग्रहः | पौष्यं पौलोममास्तीकमादिवंशावतारणम् ||३४|| ततः सम्भवपर्वोक्तमद्भुतं देवनिर्मितम् | दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ||३५|| ततो बकवधः पर्व पर्व चैत्ररथं ततः | ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते ||३६|| क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् | विदुरागमनं पर्व राज्यलम्भस्तथैव च ||३७|| अर्जुनस्य वने वासः सुभद्राहरणं ततः | सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् ||३८|| ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् | सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ||३९|| जरासन्धवधः पर्व पर्व दिग्विजयस्तथा | पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ||४०|| ततश्चार्घाभिहरणं शिशुपालवधस्ततः | द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् ||४१|| तत आरण्यकं पर्व किर्मीरवध एव च | ईश्वरार्जुनयोर्युद्धं पर्व कैरातसञ्ज्ञितम् ||४२|| इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् | तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ||४३|| जटासुरवधः पर्व यक्षयुद्धमतः परम् | तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् ||४४|| मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् | संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ||४५|| घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः | व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते ||४६|| द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः | कुण्डलाहरणं पर्व ततः परमिहोच्यते ||४७|| आरणेयं ततः पर्व वैराटं तदनन्तरम् | कीचकानां वधः पर्व पर्व गोग्रहणं ततः ||४८|| अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् | उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् ||४९|| ततः सञ्जययानाख्यं पर्व ज्ञेयमतः परम् | प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया ||५०|| पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् | यानसन्धिस्ततः पर्व भगवद्यानमेव च ||५१|| ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः | निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः ||५२|| रथातिरथसङ्ख्या च पर्वोक्तं तदनन्तरम् | उलूकदूतागमनं पर्वामर्षविवर्धनम् ||५३|| अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम् | भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् ||५४|| जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् | भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् ||५५|| पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः | द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः ||५६|| अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते | जयद्रथवधः पर्व घटोत्कचवधस्ततः ||५७|| ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् | मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते ||५८|| कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् | ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् ||५९|| सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् | अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते ||६०|| ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम् | जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् ||६१|| श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम् | आभिषेचनिकं पर्व धर्मराजस्य धीमतः ||६२|| चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः | प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् ||६३|| शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् | आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् ||६४|| ततः पर्व परिज्ञेयमानुशासनिकं परम् | स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः ||६५|| ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् | अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् ||६६|| पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च | नारदागमनं पर्व ततः परमिहोच्यते ||६७|| मौसलं पर्व च ततो घोरं समनुवर्ण्यते | महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः ||६८|| हरिवंशस्ततः पर्व पुराणं खिलसञ्ज्ञितम् | भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् ||६९|| एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना | यथावत्सूतपुत्रेण लोमहर्षणिना पुनः ||७०|| कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु | समासो भारतस्यायं तत्रोक्तः पर्वसङ्ग्रहः ||७१|| पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् | पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः ||७२|| आस्तीके सर्वनागानां गरुडस्य च सम्भवः | क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा ||७३|| यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च | कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् ||७४|| विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि | अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च ||७५|| अंशावतरणं चात्र देवानां परिकीर्तितम् | दैत्यानां दानवानां च यक्षाणां च महौजसाम् ||७६|| नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम् | अन्येषां चैव भूतानां विविधानां समुद्भवः ||७७|| वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् | शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि ||७८|| तेजोंशानां च सङ्घाताद्भीष्मस्याप्यत्र सम्भवः | राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः ||७९|| प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च | हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः ||८०|| विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम् | धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा ||८१|| कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा | धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः ||८२|| वारणावतयात्रा च मन्त्रो दुर्योधनस्य च | विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया ||८३|| पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् | घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता ||८४|| अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि | बकस्य निधनं चैव नागराणां च विस्मयः ||८५|| अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा | भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ ||८६|| तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् | पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते ||८७|| पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च | द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः ||८८|| विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च | खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम् ||८९|| नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया | सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् ||९०|| पार्थस्य वनवासश्च उलूप्या पथि सङ्गमः | पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च ||९१|| द्वारकायां सुभद्रा च कामयानेन कामिनी | वासुदेवस्यानुमते प्राप्ता चैव किरीटिना ||९२|| हरणं गृह्य सम्प्राप्ते कृष्णे देवकिनन्दने | सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् ||९३|| अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः | मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम् ||९४|| महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसम्भवः ||९४|| इत्येतदाधिपर्वोक्तं प्रथमं बहुविस्तरम् | अध्यायानां शते द्वे तु सङ्ख्याते परमर्षिणा ||९५|| अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा ||९५|| सप्त श्लोकसहस्राणि तथा नव शतानि च | श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना ||९६|| द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते | सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम् ||९७|| लोकपालसभाख्यानं नारदाद्देवदर्शनात् | राजसूयस्य चारम्भो जरासन्धवधस्तथा ||९८|| गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् | राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ||९९|| यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च | दुर्योधनस्यावहासो भीमेन च सभातले ||१००|| यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् | यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ||१०१|| यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् | तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः ||१०२|| पुनरेव ततो द्यूते समाह्वयत पाण्डवान् ||१०२|| एतत्सर्वं सभापर्व समाख्यातं महात्मना | अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र सङ्ख्यया ||१०३|| श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च | श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः ||१०४|| अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् | पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ||१०५|| वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः | यत्र सौभवधाख्यानं किर्मीरवध एव च ||१०६|| अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ||१०६|| महादेवेन युद्धं च किरातवपुषा सह | दर्शनं लोकपालानां स्वर्गारोहणमेव च ||१०७|| दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः | युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् ||१०८|| नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् | दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे ||१०९|| वनवासगतानां च पाण्डवानां महात्मनाम् | स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै ||११०|| तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् | जटासुरस्य तत्रैव वधः समुपवर्ण्यते ||१११|| नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने | यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् ||११२|| यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः | यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा ||११३|| आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् | लोपामुद्राभिगमनमपत्यार्थमृषेरपि ||११४|| ततः श्येनकपोतीयमुपाख्यानमनन्तरम् | इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् ||११५|| ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः | जामदग्न्यस्य रामस्य चरितं भूरितेजसः ||११६|| कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते | सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ||११७|| शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ | ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ||११८|| जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः | पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ||११९|| अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् | विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः ||१२०|| अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना | निवातकवचैर्युद्धं हिरण्यपुरवासिभिः ||१२१|| समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने | घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः ||१२२|| पुनरागमनं चैव तेषां द्वैतवनं सरः | जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ||१२३|| यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे | मार्कण्डेयसमस्यायामुपाख्यानानि भागशः ||१२४|| संदर्शनं च कृष्णस्य संवादश्चैव सत्यया | व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च ||१२५|| सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च | रामायणमुपाख्यानमत्रैव बहुविस्तरम् ||१२६|| कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात् | आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् ||१२७|| जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ||१२७|| एतदारण्यकं पर्व तृतीयं परिकीर्तितम् | अत्राध्यायशते द्वे तु सङ्ख्याते परमर्षिणा ||१२८|| एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः ||१२८|| एकादश सहस्राणि श्लोकानां षट्शतानि च | चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् ||१२९|| अतः परं निबोधेदं वैराटं पर्वविस्तरम् | विराटनगरं गत्वा श्मशाने विपुलां शमीम् ||१३०|| दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत ||१३०|| यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते | दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् ||१३१|| गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि | गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ||१३२|| विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः | अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् ||१३३|| चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् | अत्रापि परिसङ्ख्यातमध्यायानां महात्मना ||१३४|| सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु | श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु ||१३५|| पर्वण्यस्मिन्समाख्याताः सङ्ख्यया परमर्षिणा ||१३५|| उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् | उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया ||१३६|| दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ||१३६|| साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति | इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः ||१३७|| अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ | अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् ||१३८|| वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः | अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः ||१३९|| सञ्जयं प्रेषयामास शमार्थं पाण्डवान्प्रति | यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ||१४०|| श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् | प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया ||१४१|| विदुरो यत्र वाक्यानि विचित्राणि हितानि च | श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ||१४२|| तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् | मनस्तापान्वितो राजा श्रावितः शोकलालसः ||१४३|| प्रभाते राजसमितौ सञ्जयो यत्र चाभिभोः | ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ||१४४|| यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महायशाः | स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् ||१४५|| प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै | शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् ||१४६|| कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् | योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् ||१४७|| रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः | उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः ||१४८|| ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् | नगराद्धास्तिनपुराद्बलसङ्ख्यानमेव च ||१४९|| यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति | श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना ||१५०|| रथातिरथसङ्ख्यानमम्बोपाख्यानमेव च ||१५०|| एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते | उद्योगपर्व निर्दिष्टं सन्धिविग्रहसंश्रितम् ||१५१|| अध्यायाः सङ्ख्यया त्वत्र षडशीतिशतं स्मृतम् | श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च ||१५२|| श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना | व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः ||१५३|| अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते | जम्बूखण्डविनिर्माणं यत्रोक्तं सञ्जयेन ह ||१५४|| यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् | यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् ||१५५|| कश्मलं यत्र पार्थस्य वासुदेवो महामतिः | मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः ||१५६|| शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः | विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् ||१५७|| षष्ठमेतन्महापर्व भारते परिकीर्तितम् | अध्यायानां शतं प्रोक्तं सप्तदश तथापरे ||१५८|| पञ्च श्लोकसहस्राणि सङ्ख्ययाष्टौ शतानि च | श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः ||१५९|| व्यासेन वेदविदुषा सङ्ख्याता भीष्मपर्वणि ||१५९|| द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते | यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् ||१६०|| भगदत्तो महाराजो यत्र शक्रसमो युधि | सुप्रतीकेन नागेन सह शस्तः किरीटिना ||१६१|| यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः | जयद्रथमुखा बालं शूरमप्राप्तयौवनम् ||१६२|| हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे | अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ||१६३|| संशप्तकावशेषं च कृतं निःशेषमाहवे ||१६३|| अलम्बुसः श्रुतायुश्च जलसन्धश्च वीर्यवान् | सौमदत्तिर्विराटश्च द्रुपदश्च महारथः ||१६४|| घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि ||१६४|| अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते | अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः ||१६५|| सप्तमं भारते पर्व महदेतदुदाहृतम् | अत्र ते पृथिवीपालाः प्रायशो निधनं गताः ||१६६|| द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः ||१६६|| अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा | अष्टौ श्लोकसहस्राणि तथा नव शतानि च ||१६७|| श्लोका नव तथैवात्र सङ्ख्यातास्तत्त्वदर्शिना | पाराशर्येण मुनिना सञ्चिन्त्य द्रोणपर्वणि ||१६८|| अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् | सारथ्ये विनियोगश्च मद्रराजस्य धीमतः ||१६९|| आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् ||१६९|| प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः | हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम् ||१७०|| अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः | द्वैरथे यत्र पार्थेन हतः कर्णो महारथः ||१७१|| अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः | एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि ||१७२|| चत्वार्येव सहस्राणि नव श्लोकशतानि च ||१७२|| अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् | हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् ||१७३|| वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः | विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते ||१७४|| शल्यस्य निधनं चात्र धर्मराजान्महारथात् | गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् ||१७५|| सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता ||१७५|| नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् | एकोनषष्टिरध्यायास्तत्र सङ्ख्याविशारदैः ||१७६|| सङ्ख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते | त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा ||१७७|| मुनिना सम्प्रणीतानि कौरवाणां यशोभृताम् ||१७७|| अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् | भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् ||१७८|| व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः | कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः ||१७९|| प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः | अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् ||१८०|| पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् ||१८०|| प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः | पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः ||१८१|| यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात् | सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ||१८२|| द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता | कृतानशनसङ्कल्पा यत्र भर्तृनुपाविशत् ||१८३|| द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः | अन्वधावत सङ्क्रुद्धो भारद्वाजं गुरोः सुतम् ||१८४|| भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः | अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् ||१८५|| मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः | यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः ||१८६|| द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः | तोयकर्मणि सर्वेषां राज्ञामुदकदानिके ||१८७|| गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः | सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् ||१८८|| अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना | श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च ||१८९|| श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसङ्ख्यया | सौप्तिकैषीकसम्बन्धे पर्वण्यमितबुद्धिना ||१९०|| अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् | विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः ||१९१|| क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः ||१९१|| यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः | पुत्रान्भ्रातृन्पितृंश्चैव ददृशुर्निहतान्रणे ||१९२|| यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः | राज्ञां तानि शरीराणि दाहयामास शास्त्रतः ||१९३|| एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् | सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः ||१९४|| श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते | सङ्ख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना ||१९५|| प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् ||१९५|| अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् | यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः ||१९६|| घातयित्वा पितृन्भ्रातृन्पुत्रान्सम्बन्धिबान्धवान् ||१९६|| शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः | राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः ||१९७|| आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः | यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् ||१९८|| मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः ||१९८|| द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् | पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् ||१९९|| त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः ||१९९|| श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश | पञ्च चैव शतान्याहुः पञ्चविंशतिसङ्ख्यया ||२००|| अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् | यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् ||२०१|| भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः ||२०१|| व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः | विविधानां च दानानां फलयोगाः पृथग्विधाः ||२०२|| तथा पात्रविशेषाश्च दानानां च परो विधिः | आचारविधियोगश्च सत्यस्य च परा गतिः ||२०३|| एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् | भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता ||२०४|| एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् | अध्यायानां शतं चात्र षट्चत्वारिंशदेव च ||२०५|| श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च ||२०५|| ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् | तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् ||२०६|| सुवर्णकोशसम्प्राप्तिर्जन्म चोक्तं परिक्षितः | दग्धस्यास्त्राग्निना पूर्वं कृष्णात्सञ्जीवनं पुनः ||२०७|| चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः | तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः ||२०८|| चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनञ्जयः | सङ्ग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः ||२०९|| अश्वमेधे महायज्ञे नकुलाख्यानमेव च ||२०९|| इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् | अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः ||२१०|| त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च | विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ||२११|| तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् | यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः ||२१२|| धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह ||२१२|| यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा | पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ||२१३|| यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् | लोकान्तरगतान्वीरानपश्यत्पुनरागतान् ||२१४|| ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् | त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः ||२१५|| यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः | सञ्जयश्च महामात्रो विद्वान्गावल्गणिर्वशी ||२१६|| ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः | नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् ||२१७|| एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् | द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया ||२१८|| सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च | षडेव च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ||२१९|| अतः परं निबोधेदं मौसलं पर्व दारुणम् | यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि ||२२०|| ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ||२२०|| आपाने पानगलिता दैवेनाभिप्रचोदिताः | एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् ||२२१|| यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ | नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् ||२२२|| यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् | दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः ||२२३|| स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः | ददर्श यदुवीराणामापाने वैशसं महत् ||२२४|| शरीरं वासुदेवस्य रामस्य च महात्मनः | संस्कारं लम्भयामास वृष्णीनां च प्रधानतः ||२२५|| स वृद्धबालमादाय द्वारवत्यास्ततो जनम् | ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् ||२२६|| सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् | नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् ||२२७|| दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः | धर्मराजं समासाद्य संन्यासं समरोचयेत् ||२२८|| इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् | अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् ||२२९|| महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् | यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः ||२३०|| द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः ||२३०|| अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा | विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ||२३१|| स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् | अध्यायाः पञ्च सङ्ख्याताः पर्वैतदभिसङ्ख्यया ||२३२|| श्लोकानां द्वे शते चैव प्रसङ्ख्याते तपोधनाः ||२३२|| अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः | खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् ||२३३|| एतदखिलमाख्यातं भारतं पर्वसङ्ग्रहात् | अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ||२३४|| तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् ||२३४|| यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः | न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ||२३५|| श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते | पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव ||२३६|| इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः | पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ||२३७|| अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः | अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः ||२३८|| क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः | इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः ||२३९|| अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते | आहारमनपाश्रित्य शरीरस्येव धारणम् ||२४०|| इदं सर्वैः कविवरैराख्यानमुपजीव्यते | उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ||२४१|| द्वैपायनौष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च | यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन ||२४२|| आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसङ्ग्रहेण | श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन ||२४३||

    पौष्यपर्व ३ सूत उवाच|| \bg जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते | तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति | ००१ | तेषु तत्सत्रमुपासीनेषु तत्र श्वाभ्यागच्छत्सारमेयः | स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् | ००२ | तं माता रोरूयमाणमुवाच | किं रोदिषि | केनास्यभिहत इति | ००३ | स एवमुक्तो मातरं प्रत्युवाच | जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति | ००४ | तं माता प्रत्युवाच | व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति | ००५ | स तां पुनरुवाच | नापराध्यामि किञ्चित् | नावेक्षे हवींषि नावलिह इति | ००६ | तच्छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते | ००७ | स तया क्रुद्धया तत्रोक्तः | अयं मे पुत्रो न किञ्चिदपराध्यति | किमर्थमभिहत इति | यस्माच्चायमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति | ००८ | स जनमेजय एवमुक्तो देवशुन्या सरमया दृढं सम्भ्रान्तो विषण्णश्चासीत् | ००९ | स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति | ०१० | स कदाचिन्मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषयोद्देशे आश्रममपश्यत् | ०११ | तत्र कश्चिदृषिरासां चक्रे श्रुतश्रवा नाम | तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम | ०१२ | तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे | ०१३ | स नमस्कृत्य तमृषिमुवाच | भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति | ०१४ | स एवमुक्तः प्रत्युवाच | भो जनमेजय पुत्रोऽयं मम सर्प्यां जातः | महातपस्वी स्वाध्यायसम्पन्नो मत्तपोवीर्यसम्भृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ संवृद्धः | समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् | अस्य त्वेकमुपांशुव्रतम् | यदेनं कश्चिद्ब्राह्मणः कञ्चिदर्थमभियाचेत्तं तस्मै दद्यादयम् | यद्येतदुत्सहसे ततो नयस्वैनमिति | ०१५ | तेनैवमुत्को जनमेजयस्तं प्रत्युवाच | भगवंस्तथा भविष्यतीति | ०१६ | स तं पुरोहितमुपादायोपावृत्तो भ्रातृनुवाच | मयायं वृत उपाध्यायः | यदयं ब्रूयात्तत्कार्यमविचारयद्भिरिति | ०१७ | तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः | स तथा भ्रातृन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे | तं च देशं वशे स्थापयामास | ०१८ | एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदः | तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति | ०१९ | स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास | गच्छ केदारखण्डं बधानेति | ०२० | स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशक्नोत् | ०२१ | स क्लिश्यमानोऽपश्यदुपायम् | भवत्वेवं करिष्यामीति | ०२२ | स तत्र संविवेश केदारखण्डे | शयाने तस्मिंस्तदुदकं तस्थौ | ०२३ | ततः कदाचिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत् | क्व आरुणिः पाञ्चाल्यो गत इति | ०२४ | ते प्रत्यूचुः | भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति | ०२५ | स एवमुक्तस्ताञ्शिष्यान्प्रत्युवाच | तस्मात्सर्वे तत्र गच्छामो यत्र स इति | ०२६ | स तत्र गत्वा तस्याह्वानाय शब्दं चकार | भो आरुणे पाञ्चाल्य क्वासि | वत्सैहीति | ०२७ | स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे | प्रोवाच चैनम् | अयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः | तदभिवादये भगवन्तम् | आज्ञापयतु भवान् | किं करवाणीति | ०२८ | तमुपाध्यायोऽब्रवीत् | यस्माद्भवान्केदारखण्डमवदार्योत्थितस्तस्माद्भवानुद्दालक एव नाम्ना भविष्यतीति | ०२९ | स उपाध्यायेनानुगृहीतः | यस्मात्त्वया मद्वचोऽनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसीति | सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति | ०३० | स एवमुक्त उपाध्यायेनेष्टं देशं जगाम | ०३१ | अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्योपमन्युर्नाम | ०३२ | तमुपाध्यायः प्रेषयामास | वत्सोपमन्यो गा रक्षस्वेति | ०३३ | स उपाध्यायवचनादरक्षद्गाः | स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे | ०३४ | तमुपाध्यायः पीवानमपश्यत् | उवाच चैनम् | वत्सोपमन्यो केन वृत्तिं कल्पयसि | पीवानसि दृढमिति | ०३५ | स उपाध्यायं प्रत्युवाच | भैक्षेण वृत्तिं कल्पयामीति | ०३६ | तमुपाध्यायः प्रत्युवाच | ममानिवेद्य भैक्षं नोपयोक्तव्यमिति | ०३७ | स तथेत्युक्त्वा पुनररक्षद्गाः | रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे | ०३८ | तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच | वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि | केनेदानीं वृत्तिं कल्पयसीति | ०३९ | स एवमुक्त उपाध्यायेन प्रत्युवाच | भगवते निवेद्य पूर्वमपरं चरामि | तेन वृत्तिं कल्पयामीति | ०४० | तमुपाध्यायः प्रत्युवाच | नैषा न्याय्या गुरुवृत्तिः | अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः | लुब्धोऽसीति | ०४१ | स तथेत्युक्त्वा गा अरक्षत् | रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे | ०४२ | तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच | अहं ते सर्वं भैक्षं गृह्णामि न चान्यच्चरसि | पीवानसि | केन वृत्तिं कल्पयसीति | ०४३ | स उपाध्यायं प्रत्युवाच | भो एतासां गवां पयसा वृत्तिं कल्पयामीति | ०४४ | तमुपाध्यायः प्रत्युवाच | नैतन्न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातमिति | ०४५ | स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहानेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे | ०४६ | तमुपाध्यायः पीवानमेवापश्यत् | उवाच चैनम् | भैक्षं नाश्नासि न चान्यच्चरसि | पयो न पिबसि | पीवानसि | केन वृत्तिं कल्पयसीति | ०४७ | स एवमुक्त उपाध्यायं प्रत्युवाच | भोः फेनं पिबामि यमिमे वत्सा मातृणां स्तनं पिबन्त उद्गिरन्तीति | ०४८ | तमुपाध्यायः प्रत्युवाच | एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति | तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः | फेनमपि भवान्न पातुमर्हतीति | ०४९ | स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत् | तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति | पयो न पिबति | फेनं नोपयुङ्क्ते | ०५० | स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् | ०५१ | स तैरर्कपत्रैर्भक्षितैः क्षारकटूष्णविपाकिभिश्चक्षुष्युपहतोऽन्धोऽभवत् | सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् | ०५२ | अथ तस्मिन्ननागच्छत्युपाध्यायः शिष्यानवोचत् | मयोपमन्युः सर्वतः प्रतिषिद्धः | स नियतं कुपितः | ततो नागच्छति चिरगतश्चेति | ०५३ | स एवमुक्त्वा गत्वारण्यमुपमन्योराह्वानं चक्रे | भो उपमन्यो क्वासि | वत्सैहीति | ०५४ | स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः | अयमस्मि भो उपाध्याय कूपे पतित इति | ०५५ | तमुपाध्यायः प्रत्युवाच | कथमसि कूपे पतित इति | ०५६ | स तं प्रत्युवाच | अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्मि | अतः कूपे पतित इति | ०५७ | तमुपाध्यायः प्रत्युवाच | अश्विनौ स्तुहि | तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजाविति | ०५८ | स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्विनौ वाग्भिरृग्भिः | ०५९ | \eg प्र पूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनावनन्तौ | दिव्यौ सुपर्णौ विरजौ विमाना; वधिक्षियन्तौ भुवनानि विश्वा ||६०|| हिरण्मयौ शकुनी साम्परायौ; नासत्यदस्रौ सुनसौ वैजयन्तौ | शुक्रं वयन्तौ तरसा सुवेमा; वभि व्ययन्तावसितं विवस्वत् ||६१|| ग्रस्तां सुपर्णस्य बलेन वर्तिका; ममुञ्चतामश्विनौ सौभगाय | तावत्सुवृत्तावनमन्त मायया; सत्तमा गा अरुणा उदावहन् ||६२|| षष्टिश्च गावस्त्रिशताश्च धेनव; एकं वत्सं सुवते तं दुहन्ति | नानागोष्ठा विहिता एकदोहना; स्तावश्विनौ दुहतो घर्ममुक्थ्यम् ||६३|| एकां नाभिं सप्तशता अराः श्रिताः; प्रधिष्वन्या विंशतिरर्पिता अराः | अनेमि चक्रं परिवर्ततेऽजरं; मायाश्विनौ समनक्ति चर्षणी ||६४|| एकं चक्रं वर्तते द्वादशारं प्रधि; षण्णाभिमेकाक्षममृतस्य धारणम् | यस्मिन्देवा अधि विश्वे विषक्ता; स्तावश्विनौ मुञ्चतो मा विषीदतम् ||६५|| अश्विनाविन्द्रममृतं वृत्तभूयौ; तिरोधत्तामश्विनौ दासपत्नी | भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ; तद्वृष्टमह्ना प्रथिता वलस्य ||६६|| युवां दिशो जनयथो दशाग्रे; समानं मूर्ध्नि रथया वियन्ति | तासां यातमृषयोऽनुप्रयान्ति; देवा मनुष्याः क्षितिमाचरन्ति ||६७|| युवां वर्णान्विकुरुथो विश्वरूपां; स्तेऽधिक्षियन्ति भुवनानि विश्वा | ते भानवोऽप्यनुसृताश्चरन्ति; देवा मनुष्याः क्षितिमाचरन्ति ||६८|| तौ नासत्यावश्विनावामहे वां; स्रजं च यां बिभृथः पुष्करस्य | तौ नासत्यावमृतावृतावृधा; वृते देवास्तत्प्रपदेन सूते ||६९|| मुखेन गर्भं लभतां युवानौ; गतासुरेतत्प्रपदेन सूते | सद्यो जातो मातरमत्ति गर्भ; स्तावश्विनौ मुञ्चथो जीवसे गाः ||७०|| एवं तेनाभिष्टुतावश्विनावाजग्मतुः | आहतुश्चैनम् | प्रीतौ स्वः | एष तेऽपूपः | अशानैनमिति | ०७१ | स एवमुक्तः प्रत्युवाच | नानृतमूचतुर्भवन्तौ | न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति | ०७२ | ततस्तमश्विनावूचतुः | आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः | उपयुक्तश्च स तेनानिवेद्य गुरवे | त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति | ०७३ | स एवमुक्तः पुनरेव प्रत्युवाचैतौ | प्रत्यनुनये भवन्तावश्विनौ | नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमिति | ०७४ | तमश्विनावाहतुः | प्रीतौ स्वस्तवानया गुरुवृत्त्या | उपाध्यायस्य ते कार्ष्णायसा दन्ताः | भवतो हिरण्मया भविष्यन्ति | चक्षुष्मांश्च भविष्यसि | श्रेयश्चावाप्स्यसीति | ०७५ | स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्योपाध्यायमभिवाद्याचचक्षे | स चास्य प्रीतिमानभूत् | ०७६ | आह चैनम् | यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति | सर्वे च ते वेदाः प्रतिभास्यन्तीति | ०७७ | एषा तस्यापि परीक्षोपमन्योः | ०७८ | अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम | ०७९ | तमुपाध्यायः संदिदेश | वत्स वेद इहास्यताम् | भवता मद्गृहे कञ्चित्कालं शुश्रूषमाणेन भवितव्यम् | श्रेयस्ते भविष्यतीति | ०८० | स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् | गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः | ०८१ | तस्य महता कालेन गुरुः परितोषं जगाम | तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप | एषा तस्यापि परीक्षा वेदस्य | ०८२ | स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत | तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः | ०८३ | स शिष्यान्न किञ्चिदुवाच | कर्म वा क्रियतां गुरुशुश्रूषा वेति | दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष | ०८४ | अथ कस्यचित्कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयां चक्रतुः | ०८५ | स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयामास | भो उत्तङ्क यत्किञ्चिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीणं भवता क्रियमाणमिति | ०८६ | स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम | ०८७ | अथोत्तङ्को गुरुशुश्रूषुर्गुरुनियोगमनुतिष्ठमानस्तत्र गुरुकुले वसति स्म | ०८८ | स वसंस्तत्रोपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः | उपाध्यायिनी ते ऋतुमती | उपाध्यायश्च प्रोषितः | अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम् | एतद्विषीदतीति | ०८९ | स एवमुक्तस्ताः स्त्रियः प्रत्युवाच | न मया स्त्रीणां वचनादिदमकार्यं कार्यम् | न ह्यहमुपाध्यायेन संदिष्टः | अकार्यमपि त्वया कार्यमिति | ०९० | तस्य पुनरुपाध्यायः कालान्तरेण गृहानुपजगाम तस्मात्प्रवासात् | स तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् | ०९१ | उवाच चैनम् | वत्सोत्तङ्क किं ते प्रियं करवाणीति | धर्मतो हि शुश्रूषितोऽस्मि भवता | तेन प्रीतिः परस्परेण नौ संवृद्धा | तदनुजाने भवन्तम् | सर्वामेव सिद्धिं प्राप्स्यसि | गम्यतामिति | ०९२ | स एवमुक्तः प्रत्युवाच | किं ते प्रियं करवाणीति | एवं ह्याहुः | ०९३ | यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति | ०९४ | तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति | सोऽहमनुज्ञातो भवता इच्छामीष्टं ते गुर्वर्थमुपहर्तुमिति | ०९५ | तेनैवमुक्त उपाध्यायः प्रत्युवाच | वत्सोत्तङ्क उष्यतां तावदिति | ०९६ | स कदाचित्तमुपाध्यायमाहोत्तङ्कः | आज्ञापयतु भवान् | किं ते प्रियमुपहरामि गुर्वर्थमिति | ०९७ | तमुपाध्यायः प्रत्युवाच | वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपहरेयमिति | तद्गच्छ | एनां प्रविश्योपाध्यायिनीं पृच्छ किमुपहरामीति | एषा यद्ब्रवीति तदुपहरस्वेति | ०९८ | स एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छत् | भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुम् | तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुम् | तदाज्ञापयतु भवती | किमुपहरामि गुर्वर्थमिति | ०९९ | सैवमुक्तोपाध्यायिन्युत्तङ्कं प्रत्युवाच | गच्छ पौष्यं राजानम् | भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले | ते आनयस्व | इतश्चतुर्थेऽहनि पुण्यकं भविता | ताभ्यामाबद्धाभ्यां ब्राह्मणान्परिवेष्टुमिच्छामि | शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि सम्पादयस्व | श्रेयो हि ते स्यात्क्षणं कुर्वत इति | १०० | स एवमुक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः | स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव | १०१ | स पुरुष उत्तङ्कमभ्यभाषत | उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति | १०२ | स एवमुक्तो नैच्छत् | १०३ | तमाह पुरुषो भूयः | भक्षयस्वोत्तङ्क | मा विचारय | उपाध्यायेनापि ते भक्षितं पूर्वमिति | १०४ | स एवमुक्तो बाढमित्युक्त्वा तदा तदृषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः | १०५ | तमुपेत्यापश्यदुत्तङ्क आसीनम् | स तमुपेत्याशीर्भिरभिनन्द्योवाच | अर्थी भवन्तमुपगतोऽस्मीति | १०६ | स एनमभिवाद्योवाच | भगवन्पौष्यः खल्वहम् | किं करवाणीति | १०७ | तमुवाचोत्तङ्कः | गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति | १०८ | तं पौष्यः प्रत्युवाच | प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति | १०९ | स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत् | ११० | स पौष्यं पुनरुवाच | न युक्तं भवता वयमनृतेनोपचरितुम् | न हि ते क्षत्रियान्तःपुरे संनिहिता | नैनां पश्यामीति | १११ | स एवमुक्तः पौष्यस्तं प्रत्युवाच | सम्प्रति भवानुच्छिष्टः | स्मर तावत् | न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम् | पतिव्रतात्वादेषा नाशुचेर्दर्शनमुपैतीति | ११२ | अथैवमुक्त उत्तङ्कः स्मृत्वोवाच | अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति | ११३ | तं पौष्यः प्रत्युवाच | एतत्तदेवं हि | न गच्छतोपस्पृष्टं भवति न स्थितेनेति | ११४ | अथोत्तङ्कस्तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनोऽशब्दाभिर् हृदयङ्गमाभिरद्भिरुपस्पृश्य त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियामपश्यत् | ११५ | सा च दृष्ट्वैवोत्तङ्कमभ्युत्थायाभिवाद्योवाच | स्वागतं ते भगवन् | आज्ञापय किं करवाणीति | ११६ | स तामुवाच | एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति | ११७ | सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत् | ११८ | आह चैनम् | एते कुण्डले तक्षको नागराजः प्रार्थयति | अप्रमत्तो नेतुमर्हसीति | ११९ | स एवमुक्तस्तां क्षत्रियां प्रत्युवाच | भवति सुनिर्वृता भव | न मां शक्तस्तक्षको नागराजो धर्षयितुमिति | १२० | स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत् | १२१ | स तं दृष्ट्वोवाच | भोः पौष्य प्रीतोऽस्मीति | १२२ | तं पौष्यः प्रत्युवाच | भगवंश्चिरस्य पात्रमासाद्यते | भवांश्च गुणवानतिथिः | तत्करिष्ये श्राद्धम् | क्षणः क्रियतामिति | १२३ | तमुत्तङ्कः प्रत्युवाच | कृतक्षण एवास्मि | शीघ्रमिच्छामि यथोपपन्नमन्नमुपहृतं भवतेति | १२४ | स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास | १२५ | अथोत्तङ्कः शीतमन्नं सकेशं दृष्ट्वा अशुच्येतदिति मत्वा पौष्यमुवाच | यस्मान्मे अशुच्यन्नं ददासि तस्मदन्धो भविष्यसीति | १२६ | तं पौष्यः प्रत्युवाच | यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति | १२७ | सोऽथ पौष्यस्तस्याशुचिभावमन्नस्यागमयामास | १२८ | अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमशुचि मत्वोत्तङ्कं प्रसादयामास | भगवन्नज्ञानादेतदन्नं सकेशमुपहृतं शीतं च | तत्क्षामये भवन्तम् | न भवेयमन्ध इति | १२९ | तमुत्तङ्कः प्रत्युवाच | न मृषा ब्रवीमि | भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति | ममापि शापो न भवेद्भवता दत्त इति | १३० | तं पौष्यः प्रत्युवाच | नाहं शक्तः शापं प्रत्यादातुम् | न हि मे मन्युरद्याप्युपशमं गच्छति | किं चैतद्भवता न ज्ञायते यथा | १३१ | नावनीतं हृदयं ब्राह्मणस्य; वाचि क्षुरो निहितस्तीक्ष्णधारः | विपरीतमेतदुभयं क्षत्रियस्य; वाङ्नावनीती हृदयं तीक्ष्णधारम् ||१३२|| इति | तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुम् | गम्यतामिति | १३३ | तमुत्तङ्कः प्रत्युवाच | भवताहमन्नस्याशुचिभावमागमय्य प्रत्यनुनीतः | प्राक्च तेऽभिहितम् | यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति | दुष्टे चान्ने नैष मम शापो भविष्यतीति | १३४ | साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा | १३५ | सोऽपश्यत्पथि नग्नं श्रमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च | अथोत्तङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे | १३६ | एतस्मिन्नन्तरे स श्रमणस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् | तमुत्तङ्कोऽभिसृत्य जग्राह | स तद्रूपं विहाय तक्षकरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश | १३७ | प्रविश्य च नागलोकं स्वभवनमगच्छत् | तमुत्तङ्कोऽन्वाविवेश तेनैव बिलेन | प्रविश्य च नागानस्तुवदेभिः श्लोकैः | १३८ | य ऐरावतराजानः सर्पाः समितिशोभनाः | वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः ||१३९|| सुरूपाश्च विरूपाश्च तथा कल्माषकुण्डलाः | आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः ||१४०|| बहूनि नागवर्त्मानि गङ्गायास्तीर उत्तरे | इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना ||१४१|| शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः | सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदेजति ||१४२|| ये चैनमुपसर्पन्ति ये च दूरं परं गताः | अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः ||१४३|| यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्सदा | तं काद्रवेयमस्तौषं कुण्डलार्थाय तक्षकम् ||१४४|| तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ | कुरुक्षेत्रे निवसतां नदीमिक्षुमतीमनु ||१४५|| जघन्यजस्तक्षकस्य श्रुतसेनेति यः श्रुतः | अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् ||१४६|| करवाणि सदा चाहं नमस्तस्मै महात्मने ||१४६|| एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभदथापश्यत्स्त्रियौ तन्त्रे अधिरोप्य पटं वयन्त्यौ | १४७ | तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः | चक्रं चापश्यत्षड्भिः कुमारैः परिवर्त्यमानम् | पुरुषं चापश्यद्दर्शनीयम् | १४८ | स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः | १४९ | त्रीण्यर्पितान्यत्र शतानि मध्ये; षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् | चक्रे चतुर्विंशतिपर्वयोगे; षड्यत्कुमाराः परिवर्तयन्ति ||१५०|| तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस्तन्तून्सततं वर्तयन्त्यौ | कृष्णान्सितांश्चैव विवर्तयन्त्यौ; भूतान्यजस्रं भुवनानि चैव ||१५१|| वज्रस्य भर्ता भुवनस्य गोप्ता; वृत्रस्य हन्ता नमुचेर्निहन्ता | कृष्णे वसानो वसने महात्मा; सत्यानृते यो विविनक्ति लोके ||१५२|| यो वाजिनं गर्भमपां पुराणं; वैश्वानरं वाहनमभ्युपेतः | नमः सदास्मै जगदीश्वराय; लोकत्रयेशाय पुरंदराय ||१५३|| ततः स एनं पुरुषः प्राह | प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण | किं ते प्रियं करवाणीति | १५४ | स तमुवाच | नागा मे वशमीयुरिति | १५५ | स एनं पुरुषः पुनरुवाच | एतमश्वमपाने धमस्वेति | १५६ | स तमश्वमपानेऽधमत् | अथाश्वाद्धम्यमानात्सर्वस्रोतोभ्यः सधूमा अर्चिषोऽग्नेर्निष्पेतुः | १५७ | ताभिर्नागलोको धूपितः | १५८ | अथ ससम्भ्रमस्तक्षकोऽग्नितेजोभयविषण्णस्ते कुण्डले गृहीत्वा सहसा स्वभवनान्निष्क्रम्योत्तङ्कमुवाच | एते कुण्डले प्रतिगृह्णातु भवानिति | १५९ | स ते प्रतिजग्राहोत्तङ्कः | कुण्डले प्रतिगृह्याचिन्तयत् | अद्य तत्पुण्यकमुपाध्यायिन्याः | दूरं चाहमभ्यागतः | कथं नु खलु सम्भावयेयमिति | १६० | तत एनं चिन्तयानमेव स पुरुष उवाच | उत्तङ्क एनमश्वमधिरोह | एष त्वां क्षणादेवोपाध्यायकुलं प्रापयिष्यतीति | १६१ | स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलम् | उपाध्यायिनी च स्नाता केशानावपयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे | १६२ | अथोत्तङ्कः प्रविश्य उपाध्यायिनीमभ्यवादयत् | ते चास्यै कुण्डले प्रायच्छत् | १६३ | सा चैनं प्रत्युवाच | उत्तङ्क देशे कालेऽभ्यागतः | स्वागतं ते वत्स | मनागसि मया न शप्तः | श्रेयस्तवोपस्थितम् | सिद्धिमाप्नुहीति | १६४ | अथोत्तङ्क उपाध्यायमभ्यवादयत् | तमुपाध्यायः प्रत्युवाच | वत्सोत्तङ्क स्वागतं ते | किं चिरं कृतमिति | १६५ | तमुत्तङ्क उपाध्यायं प्रत्युवाच | भोस्तक्षकेण नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि | तेनास्मि नागलोकं नीतः | १६६ | तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ | तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः | किं तत् | १६७ | तत्र च मया चक्रं दृष्टं द्वादशारम् | षट्चैनं कुमाराः परिवर्तयन्ति | तदपि किम् | १६८ | पुरुषश्चापि मया दृष्टः | स पुनः कः | १६९ | अश्वश्चातिप्रमाणयुक्तः | स चापि कः | १७० | पथि गच्छता मया ऋषभो दृष्टः | तं च पुरुषोऽधिरूढः | तेनास्मि सोपचारमुक्तः | उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय | उपाध्यायेनापि ते भक्षितमिति | ततस्तद्वचनान्मया तदृषभस्य पुरीषमुपयुक्तम् | तदिच्छामि भवतोपदिष्टं किं तदिति | १७१ | तेनैवमुक्त उपाध्यायः प्रत्युवाच | ये ते स्त्रियौ धाता विधाता च | ये च ते कृष्णाः सिताश्च तन्तवस्ते रात्र्यहनी | १७२ | यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति ते ऋतवः षट्संवत्सरश्चक्रम् | यः पुरुषः स पर्जन्यः | योऽश्वः सोऽग्निः | १७३ | य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराजः | यश्चैनमधिरूढः स इन्द्रः | यदपि ते पुरीषं भक्षितं तस्य ऋषभस्य तदमृतम् | १७४ | तेन खल्वसि न व्यापन्नस्तस्मिन्नागभवने | स चापि मम सखा इन्द्रः | १७५ | तदनुग्रहात्कुण्डले गृहीत्वा पुनरभ्यागतोऽसि | तत्सौम्य गम्यताम् | अनुजाने भवन्तम् | श्रेयोऽवाप्स्यसीति | १७६ | स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस्तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे | १७७ | स हास्तिनपुरं प्राप्य नचिराद्द्विजसत्तमः | समागच्छत राजानमुत्तङ्को जनमेजयम् ||१७८|| पुरा तक्षशिलातस्तं निवृत्तमपराजितम् | सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम् ||१७९|| तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः | उवाचैनं वचः काले शब्दसम्पन्नया गिरा ||१८०|| अन्यस्मिन्करणीये त्वं कार्ये पार्थिवसत्तम | बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम ||१८१|| एवमुक्तस्तु विप्रेण स राजा प्रत्युवाच ह | जनमेजयः प्रसन्नात्मा सम्यक्सम्पूज्य तं मुनिम् ||१८२|| आसां प्रजानां परिपालनेन; स्वं क्षत्रधर्मं परिपालयामि | प्रब्रूहि वा किं क्रियतां द्विजेन्द्र; शुश्रूषुरस्म्यद्य वचस्त्वदीयम् ||१८३|| स एवमुक्तस्तु नृपोत्तमेन; द्विजोत्तमः पुण्यकृतां वरिष्ठः | उवाच राजानमदीनसत्त्वं; स्वमेव कार्यं नृपतेश्च यत्तत् ||१८४|| तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता | तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने ||१८५|| कार्यकालं च मन्येऽहं विधिदृष्टस्य कर्मणः | तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः ||१८६|| तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना | पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः ||१८७|| बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः | अकार्यं कृतवान्पापो योऽदशत्पितरं तव ||१८८|| राजर्षिवंशगोप्तारममरप्रतिमं नृपम् | जघान काश्यपं चैव न्यवर्तयत पापकृत् ||१८९|| दग्धुमर्हसि तं पापं ज्वलिते हव्यवाहने | सर्पसत्रे महाराज त्वयि तद्धि विधीयते ||१९०|| एवं पितुश्चापचितिं गतवांस्त्वं भविष्यसि | मम प्रियं च सुमहत्कृतं राजन्भविष्यति ||१९१|| कर्मणः पृथिवीपाल मम येन दुरात्मना | विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ ||१९२|| एतच्छ्रुत्वा तु नृपतिस्तक्षकस्य चुकोप ह | उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा ||१९३|| अपृच्छच्च तदा राजा मन्त्रिणः स्वान्सुदुःखितः | उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति ||१९४|| तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् | यदैव पितरं वृत्तमुत्तङ्कादशृणोत्तदा ||१९५|| पौलोमपर्व ४ लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे | ००१ | पौराणिकः पुराणे कृतश्रमः स तान्कृताञ्जलिरुवाच | किं भवन्तः श्रोतुमिच्छन्ति | किमहं ब्रुवाणीति | ००२ | तमृषय ऊचुः | परमं लोमहर्षणे प्रक्ष्यामस्त्वां वक्ष्यसि च नः शुश्रूषतां कथायोगम् | तद्भगवांस्तु तावच्छौनकोऽग्निशरणमध्यास्ते | ००३ | योऽसौ दिव्याः कथा वेद देवतासुरसङ्कथाः | मनुष्योरगगन्धर्वकथा वेद च सर्वशः ||४|| स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः | दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः ||५|| सत्यवादी शमपरस्तपस्वी नियतव्रतः | सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् ||६|| तस्मिन्नध्यासति गुरावासनं परमार्चितम् | ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः ||७|| सूत उवाच|| एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि | तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः ||८|| सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् | देवान्वाग्भिः पितृनद्भिस्तर्पयित्वाजगाम ह ||९|| यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः | यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः ||१०|| ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः | उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् ||११||

    ५ शौनक उवाच|| पुराणमखिलं तात पिता तेऽधीतवान्पुरा | कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे ||१|| पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् | कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव ||२|| तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् | कथयस्व कथामेतां कल्याः स्म श्रवणे तव ||३|| सूत उवाच|| यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः | वैशम्पायनविप्राद्यैस्तैश्चापि कथितं पुरा ||४|| यदधीतं च पित्रा मे सम्यक्चैव ततो मया | तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः ||५|| पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन ||५|| इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने | निगदामि कथायुक्तं पुराणाश्रयसंयुतम् ||६|| भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः | च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः ||७|| प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ||७|| रुरोरपि सुतो जज्ञे शुनको वेदपारगः | प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् ||८|| तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः | धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः ||९|| शौनक उवाच|| सूतपुत्र यथा तस्य भार्गवस्य महात्मनः | च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ||१०|| सूत उवाच|| भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता | तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः ||११|| तस्मिन्गर्भे सम्भृतेऽथ पुलोमायां भृगूद्वह | समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ||१२|| अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे | आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह ||१३|| तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् | हृच्छयेन समाविष्टो विचेताः समपद्यत ||१४|| अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना | न्यमन्त्रयत वन्येन फलमूलादिना तदा ||१५|| तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम् | दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् ||१६|| अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम् | तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ||१७|| शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै | सत्यस्त्वमसि सत्यं मे वद पावक पृच्छते ||१८|| मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी | पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे ||१९|| सेयं यदि वरारोहा भृगोर्भार्या रहोगता | तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् ||२०|| मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति | मत्पुर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम् ||२१|| तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् | शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत ||२२|| त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा | साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ||२३|| मत्पूर्वभार्यापहृता भृगुणानृतकारिणा | सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ||२४|| श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् | जातवेदः पश्यतस्ते वद सत्यां गिरं मम ||२५|| तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् | भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ||२६||

    ६ सूत उवाच|| अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् | ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ||१|| ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह | रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ||२|| तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् | तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् ||३|| सा तमादाय सुश्रोणी ससार भृगुनन्दनम् | च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता ||४|| तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः | रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् ||५|| सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः ||५|| अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी | अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः ||६|| तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा | नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः ||७|| वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ||७|| स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् | तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् ||८|| स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः | केनासि रक्षसे तस्मै कथितेह जिहीर्षवे ||९|| न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ||९|| तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा | बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ||१०|| पुलोमोवाच|| अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता | ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ||११|| साहं तव सुतस्यास्य तेजसा परिमोक्षिता | भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ||१२|| सूत उवाच|| इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् | शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि ||१३||

    ७ सूत उवाच|| शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् | किमिदं साहसं ब्रह्मन्कृतवानसि साम्प्रतम् ||१|| धर्मे प्रयतमानस्य सत्यं च वदतः समम् | पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम ||२|| पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् | स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् ||३|| यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते | सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ||४|| शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम | जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् ||५|| योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु | अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च ||६|| वेदोक्तेन विधानेन मयि यद्धूयते हविः | देवताः पितरश्चैव तेन तृप्ता भवन्ति वै ||७|| आपो देवगणाः सर्वे आपः पितृगणास्तथा | दर्शश्च पौर्णमासश्च देवानां पितृभिः सह ||८|| देवताः पितरस्तस्मात्पितरश्चापि देवताः | एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु ||९|| देवताः पितरश्चैव जुह्वते मयि यत्सदा | त्रिदशानां पितृणां च मुखमेवमहं स्मृतः ||१०|| अमावास्यां च पितरः पौर्णमास्यां च देवताः | मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः ||११|| सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् ||११|| चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः | द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ||१२|| निरोङ्कारवषट्काराः स्वधास्वाहाविवर्जिताः | विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः ||१३|| अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः | अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः ||१४|| विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा ||१४|| अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु | अग्नेरावेदयञ्शापं क्रियासंहारमेव च ||१५|| भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे | कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा ||१६|| हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति ||१६|| श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् | उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ||१७|| लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च | त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः ||१८|| स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा ||१८|| कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः | त्वं पवित्रं यदा लोके सर्वभूतगतश्च ह ||१९|| न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि | उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् ||२०|| यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते | तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति ||२१|| तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् | स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो ||२२|| देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् ||२२|| एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् | जगाम शासनं कर्तुं देवस्य परमेष्ठिनः ||२३|| देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् | ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे ||२४|| दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः | अग्निश्च परमां प्रीतिमवाप हतकल्मषः ||२५|| एवमेष पुरावृत्त इतिहासोऽग्निशापजः | पुलोमस्य विनाशश्च च्यवनस्य च सम्भवः ||२६||

    ८ सूत उवाच|| स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् | सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् ||१|| प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् | रुरुः प्रमद्वरायां तु शुनकं समजीजनत् ||२|| तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः | विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः ||३|| ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः | स्थूलकेश इति ख्यातः सर्वभूतहिते रतः ||४|| एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् | गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः ||५|| अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन | उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति ||६|| उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह | कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया ||७|| तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः | स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् ||८|| स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः | जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च ||९|| ववृधे सा वरारोहा तस्याश्रमपदे शुभा ||९|| प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता | ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः ||१०|| तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् | बभूव किल धर्मात्मा मदनानुगतात्मवान् ||११|| पितरं सखिभिः सोऽथ वाचयामास भार्गवः | प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् ||१२|| ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् | विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते ||१३|| ततः कतिपयाहस्य विवाहे समुपस्थिते | सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी ||१४|| नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् | पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता ||१५|| स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा | विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् ||१६|| सा दष्टा सहसा भूमौ पतिता गतचेतना | व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः ||१७|| प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता | भूयो मनोहरतरा बभूव तनुमध्यमा ||१८|| ददर्श तां पिता चैव ते चैवान्ये तपस्विनः | विचेष्टमानां पतितां भूतले पद्मवर्चसम् ||१९|| ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः | स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः ||२०|| भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः | प्रमतिः सह पुत्रेण तथान्ये वनवासिनः ||२१|| तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् | रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ ||२२||

    ९ सूत उवाच|| तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः | रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः ||१|| शोकेनाभिहतः सोऽथ विलपन्करुणं बहु | अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम् ||२|| शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी | बान्धवानां च सर्वेषां किं नु दुःखमतः परम् ||३|| यदि दत्तं तपस्तप्तं गुरवो वा मया यदि | सम्यगाराधितास्तेन सञ्जीवतु मम प्रिया ||४|| यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः | प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी ||५|| देवदूत उवाच|| अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा | न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः ||६|| गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता | तस्माच्छोके मनस्तात मा कृथास्त्वं कथञ्चन ||७|| उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः | तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् ||८|| रुरुरुवाच|| क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर | करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान् ||९|| देवदूत उवाच|| आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन | एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा ||१०|| रुरुरुवाच|| आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम | शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया ||११|| सूत उवाच|| ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ | धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ||१२|| धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा | समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे ||१३|| धर्मराज उवाच|| प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि | उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता ||१४|| सूत उवाच|| एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा | रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी ||१५|| एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः | आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति ||१६|| तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा | विवाहं तौ च रेमाते परस्परहितैषिणौ ||१७|| स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम् | व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ||१८|| स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः | अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा ||१९|| स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् | शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् ||२०|| तत उद्यम्य दण्डं स कालदण्डोपमं तदा | अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ||२१|| नापराध्यामि ते किञ्चिदहमद्य तपोधन | संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः ||२२||

    १० रुरुरुवाच|| मम प्राणसमा भार्या दष्टासीद्भुजगेन ह | तत्र मे समयो घोर आत्मनोरग वै कृतः ||१|| हन्यां सदैव भुजगं यं यं पश्येयमित्युत | ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे ||२|| डुण्डुभ उवाच|| अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् | डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि ||३|| एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान् | डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि ||४|| सूत उवाच|| इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा | नावधीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् ||५|| उवाच चैनं भगवान्रुरुः संशमयन्निव | कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः ||६|| डुण्डुभ उवाच|| अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् | सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः ||७|| रुरुरुवाच|| किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम | कियन्तं चैव कालं ते वपुरेतद्भविष्यति ||८||

    ११ डुण्डुभ उवाच|| सखा बभूव मे पूर्वं खगमो नाम वै द्विजः | भृशं संशितवाक्तात तपोबलसमन्वितः ||१|| स मया क्रीडता बाल्ये कृत्वा तार्णमथोरगम् | अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै ||२|| लब्ध्वा च स पुनः सञ्ज्ञां मामुवाच तपोधनः | निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः ||३|| यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया | तथावीर्यो भुजङ्गस्त्वं मम कोपाद्भविष्यसि ||४|| तस्याहं तपसो वीर्यं जानमानस्तपोधन | भृशमुद्विग्नहृदयस्तमवोचं वनौकसम् ||५|| प्रयतः सम्भ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः | सखेति हसतेदं ते नर्मार्थं वै कृतं मया ||६|| क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम् | सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् ||७|| मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः | नानृतं वै मया प्रोक्तं भवितेदं कथञ्चन ||८|| यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत | श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन ||९|| उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः | तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव ||१०|| स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः | स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम् ||११|| अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः | तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित् ||१२|| ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः | वेदवेदाङ्गवित्तात सर्वभूताभयप्रदः ||१३|| अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् | ब्राह्मणस्य परो धर्मो वेदानां धरणादपि ||१४|| क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव | दण्डधारणमुग्रत्वं प्रजानां परिपालनम् ||१५|| तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो | जनमेजयस्य धर्मात्मन्सर्पाणां हिंसनं पुरा ||१६|| परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि | तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात् ||१७|| आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम ||१७||

    १२ रुरुरुवाच|| कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः | सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम ||१|| किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे | आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः ||२|| ऋषिरुवाच|| श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् | ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत ||३|| सूत उवाच|| रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः | तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि ||४|| लब्धसञ्ज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा | पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् ||५||

    आस्तीकपर्व १३ शौनक उवाच|| किमर्थं राजशार्दूलः स राजा जनमेजयः | सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे ||१|| आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः | मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात् ||२|| कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् | स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे ||३|| सूत उवाच|| महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज | सर्वमेतदशेषेण शृणु मे वदतां वर ||४|| शौनक उवाच|| श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् | आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः ||५|| सूत उवाच|| इतिहासमिमं वृद्धाः पुराणं परिचक्षते | कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः ||६|| पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः | शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान् ||७|| तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् | इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते ||८|| आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः | ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा ||९|| जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः | यायावराणां धर्मज्ञः प्रवरः संशितव्रतः ||१०|| अटमानः कदाचित्स स्वान्ददर्श पितामहान् | लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान् ||११|| तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान् | के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः ||१२|| वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते | मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना ||१३|| पितर ऊचुः|| यायावरा नाम वयमृषयः संशितव्रताः | सन्तानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् ||१४|| अस्माकं सन्ततिस्त्वेको जरत्कारुरिति श्रुतः | मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः ||१५|| न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति | तेन लम्बामहे गर्ते सन्तानप्रक्षयादिह ||१६|| अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा | कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम ||१७|| ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः | किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि ||१८|| जरत्कारुरुवाच|| मम पूर्वे भवन्तो वै पितरः सपितामहाः | ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् ||१९|| पितर ऊचुः|| यतस्व यत्नवांस्तात सन्तानाय कुलस्य नः | आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो ||२०|| न हि धर्मफलैस्तात न तपोभिः सुसञ्चितैः | तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह ||२१|| तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु | पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् ||२२|| जरत्कारुरुवाच|| न दारान्वै करिष्यामि सदा मे भावितं मनः | भवतां तु हितार्थाय करिष्ये दारसङ्ग्रहम् ||२३|| समयेन च कर्ताहमनेन विधिपूर्वकम् | तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम् ||२४|| सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः | भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः ||२५|| दरिद्राय हि मे भार्यां को दास्यति विशेषतः | प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति ||२६|| एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः | अनेन विधिना शश्वन्न करिष्येऽहमन्यथा ||२७|| तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै | शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम ||२८|| सूत उवाच|| ततो निवेशाय तदा स विप्रः संशितव्रतः | महीं चचार दारार्थी न च दारानविन्दत ||२९|| स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् | चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव ||३०|| तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा | न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् ||३१|| सनाम्नीमुद्यतां भार्यां गृह्णीयामिति तस्य हि | मनो निविष्टमभवज्जरत्कारोर्महात्मनः ||३२|| तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः | किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजङ्गम ||३३|| वासुकिरुवाच|| जरत्कारो जरत्कारुः स्वसेयमनुजा मम | त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम ||३४|| सूत उवाच|| मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर | जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः ||३५|| तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः | स्वसारमृषये तस्मै सुव्रताय तपस्विने ||३६|| स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा | आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः ||३७|| तपस्वी च महात्मा च वेदवेदाङ्गपारगः | समः सर्वस्य लोकस्य पितृमातृभयापहः ||३८|| अथ कालस्य महतः पाण्डवेयो नराधिपः | आजहार महायज्ञं सर्पसत्रमिति श्रुतिः ||३९|| तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै | मोचयामास तं शापमास्तीकः सुमहायशाः ||४०|| नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान् | पितृंश्च तारयामास सन्तत्या तपसा तथा ||४१|| व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत् ||४१|| देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः | ऋषींश्च ब्रह्मचर्येण सन्तत्या च पितामहान् ||४२|| अपहृत्य गुरुं भारं पितृणां संशितव्रतः | जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः ||४३|| आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः | जरत्कारुः सुमहता कालेन स्वर्गमीयिवान् ||४४|| एतदाख्यानमास्तीकं यथावत्कीर्तितं मया | प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यतामिति ||४५||

    १४ शौनक उवाच|| सौते कथय तामेतां विस्तरेण कथां पुनः | आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः ||१|| मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया | प्रीयामहे भृशं तात पितेवेदं प्रभाषसे ||२|| अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव | आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद ||३|| सूत उवाच|| आयुष्यमिदमाख्यानमास्तीकं कथयामि ते | यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया ||४|| पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे | आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे ||५|| ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह | प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ||६|| कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ||६|| वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते | हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ ||७|| वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः | द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ||८|| ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ ||८|| तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम् | एवमस्त्विति तं चाह कश्यपं विनता तदा ||९|| कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ | कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् ||१०|| धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः | ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् ||११|| कालेन महता कद्रूरण्डानां दशतीर्दश | जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा ||१२|| तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः | सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च ||१३|| ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः | अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ||१४|| ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी | अण्डं बिभेद विनता तत्र पुत्रमदृक्षत ||१५|| पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता | स पुत्रो रोषसम्पन्नः शशापैनामिति श्रुतिः ||१६|| योऽहमेवं कृतो मातस्त्वया लोभपरीतया | शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि ||१७|| पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह | एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति ||१८|| यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् | न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् ||१९|| प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया | विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः ||२०|| एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः | अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा ||२१|| गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः | स जातमात्रो विनतां परित्यज्य खमाविशत् ||२२|| आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् | विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः ||२३||

    १५ सूत उवाच|| एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन | अपश्यतां समायान्तमुच्चैःश्रवसमन्तिकात् ||१|| यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन् | मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् ||२|| महौघबलमश्वानामुत्तमं जवतां वरम् | श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम् ||३|| शौनक उवाच|| कथं तदमृतं देवैर्मथितं क्व च शंस मे | यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः ||४|| सूत उवाच|| ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् | आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः ||५|| काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम् | अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः ||६|| व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम् | नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् ||७|| अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् | नानापतगसङ्घैश्च नादितं सुमनोहरैः ||८|| तस्य पृष्ठमुपारुह्य बहुरत्नाचितं शुभम् | अनन्तकल्पमुद्विद्धं सुराः सर्वे महौजसः ||९|| ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः | अमृतार्थे समागम्य तपोनियमसंस्थिताः ||१०|| तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत् | चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः ||११|| देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः | भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ ||१२|| सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि | मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः ||१३||

    १६ सूत उवाच|| ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलङ्कृतम् | मन्दरं पर्वतवरं लताजालसमावृतम् ||१|| नानाविहगसङ्घुष्टं नानादंष्ट्रिसमाकुलम् | किंनरैरप्सरोभिश्च देवैरपि च सेवितम् ||२|| एकादश सहस्राणि योजनानां समुच्छ्रितम् | अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ||३|| तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा | विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ||४|| भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् | मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ||५|| तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव | ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः ||६|| नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ||६|| अथ पर्वतराजानं तमनन्तो महाबलः | उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ||७|| ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे | तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् ||८|| अपाम्पतिरथोवाच ममाप्यंशो भवेत्ततः | सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति ||९|| ऊचुश्च कूर्मराजानमकूपारं सुरासुराः | गिरेरधिष्ठानमस्य भवान्भवितुमर्हति ||१०|| कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् | तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् ||११|| मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् | देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् ||१२|| अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः ||१२|| एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः | विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ||१३|| अनन्तो भगवान्देवो यतो नारायणस्ततः | शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् ||१४|| वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः | सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ||१५|| ते धूमसङ्घाः सम्भूता मेघसङ्घाः सविद्युतः | अभ्यवर्षन्सुरगणाञ्श्रमसन्तापकर्शितान् ||१६|| तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः | सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् ||१७|| बभूवात्र महाघोषो महामेघरवोपमः | उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ||१८|| तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा | विलयं समुपाजग्मुः शतशो लवणाम्भसि ||१९|| वारुणानि च भूतानि विविधानि महीधरः | पातालतलवासीनि विलयं समुपानयत् ||२०|| तस्मिंश्च भ्राम्यमाणेऽद्रौ सङ्घृष्यन्तः परस्परम् | न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ||२१|| तेषां सङ्घर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः | विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ||२२|| ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान् | विगतासूनि सर्वाणि सत्त्वानि विविधानि च ||२३|| तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततः | वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ||२४|| ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि | महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ||२५|| तेषाममृतवीर्याणां रसानां पयसैव च | अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ||२६|| अथ तस्य समुद्रस्य तज्जातमुदकं पयः | रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् ||२७|| ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् | श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ||२८|| ऋते नारायणं देवं दैत्या नागोत्तमास्तथा | चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ||२९|| ततो नारायणं देवं ब्रह्मा वचनमब्रवीत् | विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ||३०|| विष्णुरुवाच|| बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः | क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् ||३१|| सूत उवाच|| नारायणवचः श्रुत्वा बलिनस्ते महोदधेः | तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ||३२|| ततः शतसहस्रांशुः समान इव सागरात् | प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ||३३|| श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी | सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ||३४|| कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसम्भवः | मरीचिविकचः श्रीमान्नारायण उरोगतः ||३५|| श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः | यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ||३६|| धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत | श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ||३७|| एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः | अमृतार्थे महान्नादो ममेदमिति जल्पताम् ||३८|| ततो नारायणो मायामास्थितो मोहिनीं प्रभुः | स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ||३९|| ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः | स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ||४०||

    १७ सूत उवाच|| अथावरणमुख्यानि नानाप्रहरणानि च | प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः ||१|| ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् | जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ||२|| ततो देवगणाः सर्वे पपुस्तदमृतं तदा | विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति ||३|| ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् | राहुर्विबुधरूपेण दानवः प्रापिबत्तदा ||४|| तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा | आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ||५|| ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम् | चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा ||६|| तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत् | चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् ||७|| ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै | शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ ||८|| विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः | नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत् ||९|| ततः प्रवृत्तः सङ्ग्रामः समीपे लवणाम्भसः | सुराणामसुराणां च सर्वघोरतरो महान् ||१०|| प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः | तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ||११|| ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु | असिशक्तिगदारुग्णा निपेतुर्धरणीतले ||१२|| छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे | तप्तकाञ्चनजालानि निपेतुरनिशं तदा ||१३|| रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः | अद्रीणामिव कूटानि धातुरक्तानि शेरते ||१४|| हाहाकारः समभवत्तत्र तत्र सहस्रशः | अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति ||१५|| परिघैश्चायसैः पीतैः संनिकर्षे च मुष्टिभिः | निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ||१६|| छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च | व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः ||१७|| एवं सुतुमुले युद्धे वर्तमाने भयावहे | नरनारायणौ देवौ समाजग्मतुराहवम् ||१८|| तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि | चिन्तयामास वै चक्रं विष्णुर्दानवसूदनम् ||१९|| ततोऽम्बराच्चिन्तितमात्रमागतं; महाप्रभं चक्रममित्रतापनम् | विभावसोस्तुल्यमकुण्ठमण्डलं; सुदर्शनं भीममजय्यमुत्तमम् ||२०|| तदागतं ज्वलितहुताशनप्रभं; भयङ्करं करिकरबाहुरच्युतः | मुमोच वै चपलमुदग्रवेगव; न्महाप्रभं परनगरावदारणम् ||२१|| तदन्तकज्वलनसमानवर्चसं; पुनः पुनर्न्यपतत वेगवत्तदा | विदारयद्दितिदनुजान्सहस्रशः; करेरितं पुरुषवरेण संयुगे ||२२|| दहत्क्वचिज्ज्वलन इवावलेलिह; त्प्रसह्य तानसुरगणान्न्यकृन्तत | प्रवेरितं वियति मुहुः क्षितौ तदा; पपौ रणे रुधिरमथो पिशाचवत् ||२३|| अथासुरा गिरिभिरदीनचेतसो; मुहुर्मुहुः सुरगणमर्दयंस्तदा | महाबला विगलितमेघवर्चसः; सहस्रशो गगनमभिप्रपद्य ह ||२४|| अथाम्बराद्भयजननाः प्रपेदिरे; सपादपा बहुविधमेघरूपिणः | महाद्रयः प्रविगलिताग्रसानवः; परस्परं द्रुतमभिहत्य सस्वनाः ||२५|| ततो मही प्रविचलिता सकानना; महाद्रिपाताभिहता समन्ततः | परस्परं भृशमभिगर्जतां मुहू; रणाजिरे भृशमभिसम्प्रवर्तिते ||२६|| नरस्ततो वरकनकाग्रभूषणै; र्महेषुभिर्गगनपथं समावृणोत् | विदारयन्गिरिशिखराणि पत्रिभि; र्महाभयेऽसुरगणविग्रहे तदा ||२७|| ततो महीं लवणजलं च सागरं; महासुराः प्रविविशुरर्दिताः सुरैः | वियद्गतं ज्वलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च ||२८|| ततः सुरैर्विजयमवाप्य मन्दरः; स्वमेव देशं गमितः सुपूजितः | विनाद्य खं दिवमपि चैव सर्वश; स्ततो गताः सलिलधरा यथागतम् ||२९|| ततोऽमृतं सुनिहितमेव चक्रिरे; सुराः परां मुदमभिगम्य पुष्कलाम् | ददौ च तं निधिममृतस्य रक्षितुं; किरीटिने बलभिदथामरैः सह ||३०||

    १८ सूत उवाच|| एतत्ते सर्वमाख्यातममृतं मथितं यथा | यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः ||१|| यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत् | उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम् ||२|| विनतोवाच|| श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे | ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे ||३|| कद्रूरुवाच|| कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते | एहि सार्धं मया दीव्य दासीभावाय भामिनि ||४|| सूत उवाच|| एवं ते समयं कृत्वा दासीभावाय वै मिथः | जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह ||५|| ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती | आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः ||६|| आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा | तद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजङ्गमान् ||७|| सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति | जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः ||८|| शापमेनं तु शुश्राव स्वयमेव पितामहः | अतिक्रूरं समुद्दिष्टं कद्र्वा दैवादतीव हि ||९|| सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत | बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया ||१०|| तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः | तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै ||११|| प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने ||११||

    १९ सूत उवाच|| ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ | कद्रूश्च विनता चैव भगिन्यौ ते तपोधन ||१|| अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा | जग्मतुस्तुरगं द्रष्टुमुच्छैःश्रवसमन्तिकात् ||२|| ददृशाते तदा तत्र समुद्रं निधिमम्भसाम् | तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा ||३|| सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम् | उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् ||४|| आकरं सर्वरत्नानामालयं वरुणस्य च | नागानामालयं रम्यमुत्तमं सरितां पतिम् ||५|| पातालज्वलनावासमसुराणां च बन्धनम् | भयङ्करं च सत्त्वानां पयसां निधिमर्णवम् ||६|| शुभं दिव्यममर्त्यानाममृतस्याकरं परम् | अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् ||७|| घोरं जलचरारावरौद्रं भैरवनिस्वनम् | गम्भीरावर्तकलिलं सर्वभूतभयङ्करम् ||८|| वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम् | वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः ||९|| चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिदुरासदम् | पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् ||१०|| गां विन्दता भगवता गोविन्देनामितौजसा | वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ||११|| ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा | अनासादितगाधं च पातालतलमव्ययम् ||१२|| अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः | युगादिकालशयनं विष्णोरमिततेजसः ||१३|| वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम् | अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् ||१४|| महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः | अभिसार्यमाणमनिशं ददृशाते महार्णवम् ||१५|| गम्भीरं तिमिमकरोग्रसङ्कुलं तं; गर्जन्तं जलचररावरौद्रनादैः | विस्तीर्णं ददृशतुरम्बरप्रकाशं; तेऽगाधं निधिमुरुमम्भसामनन्तम् ||१६|| इत्येवं झषमकरोर्मिसङ्कुलं तं; गम्भीरं विकसितमम्बरप्रकाशम् | पातालज्वलनशिखाविदीपितं तं; पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम् ||१७||

    २० सूत उवाच|| तं समुद्रमतिक्रम्य कद्रूर्विनतया सह | न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा ||१|| निशाम्य च बहून्वालान्कृष्णान्पुच्छं समाश्रितान् | विनतां विषण्णवदनां कद्रूर्दास्ये न्ययोजयत् ||२|| ततः सा विनता तस्मिन्पणितेन पराजिता | अभवद्दुःखसन्तप्ता दासीभावं समास्थिता ||३|| एतस्मिन्नन्तरे चैव गरुडः काल आगते | विना मात्रा महातेजा विदार्याण्डमजायत ||४|| अग्निराशिरिवोद्भासन्समिद्धोऽतिभयङ्करः | प्रवृद्धः सहसा पक्षी महाकायो नभोगतः ||५|| तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम् | प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् ||६|| अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि | असौ हि राशिः सुमहान्समिद्धस्तव सर्पति ||७|| अग्निरुवाच|| नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः | गरुडो बलवानेष मम तुल्यः स्वतेजसा ||८|| सूत उवाच|| एवमुक्तास्ततो गत्वा गरुडं वाग्भिरस्तुवन् | अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा ||९|| त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः | त्वं प्रभुस्तपनप्रख्यस्त्वं नस्त्राणमनुत्तमम् ||१०|| बलोर्मिमान्साधुरदीनसत्त्वः; समृद्धिमान्दुष्प्रसहस्त्वमेव | तपः श्रुतं सर्वमहीनकीर्ते; अनागतं चोपगतं च सर्वम् ||११|| त्वमुत्तमः सर्वमिदं चराचरं; गभस्तिभिर्भानुरिवावभाससे | समाक्षिपन्भानुमतः प्रभां मुहु; स्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् ||१२|| दिवाकरः परिकुपितो यथा दहे; त्प्रजास्तथा दहसि हुताशनप्रभ | भयङ्करः प्रलय इवाग्निरुत्थितो; विनाशयन्युगपरिवर्तनान्तकृत् ||१३|| खगेश्वरं शरणमुपस्थिता वयं; महौजसं वितिमिरमभ्रगोचरम् | महाबलं गरुडमुपेत्य खेचरं; परावरं वरदमजय्यविक्रमम् ||१४|| एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा | तेजसः प्रतिसंहारमात्मनः स चकार ह ||१५||

    २१ सूत उवाच|| ततः कामगमः पक्षी महावीर्यो महाबलः | मातुरन्तिकमागच्छत्परं तीरं महोदधेः ||१|| यत्र सा विनता तस्मिन्पणितेन पराजिता | अतीव दुःखसन्तप्ता दासीभावमुपागता ||२|| ततः कदाचिद्विनतां प्रवणां पुत्रसंनिधौ | काल आहूय वचनं कद्रूरिदमभाषत ||३|| नागानामालयं भद्रे सुरम्यं रमणीयकम् | समुद्रकुक्षावेकान्ते तत्र मां विनते वह ||४|| ततः सुपर्णमाता तामवहत्सर्पमातरम् | पन्नगान्गरुडश्चापि मातुर्वचनचोदितः ||५|| स सूर्यस्याभितो याति वैनतेयो विहङ्गमः | सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाभवन् ||६|| तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् ||६|| नमस्ते देवदेवेश नमस्ते बलसूदन | नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ||७|| सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव | त्वमेव परमं त्राणमस्माकममरोत्तम ||८|| ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरंदर | त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे ||९|| त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम् | त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ||१०|| स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः | त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः ||११|| त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः | त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ||१२|| त्वं सर्वममृतं देव त्वं सोमः परमार्चितः | त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः ||१३|| शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा | संवत्सरर्तवो मासा रजन्यश्च दिनानि च ||१४|| त्वमुत्तमा सगिरिवना वसुन्धरा; सभास्करं वितिमिरमम्बरं तथा | महोदधिः सतिमितिमिङ्गिलस्तथा; महोर्मिमान्बहुमकरो झषालयः ||१५|| महद्यशस्त्वमिति सदाभिपूज्यसे; मनीषिभिर्मुदितमना महर्षिभिः | अभिष्टुतः पिबसि च सोममध्वरे; वषट्कृतान्यपि च हवींषि भूतये ||१६|| त्वं विप्रैः सततमिहेज्यसे फलार्थं; वेदाङ्गेष्वतुलबलौघ गीयसे च | त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्यभिगमयन्ति सर्ववेदैः ||१७||

    २२ सूत उवाच|| एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः | नीलजीमूतसङ्घातैर्व्योम सर्वं समावृणोत् ||१|| ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः | परस्परमिवात्यर्थं गर्जन्तः सततं दिवि ||२|| सङ्घातितमिवाकाशं जलदैः सुमहाद्भुतैः | सृजद्भिरतुलं तोयमजस्रं सुमहारवैः ||३|| सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः | मेघस्तनितनिर्घोषमम्बरं समपद्यत ||४|| नागानामुत्तमो हर्शस्तदा वर्षति वासवे | आपूर्यत मही चापि सलिलेन समन्ततः ||५||

    २३ सूत उवाच|| सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै | सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम् ||१|| विचित्रफलपुष्पाभिर्वनराजिभिरावृतम् | भवनैरावृतं रम्यैस्तथा पद्माकरैरपि ||२|| प्रसन्नसलिलैश्चापि ह्रदैश्चित्रैर्विभूषितम् | दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् ||३|| उपजिघ्रद्भिराकाशं वृक्षैर्मलयजैरपि | शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धुतैः ||४|| किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः | मनःसंहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम् ||५|| नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् ||५|| तत्ते वनं समासाद्य विजह्रुः पन्नगा मुदा | अब्रुवंश्च महावीर्यं सुपर्णं पतगोत्तमम् ||६|| वहास्मानपरं द्वीपं सुरम्यं विपुलोदकम् | त्वं हि देशान्बहून्रम्यान्पतन्पश्यसि खेचर ||७|| स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा | किं कारणं मया मातः कर्तव्यं सर्पभाषितम् ||८|| विनतोवाच|| दासीभूतास्म्यनार्याया भगिन्याः पतगोत्तम | पणं वितथमास्थाय सर्पैरुपधिना कृतम् ||९|| सूत उवाच|| तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः | उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः ||१०|| किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् | दास्याद्वो विप्रमुच्येयं सत्यं शंसत लेलिहाः ||११|| श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा | ततो दास्याद्विप्रमोक्षो भविता तव खेचर ||१२||

    २४ सूत उवाच|| इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् | गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् ||१|| विनतोवाच|| समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् | सहस्राणामनेकानां तान्भुक्त्वामृतमानय ||२|| न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन | अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः ||३|| अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः | भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः ||४|| गरुड उवाच|| यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः | तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि ||५|| विनतोवाच|| यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा | दहेदङ्गारवत्पुत्र तं विद्याद्बाह्मणर्षभम् ||६|| सूत उवाच|| प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः | जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम् ||७|| पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक | शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु ||८|| अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा | अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये ||९|| ततः स मातुर्वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात | ततो निषादान्बलवानुपागम; द्बुभुक्षितः काल इवान्तको महान् ||१०|| स तान्निषादानुपसंहरंस्तदा; रजः समुद्धूय नभःस्पृशं महत् | समुद्रकुक्षौ च विशोषयन्पयः; समीपगान्भूमिधरान्विचालयन् ||११|| ततः स चक्रे महदाननं तदा; निषादमार्गं प्रतिरुध्य पक्षिराट् | ततो निषादास्त्वरिताः प्रवव्रजु; र्यतो मुखं तस्य भुजङ्गभोजिनः ||१२|| तदाननं विवृतमतिप्रमाणव; त्समभ्ययुर्गगनमिवार्दिताः खगाः | सहस्रशः पवनरजोभ्रमोहिता; महानिलप्रचलितपादपे वने ||१३|| ततः खगो वदनममित्रतापनः; समाहरत्परिचपलो महाबलः | निषूदयन्बहुविधमत्स्यभक्षिणो; बुभुक्षितो गगनचरेश्वरस्तदा ||१४||

    २५ सूत उवाच|| तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया | दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः ||१|| द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् | न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा ||२|| ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत | निषादी मम भार्येयं निर्गच्छतु मया सह ||३|| गरुड उवाच|| एतामपि निषादीं त्वं परिगृह्याशु निष्पत | तूर्णं सम्भावयात्मानमजीर्णं मम तेजसा ||४|| सूत उवाच|| ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा | वर्धयित्वा च गरुडमिष्टं देशं जगाम ह ||५|| सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् | वितत्य पक्षावाकाशमुत्पपात मनोजवः ||६|| ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः | अहं हि सर्पैः प्रहितः सोममाहर्तुमुद्यतः ||७|| मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै ||७|| मात्रा चास्मि समादिष्टो निषादान्भक्षयेति वै | न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः ||८|| तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे | यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो ||९|| कश्यप उवाच|| आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् | भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः ||१०|| स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः | विभागं कीर्तयत्येव सुप्रतीकोऽथ नित्यशः ||११|| अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः | विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा ||१२|| ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः ||१२|| ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः | विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः ||१३|| विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ | भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते ||१४|| तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः | गुरुशास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम् ||१५|| नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि | यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि ||१६|| शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् | त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि ||१७|| एवमन्योन्यशापात्तौ सुप्रतीकविभावसू | गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ ||१८|| रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि | परस्परद्वेषरतौ प्रमाणबलदर्पितौ ||१९|| सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ | तयोरेकतरः श्रीमान्समुपैति महागजः ||२०|| तस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः | उत्थितोऽसौ महाकायः कृत्स्नं सङ्क्षोभयन्सरः ||२१|| तं दृष्ट्वावेष्टितकरः पतत्येष गजो जलम् | दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् ||२२|| तं विक्षोभयमाणं तु सरो बहुझषाकुलम् | कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् ||२३|| षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः | कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः ||२४|| तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ | उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः ||२५|| सूत उवाच|| स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः | नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् ||२६|| समुत्पपात चाकाशं तत उच्चैर्विहङ्गमः | सोऽलम्बतीर्थमासाद्य देववृक्षानुपागमत् ||२७|| ते भीताः समकम्पन्त तस्य पक्षानिलाहताः | न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः ||२८|| प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलाङ्कुरान् | अन्यानतुलरूपाङ्गानुपचक्राम खेचरः ||२९|| काञ्चनै राजतैश्चैव फलैर्वैडूर्यशाखिनः | सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् ||३०|| तमुवाच खगश्रेष्ठं तत्र रोहिणपादपः | अतिप्रवृद्धः सुमहानापतन्तं मनोजवम् ||३१|| यैषा मम महाशाखा शतयोजनमायता | एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ ||३२|| ततो द्रुमं पतगसहस्रसेवितं; महीधरप्रतिमवपुः प्रकम्पयन् | खगोत्तमो द्रुतमभिपत्य वेगवा; न्बभञ्ज तामविरलपत्रसंवृताम् ||३३||

    २६ सूत उवाच|| स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा | अभज्यत तरोः शाखा भग्नां चैनामधारयत् ||१|| तां भग्नां स महाशाखां स्मयन्समवलोकयन् | अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् ||२|| स तद्विनाशसन्त्रासादनुपत्य खगाधिपः | शाखामास्येन जग्राह तेषामेवान्ववेक्षया ||३|| शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् ||३|| एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः | दयार्थं वालखिल्यानां न च स्थानमविन्दत ||४|| स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम् | ददर्श कश्यपं तत्र पितरं तपसि स्थितम् ||५|| ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम् | तेजोवीर्यबलोपेतं मनोमारुतरंहसम् ||६|| शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् | अचिन्त्यमनभिज्ञेयं सर्वभूतभयङ्करम् ||७|| मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम् | अप्रधृष्यमजेयं च देवदानवराक्षसैः ||८|| भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम् | लोकसंलोडनं घोरं कृतान्तसमदर्शनम् ||९|| तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा | विदित्वा चास्य सङ्कल्पमिदं वचनमब्रवीत् ||१०|| पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् | मा त्वा दहेयुः सङ्क्रुद्धा वालखिल्या मरीचिपाः ||११|| प्रसादयामास स तान्कश्यपः पुत्रकारणात् | वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् ||१२|| प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः | चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ ||१३|| एवमुक्ता भगवता मुनयस्ते समभ्ययुः | मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः ||१४|| ततस्तेष्वपयातेषु पितरं विनतात्मजः | शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् ||१५|| भगवन्क्व विमुञ्चामि तरुशाखामिमामहम् | वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम ||१६|| ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम् | अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः ||१७|| तं पर्वतमहाकुक्षिमाविश्य मनसा खगः | जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः ||१८|| न तां वध्रः परिणहेच्छतचर्मा महानणुः | शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः ||१९|| ततः स शतसाहस्रं योजनान्तरमागतः | कालेन नातिमहता गरुडः पततां वरः ||२०|| स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः | अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः ||२१|| पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् | मुमोच पुष्पवर्षं च समागलितपादपः ||२२|| शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः | मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् ||२३|| शाखिनो बहवश्चापि शाखयाभिहतास्तया | काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ||२४|| ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः | व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः ||२५|| ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः | भक्षयामास गरुडस्तावुभौ गजकच्छपौ ||२६|| ततः पर्वतकूटाग्रादुत्पपात मनोजवः | प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः ||२७|| इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम् | सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता ||२८|| तथा वसूनां रुद्राणामादित्यानां च सर्वशः | साध्यानां मरुतां चैव ये चान्ये देवतागणाः ||२९|| स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् ||२९|| अभूतपूर्वं सङ्ग्रामे तदा देवासुरेऽपि च | ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः ||३०|| निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम् | देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा ||३१|| मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि | उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु ||३२|| रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् ||३२|| ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः | उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् ||३३|| किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः | न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् ||३४|| बृहस्पतिरुवाच|| तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो | तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् ||३५|| कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः | हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् ||३६|| समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहङ्गमः | सर्वं सम्भावयाम्यस्मिन्नसाध्यमपि साधयेत् ||३७|| सूत उवाच|| श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः | महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः ||३८|| युष्मान्सम्बोधयाम्येष यथा स न हरेद्बलात् | अतुलं हि बलं तस्य बृहस्पतिरुवाच मे ||३९|| तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः | परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः ||४०|| धारयन्तो महार्हाणि कवचानि मनस्विनः | काञ्चनानि विचित्राणि वैडूर्यविकृतानि च ||४१|| विविधानि च शस्त्राणि घोररूपाण्यनेकशः | शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः ||४२|| सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः | चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान् ||४३|| शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् | स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः ||४४|| तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः | भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः ||४५|| अनुपमबलवीर्यतेजसो; धृतमनसः परिरक्षणेऽमृतस्य | असुरपुरविदारणाः सुरा; ज्वलनसमिद्धवपुःप्रकाशिनः ||४६|| इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम् | विगलितमिव चाम्बरान्तरे; तपनमरीचिविभासितं बभौ ||४७||

    २७ शौनक उवाच|| कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज | तपसा वालखिल्यानां सम्भूतो गरुडः कथम् ||१|| कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः | अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम् ||२|| कथं च कामचारी स कामवीर्यश्च खेचरः | एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते ||३|| सूत उवाच|| विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि | शृणु मे वदतः सर्वमेतत्सङ्क्षेपतो द्विज ||४|| यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः | साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल ||५|| तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह | मुनयो वालखिल्याश्च ये चान्ये देवतागणाः ||६|| शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम् | समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः ||७|| अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरपर्वणः | पलाशवृन्तिकामेकां सहितान्वहतः पथि ||८|| प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् | क्लिश्यमानान्मन्दबलान्गोष्पदे सम्प्लुतोदके ||९|| तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरंदरः | अवहस्यात्यगाच्छीघ्रं लङ्घयित्वावमन्य च ||१०|| तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः | आरेभिरे महत्कर्म तदा शक्रभयङ्करम् ||११|| जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् | मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु ||१२|| कामवीर्यः कामगमो देवराजभयप्रदः | इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः ||१३|| इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः | तपसो नः फलेनाद्य दारुणः सम्भवत्विति ||१४|| तद्बुद्ध्वा भृशसन्तप्तो देवराजः शतक्रतुः | जगाम शरणं तत्र कश्यपं संशितव्रतम् ||१५|| तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः | वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत ||१६|| एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः | तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः ||१७|| अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः | इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः ||१८|| न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः | भवतां च न मिथ्यायं सङ्कल्पो मे चिकीर्षितः ||१९|| भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् | प्रसादः क्रियतां चैव देवराजस्य याचतः ||२०|| एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः | प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजापतिम् ||२१|| इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते | अपत्यार्थं समारम्भो भवतश्चायमीप्सितः ||२२|| तदिदं सफलं कर्म त्वया वै प्रतिगृह्यताम् | तथा चैव विधत्स्वात्र यथा श्रेयोऽनुपश्यसि ||२३|| एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा | विनता नाम कल्याणी पुत्रकामा यशस्विनी ||२४|| तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः | उपचक्राम भर्तारं तामुवाचाथ कश्यपः ||२५|| आरम्भः सफलो देवि भवितायं तवेप्सितः | जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ||२६|| तपसा वालखिल्यानां मम सङ्कल्पजौ तथा | भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ ||२७|| उवाच चैनां भगवान्मारीचः पुनरेव ह | धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः ||२८|| एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति | लोकसम्भावितो वीरः कामवीर्यो विहङ्गमः ||२९|| शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः | त्वत्सहायौ खगावेतौ भ्रातरौ ते भविष्यतः ||३०|| नैताभ्यां भविता दोषः सकाशात्ते पुरंदर | व्येतु ते शक्र सन्तापस्त्वमेवेन्द्रो भविष्यसि ||३१|| न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः | न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः ||३२|| एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् | विनता चापि सिद्धार्था बभूव मुदिता तदा ||३३|| जनयामास पुत्रौ द्वावरुणं गरुडं तथा | अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः ||३४|| पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत | तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन ||३५||

    २८ सूत उवाच|| ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे | गरुत्मान्पक्षिराट्तूर्णं सम्प्राप्तो विबुधान्प्रति ||१|| तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः | परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि ||२|| तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः | भौवनः सुमहावीर्यः सोमस्य परिरक्षिता ||३|| स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः | मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि ||४|| रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः | कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् ||५|| तेनावकीर्णा रजसा देवा मोहमुपागमन् | न चैनं ददृशुश्छन्ना रजसामृतरक्षिणः ||६|| एवं संलोडयामास गरुडस्त्रिदिवालयम् | पक्षतुण्डप्रहारैश्च देवान्स विददार ह ||७|| ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् | विक्षिपेमां रजोवृष्टिं तवैतत्कर्म मारुत ||८|| अथ वायुरपोवाह तद्रजस्तरसा बली | ततो वितिमिरे जाते देवाः शकुनिमार्दयन् ||९|| ननाद चोच्चैर्बलवान्महामेघरवः खगः | वध्यमानः सुरगणैः सर्वभूतानि भीषयन् ||१०|| उत्पपात महावीर्यः पक्षिराट्परवीरहा ||१०|| तमुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम् | वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् ||११|| पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः | क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः ||१२|| नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः | कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत ||१३|| विनर्दन्निव चाकाशे वैनतेयः प्रतापवान् | पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान् ||१४|| ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः | नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु ||१५|| साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् | प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः ||१६|| दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम् | मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम् ||१७|| अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा | क्रथनेन च शूरेण तपनेन च खेचरः ||१८|| उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा | प्ररुजेन च संयुद्धं चकार प्रलिहेन च ||१९|| तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः | युगान्तकाले सङ्क्रुद्धः पिनाकीव महाबलः ||२०|| महावीर्या महोत्साहास्तेन ते बहुधा क्षताः | रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः ||२१|| तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् | अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत ||२२|| आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् | दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम् ||२३|| ततो नवत्या नवतीर्मुखानां; कृत्वा तरस्वी गरुडो महात्मा | नदीः समापीय मुखैस्ततस्तैः; सुशीघ्रमागम्य पुनर्जवेन ||२४|| ज्वलन्तमग्निं तममित्रतापनः; समास्तरत्पत्ररथो नदीभिः | ततः प्रचक्रे वपुरन्यदल्पं; प्रवेष्टुकामोऽग्निमभिप्रशाम्य ||२५||

    २९ सूत उवाच|| जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः | प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् ||१|| स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके | परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् ||२|| ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् | घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् ||३|| तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः | अरान्तरेणाभ्यपतत्सङ्क्षिप्याङ्गं क्षणेन ह ||४|| अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती | विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ ||५|| चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ | रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ ||६|| सदा संरब्धनयनौ सदा चानिमिषेक्षणौ | तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् ||७|| तयोश्चक्षूंषि रजसा सुपर्णस्तूर्णमावृणोत् | अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत् ||८|| तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः | आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ||९|| समुत्पाट्यामृतं तत्तु वैनतेयस्ततो बली | उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् ||१०|| अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान् | अगच्छदपरिश्रान्त आवार्यार्कप्रभां खगः ||११|| विष्णुना तु तदाकाशे वैनतेयः समेयिवान् | तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा ||१२|| तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् | स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः ||१३|| उवाच चैनं भूयोऽपि नारायणमिदं वचः | अजरश्चामरश्च स्याममृतेन विनाप्यहम् ||१४|| प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् | भवतेऽपि वरं दद्मि वृणीतां भगवानपि ||१५|| तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम् | ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् ||१६|| अनुपत्य खगं त्विन्द्रो वज्रेणाङ्गेऽभ्यताडयत् | विहङ्गमं सुरामित्रं हरन्तममृतं बलात् ||१७|| तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः | प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः ||१८|| ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम् | वज्रस्य च करिष्यामि तव चैव शतक्रतो ||१९|| एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे | न हि वज्रनिपातेन रुजा मेऽस्ति कदाचन ||२०|| तत्र तं सर्वभूतानि विस्मितान्यब्रुवंस्तदा | सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति ||२१|| दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरंदरः | खगो महदिदं भूतमिति मत्वाभ्यभाषत ||२२|| बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् | सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम ||२३||

    ३० गरुड उवाच|| सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर | बलं तु मम जानीहि महच्चासह्यमेव च ||१|| कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् | गुणसङ्कीर्तनं चापि स्वयमेव शतक्रतो ||२|| सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया | न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः ||३|| सपर्वतवनामुर्वीं ससागरवनामिमाम् | पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् ||४|| सर्वान्सम्पिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् | वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् ||५|| सूत उवाच|| इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः | आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः ||६|| प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम् | न कार्यं तव सोमेन मम सोमः प्रदीयताम् ||७|| अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् ||७|| गरुड उवाच|| किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया | न दास्यामि समादातुं सोमं कस्मैचिदप्यहम् ||८|| यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् | त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर ||९|| शक्र उवाच|| वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज | यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम ||१०|| सूत उवाच|| इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् | स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः ||११|| ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् | भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ||१२|| तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः | हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् ||१३|| आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम् | अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् ||१४|| इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः | स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः ||१५|| अदासी चैव मातेयमद्यप्रभृति चास्तु मे | यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् ||१६|| ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत | शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः ||१७|| अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा | स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः ||१८|| तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् | सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा ||१९|| ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा | अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः ||२०|| ततः सुपर्णः परमप्रहृष्टवा; न्विहृत्य मात्रा सह तत्र कानने | भुजङ्गभक्षः परमार्चितः खगै; रहीनकीर्तिर्विनतामनन्दयत् ||२१|| इमां कथां यः शृणुयान्नरः सदा; पठेत वा द्विजजनमुख्यसंसदि | असंशयं त्रिदिवमियात्स पुण्यभा; ङ्महात्मनः पतगपतेः प्रकीर्तनात् ||२२||

    ३१ शौनक उवाच|| भुजङ्गमानां शापस्य मात्रा चैव सुतेन च | विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ||१|| वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा | नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ||२|| पन्नगानां तु नामानि न कीर्तयसि सूतज | प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ||३|| सूत उवाच|| बहुत्वान्नामधेयानि भुजगानां तपोधन | न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ||४|| शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् | ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ ||५|| कालियो मणिनागश्च नागश्चापूरणस्तथा | नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ||६|| नीलानीलौ तथा नागौ कल्माषशबलौ तथा | आर्यकश्चादिकश्चैव नागश्च शलपोतकः ||७|| सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः | आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा ||८|| निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा | बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः ||९|| कम्बलाश्वतरौ चापि नागः कालीयकस्तथा | वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ ||१०|| नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः | क्षेमकश्च महानागो नागः पिण्डारकस्तथा ||११|| करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः | मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः ||१२|| अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा | कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा ||१३|| विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् | हस्तिभद्रः पिठरको मुखरः कोणवासनः ||१४|| कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः | कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा ||१५|| कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ ||१५|| एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम | बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः ||१६|| एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः | असङ्ख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम ||१७|| बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च | अशक्यान्येव सङ्ख्यातुं भुजगानां तपोधन ||१८||

    ३२ शौनक उवाच|| जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः | शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् ||१|| सूत उवाच|| तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः | तपो विपुलमातस्थे वायुभक्षो यतव्रतः ||२|| गन्धमादनमासाद्य बदर्यां च तपोरतः | गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ||३|| तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च | एकान्तशीली नियतः सततं विजितेन्द्रियः ||४|| तप्यमानं तपो घोरं तं ददर्श पितामहः | परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् ||५|| तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः | किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ||६|| त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ | ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम् ||७|| शेष उवाच|| सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः | सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ||८|| अभ्यसूयन्ति सततं परस्परममित्रवत् | ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत ||९|| न मर्षयन्ति सततं विनतां ससुतां च ते | अस्माकं चापरो भ्राता वैनतेयः पितामह ||१०|| तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः | वरप्रदानात्स पितुः कश्यपस्य महात्मनः ||११|| सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् | कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः ||१२|| ब्रह्मोवाच|| जानामि शेष सर्वेषां भ्रातृणां ते विचेष्टितम् | मातुश्चाप्यपराधाद्वै भ्रातृणां ते महद्भयम् ||१३|| कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम | भ्रातृणां तव सर्वेषां न शोकं कर्तुमर्हसि ||१४|| वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम् | दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि ||१५|| दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम | अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा ||१६|| शेष उवाच|| एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह | धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ||१७|| ब्रह्मोवाच|| प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च | त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ||१८|| इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां च | त्वं शेष सम्यक्चलितां यथाव; त्सङ्गृह्य तिष्ठस्व यथाचला स्यात् ||१९|| शेष उवाच|| यथाह देवो वरदः प्रजापति; र्महीपतिर्भूतपतिर्जगत्पतिः | तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते ||२०|| ब्रह्मोवाच|| अधो महीं गच्छ भुजङ्गमोत्तम; स्वयं तवैषा विवरं प्रदास्यति | इमां धरां धारयता त्वया हि मे; महत्प्रियं शेष कृतं भविष्यति ||२१|| सूत उवाच|| तथेति कृत्वा विवरं प्रविश्य स; प्रभुर्भुवो भुजगवराग्रजः स्थितः | बिभर्ति देवीं शिरसा महीमिमां; समुद्रनेमिं परिगृह्य सर्वतः ||२२|| ब्रह्मोवाच|| शेषोऽसि नागोत्तम धर्मदेवो; महीमिमां धारयसे यदेकः | अनन्तभोगः परिगृह्य सर्वां; यथाहमेवं बलभिद्यथा वा ||२३|| सूत उवाच|| अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान् | धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः ||२४|| सुपर्णं च सखायं वै भगवानमरोत्तमः | प्रादादनन्ताय तदा वैनतेयं पितामहः ||२५||

    ३३ सूत उवाच|| मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः | वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् ||१|| ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः | ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः ||२|| वासुकिरुवाच|| अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः | तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे ||३|| सर्वेषामेव शापानां प्रतिघातो हि विद्यते | न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः ||४|| अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः | शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः ||५|| नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः | न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत् ||६|| तस्मात्संमन्त्रयामोऽत्र भुजगानामनामयम् | यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम् ||७|| अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे | यथा नष्टं पुरा देवा गूढमग्निं गुहागतम् ||८|| यथा स यज्ञो न भवेद्यथा वापि पराभवेत् | जनमेजयस्य सर्पाणां विनाशकरणाय हि ||९|| सूत उवाच|| तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः | समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः ||१०|| एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः | जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति ||११|| अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः | मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः ||१२|| स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् | तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते ||१३|| स नो बहुमतान्राजा बुद्ध्वा बुद्धिमतां वरः | यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् ||१४|| दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान् | हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः ||१५|| अथवा य उपाध्यायः क्रतौ तस्मिन्भविष्यति | सर्पसत्रविधानज्ञो राजकार्यहिते रतः ||१६|| तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति | तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति ||१७|| ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः | तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति ||१८|| तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजङ्गमाः | अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना ||१९|| सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा | अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् ||२०|| अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम् | वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः ||२१|| स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः | प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति ||२२|| यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः | जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति ||२३|| अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः | स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना ||२४|| अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे | यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति ||२५|| वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम् ||२५|| अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम् | गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः ||२६|| अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः | दशामैनं प्रगृह्याशु कृतमेवं भविष्यति ||२७|| छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति ||२७|| एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव संमता | यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम् ||२८|| इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम् | वासुकिश्चापि सञ्चिन्त्य तानुवाच भुजङ्गमान् ||२९|| नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः | सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते ||३०|| किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम् | अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ ||३१||

    ३४ सूत उवाच|| श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च | वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् ||१|| न स यज्ञो न भविता न स राजा तथाविधः | जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम् ||२|| दैवेनोपहतो राजन्यो भवेदिह पूरुषः | स दैवमेवाश्रयते नान्यत्तत्र परायणम् ||३|| तदिदं दैवमस्माकं भयं पन्नगसत्तमाः | दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम ||४|| अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा | मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः ||५|| देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो | पितामहमुपागम्य दुःखार्तानां महाद्युते ||६|| देवा ऊचुः|| का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह | ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ||७|| तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह | एतदिच्छाम विज्ञातुं कारणं यन्न वारिता ||८|| ब्रह्मोवाच|| बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः | प्रजानां हितकामोऽहं न निवारितवांस्तदा ||९|| ये दन्दशूकाः क्षुद्राश्च पापचारा विषोल्बणाः | तेषां विनाशो भविता न तु ये धर्मचारिणः ||१०|| यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् | पन्नगानां निबोधध्वं तस्मिन्काले तथागते ||११|| यायावरकुले धीमान्भविष्यति महानृषिः | जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः ||१२|| तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः | आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा ||१३|| तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ||१३|| देवा ऊचुः|| स मुनिप्रवरो देव जरत्कारुर्महातपाः | कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् ||१४|| ब्रह्मोवाच|| सनामायां सनामा स कन्यायां द्विजसत्तमः | अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति ||१५|| एलापत्र उवाच|| एवमस्त्विति तं देवाः पितामहमथाब्रुवन् | उक्त्वा चैवं गता देवाः स च देवः पितामहः ||१६|| सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव | जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय ||१७|| भैक्षवद्भिक्षमाणाय नागानां भयशान्तये | ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया ||१८||

    ३५ सूत उवाच|| एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम | सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन् ||१|| ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत | जरत्कारुं स्वसारं वै परं हर्षमवाप च ||२|| ततो नातिमहान्कालः समतीत इवाभवत् | अथ देवासुराः सर्वे ममन्थुर्वरुणालयम् ||३|| तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः | समाप्यैव च तत्कर्म पितामहमुपागमन् ||४|| देवा वासुकिना सार्धं पितामहमथाब्रुवन् | भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् ||५|| तस्येदं मानसं शल्यं समुद्धर्तुं त्वमर्हसि | जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः ||६|| हितो ह्ययं सदास्माकं प्रियकारी च नागराट् | कुरु प्रसादं देवेश शमयास्य मनोज्वरम् ||७|| ब्रह्मोवाच|| मयैवैतद्वितीर्णं वै वचनं मनसामराः | एलापत्रेण नागेन यदस्याभिहितं पुरा ||८|| तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचस्तथा | विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः ||९|| उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः | तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु ||१०|| यदेलापत्रेण वचस्तदोक्तं भुजगेन ह | पन्नगानां हितं देवास्तत्तथा न तदन्यथा ||११|| सूत उवाच|| एतच्छ्रुत्वा स नागेन्द्रः पितामहवचस्तदा | सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत् ||१२|| जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः | शीघ्रमेत्य ममाख्येयं तन्नः श्रेयो भविष्यति ||१३||

    ३६ शौनक उवाच|| जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन | इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः ||१|| किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि | जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि ||२|| सूत उवाच|| जरेति क्षयमाहुर्वै दारुणं कारुसञ्ज्ञितम् | शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः ||३|| क्षपयामास तीव्रेण तपसेत्यत उच्यते | जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा ||४|| एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा | उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ||५|| सूत उवाच|| अथ कालस्य महतः स मुनिः संशितव्रतः | तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत ||६|| स ऊर्ध्वरेतास्तपसि प्रसक्तः; स्वाध्यायवान्वीतभयक्लमः सन् | चचार सर्वां पृथिवीं महात्मा; न चापि दारान्मनसाप्यकाङ्क्षत् ||७|| ततोऽपरस्मिन्सम्प्राप्ते काले कस्मिंश्चिदेव तु | परिक्षिदिति विख्यातो राजा कौरववंशभृत् ||८|| यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि | बभूव मृगयाशीलः पुरास्य प्रपितामहः ||९|| मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा | अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः ||१०|| स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणा | पृष्ठतो धनुरादाय ससार गहने वने ||११|| यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि | अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः ||१२|| न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् | पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति ||१३|| परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः ||१३|| दूरं चापहृतस्तेन मृगेण स महीपतिः | परिश्रान्तः पिपासार्त आससाद मुनिं वने ||१४|| गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् | भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः ||१५|| तमभिद्रुत्य वेगेन स राजा संशितव्रतम् | अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः ||१६|| भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः | मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि ||१७|| स मुनिस्तस्य नोवाच किञ्चिन्मौनव्रते स्थितः | तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् ||१८|| धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत | न च किञ्चिदुवाचैनं शुभं वा यदि वाशुभम् ||१९|| स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् | दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः ||२०|| तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः | शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः ||२१|| स देवं परमीशानं सर्वभूतहिते रतम् | ब्रह्माणमुपतस्थे वै काले काले सुसंयतः ||२२|| स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ||२२|| सख्योक्तः क्रीडमानेन स तत्र हसता किल | संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः ||२३|| ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम ||२३|| तेजस्विनस्तव पिता तथैव च तपस्विनः | शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ||२४|| व्याहरत्स्वृषिपुत्रेषु मा स्म किञ्चिद्वचो वदीः | अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ||२५|| क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः | दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा ||२६||

    ३७ सूत उवाच|| एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः | मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना ||१|| स तं कृशमभिप्रेष्क्य सूनृतां वाचमुत्सृजन् | अपृच्छत कथं तातः स मेऽद्य मृतधारकः ||२|| कृश उवाच|| राज्ञा परिक्षिता तात मृगयां परिधावता | अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः ||३|| शृङ्ग्युवाच|| किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः | ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् ||४|| कृश उवाच|| स राजा मृगयां यातः परिक्षिदभिमन्युजः | ससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा ||५|| न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने | पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् ||६|| तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः | पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव ||७|| स च मौनव्रतोपेतो नैव तं प्रत्यभाषत | तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् ||८|| शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतः | सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् ||९|| सूत उवाच|| श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः | कोपसंरक्तनयनः प्रज्वलन्निव मन्युना ||१०|| आविष्टः स तु कोपेन शशाप नृपतिं तदा | वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः ||११|| शृङ्ग्युवाच|| योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च | स्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी ||१२|| तं पापमतिसङ्क्रुद्धस्तक्षकः पन्नगोत्तमः | आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ||१३|| सप्तरात्रादितो नेता यमस्य सदनं प्रति | द्विजानामवमन्तारं कुरूणामयशस्करम् ||१४|| सूत उवाच|| इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात् | आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम् ||१५|| स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै | शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः ||१६|| दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् | श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना ||१७|| राज्ञा परिक्षिता कोपादशपं तमहं नृपम् | यथार्हति स एवोग्रं शापं कुरुकुलाधमः ||१८|| सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः | वैवस्वतस्य भवनं नेता परमदारुणम् ||१९|| तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम् | न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् ||२०|| वयं तस्य नरेन्द्रस्य विषये निवसामहे | न्यायतो रक्षितास्तेन तस्य पापं न रोचये ||२१|| सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा | क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः ||२२|| यदि राजा न रक्षेत पीडा वै नः परा भवेत् | न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् ||२३|| रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः | चरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः ||२४|| परिक्षित्तु विशेषेण यथास्य प्रपितामहः | रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा ||२५|| तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना | अजानता व्रतमिदं कृतमेतदसंशयम् ||२६|| तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् | न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा ||२७||

    ३८ शृङ्ग्युवाच|| यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् | प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा मया ||१|| नैवान्यथेदं भविता पितरेष ब्रवीमि ते | नाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन् ||२|| शमीक उवाच|| जानाम्युग्रप्रभावं त्वां पुत्र सत्यगिरं तथा | नानृतं ह्युक्तपूर्वं ते नैतन्मिथ्या भविष्यति ||३|| पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु | यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः ||४|| किं पुनर्बाल एव त्वं तपसा भावितः प्रभो | वर्धते च प्रभवतां कोपोऽतीव महात्मनाम् ||५|| सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर | पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् ||६|| स त्वं शमयुतो भूत्वा वन्यमाहारमाहरन् | चर क्रोधमिमं त्यक्त्वा नैवं धर्मं प्रहास्यसि ||७|| क्रोधो हि धर्मं हरति यतीनां दुःखसञ्चितम् | ततो धर्मविहीनानां गतिरिष्टा न विद्यते ||८|| शम एव यतीनां हि क्षमिणां सिद्धिकारकः | क्षमावतामयं लोकः परश्चैव क्षमावताम् ||९|| तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः | क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् ||१०|| मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै | तत्करिष्येऽद्य ताताहं प्रेषयिष्ये नृपाय वै ||११|| मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना | ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा ||१२|| सूत उवाच|| एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः | परिक्षिते नृपतये दयापन्नो महातपाः ||१३|| संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च | शिष्यं गौरमुखं नाम शीलवन्तं समाहितम् ||१४|| सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् | विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः ||१५|| पूजितश्च नरेन्द्रेण द्विजो गौरमुखस्ततः | आचख्यौ परिविश्रान्तो राज्ञे सर्वमशेषतः ||१६|| शमीकवचनं घोरं यथोक्तं मन्त्रिसंनिधौ ||१६|| शमीको नाम राजेन्द्र विषये वर्तते तव | ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः ||१७|| तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः | अवसक्तो धनुष्कोट्या स्कन्धे भरतसत्तम ||१८|| क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे ||१८|| तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै | तक्षकः सप्तरात्रेण मृत्युस्ते वै भविष्यति ||१९|| तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् | तदन्यथा न शक्यं च कर्तुं केनचिदप्युत ||२०|| न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् | ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना ||२१|| इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः | पर्यतप्यत तत्पापं कृत्वा राजा महातपाः ||२२|| तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदा | भूय एवाभवद्राजा शोकसन्तप्तमानसः ||२३|| अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु | पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः ||२४|| न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत | अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् ||२५|| ततस्तं प्रेषयामास राजा गौरमुखं तदा | भूयः प्रसादं भगवान्करोत्विति ममेति वै ||२६|| तस्मिंश्च गतमात्रे वै राजा गौरमुखे तदा | मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः ||२७|| निश्चित्य मन्त्रिभिश्चैव सहितो मन्त्रतत्त्ववित् | प्रासादं कारयामास एकस्तम्भं सुरक्षितम् ||२८|| रक्षां च विदधे तत्र भिषजश्चौषधानि च | ब्राह्मणान्सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत् ||२९|| राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः | मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः ||३०|| प्राप्ते तु दिवसे तस्मिन्सप्तमे द्विजसत्तम | काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् ||३१|| श्रुतं हि तेन तदभूदद्य तं राजसत्तमम् | तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् ||३२|| तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् | तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् ||३३|| तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि | गच्छन्तमेकमनसं द्विजो भूत्वा वयोतिगः ||३४|| तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुङ्गवम् | क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ||३५|| काश्यप उवाच|| नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम् | तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति ||३६|| तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा | पाण्डवानां कुलकरं राजानममितौजसम् ||३७|| गच्छामि सौम्य त्वरितं सद्यः कर्तुमपज्वरम् ||३७|| तक्षक उवाच|| अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम् | निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ||३८|| काश्यप उवाच|| अहं तं नृपतिं नाग त्वया दष्टमपज्वरम् | करिष्य इति मे बुद्धिर्विद्याबलमुपाश्रितः ||३९||

    ३९ तक्षक उवाच|| दष्टं यदि मयेह त्वं शक्तः किञ्चिच्चिकित्सितुम् | ततो वृक्षं मया दष्टमिमं जीवय काश्यप ||१|| परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च | न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ||२|| काश्यप उवाच|| दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे | अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गम ||३|| सूत उवाच|| एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना | अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ||४|| स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते | आशीविषविषोपेतः प्रजज्वाल समन्ततः ||५|| तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् | कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् ||६|| भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा | भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ||७|| विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ | अहं सञ्जीवयाम्येनं पश्यतस्ते भुजङ्गम ||८|| ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः | भस्मराशीकृतं वृक्षं विद्यया समजीवयत् ||९|| अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम् | पलाशिनं शाखिनं च तथा विटपिनं पुनः ||१०|| तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना | उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि ||११|| विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा | कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन ||१२|| यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात् | अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् ||१३|| विप्रशापाभिभूते च क्षीणायुषि नराधिपे | घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ||१४|| ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् | विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् ||१५|| काश्यप उवाच|| धनार्थी याम्यहं तत्र तन्मे दित्स भुजङ्गम | ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम ||१६|| तक्षक उवाच|| यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् | अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम ||१७|| सूत उवाच|| तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः | प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् ||१८|| दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा | क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः ||१९|| लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् ||१९|| निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि | जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् ||२०|| अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् | मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः ||२१|| स चिन्तयामास तदा मायायोगेन पार्थिवः | मया वञ्चयितव्योऽसौ क उपायो भवेदिति ||२२|| ततस्तापसरूपेण प्राहिणोत्स भुजङ्गमान् | फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः ||२३|| तक्षक उवाच|| गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया | फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् ||२४|| सूत उवाच|| ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः | उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च ||२५|| तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् | कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् ||२६|| गतेषु तेषु नागेषु तापसच्छद्मरूपिषु | अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ||२७|| भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः | तापसैरुपनीतानि फलानि सहिता मया ||२८|| ततो राजा ससचिवः फलान्यादातुमैच्छत | यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः ||२९|| ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक ||२९|| स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् | अस्तमभ्येति सविता विषादद्य न मे भयम् ||३०|| सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम् | तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ||३१|| ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः | एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह ||३२|| कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ||३२|| हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः | तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् ||३३||

    ४० सूत उवाच|| तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् | विवर्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः ||१|| तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः | अपश्यंश्चैव ते यान्तमाकाशे नागमद्भुतम् ||२|| सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् | तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः ||३|| ततस्तु ते तद्गृहमग्निना वृतं; प्रदीप्यमानं विषजेन भोगिनः | भयात्परित्यज्य दिशः प्रपेदिरे; पपात तच्चाशनिताडितं यथा ||४|| ततो नृपे तक्षकतेजसा हते; प्रयुज्य सर्वाः परलोकसत्क्रियाः | शुचिर्द्विजो राजपुरोहितस्तदा; तथैव ते तस्य नृपस्य मन्त्रिणः ||५|| नृपं शिशुं तस्य सुतं प्रचक्रिरे; समेत्य सर्वे पुरवासिनो जनाः | नृपं यमाहुस्तममित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः ||६|| स बाल एवार्यमतिर्नृपोत्तमः; सहैव तैर्मन्त्रिपुरोहितैस्तदा | शशास राज्यं कुरुपुङ्गवाग्रजो; यथास्य वीरः प्रपितामहस्तथा ||७|| ततस्तु राजानममित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः | सुवर्णवर्माणमुपेत्य काशिपं; वपुष्टमार्थं वरयां प्रचक्रमुः ||८|| ततः स राजा प्रददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः | स चापि तां प्राप्य मुदा युतोऽभव; न्न चान्यनारीषु मनो दधे क्वचित् ||९|| सरःसु फुल्लेषु वनेषु चैव ह; प्रसन्नचेता विजहार वीर्यवान् | तथा स राजन्यवरो विजह्रिवा; न्यथोर्वशीं प्राप्य पुरा पुरूरवाः ||१०|| वपुष्टमा चापि वरं पतिं तदा; प्रतीतरूपं समवाप्य भूमिपम् | भावेन रामा रमयां बभूव वै; विहारकालेष्ववरोधसुन्दरी ||११||

    ४१ सूत उवाच|| एतस्मिन्नेव काले तु जरत्कारुर्महातपाः | चचार पृथिवीं कृत्स्नां यत्रसायङ्गृहो मुनिः ||१|| चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः | तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह ||२|| वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः | स ददर्श पितृन्गर्ते लम्बमानानधोमुखान् ||३|| एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् | तं च तन्तुं शनैराखुमाददानं बिलाश्रयम् ||४|| निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः | उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत ||५|| के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः | दुर्बलं खादितैर्मूलैराखुना बिलवासिना ||६|| वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् | तदप्ययं शनैराखुरादत्ते दशनैः शितैः ||७|| छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव | ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः ||८|| ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् | कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः ||९|| तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः | अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम् ||१०|| अथवापि समग्रेण तरन्तु तपसा मम | भवन्तः सर्व एवास्मात्काममेवं विधीयताम् ||११|| पितर ऊचुः|| ऋद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छति | न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् ||१२|| अस्ति नस्तात तपसः फलं प्रवदतां वर | सन्तानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ ||१३|| लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै | येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् ||१४|| ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान् | शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज ||१५|| यायावरा नाम वयमृषयः संशितव्रताः | लोकात्पुण्यादिह भ्रष्टाः सन्तानप्रक्षयाद्विभो ||१६|| प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै | अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा ||१७|| मन्दभाग्योऽल्पभाग्यानां बन्धुः स किल नः कुले | जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः ||१८|| नियतात्मा महात्मा च सुव्रतः सुमहातपाः ||१८|| तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् | न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन ||१९|| तस्माल्लम्बामहे गर्ते नष्टसञ्ज्ञा ह्यनाथवत् | स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया ||२०|| पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः | साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो ||२१|| कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन ||२१|| यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान् | एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः ||२२|| यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः | एते नस्तन्तवस्तात कालेन परिभक्षिताः ||२३|| यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम् | तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः ||२४|| यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः | स तं तपोरतं मन्दं शनैः क्षपयते तुदन् ||२५|| जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् ||२५|| न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम | छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः ||२६|| नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा ||२६|| अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः | छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः ||२७|| तपो वाप्यथवा यज्ञो यच्चान्यत्पावनं महत् | तत्सर्वं न समं तात सन्तत्येति सतां मतम् ||२८|| स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम् | यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः ||२९|| यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा | तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया ||३०||

    ४२ सूत उवाच|| एतच्छ्रुत्वा जरत्कारुर्दुःखशोकपरायणः | उवाच स्वान्पितृन्दुःखाद्बाष्पसंदिग्धया गिरा ||१|| अहमेव जरत्कारुः किल्बिषी भवतां सुतः | तद्दण्डं धारयत मे दुष्कृतेरकृतात्मनः ||२|| पितर ऊचुः|| पुत्र दिष्ट्यासि सम्प्राप्त इमं देशं यदृच्छया | किमर्थं च त्वया ब्रह्मन्न कृतो दारसङ्ग्रहः ||३|| जरत्कारुरुवाच|| ममायं पितरो नित्यं हृद्यर्थः परिवर्तते | ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै ||४|| एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः | मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः ||५|| करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः | सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन ||६|| भविष्यति च या काचिद्भैक्षवत्स्वयमुद्यता | प्रतिग्रहीता तामस्मि न भरेयं च यामहम् ||७|| एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि | अन्यथा न करिष्ये तु सत्यमेतत्पितामहाः ||८|| सूत उवाच|| एवमुक्त्वा तु स पितृंश्चचार पृथिवीं मुनिः | न च स्म लभते भार्यां वृद्धोऽयमिति शौनक ||९|| यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा | तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः ||१०|| यानि भूतानि सन्तीह स्थावराणि चराणि च | अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः ||११|| उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम् | निविशस्वेति दुःखार्तास्तेषां प्रियचिकीर्षया ||१२|| निवेशार्थ्यखिलां भूमिं कन्याभैक्षं चरामि भोः | दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः ||१३|| यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः | ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् ||१४|| मम कन्या सनाम्नी या भैक्षवच्चोद्यता भवेत् | भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत ||१५|| ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः | तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् ||१६|| तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलङ्कृताम् | प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः ||१७|| तत्र तां भैक्षवत्कन्यां प्रादात्तस्मै महात्मने | नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत ||१८|| असनामेति वै मत्वा भरणे चाविचारिते | मोक्षभावे स्थितश्चापि द्वन्द्वीभूतः परिग्रहे ||१९|| ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन | वासुके भरणं चास्या न कुर्यामित्युवाच ह ||२०||

    ४३ सूत उवाच|| वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा | सनामा तव कन्येयं स्वसा मे तपसान्विता ||१|| भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम | रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन ||२|| प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति | जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह ||३|| तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः | जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् ||४|| ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम् | जगाम भार्यामादाय स्तूयमानो महर्षिभिः ||५|| शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरणसंवृतम् | तत्र भार्यासहायः स जरत्कारुरुवास ह ||६|| स तत्र समयं चक्रे भार्यया सह सत्तमः | विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन ||७|| त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे | एतद्गृहाण वचनं मया यत्समुदीरितम् ||८|| ततः परमसंविग्ना स्वसा नागपतेस्तु सा | अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति ||९|| तथैव सा च भर्तारं दुःखशीलमुपाचरत् | उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी ||१०|| ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा | भर्तारं तं यथान्यायमुपतस्थे महामुनिम् ||११|| तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः | अतीव तपसा युक्तो वैश्वानरसमद्युतिः ||१२|| शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः ||१२|| ततः कतिपयाहस्य जरत्कारुर्महातपाः | उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् ||१३|| तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम् | अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा ||१४|| वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी ||१४|| किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा | दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् ||१५|| कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः | धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः ||१६|| उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति | धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम् ||१७|| इति निश्चित्य मनसा जरत्कारुर्भुजङ्गमा | तमृषिं दीप्ततपसं शयानमनलोपमम् ||१८|| उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी ||१८|| उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति | सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः ||१९|| प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः | सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो ||२०|| एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः | भार्यां प्रस्फुरमाणोष्ठ इदं वचनमब्रवीत् ||२१|| अवमानः प्रयुक्तोऽयं त्वया मम भुजङ्गमे | समीपे ते न वत्स्यामि गमिष्यामि यथागतम् ||२२|| न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः | अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते ||२३|| न चाप्यवमतस्येह वस्तुं रोचेत कस्यचित् | किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा ||२४|| एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम् | अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने ||२५|| नावमानात्कृतवती तवाहं प्रतिबोधनम् | धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया ||२६|| उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः | ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजङ्गमाम् ||२७|| न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे | समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः ||२८|| सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे | इतो मयि गते भीरु गतः स भगवानिति ||२९|| त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि ||२९|| इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा | जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा ||३०|| बाष्पगद्गदया वाचा मुखेन परिशुष्यता | कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः ||३१|| धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता ||३१|| न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् | धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् ||३२|| प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम | तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुखिः ||३३|| मातृशापाभिभूतानां ज्ञातीनां मम सत्तम | अपत्यमीप्षितं त्वत्तस्तच्च तावन्न दृश्यते ||३४|| त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत् | सम्प्रयोगो भवेन्नायं मम मोघस्त्वया द्विज ||३५|| ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये | इममव्यक्तरूपं मे गर्भमाधाय सत्तम ||३६|| कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् ||३६|| एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत् | यद्युक्तमनुरूपं च जरत्कारुस्तपोधनः ||३७|| अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः | ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः ||३८|| एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः | उग्राय तपसे भूयो जगाम कृतनिश्चयः ||३९||

    ४४ सूत उवाच|| गतमात्रं तु भर्तारं जरत्कारुरवेदयत् | भ्रातुस्त्वरितमागम्य यथातथ्यं तपोधन ||१|| ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम् | उवाच भगिनीं दीनां तदा दीनतरः स्वयम् ||२|| जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत् | पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि ||३|| स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान् | एवं पितामहः पूर्वमुक्तवान्मां सुरैः सह ||४|| अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात् | न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः ||५|| कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम् | किं तु कार्यगरीयस्त्वात्ततस्त्वाहमचूचुदम् ||६|| दुर्वासतां विदित्वा च भर्तुस्तेऽतितपस्विनः | नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम् ||७|| आचक्ष्व भद्रे भर्तुस्त्वं सर्वमेव विचेष्टितम् | शल्यमुद्धर मे घोरं भद्रे हृदि चिरस्थितम् ||८|| जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत | आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम् ||९|| पृष्टो मयापत्यहेतोः स महात्मा महातपाः | अस्तीत्युदरमुद्दिश्य ममेदं गतवांश्च सः ||१०|| स्वैरेष्वपि न तेनाहं स्मरामि वितथं क्वचित् | उक्तपूर्वं कुतो राजन्साम्पराये स वक्ष्यति ||११|| न सन्तापस्त्वया कार्यः कार्यं प्रति भुजङ्गमे | उत्पत्स्यति हि ते पुत्रो ज्वलनार्कसमद्युतिः ||१२|| इत्युक्त्वा हि स मां भ्रातर्गतो भर्ता तपोवनम् | तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम् ||१३|| एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा | एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत ||१४|| सान्त्वमानार्थदानैश्च पूजया चानुरूपया | सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः ||१५|| ततः स ववृधे गर्भो महातेजा रविप्रभः | यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि ||१६|| यथाकालं तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा | कुमारं देवगर्भाभं पितृमातृभयापहम् ||१७|| ववृधे स च तत्रैव नागराजनिवेशने | वेदांश्चाधिजगे साङ्गान्भार्गवाच्च्यवनात्मजात् ||१८|| चरितव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः | नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत ||१९|| अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम् | वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम् ||२०|| स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान् | गृहे पन्नगराजस्य प्रयत्नात्पर्यरक्ष्यत ||२१|| भगवानिव देवेशः शूलपाणिर्हिरण्यदः | विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत् ||२२||

    ४५ शौनक उवाच|| यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः | पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद ||१|| सूत उवाच|| शृणु ब्रह्मन्यथा पृष्टा मन्त्रिणो नृपतेस्तदा | आख्यातवन्तस्ते सर्वे निधनं तत्परिक्षितः ||२|| जनमेजय उवाच|| जानन्ति तु भवन्तस्तद्यथावृत्तः पिता मम | आसीद्यथा च निधनं गतः काले महायशाः ||३|| श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः | कल्याणं प्रतिपत्स्यामि विपरीतं न जातु चित् ||४|| सूत उवाच|| मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना | सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम् ||५|| धर्मात्मा च महात्मा च प्रजापालः पिता तव | आसीदिह यथावृत्तः स महात्मा शृणुष्व तत् ||६|| चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत | धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव ||७|| ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः | द्वेष्टारस्तस्य नैवासन्स च न द्वेष्टि कञ्चन ||८|| समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् ||८|| ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु | स्थिताः सुमनसो राजंस्तेन राज्ञा स्वनुष्ठिताः ||९|| विधवानाथकृपणान्विकलांश्च बभार सः | सुदर्शः सर्वभूतानामासीत्सोम इवापरः ||१०|| तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः | धनुर्वेदे च शिष्योऽभून्नृपः शारद्वतस्य सः ||११|| गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय | लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः ||१२|| परिक्षीणेषु कुरुषु उत्तरायामजायत | परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली ||१३|| राजधर्मार्थकुशलो युक्तः सर्वगुणैर्नृपः | जितेन्द्रियश्चात्मवांश्च मेधावी वृद्धसेवितः ||१४|| षड्वर्गविन्महाबुद्धिर्नीतिधर्मविदुत्तमः | प्रजा इमास्तव पिता षष्टिं वर्षाण्यपालयत् ||१५|| ततो दिष्टान्तमापन्नः सर्पेणानतिवर्तितम् ||१५|| ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् | इदं वर्षसहस्राय राज्यं कुरुकुलागतम् ||१६|| बाल एवाभिजातोऽसि सर्वभूतानुपालकः ||१६|| जनमेजय उवाच|| नास्मिन्कुले जातु बभूव राजा; यो न प्रजानां हितकृत्प्रियश्च | विशेषतः प्रेक्ष्य पितामहानां; वृत्तं महद्वृत्तपरायणानाम् ||१७|| कथं निधनमापन्नः पिता मम तथाविधः | आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः ||१८|| सूत उवाच|| एवं सञ्चोदिता राज्ञा मन्त्रिणस्ते नराधिपम् | ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः ||१९|| बभूव मृगयाशीलस्तव राजन्पिता सदा | यथा पाण्डुर्महाभागो धनुर्धरवरो युधि ||२०|| अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः ||२०|| स कदाचिद्वनचरो मृगं विव्याध पत्रिणा | विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने ||२१|| पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान् | न चाससाद गहने मृगं नष्टं पिता तव ||२२|| परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः | क्षुधितः स महारण्ये ददर्श मुनिमन्तिके ||२३|| स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रतान्वितम् | न च किञ्चिदुवाचैनं स मुनिः पृच्छतोऽपि सन् ||२४|| ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम् | मौनव्रतधरं शान्तं सद्यो मन्युवशं ययौ ||२५|| न बुबोध हि तं राजा मौनव्रतधरं मुनिम् | स तं मन्युसमाविष्टो धर्षयामास ते पिता ||२६|| मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् | तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम ||२७|| न चोवाच स मेधावी तमथो साध्वसाधु वा | तस्थौ तथैव चाक्रुध्यन्सर्पं स्कन्धेन धारयन् ||२८||

    ४६ मन्त्रिण ऊचुः|| ततः स राजा राजेन्द्र स्कन्धे तस्य भुजङ्गमम् | मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ ||१|| ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः | शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः ||२|| ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह | अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा ||३|| सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा ||३|| मृतं सर्पं समासक्तं पित्रा ते जनमेजय | वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् ||४|| तपस्विनमतीवाथ तं मुनिप्रवरं नृप | जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते ||५|| तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा | शुभाचारं शुभकथं सुस्थिरं तमलोलुपम् ||६|| अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम् | शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव ||७|| शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः | ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः ||८|| स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह | पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव ||९|| अनागसि गुरौ यो मे मृतं सर्पमवासृजत् | तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति ||१०|| सप्तरात्रादितः पापं पश्य मे तपसो बलम् ||१०|| इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत् | दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् ||११|| स चापि मुनिशार्दूलः प्रेषयामास ते पितुः | शप्तोऽसि मम पुत्रेण यत्तो भव महीपते ||१२|| तक्षकस्त्वां महाराज तेजसा सादयिष्यति ||१२|| श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय | यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् ||१३|| ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते | राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत ||१४|| तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा | तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् ||१५|| क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ||१५|| काश्यप उवाच|| यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज | तक्षकेण भुजङ्गेन धक्ष्यते किल तत्र वै ||१६|| गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् | मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति ||१७|| तक्षक उवाच|| किमर्थं तं मया दष्टं सञ्जीवयितुमिच्छसि | ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम् ||१८|| मन्त्रिण ऊचुः|| धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः | तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा ||१९|| यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् | गृहाण मत्त एव त्वं संनिवर्तस्व चानघ ||२०|| स एवमुक्तो नागेन काश्यपो द्विपदां वरः | लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् ||२१|| तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः | तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव ||२२|| प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना | ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः ||२३|| एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम | अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् ||२४|| श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् | अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् ||२५|| जनमेजय उवाच|| एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वने | संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा ||२६|| केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम् | श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् ||२७|| मन्त्रिण ऊचुः|| शृणु राजन्यथास्माकं येनैतत्कथितं पुरा | समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ||२८|| तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव | विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम् ||२९|| अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ ||२९|| स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा | द्विजप्रभावाद्राजेन्द्र जीवितः सवनस्पतिः ||३०|| तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम् | यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च ||३१|| एतत्ते कथितं राजन्यथावृत्तं यथाश्रुतम् | श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् ||३२|| सूत उवाच|| मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः | पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् ||३३|| निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः | मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः ||३४|| उवाच च महीपालो दुःखशोकसमन्वितः ||३४|| श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति | निश्चितेयं मम मतिर्या वै तां मे निबोधत ||३५|| अनन्तरमहं मन्ये तक्षकाय दुरात्मने | प्रतिकर्तव्यमित्येव येन मे हिंसितः पिता ||३६|| ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम् | यदि गच्छेदसौ पापो ननु जीवेत्पिता मम ||३७|| परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः | काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च ||३८|| स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् | सञ्जिजीवयिषुं प्राप्तं राजानमपराजितम् ||३९|| महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः | द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति ||४०|| उत्तङ्कस्य प्रियं कुर्वन्नात्मनश्च महत्प्रियम् | भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः ||४१||

    ४७ सूत उवाच|| एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः | आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः ||१|| ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा ||१|| पुरोहितमथाहूय ऋत्विजं वसुधाधिपः | अब्रवीद्वाक्यसम्पन्नः सम्पदर्थकरं वचः ||२|| यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान् | प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे ||३|| अपि तत्कर्म विदितं भवतां येन पन्नगम् | तक्षकं सम्प्रदीप्तेऽग्नौ प्राप्स्येऽहं सहबान्धवम् ||४|| यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना | तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम् ||५|| ऋत्विज ऊचुः|| अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम् | सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप ||६|| आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप | इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः ||७|| सूत उवाच|| एवमुक्तः स राजर्षिर्मेने सर्पं हि तक्षकम् | हुताशनमुखं दीप्तं प्रविष्टमिति सत्तम ||८|| ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा | आहरिष्यामि तत्सत्रं सम्भाराः सम्भ्रियन्तु मे ||९|| ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम | देशं तं मापयामासुर्यज्ञायतनकारणात् ||१०|| यथावज्ज्ञानविदुषः सर्वे बुद्ध्या परं गताः ||१०|| ऋद्ध्या परमया युक्तमिष्टं द्विजगणायुतम् | प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिवेशितम् ||११|| निर्माय चापि विधिवद्यज्ञायतनमीप्सितम् | राजानं दीक्षयामासुः सर्पसत्राप्तये तदा ||१२|| इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति | निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा ||१३|| यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत् | स्थपतिर्बुद्धिसम्पन्नो वास्तुविद्याविशारदः ||१४|| इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा | यस्मिन्देशे च काले च मापनेयं प्रवर्तिता ||१५|| ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः ||१५|| एतच्छ्रुत्वा तु राजा स प्राग्दीक्षाकालमब्रवीत् | क्षत्तारं नेह मे कश्चिदज्ञातः प्रविशेदिति ||१६|| ततः कर्म प्रववृते सर्पसत्रे विधानतः | पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः ||१७|| परिधाय कृष्णवासांसि धूमसंरक्तलोचनाः | जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् ||१८|| कम्पयन्तश्च सर्वेषामुरगाणां मनांसि ते | सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा ||१९|| ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने | विवेष्टमानाः कृपणा आह्वयन्तः परस्परम् ||२०|| विस्फुरन्तः श्वसन्तश्च वेष्टयन्तस्तथा परे | पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे ||२१|| श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा | रुवन्तो भैरवान्नादान्पेतुर्दीप्ते विभावसौ ||२२|| एवं शतसहस्राणि प्रयुतान्यर्बुदानि च | अवशानि विनष्टानि पन्नगानां द्विजोत्तम ||२३|| इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे | मत्ता इव च मातङ्गा महाकाया महाबलाः ||२४|| उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः | घोराश्च परिघप्रख्या दन्दशूका महाबलाः ||२५|| प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः ||२५||

    ४८ शौनक उवाच|| सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः | जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः ||१|| के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे | विषादजननेऽत्यर्थं पन्नगानां महाभये ||२|| सर्वं विस्तरतस्तात भवाञ्शंसितुमर्हति | सर्पसत्रविधानज्ञा विज्ञेयास्ते हि सूतज ||३|| सूत उवाच|| हन्त ते कथयिष्यामि नामानीह मनीषिणाम् | ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा ||४|| तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः | च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः ||५|| उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सार्यजैमिनिः | ब्रह्माभवच्छार्ङ्गरवो अध्वर्युर्बोधपिङ्गलः ||६|| सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान् | उद्दालकः शमठकः श्वेतकेतुश्च पञ्चमः ||७|| असितो देवलश्चैव नारदः पर्वतस्तथा | आत्रेयः कुण्डजठरो द्विजः कुटिघटस्तथा ||८|| वात्स्यः श्रुतश्रवा वृद्धस्तपःस्वाध्यायशीलवान् | कहोडो देवशर्मा च मौद्गल्यः शमसौभरः ||९|| एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः | सदस्या अभवंस्तत्र सत्रे पारिक्षितस्य ह ||१०|| जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ | अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः ||११|| वसामेदोवहाः कुल्या नागानां सम्प्रवर्तिताः | ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा ||१२|| पततां चैव नागानां धिष्ठितानां तथाम्बरे | अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् ||१३|| तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम् | गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् ||१४|| ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः | अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम् ||१५|| तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक | भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कथञ्चन ||१६|| प्रसादितो मया पूर्वं तवार्थाय पितामहः | तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः ||१७|| एवमाश्वासितस्तेन ततः स भुजगोत्तमः | उवास भवने तत्र शक्रस्य मुदितः सुखी ||१८|| अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः | अल्पशेषपरीवारो वासुकिः पर्यतप्यत ||१९|| कश्मलं चाविशद्घोरं वासुकिं पन्नगेश्वरम् | स घूर्णमानहृदयो भगिनीमिदमब्रवीत् ||२०|| दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च | सीदामीव च संमोहाद्घूर्णतीव च मे मनः ||२१|| दृष्टिर्भ्रमति मेऽतीव हृदयं दीर्यतीव च | पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ ||२२|| पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया | व्यक्तं मयापि गन्तव्यं पितृराजनिवेशनम् ||२३|| अयं स कालः सम्प्राप्तो यदर्थमसि मे स्वसः | जरत्कारोः पुरा दत्ता सा त्राह्यस्मान्सबान्धवान् ||२४|| आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे | प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः ||२५|| तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम् | ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् ||२६||

    ४९ सूत उवाच|| तत आहूय पुत्रं स्वं जरत्कारुर्भुजङ्गमा | वासुकेर्नागराजस्य वचनादिदमब्रवीत् ||१|| अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः | कालः स चायं सम्प्राप्तस्तत्कुरुष्व यथातथम् ||२|| आस्तीक उवाच|| किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे | तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा ||३|| सूत उवाच|| तत आचष्ट सा तस्मै बान्धवानां हितैषिणी | भगिनी नागराजस्य जरत्कारुरविक्लवा ||४|| भुजगानामशेषाणां माता कद्रूरिति श्रुतिः | तया शप्ता रुषितया सुता यस्मान्निबोध तत् ||५|| उच्छैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम | विनतानिमित्तं पणिते दासभावाय पुत्रकाः ||६|| जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः | तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ ||७|| तां च शप्तवतीमेवं साक्षाल्लोकपितामहः | एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च ||८|| वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा | अमृते मथिते तात देवाञ्शरणमीयिवान् ||९|| सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् | भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन् ||१०|| ते तं प्रसादयामासुर्देवाः सर्वे पितामहम् | राज्ञा वासुकिना सार्धं स शापो न भवेदिति ||११|| वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् | अभिशापः स मात्रास्य भगवन्न भवेदिति ||१२|| ब्रह्मोवाच|| जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति | तत्र जातो द्विजः शापाद्भुजगान्मोक्षयिष्यति ||१३|| जरत्कारुरुवाच|| एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः | प्रादान्माममरप्रख्य तव पित्रे महात्मने ||१४|| प्रागेवानागते काले तत्र त्वं मय्यजायथाः ||१४|| अयं स कालः सम्प्राप्तो भयान्नस्त्रातुमर्हसि | भ्रातरं चैव मे तस्मात्त्रातुमर्हसि पावकात् ||१५|| अमोघं नः कृतं तत्स्याद्यदहं तव धीमते | पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे ||१६|| सूत उवाच|| एवमुक्तस्तथेत्युक्त्वा सोऽस्तीको मातरं तदा | अब्रवीद्दुःखसन्तप्तं वासुकिं जीवयन्निव ||१७|| अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम | तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते ||१८|| भव स्वस्थमना नाग न हि ते विद्यते भयम् | प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति ||१९|| न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा ||१९|| तं वै नृपवरं गत्वा दीक्षितं जनमेजयम् | वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल ||२०|| यथा स यज्ञो नृपतेर्निर्वर्तिष्यति सत्तम ||२०|| स सम्भावय नागेन्द्र मयि सर्वं महामते | न ते मयि मनो जातु मिथ्या भवितुमर्हति ||२१|| वासुकिरुवाच|| आस्तीक परिघूर्णामि हृदयं मे विदीर्यते | दिशश्च न प्रजानामि ब्रह्मदण्डनिपीडितः ||२२|| आस्तीक उवाच|| न सन्तापस्त्वया कार्यः कथञ्चित्पन्नगोत्तम | दीप्तादग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् ||२३|| ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् | नाशयिष्यामि मात्र त्वं भयं कार्षीः कथञ्चन ||२४|| सूत उवाच|| ततः स वासुकेर्घोरमपनीय मनोज्वरम् | आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् ||२५|| जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः | मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः ||२६|| स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम् | वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः ||२७|| स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमः | अभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः ||२८||

    ५० आस्तीक उवाच|| सोमस्य यज्ञो वरुणस्य यज्ञः; प्रजापतेर्यज्ञ आसीत्प्रयागे | तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||१|| शक्रस्य यज्ञः शतसङ्ख्य उक्त; स्तथापरस्तुल्यसङ्ख्यः शतं वै | तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||२|| यमस्य यज्ञो हरिमेधसश्च; यथा यज्ञो रन्तिदेवस्य राज्ञः | तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||३|| गयस्य यज्ञः शशबिन्दोश्च राज्ञो; यज्ञस्तथा वैश्रवणस्य राज्ञः | तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||४|| नृगस्य यज्ञस्त्वजमीढस्य चासी; द्यथा यज्ञो दाशरथेश्च राज्ञः | तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||५|| यज्ञः श्रुतो नो दिवि देवसूनो; र्युधिष्ठिरस्याजमीढस्य राज्ञः | तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||६|| कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; स्वयं च कर्म प्रचकार यत्र | तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||७|| इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः क्रतुं यथा | नैषां ज्ञानं विद्यते ज्ञातुमद्य; दत्तं येभ्यो न प्रणश्येत्कथञ्चित् ||८|| ऋत्विक्समो नास्ति लोकेषु चैव; द्वैपायनेनेति विनिश्चितं मे | एतस्य शिष्या हि क्षितिं चरन्ति; सर्वर्त्विजः कर्मसु स्वेषु दक्षाः ||९|| विभावसुश्चित्रभानुर्महात्मा; हिरण्यरेता विश्वभुक्कृष्णवर्त्मा | प्रदक्षिणावर्तशिखः प्रदीप्तो; हव्यं तवेदं हुतभुग्वष्टि देवः ||१०|| नेह त्वदन्यो विद्यते जीवलोके; समो नृपः पालयिता प्रजानाम् | धृत्या च ते प्रीतमनाः सदाहं; त्वं वा राजा धर्मराजो यमो वा ||११|| शक्रः साक्षाद्वज्रपाणिर्यथेह; त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम् | मतस्त्वं नः पुरुषेन्द्रेह लोके; न च त्वदन्यो गृहपतिरस्ति यज्ञे ||१२|| खट्वाङ्गनाभागदिलीपकल्पो; ययातिमान्धातृसमप्रभावः | आदित्यतेजःप्रतिमानतेजा; भीष्मो यथा भ्राजसि सुव्रतस्त्वम् ||१३|| वाल्मीकिवत्ते निभृतं सुधैर्यं; वसिष्ठवत्ते नियतश्च कोपः | प्रभुत्वमिन्द्रेण समं मतं मे; द्युतिश्च नारायणवद्विभाति ||१४|| यमो यथा धर्मविनिश्चयज्ञः; कृष्णो यथा सर्वगुणोपपन्नः | श्रियां निवासोऽसि यथा वसूनां; निधानभूतोऽसि तथा क्रतूनाम् ||१५|| दम्भोद्भवेनासि समो बलेन; रामो यथा शस्त्रविदस्त्रविच्च | और्वत्रिताभ्यामसि तुल्यतेजा; दुष्प्रेक्षणीयोऽसि भगीरथो वा ||१६|| सूत उवाच|| एवं स्तुताः सर्व एव प्रसन्ना; राजा सदस्या ऋत्विजो हव्यवाहः | तेषां दृष्ट्वा भावितानीङ्गितानि; प्रोवाच राजा जनमेजयोऽथ ||१७||

    ५१ जनमेजय उवाच|| बालो वाक्यं स्थविर इव प्रभाषते; नायं बालः स्थविरोऽयं मतो मे | इच्छाम्यहं वरमस्मै प्रदातुं; तन्मे विप्रा वितरध्वं समेताः ||१|| सदस्या ऊचुः|| बालोऽपि विप्रो मान्य एवेह राज्ञां; यश्चाविद्वान्यश्च विद्वान्यथावत् | सर्वान्कामांस्त्वत्त एषोऽर्हतेऽद्य; यथा च नस्तक्षक एति शीघ्रम् ||२|| सूत उवाच|| व्याहर्तुकामे वरदे नृपे द्विजं; वरं वृणीष्वेति ततोऽभ्युवाच | होता वाक्यं नातिहृष्टान्तरात्मा; कर्मण्यस्मिंस्तक्षको नैति तावत् ||३|| जनमेजय उवाच|| यथा चेदं कर्म समाप्यते मे; यथा च नस्तक्षक एति शीघ्रम् | तथा भवन्तः प्रयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः ||४|| ऋत्विज ऊचुः|| यथा शास्त्राणि नः प्राहुर्यथा शंसति पावकः | इन्द्रस्य भवने राजंस्तक्षको भयपीडितः ||५|| सूत उवाच|| यथा सूतो लोहिताक्षो महात्मा; पौराणिको वेदितवान्पुरस्तात् | स राजानं प्राह पृष्टस्तदानीं; यथाहुर्विप्रास्तद्वदेतन्नृदेव ||६|| पुराणमागम्य ततो ब्रवीम्यहं; दत्तं तस्मै वरमिन्द्रेण राजन् | वसेह त्वं मत्सकाशे सुगुप्तो; न पावकस्त्वां प्रदहिष्यतीति ||७|| एतच्छ्रुत्वा दीक्षितस्तप्यमान; आस्ते होतारं चोदयन्कर्मकाले | होता च यत्तः स जुहाव मन्त्रै; रथो इन्द्रः स्वयमेवाजगाम ||८|| विमानमारुह्य महानुभावः; सर्वैर्देवैः परिसंस्तूयमानः | बलाहकैश्चाप्यनुगम्यमानो; विद्याधरैरप्सरसां गणैश्च ||९|| तस्योत्तरीये निहितः स नागो; भयोद्विग्नः शर्म नैवाभ्यगच्छत् | ततो राजा मन्त्रविदोऽब्रवीत्पुनः; क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् ||१०|| इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः | तमिन्द्रेणैव सहितं पातयध्वं विभावसौ ||११|| ऋत्विज ऊचुः|| अयमायाति वै तूर्णं तक्षकस्ते वशं नृप | श्रूयतेऽस्य महान्नादो रुवतो भैरवं भयात् ||१२|| नूनं मुक्तो वज्रभृता स नागो; भ्रष्टश्चाङ्कान्मन्त्रविस्रस्तकायः | घूर्णन्नाकाशे नष्टसञ्ज्ञोऽभ्युपैति; तीव्रान्निःश्वासान्निःश्वसन्पन्नगेन्द्रः ||१३|| वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो | अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि ||१४|| जनमेजय उवाच|| बालाभिरूपस्य तवाप्रमेय; वरं प्रयच्छामि यथानुरूपम् | वृणीष्व यत्तेऽभिमतं हृदि स्थितं; तत्ते प्रदास्याम्यपि चेददेयम् ||१५|| सूत उवाच|| पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि | इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत् ||१६|| वरं ददासि चेन्मह्यं वृणोमि जनमेजय | सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः ||१७|| एवमुक्तस्ततो राजा ब्रह्मन्पारिक्षितस्तदा | नातिहृष्टमना वाक्यमास्तीकमिदमब्रवीत् ||१८|| सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो | तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम ||१९|| आस्तीक उवाच|| सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् | सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः ||२०|| सूत उवाच|| आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा | पुनः पुनरुवाचेदमास्तीकं वदतां वरम् ||२१|| अन्यं वरय भद्रं ते वरं द्विजवरोत्तम | अयाचत न चाप्यन्यं वरं स भृगुनन्दन ||२२|| ततो वेदविदस्तत्र सदस्याः सर्व एव तम् | राजानमूचुः सहिता लभतां ब्राह्मणो वरम् ||२३||

    ५२ शौनक उवाच|| ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने | तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज ||१|| सूत उवाच|| सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च | न शक्यं परिसङ्ख्यातुं बहुत्वाद्वेदवित्तम ||२|| यथास्मृति तु नामानि पन्नगानां निबोध मे | उच्यमानानि मुख्यानां हुतानां जातवेदसि ||३|| वासुकेः कुलजांस्तावत्प्राधान्येन निबोध मे | नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान् ||४|| कोटिको मानसः पूर्णः सहः पैलो हलीसकः | पिच्छिलः कोणपश्चक्रः कोणवेगः प्रकालनः ||५|| हिरण्यवाहः शरणः कक्षकः कालदन्तकः | एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम् ||६|| तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान् | पुच्छण्डको मण्डलकः पिण्डभेत्ता रभेणकः ||७|| उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः | शिलीशलकरो मूकः सुकुमारः प्रवेपनः ||८|| मुद्गरः शशरोमा च सुमना वेगवाहनः | एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् ||९|| पारावतः पारियात्रः पाण्डरो हरिणः कृशः | विहङ्गः शरभो मोदः प्रमोदः संहताङ्गदः ||१०|| ऐरावतकुलादेते प्रैविष्टा हव्यवाहनम् | कौरव्यकुलजान्नागाञ्शृणु मे द्विजसत्तम ||११|| ऐण्डिलः कुण्डलो मुण्डो वेणिस्कन्धः कुमारकः | बाहुकः शृङ्गवेगश्च धूर्तकः पातपातरौ ||१२|| धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम् | कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान् ||१३|| शङ्कुकर्णः पिङ्गलकः कुठारमुखमेचकौ | पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर्हरिः ||१४|| आमाहठः कोमठकः श्वसनो मानवो वटः | भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारगः ||१५|| ऋषभो वेगवान्नाम पिण्डारकमहाहनू | रक्ताङ्गः सर्वसारङ्गः समृद्धः पाटराक्षसौ ||१६|| वराहको वारणकः सुमित्रश्चित्रवेदिकः | पराशरस्तरुणको मणिस्कन्धस्तथारुणिः ||१७|| इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः | प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः ||१८|| एतेषां पुत्रपौत्रास्तु प्रसवस्य च सन्ततिः | न शक्याः परिसङ्ख्यातुं ये दीप्तं पावकं गताः ||१९|| सप्तशीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे | कालानलविषा घोरा हुताः शतसहस्रशः ||२०|| महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः | योजनायामविस्तारा द्वियोजनसमायताः ||२१|| कामरूपाः कामगमा दीप्तानलविषोल्बणाः | दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः ||२२||

    ५३ सूत उवाच|| इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः | तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह ||१|| इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत | ततश्चिन्तापरो राजा बभूव जनमेजयः ||२|| हूयमाने भृशं दीप्ते विधिवत्पावके तदा | न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः ||३|| शौनक उवाच|| किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् | न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः ||४|| सूत उवाच|| तमिन्द्रहस्ताद्विस्रस्तं विसञ्ज्ञं पन्नगोत्तमम् | आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् ||५|| वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता | यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः ||६|| ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् | काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् ||७|| समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः | प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत् ||८|| ततो हलहलाशब्दः प्रीतिजः समवर्तत | आस्तीकस्य वरे दत्ते तथैवोपरराम च ||९|| स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह | प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः ||१०|| ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः | तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः ||११|| लोहिताक्षाय सूताय तथा स्थपतये विभुः | येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम् ||१२|| निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु | ततश्चकारावभृथं विधिदृष्टेन कर्मणा ||१३|| आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम् | राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् ||१४|| पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत् | भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ ||१५|| तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः | कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् ||१६|| स गत्वा परमप्रीतो मातरं मातुलं च तम् | अभिगम्योपसङ्गृह्य यथावृत्तं न्यवेदयत् ||१७|| एतच्छ्रुत्वा प्रीयमाणाः समेता; ये तत्रासन्पन्नगा वीतमोहाः | तेऽऽस्तीके वै प्रीतिमन्तो बभूवु; रूचुश्चैनं वरमिष्टं वृणीष्व ||१८|| भूयो भूयः सर्वशस्तेऽब्रुवंस्तं; किं ते प्रियं करवामोऽद्य विद्वन् | प्रीता वयं मोक्षिताश्चैव सर्वे; कामं किं ते करवामोऽद्य वत्स ||१९|| आस्तीक उवाच|| सायं प्रातः सुप्रसन्नात्मरूपा; लोके विप्रा मानवाश्चेतरेऽपि | धर्माख्यानं ये वदेयुर्ममेदं; तेषां युष्मद्भ्यो नैव किञ्चिद्भयं स्यात् ||२०|| सूत उवाच|| तैश्चाप्युक्तो भागिनेयः प्रसन्नै; रेतत्सत्यं काममेवं चरन्तः | प्रीत्या युक्ता ईप्सितं सर्वशस्ते; कर्तारः स्म प्रवणा भागिनेय ||२१|| जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः | आस्तीकः सत्यसन्धो मां पन्नगेभ्योऽभिरक्षतु ||२२|| असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् | दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ||२३|| सूत उवाच|| मोक्षयित्वा स भुजगान्सर्पसत्राद्द्विजोत्तमः | जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् ||२४|| इत्याख्यानं मयास्तीकं यथावत्कीर्तितं तव | यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित् ||२५|| श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम् | आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः ||२६|| शौनक उवाच|| भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत् | आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते ||२७|| प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन | यां कथां व्याससम्पन्नां तां च भूयः प्रचक्ष्व मे ||२८|| तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम् | कर्मान्तरेषु विधिवत्सदस्यानां महाकवे ||२९|| या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम् | त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः ||३०|| सूत उवाच|| कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः | व्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत् ||३१|| शौनक उवाच|| महाभारतमाख्यानं पाण्डवानां यशस्करम् | जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा ||३२|| श्रावयामास विधिवत्तदा कर्मान्तरेषु सः | तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् ||३३|| मनःसागरसम्भूतां महर्षेः पुण्यकर्मणः | कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज ||३४|| सूत उवाच|| हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् | कृष्णद्वैपायनमतं महाभारतमादितः ||३५|| तज्जुषस्वोत्तममते कथ्यमानं मया द्विज | शंसितुं तन्मनोहर्षो ममापीह प्रवर्तते ||३६||

    आदिवंशावतरणपर्व ५४ सूत उवाच|| श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् | अभ्यागच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा ||१|| जनयामास यं काली शक्तेः पुत्रात्पराशरात् | कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् ||२|| जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत् | वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः ||३|| यं नातितपसा कश्चिन्न वेदाध्ययनेन च | न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना ||४|| विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः | परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः ||५|| यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत् | शन्तनोः सन्ततिं तन्वन्पुण्यकीर्तिर्महायशाः ||६|| जनमेजयस्य राजर्षेः स तद्यज्ञसदस्तदा | विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः ||७|| तत्र राजानमासीनं ददर्श जनमेजयम् | वृतं सदस्यैर्बहुभिर्देवैरिव पुरंदरम् ||८|| तथा मूर्धावसिक्तैश्च नानाजनपदेश्वरैः | ऋत्विग्भिर्देवकल्पैश्च कुशलैर्यज्ञसंस्तरे ||९|| जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम् | सगणोऽब्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः ||१०|| काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः | आसनं कल्पयामास यथा शक्रो बृहस्पतेः ||११|| तत्रोपविष्टं वरदं देवर्षिगणपूजितम् | पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा ||१२|| पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः | पितामहाय कृष्णाय तदर्हाय न्यवेदयत् ||१३|| प्रतिगृह्य च तां पूजां पाण्डवाज्जनमेजयात् | गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा ||१४|| तथा सम्पूजयित्वा तं यत्नेन प्रपितामहम् | उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् ||१५|| भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च | सदस्यैः पूजितः सर्वैः सदस्यानभ्यपूजयत् ||१६|| ततस्तं सत्कृतं सर्वैः सदस्यैर्जनमेजयः | इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः ||१७|| कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् | तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज ||१८|| कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम् | तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत् ||१९|| पितामहानां सर्वेषां दैवेनाविष्टचेतसाम् | कार्त्स्न्येनैतत्समाचक्ष्व भगवन्कुशलो ह्यसि ||२०|| तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा | शशास शिष्यमासीनं वैशम्पायनमन्तिके ||२१|| कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा | तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि ||२२|| गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा | आचचक्षे ततः सर्वमितिहासं पुरातनम् ||२३|| तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः | भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा ||२४||

    ५५ वैशम्पायन उवाच|| गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः | सम्पूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् ||१|| महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः | प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ||२|| श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम् | गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम् ||३|| शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत् | राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च ||४|| यथा च युद्धमभवत्पृथिवीक्षयकारकम् | तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते भरतर्षभ ||५|| मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् | नचिरादिव विद्वांसो वेदे धनुषि चाभवन् ||६|| तांस्तथा रूपवीर्यौजःसम्पन्नान्पौरसंमतान् | नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः ||७|| ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः | तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन् ||८|| ददावथ विषं पापो भीमाय धृतराष्ट्रजः | जरयामास तद्वीरः सहान्नेन वृकोदरः ||९|| प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम् | तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् ||१०|| यदा प्रबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम् | उदतिष्ठन्महाराज भीमसेनो गतव्यथः ||११|| आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् | सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ||१२|| तेषां तु विप्रकारेषु तेषु तेषु महामतिः | मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत् ||१३|| स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः | पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः ||१४|| यदा तु विविधोपायैः संवृतैर्विवृतैरपि | नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् ||१५|| ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः | धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् ||१६|| तत्र तान्वासयामास पाण्डवानमितौजसः | अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा ||१७|| विदुरस्यैव वचनात्खनित्री विहिता ततः | मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात् ||१८|| ततो महावने घोरे हिडिम्बं नाम राक्षसम् | भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः ||१९|| अथ सन्धाय ते वीरा एकचक्रां व्रजंस्तदा | ब्रह्मरूपधरा भूत्वा मात्रा सह परन्तपाः ||२०|| तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम् | ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः ||२१|| ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः | विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः ||२२|| त उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च | भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति ||२३|| अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः ||२३|| तस्माज्जनपदोपेतं सुविभक्तमहापथम् | वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः ||२४|| तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः | नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः ||२५|| तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून् | वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ||२६|| एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः | अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा ||२७|| अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः | उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा ||२८|| दक्षिणां सहदेवस्तु विजिग्ये परवीरहा | एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम् ||२९|| पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता | षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः ||३०|| ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः | वनं प्रस्थापयामास भ्रातरं वै धनञ्जयम् ||३१|| स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत् | ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन ||३२|| लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम् | अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् ||३३|| सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता | सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह ||३४|| अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम् | बीभत्सुर्वासुदेवेन सहितो नृपसत्तम ||३५|| नातिभारो हि पार्थस्य केशवेनाभवत्सह | व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव ||३६|| पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम् | इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् ||३७|| मोक्षयामास बीभत्सुर्मयं तत्र महासुरम् | स चकार सभां दिव्यां सर्वरत्नसमाचिताम् ||३८|| तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः | ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् ||३९|| वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च | अज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयोदशम् ||४०|| ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु | नालभन्त महाराज ततो युद्धमवर्तत ||४१|| ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम् | राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः ||४२|| एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् | भेदो राज्यविनाशश्च जयश्च जयतां वर ||४३||

    ५६ जनमेजय उवाच|| कथितं वै समासेन त्वया सर्वं द्विजोत्तम | महाभारतमाख्यानं कुरूणां चरितं महत् ||१|| कथां त्वनघ चित्रार्थामिमां कथयति त्वयि | विस्तरश्रवणे जातं कौतूहलमतीव मे ||२|| स भवान्विस्तरेणेमां पुनराख्यातुमर्हति | न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ||३|| न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः | अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ||४|| किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः | प्रयुज्यमानान्सङ्क्लेशान्क्षान्तवन्तो दुरात्मनाम् ||५|| कथं नागायुतप्राणो बाहुशाली वृकोदरः | परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ||६|| कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः | शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा ||७|| कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा | अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः ||८|| कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् | अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ||९|| कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः | अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनञ्जयः ||१०|| एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन | यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः ||११|| वैशम्पायन उवाच|| महर्षेः सर्वलोकेषु पूजितस्य महात्मनः | प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ||१२|| इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् | सत्यवत्यात्मजेनेह व्याख्यातममितौजसा ||१३|| य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः | ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् ||१४|| इदं हि वेदैः समितं पवित्रमपि चोत्तमम् | श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् ||१५|| अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते | इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी ||१६|| अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् | कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ||१७|| भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् | इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः ||१८|| जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा | महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् ||१९|| इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् | महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा ||२०|| अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम् | मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ||२१|| सम्प्रत्याचक्षते चैव आख्यास्यन्ति तथापरे | पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः ||२२|| शरीरेण कृतं पापं वाचा च मनसैव च | सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा ||२३|| भारतानां महज्जन्म शृण्वतामनसूयताम् | नास्ति व्याधिभयं तेषां परलोकभयं कुतः ||२४|| धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च | कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ||२५|| कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् | अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ||२६|| यथा समुद्रो भगवान्यथा च हिमवान्गिरिः | ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ||२७|| य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु | धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति ||२८|| यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः | अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितृनपि ||२९|| अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन् | तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते ||३०|| भारतानां महज्जन्म महाभारतमुच्यते | निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ||३१|| त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः | महाभारतमाख्यानं कृतवानिदमुत्तमम् ||३२|| धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ | यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ||३३||

    ५७ वैशम्पायन उवाच|| राजोपरिचरो नाम धर्मनित्यो महीपतिः | बभूव मृगयां गन्तुं स कदाचिद्धृतव्रतः ||१|| स चेदिविषयं रम्यं वसुः पौरवनन्दनः | इन्द्रोपदेशाज्जग्राह ग्रहणीयं महीपतिः ||२|| तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम् | देवः साक्षात्स्वयं वज्री समुपायान्महीपतिम् ||३|| इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै | तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयत् ||४|| इन्द्र उवाच|| न सङ्कीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते | तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत् ||५|| लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः | धर्मयुक्तस्ततो लोकान्पुण्यानाप्स्यसि शाश्वतान् ||६|| दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः | ऊधः पृथिव्या यो देशस्तमावस नराधिप ||७|| पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान् | स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः ||८|| अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः | वसुपूर्णा च वसुधा वस चेदिषु चेदिप ||९|| धर्मशीला जनपदाः सुसन्तोषाश्च साधवः | न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा ||१०|| न च पित्रा विभज्यन्ते नरा गुरुहिते रताः | युञ्जते धुरि नो गाश्च कृशाः सन्धुक्षयन्ति च ||११|| सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद | न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु यद्भवेत् ||१२|| देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत् | आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते ||१३|| त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः | चरिष्यस्युपरिस्थो वै देवो विग्रहवानिव ||१४|| ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् | धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम् ||१५|| लक्षणं चैतदेवेह भविता ते नराधिप | इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत् ||१६|| वैशम्पायन उवाच|| यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः | इष्टप्रदानमुद्दिश्य शिष्टानां परिपालिनीम् ||१७|| तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा | प्रवेशं कारयामास गते संवत्सरे तदा ||१८|| ततः प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः | प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः ||१९|| अपरेद्युस्तथा चास्याः क्रियते उच्छ्रयो नृपैः | अलङ्कृतायाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः ||२०|| माल्यदामपरिक्षिप्ता विधिवत्क्रियतेऽपि च ||२०|| भगवान्पूज्यते चात्र हास्यरूपेण शङ्करः | स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः ||२१|| एतां पूजां महेन्द्रस्तु दृष्ट्वा देव कृतां शुभाम् | वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः ||२२|| ये पूजयिष्यन्ति नरा राजानश्च महं मम | कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः ||२३|| तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति | तथा स्फीतो जनपदो मुदितश्च भविष्यति ||२४|| एवं महात्मना तेन महेन्द्रेण नराधिप | वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः ||२५|| उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः | भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै ||२६|| वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते ||२६|| सम्पूजितो मघवता वसुश्चेदिपतिस्तदा | पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् ||२७|| इन्द्रप्रीत्या भूमिपतिश्चकारेन्द्रमहं वसुः ||२७|| पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः | नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत् ||२८|| महारथो मगधराड्विश्रुतो यो बृहद्रथः | प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् ||२९|| मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः ||२९|| एते तस्य सुता राजन्राजर्षेर्भूरितेजसः | न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च ||३०|| वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः ||३०|| वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम् | उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् ||३१|| राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् ||३१|| पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः | अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल ||३२|| गिरिं कोलाहलं तं तु पदा वसुरताडयत् | निश्चक्राम नदी तेन प्रहारविवरेण सा ||३३|| तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम् | तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् ||३४|| यः पुमानभवत्तत्र तं स राजर्षिसत्तमः | वसुर्वसुप्रदश्चक्रे सेनापतिमरिंदमम् ||३५|| चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः ||३५|| वसोः पत्नी तु गिरिका कामात्काले न्यवेदयत् | ऋतुकालमनुप्राप्तं स्नाता पुंसवने शुचिः ||३६|| तदहः पितरश्चैनमूचुर्जहि मृगानिति | तं राजसत्तमं प्रीतास्तदा मतिमतां वरम् ||३७|| स पितृणां नियोगं तमव्यतिक्रम्य पार्थिवः | चचार मृगयां कामी गिरिकामेव संस्मरन् ||३८|| अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम् ||३८|| तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने | स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः ||३९|| प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत | ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः ||४०|| सञ्चिन्त्यैवं तदा राजा विचार्य च पुनः पुनः | अमोघत्वं च विज्ञाय रेतसो राजसत्तमः ||४१|| शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः | अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् ||४२|| सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽब्रवीत् ||४२|| मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय | गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै ||४३|| गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् | जवं परममास्थाय प्रदुद्राव विहङ्गमः ||४४|| तमपश्यदथायान्तं श्येनं श्येनस्तथापरः | अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया ||४५|| तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः | युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि ||४६|| तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः | मीनभावमनुप्राप्ता बभूव यमुनाचरी ||४७|| श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम् | जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी ||४८|| कदाचिदथ मत्सीं तां बबन्धुर्मत्स्यजीविनः | मासे च दशमे प्राप्ते तदा भरतसत्तम ||४९|| उज्जह्रुरुदरात्तस्याः स्त्रीपुमांसं च मानुषम् ||४९|| आश्चर्यभूतं मत्वा तद्राज्ञस्ते प्रत्यवेदयन् | काये मत्स्या इमौ राजन्सम्भूतौ मानुषाविति ||५०|| तयोः पुमांसं जग्राह राजोपरिचरस्तदा | स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः ||५१|| साप्सरा मुक्तशापा च क्षणेन समपद्यत | पुरोक्ता या भगवता तिर्यग्योनिगता शुभे ||५२|| मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ||५२|| ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना | सन्त्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च ||५३|| सिद्धर्षिचारणपथं जगामाथ वराप्सराः ||५३|| या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी | राज्ञा दत्ताथ दाशाय इयं तव भवत्विति ||५४|| रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः ||५४|| सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् | आसीन्मत्स्यसगन्धैव कञ्चित्कालं शुचिस्मिता ||५५|| शुश्रूषार्थं पितुर्नावं तां तु वाहयतीं जले | तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः ||५६|| अतीव रूपसम्पन्नां सिद्धानामपि काङ्क्षिताम् | दृष्ट्वैव च स तां धीमांश्चकमे चारुदर्शनाम् ||५७|| विद्वांस्तां वासवीं कन्यां कार्यवान्मुनिपुङ्गवः ||५७|| साब्रवीत्पश्य भगवन्पारावारे ऋषीन्स्थितान् | आवयोर्दृश्यतोरेभिः कथं नु स्यात्समागमः ||५८|| एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः | येन देशः स सर्वस्तु तमोभूत इवाभवत् ||५९|| दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा | विस्मिता चाब्रवीत्कन्या व्रीडिता च मनस्विनी ||६०|| विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् | त्वत्संयोगाच्च दुष्येत कन्याभावो ममानघ ||६१|| कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम | गन्तुं गृहं गृहे चाहं धीमन्न स्थातुमुत्सहे ||६२|| एतत्सञ्चिन्त्य भगवन्विधत्स्व यदनन्तरम् ||६२|| एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः | उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि ||६३|| वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि | वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते ||६४|| एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् | स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं प्रभुः ||६५|| ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता | जगाम सह संसर्गमृषिणाद्भुतकर्मणा ||६६|| तेन गन्धवतीत्येव नामास्याः प्रथितं भुवि | तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि ||६७|| ततो योजनगन्धेति तस्या नाम परिश्रुतम् | पराशरोऽपि भगवाञ्जगाम स्वं निवेशनम् ||६८|| इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् | पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा ||६९|| जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् ||६९|| स मातरमुपस्थाय तपस्येव मनो दधे | स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् ||७०|| एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् | द्वीपे न्यस्तः स यद्बालस्तस्माद्द्वैपायनोऽभवत् ||७१|| पादापसारिणं धर्मं विद्वान्स तु युगे युगे | आयुः शक्तिं च मर्त्यानां युगानुगमवेक्ष्य च ||७२|| ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाम्यया | विव्यास वेदान्यस्माच्च तस्माद्व्यास इति स्मृतः ||७३|| वेदानध्यापयामास महाभारतपञ्चमान् | सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् ||७४|| प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च | संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः ||७५|| तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः | वसुवीर्यात्समभवन्महावीर्यो महायशाः ||७६|| शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया | अणीमाण्डव्य इति वै विख्यातः सुमहायशाः ||७७|| स धर्ममाहूय पुरा महर्षिरिदमुक्तवान् | इषीकया मया बाल्यादेका विद्धा शकुन्तिका ||७८|| तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे | तन्मे सहस्रसमितं कस्मान्नेहाजयत्तपः ||७९|| गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः | तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि ||८०|| तेन शापेन धर्मोऽपि शूद्रयोनावजायत | विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी ||८१|| सञ्जयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् | सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महारथः ||८२|| सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ||८२|| अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः | वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः ||८३|| अनादिनिधनो देवः स कर्ता जगतः प्रभुः | अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम् ||८४|| आत्मानमव्ययं चैव प्रकृतिं प्रभवं परम् | पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम् ||८५|| अनन्तमचलं देवं हंसं नारायणं प्रभुम् | धातारमजरं नित्यं तमाहुः परमव्ययम् ||८६|| पुरुषः स विभुः कर्ता सर्वभूतपितामहः | धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु ||८७|| अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ | सात्यकिः कृतवर्मा च नारायणमनुव्रतौ ||८८|| सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ ||८८|| भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत | महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत ||८९|| गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः | अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः ||९०|| अश्वत्थामा ततो जज्ञे द्रोणादस्त्रभृतां वरः ||९०|| तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः | वैताने कर्मणि तते पावकात्समजायत ||९१|| वीरो द्रोणविनाशाय धनुषा सह वीर्यवान् ||९१|| तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा | विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम् ||९२|| प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः | तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् ||९३|| गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा | दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ ||९४|| कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः | क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः ||९५|| पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् | द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः ||९६|| धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः | इन्द्राद्धनञ्जयः श्रीमान्सर्वशस्त्रभृतां वरः ||९७|| जज्ञाते रूपसम्पन्नावश्विभ्यां तु यमावुभौ | नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ ||९८|| तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः | दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा ||९९|| अभिमन्युः सुभद्रायामर्जुनादभ्यजायत | स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः ||१००|| पाण्डवेभ्योऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे | कुमारा रूपसम्पन्नाः सर्वशस्त्रविशारदाः ||१०१|| प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् | अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ||१०२|| तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् | हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः ||१०३|| शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता | यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया ||१०४|| कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ | राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे ||१०५|| तेषामपरिमेयानि नामधेयानि सर्वशः | न शक्यं परिसङ्ख्यातुं वर्षाणामयुतैरपि ||१०६|| एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् ||१०६||

    ५८ जनमेजय उवाच|| य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः | सम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः ||१|| यदर्थमिह सम्भूता देवकल्पा महारथाः | भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि ||२|| वैशम्पायन उवाच|| रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् | तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे ||३|| त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा | जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे ||४|| तदा निःक्षत्रिये लोके भार्गवेण कृते सति | ब्राह्मणान्क्षत्रिया राजन्गर्भार्थिन्योऽभिचक्रमुः ||५|| ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः | ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा ||६|| तेभ्यस्तु लेभिरे गर्भान्क्षत्रियास्ताः सहस्रशः | ततः सुषुविरे राजन्क्षत्रियान्वीर्यसंमतान् ||७|| कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये ||७|| एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः | जातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम् ||८|| चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तराः ||८|| अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा | तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि ||९|| ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ ||९|| ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः | ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः ||१०|| आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः ||१०|| अथेमां सागरापाङ्गां गां गजेन्द्रगताखिलाम् | अध्यतिष्ठत्पुनः क्षत्रं सशैलवनकाननाम् ||११|| प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम् | ब्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम् ||१२|| कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः | दण्डं दण्ड्येषु धर्मेण प्रणयन्तोऽन्वपालयन् ||१३|| तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः | स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः ||१४|| न बाल एव म्रियते तदा कश्चिन्नराधिप | न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः ||१५|| एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ | इयं सागरपर्यन्ता समापूर्यत मेदिनी ||१६|| ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः | साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा ||१७|| न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप | न च शूद्रसमाभ्याशे वेदानुच्चारयन्त्युत ||१८|| कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह | न गामयुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवयन् ||१९|| फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः | न कूटमानैर्वणिजः पण्यं विक्रीणते तदा ||२०|| कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः | धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः ||२१|| स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप | एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित् ||२२|| काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ | फलन्त्यृतुषु वृक्षाश्च पुष्पाणि च फलानि च ||२३|| एवं कृतयुगे सम्यग्वर्तमाने तदा नृप | आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम् ||२४|| ततः समुदिते लोके मानुषे भरतर्षभ | असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुङ्गव ||२५|| आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि | ऐश्वर्याद्भ्रंशिताश्चापि सम्बभूवुः क्षिताविह ||२६|| इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः | जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो ||२७|| गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च | क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च ||२८|| जातैरिह महीपाल जायमानैश्च तैर्मही | न शशाकात्मनात्मानमियं धारयितुं धरा ||२९|| अथ जाता महीपालाः केचिद्बलसमन्विताः | दितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः ||३०|| वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् | इमां सागरपर्यन्तां परीयुररिमर्दनाः ||३१|| ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् | अन्यानि चैव भूतानि पीडयामासुरोजसा ||३२|| त्रासयन्तो विनिघ्नन्तस्तांस्तान्भूतगणांश्च ते | विचेरुः सर्वतो राजन्महीं शतसहस्रशः ||३३|| आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः | अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च ||३४|| एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः | पीड्यमाना महीपाल ब्रह्माणमुपचक्रमे ||३५|| न हीमां पवनो राजन्न नागा न नगा महीम् | तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात् ||३६|| ततो मही महीपाल भारार्ता भयपीडिता | जगाम शरणं देवं सर्वभूतपितामहम् ||३७|| सा संवृतं महाभागैर्देवद्विजमहर्षिभिः | ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम् ||३८|| गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः | वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा ||३९|| अथ विज्ञापयामास भूमिस्तं शरणार्थिनी | संनिधौ लोकपालानां सर्वेषामेव भारत ||४०|| तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयम्भुवः | पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः ||४१|| स्रष्टा हि जगतः कस्मान्न सम्बुध्येत भारत | सुरासुराणां लोकानामशेषेण मनोगतम् ||४२|| तमुवाच महाराज भूमिं भूमिपतिर्विभुः | प्रभवः सर्वभूतानामीशः शम्भुः प्रजापतिः ||४३|| यदर्थमसि सम्प्राप्ता मत्सकाशं वसुन्धरे | तदर्थं संनियोक्ष्यामि सर्वानेव दिवौकसः ||४४|| इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च | आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम् ||४५|| अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् | अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत् ||४६|| तथैव च समानीय गन्धर्वाप्सरसां गणान् | उवाच भगवान्सर्वानिदं वचनमुत्तमम् ||४७|| स्वैरंशैः सम्प्रसूयध्वं यथेष्टं मानुषेष्विति ||४७|| अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः | तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा ||४८|| अथ ते सर्वशोंऽशैः स्वैर्गन्तुं भूमिं कृतक्षणाः | नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः ||४९|| यः स चक्रगदापाणिः पीतवासासितप्रभः | पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः ||५०|| तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् | अंशेनावतरस्वेति तथेत्याह च तं हरिः ||५१||

    ५९ वैशम्पायन उवाच|| अथ नारायणेनेन्द्रश्चकार सह संविदम् | अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः ||१|| आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः | निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह ||२|| तेऽमरारिविनाशाय सर्वलोकहिताय च | अवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः ||३|| ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च | जज्ञिरे राजशार्दूल यथाकामं दिवौकसः ||४|| दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा | पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः ||५|| दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा | न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम ||६|| जनमेजय उवाच|| देवदानवसङ्घानां गन्धर्वाप्सरसां तथा | मानवानां च सर्वेषां तथा वै यक्षरक्षसाम् ||७|| श्रोतुमिच्छामि तत्त्वेन सम्भवं कृत्स्नमादितः | प्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि ||८|| वैशम्पायन उवाच|| हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे | सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम् ||९|| ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः | मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ||१०|| मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः | प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश ||११|| अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः | क्रोधा प्रावा अरिष्टा च विनता कपिला तथा ||१२|| कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत | एतासां वीर्यसम्पन्नं पुत्रपौत्रमनन्तकम् ||१३|| अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः | ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत ||१४|| धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च | भगो विवस्वान्पूषा च सविता दशमस्तथा ||१५|| एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते | जघन्यजः स सर्वेषामादित्यानां गुणाधिकः ||१६|| एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः | नाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः ||१७|| प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम् | अनुह्रादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ ||१८|| प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत | विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः ||१९|| विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान् | बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः ||२०|| चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत | तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः ||२१|| शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः | असिलोमा च केशी च दुर्जयश्चैव दानवः ||२२|| अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् | तथा गगनमूर्धा च वेगवान्केतुमांश्च यः ||२३|| स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा | अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः ||२४|| इसृपा एकचक्रश्च विरूपाक्षो हराहरौ | निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा ||२५|| शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा | इति ख्याता दनोर्वंशे दानवाः परिकीर्तिताः ||२६|| अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ ||२६|| इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः | दनुपुत्रा महाराज दश दानवपुङ्गवाः ||२७|| एकाक्षो मृतपा वीरः प्रलम्बनरकावपि | वातापिः शत्रुतपनः शठश्चैव महासुरः ||२८|| गविष्ठश्च दनायुश्च दीर्घजिह्वश्च दानवः | असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत ||२९|| सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम् | सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम् ||३०|| क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम् | गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः ||३१|| अनायुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः | विक्षरो बलवीरौ च वृत्रश्चैव महासुरः ||३२|| कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः | भुवि ख्याता महावीर्या दानवेषु परन्तपाः ||३३|| विनाशनश्च क्रोधश्च हन्ता क्रोधस्य चापरः | क्रोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः ||३४|| असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत् | ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः ||३५|| त्वष्टावरस्तथात्रिश्च द्वावन्यौ मन्त्रकर्मिणौ | तेजसा सूर्यसङ्काशा ब्रह्मलोकप्रभावनाः ||३६|| इत्येष वंशप्रभवः कथितस्ते तरस्विनाम् | असुराणां सुराणां च पुराणे संश्रुतो मया ||३७|| एतेषां यदपत्यं तु न शक्यं तदशेषतः | प्रसङ्ख्यातुं महीपाल गुणभूतमनन्तकम् ||३८|| तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ | आरुणिर्वारुणिश्चैव वैनतेया इति स्मृताः ||३९|| शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः | कूर्मश्च कुलिकश्चैव काद्रवेया महाबलाः ||४०|| भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा | गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ||४१|| पत्रवानर्कपर्णश्च प्रयुतश्चैव विश्रुतः | भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी ||४२|| तथा शालिशिरा राजन्प्रद्युम्नश्च चतुर्दशः | कलिः पञ्चदशश्चैव नारदश्चैव षोडशः ||४३|| इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः ||४३|| अतस्तु भूतान्यन्यानि कीर्तयिष्यामि भारत | अनवद्यामनुवशामनूनामरुणां प्रियाम् ||४४|| अनूपां सुभगां भासीमिति प्रावा व्यजायत ||४४|| सिद्धः पूर्णश्च बर्ही च पूर्णाशश्च महायशाः | ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः ||४५|| विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा | इत्येते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः ||४६|| इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम् | प्रावासूत महाभागा देवी देवर्षितः पुरा ||४७|| अलम्बुसा मिश्रकेषी विद्युत्पर्णा तुलानघा | अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा ||४८|| असिता च सुबाहुश्च सुव्रता सुभुजा तथा | सुप्रिया चातिबाहुश्च विख्यातौ च हहाहुहू ||४९|| तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः ||४९|| अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा | अपत्यं कपिलायास्तु पुराणे परिकीर्तितम् ||५०|| इति ते सर्वभूतानां सम्भवः कथितो मया | यथावत्परिसङ्ख्यातो गन्धर्वाप्सरसां तथा ||५१|| भुजगानां सुपर्णानां रुद्राणां मरुतां तथा | गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम् ||५२|| आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः | श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता ||५३|| इमं तु वंशं नियमेन यः पठे; न्महात्मनां ब्राह्मणदेवसंनिधौ | अपत्यलाभं लभते स पुष्कलं; श्रियं यशः प्रेत्य च शोभनां गतिम् ||५४||

    ६० वैशम्पायन उवाच|| ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः | एकादश सुताः स्थाणोः ख्याताः परममानसाः ||१|| मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः | अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः ||२|| दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः | स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः ||३|| मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः | षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः ||४|| त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः | बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः ||५|| अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप | सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः ||६|| राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा | पुलहस्य मृगाः सिंहा व्याघ्राः किम्पुरुषास्तथा ||७|| क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः | विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः ||८|| दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः | ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः ||९|| वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः | तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ||१०|| ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः | पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ||११|| ददौ स दश धर्माय सप्तविंशतिमिन्दवे | दिव्येन विधिना राजन्कश्यपाय त्रयोदश ||१२|| नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे | कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ||१३|| बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश | द्वाराण्येतानि धर्मस्य विहितानि स्वयम्भुवा ||१४|| सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः | कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः ||१५|| सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः ||१५|| पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः | तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् ||१६|| धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः | प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः ||१७|| धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा | चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा ||१८|| रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः | प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ ||१९|| धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा | ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ||२०|| सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते | मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ||२१|| अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः | अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः ||२२|| तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः | कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः ||२३|| अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः | अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ||२४|| प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् | द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ||२५|| बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी | योगसिद्धा जगत्सर्वमसक्तं विचरत्युत ||२६|| प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ||२६|| विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः | कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ||२७|| भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः | यो दिव्यानि विमानानि देवतानां चकार ह ||२८|| मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः | पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् ||२९|| स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः | निःसृतो भगवान्धर्मः सर्वलोकसुखावहः ||३०|| त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः | शमः कामश्च हर्षश्च तेजसा लोकधारिणः ||३१|| कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना | नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः ||३२|| मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः | जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ||३३|| त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी | असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ ||३४|| द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप | तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ||३५|| त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव | अन्वयं सम्प्रवक्ष्यामि पक्षैश्च कुलतो गणान् ||३६|| रुद्राणामपरः पक्षः साध्यानां मरुतां तथा | वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च ||३७|| वैनतेयस्तु गरुडो बलवानरुणस्तथा | बृहस्पतिश्च भगवानादित्येष्वेव गण्यते ||३८|| अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् | एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः ||३९|| यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते ||३९|| ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः | भृगोः पुत्रः कविर्विद्वाञ्शुक्रः कविसुतो ग्रहः ||४०|| त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये | स्वयम्भुवा नियुक्तः सन्भुवनं परिधावति ||४१|| योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः | सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः ||४२|| तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे | अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् ||४३|| च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम् | यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत ||४४|| आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः | और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः ||४५|| महातपा महातेजा बाल एव गुणैर्युतः ||४५|| ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् | जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः ||४६|| रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः | सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी ||४७|| और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् | तेषां पुत्रसहस्राणि बभूवुर्भृगुविस्तरः ||४८|| द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् | लोके धाता विधाता च यौ स्थितौ मनुना सह ||४९|| तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा | तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः ||५०|| वरुणस्य भार्या ज्येष्ठा तु शुक्राद्देवी व्यजायत | तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् ||५१|| प्रजानामन्नकामानामन्योन्यपरिभक्षणात् | अधर्मस्तत्र सञ्जातः सर्वभूतविनाशनः ||५२|| तस्यापि निरृतिर्भार्या नैरृता येन राक्षसाः | घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा ||५३|| भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा ||५३|| काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम् | ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः ||५४|| उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत | भासी भासानजनयद्गृध्रांश्चैव जनाधिप ||५५|| धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः | चक्रवाकांश्च भद्रं ते प्रजज्ञे सा तु भामिनी ||५६|| शुकी विजज्ञे धर्मज्ञ शुकानेव मनस्विनी | कल्याणगुणसम्पन्ना सर्वलक्षणपूजिता ||५७|| नव क्रोधवशा नारीः प्रजज्ञेऽप्यात्मसम्भवाः | मृगीं च मृगमन्दां च हरिं भद्रमनामपि ||५८|| मातङ्गीमथ शार्दूलीं श्वेतां सुरभिमेव च | सर्वलक्षणसम्पन्नां सुरसां च यशस्विनीम् ||५९|| अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज | ऋक्षाश्च मृगमन्दायाः सृमराश्चमरा अपि ||६०|| ततस्त्वैरावतं नागं जज्ञे भद्रमना सुतम् | ऐरावतः सुतस्तस्या देवनागो महागजः ||६१|| हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः | गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते ||६२|| प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारत | द्वीपिनश्च महाभाग सर्वानेव न संशयः ||६३|| मातङ्ग्यास्त्वथ मातङ्गा अपत्यानि नराधिप | दिशागजं तु श्वेताख्यं श्वेताजनयदाशुगम् ||६४|| तथा दुहितरौ राजन्सुरभिर्वै व्यजायत | रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम् ||६५|| रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः ||६५|| सुरसाजनयन्नागान्राजन्कद्रूश्च पन्नगान् | सप्त पिण्डफलान्वृक्षाननलापि व्यजायत ||६६|| अनलायाः शुकी पुत्री कद्र्वास्तु सुरसा सुता ||६६|| अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ | सम्पातिं जनयामास तथैव च जटायुषम् ||६७|| द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ ||६७|| इत्येष सर्वभूतानां महतां मनुजाधिप | प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर ||६८|| यं श्रुत्वा पुरुषः सम्यक्पूतो भवति पाप्मनः | सर्वज्ञतां च लभते गतिमग्र्यां च विन्दति ||६९||

    ६१ जनमेजय उवाच|| देवानां दानवानां च यक्षाणामथ रक्षसाम् | अन्येषां चैव भूतानां सर्वेषां भगवन्नहम् ||१|| श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम् | जन्म कर्म च भूतानामेतेषामनुपूर्वशः ||२|| वैशम्पायन उवाच|| मानुषेषु मनुष्येन्द्र सम्भूता ये दिवौकसः | प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः ||३|| विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः | जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः ||४|| दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः | स जज्ञे मानुषे लोके शिशुपालो नरर्षभः ||५|| संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः | स शल्य इति विख्यातो जज्ञे बाह्लीकपुङ्गवः ||६|| अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः | धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः ||७|| यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः | द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ||८|| बाष्कलो नाम यस्तेषामासीदसुरसत्तमः | भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः ||९|| अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् | तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः ||१०|| पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः | केकयेषु महात्मानः पार्थिवर्षभसत्तमाः ||११|| केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् | अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्न्नृपः ||१२|| स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः | उग्रसेन इति ख्यात उग्रकर्मा नराधिपः ||१३|| यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः | अशोको नाम राजासीन्महावीर्यपराक्रमः ||१४|| तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः | दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः ||१५|| वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः | दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः ||१६|| अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः | स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः ||१७|| अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः | रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः ||१८|| सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः | बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः ||१९|| तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः | सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः ||२०|| इसृपा नाम यस्तेषामसुराणां बलाधिकः | पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः ||२१|| एकचक्र इति ख्यात आसीद्यस्तु महासुरः | प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ ||२२|| विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः | चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः ||२३|| हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः | सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः ||२४|| अहरस्तु महातेजाः शत्रुपक्षक्षयङ्करः | बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ ||२५|| निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः | मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः ||२६|| निकुम्भस्त्वजितः सङ्ख्ये महामतिरजायत | भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः ||२७|| शरभो नाम यस्तेषां दैतेयानां महासुरः | पौरवो नाम राजर्षिः स बभूव नरेष्विह ||२८|| द्वितीयः शलभस्तेषामसुराणां बभूव यः | प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः ||२९|| चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः | ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः ||३०|| मृतपा इति विख्यातो य आसीदसुरोत्तमः | पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम ||३१|| गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः | द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः ||३२|| मयूर इति विख्यातः श्रीमान्यस्तु महासुरः | स विश्व इति विख्यातो बभूव पृथिवीपतिः ||३३|| सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः | कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः ||३४|| चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः | शुनको नाम राजर्षिः स बभूव नराधिपः ||३५|| विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः | जानकिर्नाम राजर्षिः स बभूव नराधिपः ||३६|| दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः | काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः ||३७|| ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम् | क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः ||३८|| अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः | विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः ||३९|| द्वितीयो विक्षराद्यस्तु नराधिप महासुरः | पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः ||४०|| बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः | पौण्ड्रमत्स्यक इत्येव स बभूव नराधिपः ||४१|| वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः | मणिमान्नाम राजर्षिः स बभूव नराधिपः ||४२|| क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः | दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ||४३|| क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः | दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः ||४४|| कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः | जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ||४५|| मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः | अष्टानां प्रवरस्तेषां कालेयानां महासुरः ||४६|| द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः | अपराजित इत्येव स बभूव नराधिपः ||४७|| तृतीयस्तु महाराज महाबाहुर्महासुरः | निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ||४८|| तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः | श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः ||४९|| पञ्चमस्तु बभूवैषां प्रवरो यो महासुरः | महौजा इति विख्यातो बभूवेह परन्तपः ||५०|| षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः | अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः ||५१|| समुद्रसेनश्च नृपस्तेषामेवाभवद्गणात् | विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् ||५२|| बृहन्नामाष्टमस्तेषां कालेयानां परन्तपः | बभूव राजन्धर्मात्मा सर्वभूतहिते रतः ||५३|| गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः | ततः सञ्जज्ञिरे वीराः क्षिताविह नराधिपाः ||५४|| नन्दिकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा | सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः ||५५|| क्रोधो विचित्यः सुरसः श्रीमान्नीलश्च भूमिपः | वीरधामा च कौरव्य भूमिपालश्च नामतः ||५६|| दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव नामतः | रुक्मी च नृपशार्दूलो राजा च जनमेजयः ||५७|| आषाढो वायुवेगश्च भूरितेजास्तथैव च | एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः ||५८|| कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च | श्रुतायुरुद्धवश्चैव बृहत्सेनस्तथैव च ||५९|| क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः | मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः ||६०|| गणात्क्रोधवशादेवं राजपूगोऽभवत्क्षितौ | जातः पुरा महाराज महाकीर्तिर्महाबलः ||६१|| यस्त्वासीद्देवको नाम देवराजसमद्युतिः | स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ||६२|| बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत | अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ||६३|| धन्विनां नृपशार्दूल यः स सर्वास्त्रवित्तमः | बृहत्कीर्तिर्महातेजाः सञ्जज्ञे मनुजेष्विह ||६४|| धनुर्वेदे च वेदे च यं तं वेदविदो विदुः | वरिष्ठमिन्द्रकर्माणं द्रोणं स्वकुलवर्धनम् ||६५|| महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत | एकत्वमुपपन्नानां जज्ञे शूरः परन्तपः ||६६|| अश्वत्थामा महावीर्यः शत्रुपक्षक्षयङ्करः | वीरः कमलपत्राक्षः क्षितावासीन्नराधिप ||६७|| जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः | वसिष्ठस्य च शापेन नियोगाद्वासवस्य च ||६८|| तेषामवरजो भीष्मः कुरूणामभयङ्करः | मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः ||६९|| जामदग्न्येन रामेण यः स सर्वविदां वरः | अयुध्यत महातेजा भार्गवेण महात्मना ||७०|| यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ | रुद्राणां तं गणाद्विद्धि सम्भूतमतिपौरुषम् ||७१|| शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः | द्वापरं विद्धि तं राजन्सम्भूतमरिमर्दनम् ||७२|| सात्यकिः सत्यसन्धस्तु योऽसौ वृष्णिकुलोद्वहः | पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः ||७३|| द्रुपदश्चापि राजर्षिस्तत एवाभवद्गणात् | मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः ||७४|| ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम् | जातमप्रतिकर्माणं क्षत्रियर्षभसत्तमम् ||७५|| मरुतां तु गणाद्विद्धि सञ्जातमरिमर्दनम् | विराटं नाम राजर्षिं परराष्ट्रप्रतापनम् ||७६|| अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः | स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ||७७|| धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनादपि | दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः ||७८|| मातुर्दोषादृषेः कोपादन्ध एव व्यजायत ||७८|| अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतां वरम् | विदुरं विद्धि लोकेऽस्मिञ्जातं बुद्धिमतां वरम् ||७९|| कलेरंशात्तु सञ्जज्ञे भुवि दुर्योधनो नृपः | दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ||८०|| जगतो यः स सर्वस्य विद्विष्टः कलिपूरुषः | यः सर्वां घातयामास पृथिवीं पुरुषाधमः ||८१|| येन वैरं समुद्दीप्तं भूतान्तकरणं महत् ||८१|| पौलस्त्या भ्रातरः सर्वे जज्ञिरे मनुजेष्विह | शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम् ||८२|| दुर्मुखो दुःसहश्चैव ये चान्ये नानुशब्दिताः | दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ ||८३|| धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् | भीमसेनं तु वातस्य देवराजस्य चार्जुनम् ||८४|| अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि | नकुलः सहदेवश्च सर्वलोकमनोहरौ ||८५|| यः सुवर्चा इति ख्यातः सोमपुत्रः प्रतापवान् | अभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् ||८६|| अग्नेरंशं तु विद्धि त्वं धृष्टद्युम्नं महारथम् | शिखण्डिनमथो राजन्स्त्रीपुंसं विद्धि राक्षसम् ||८७|| द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ | विश्वेदेवगणान्राजंस्तान्विद्धि भरतर्षभ ||८८|| आमुक्तकवचः कर्णो यस्तु जज्ञे महारथः | दिवाकरस्य तं विद्धि देवस्यांशमनुत्तमम् ||८९|| यस्तु नारायणो नाम देवदेवः सनातनः | तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान् ||९०|| शेषस्यांशस्तु नागस्य बलदेवो महाबलः | सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् ||९१|| एवमन्ये मनुष्येन्द्र बहवोंऽशा दिवौकसाम् | जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः ||९२|| गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः | तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य च ||९३|| तानि षोडश देवीनां सहस्राणि नराधिप | बभूवुर्मानुषे लोके नारायणपरिग्रहः ||९४|| श्रियस्तु भागः सञ्जज्ञे रत्यर्थं पृथिवीतले | द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता ||९५|| नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी | पद्मायताक्षी सुश्रोणी असितायतमूर्धजा ||९६|| सर्वलक्षणसम्पन्ना वैडूर्यमणिसंनिभा | पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः ||९७|| सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते | कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा ||९८|| इति देवासुराणां ते गन्धर्वाप्सरसां तथा | अंशावतरणं राजन्राक्षसानां च कीर्तितम् ||९९|| ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः | महात्मानो यदूनां च ये जाता विपुले कुले ||१००|| धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम् | इदमंशावतरणं श्रोतव्यमनसूयता ||१०१|| अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् | प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति ||१०२||

    संभवपर्व शंकुतलोपाख्यानम् ६२ जनमेजय उवाच|| त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम् | अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा ||१|| इमं तु भूय इच्छामि कुरूणां वंशमादितः | कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ||२|| वैशम्पायन उवाच|| पौरवाणां वंशकरो दुःषन्तो नाम वीर्यवान् | पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम ||३|| चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः | समुद्रावरणांश्चापि देशान्स समितिञ्जयः ||४|| आम्लेच्छाटविकान्सर्वान्स भुङ्क्ते रिपुमर्दनः | रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान् ||५|| न वर्णसङ्करकरो नाकृष्यकरकृज्जनः | न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति ||६|| धर्म्यां रतिं सेवमाना धर्मार्थावभिपेदिरे | तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे ||७|| नासीच्चोरभयं तात न क्षुधाभयमण्वपि | नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे ||८|| स्वैर्धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः | तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः ||९|| कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च | सर्वरत्नसमृद्धा च मही वसुमती तदा ||१०|| स चाद्भुतमहावीर्यो वज्रसंहननो युवा | उद्यम्य मन्दरं दोर्भ्यां हरेत्सवनकाननम् ||११|| धनुष्यथ गदायुद्धे त्सरुप्रहरणेषु च | नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठितः ||१२|| बले विष्णुसमश्चासीत्तेजसा भास्करोपमः | अक्षुब्धत्वेऽर्णवसमः सहिष्णुत्वे धरासमः ||१३|| संमतः स महीपालः प्रसन्नपुरराष्ट्रवान् | भूयो धर्मपरैर्भावैर्विदितं जनमावसत् ||१४||

    ६३ वैशम्पायन उवाच|| स कदाचिन्महाबाहुः प्रभूतबलवाहनः | वनं जगाम गहनं हयनागशतैर्वृतः ||१|| खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः | प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः ||२|| सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः | रथनेमिस्वनैश्चापि सनागवरबृंहितैः ||३|| हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः | आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे ||४|| प्रासादवरशृङ्गस्थाः परया नृपशोभया | ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम् ||५|| शक्रोपमममित्रघ्नं परवारणवारणम् | पश्यन्तः स्त्रीगणास्तत्र शस्त्रपाणिं स्म मेनिरे ||६|| अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः | यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः ||७|| इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम् | तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि ||८|| तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः | निर्ययौ परया प्रीत्या वनं मृगजिघांसया ||९|| सुदूरमनुजग्मुस्तं पौरजानपदास्तदा | न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह ||१०|| सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः | महीमापूरयामास घोषेण त्रिदिवं तथा ||११|| स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् | बिल्वार्कखदिराकीर्णं कपित्थधवसङ्कुलम् ||१२|| विषमं पर्वतप्रस्थैरश्मभिश्च समावृतम् | निर्जलं निर्मनुष्यं च बहुयोजनमायतम् ||१३|| मृगसङ्घैर्वृतं घोरैरन्यैश्चापि वनेचरैः ||१३|| तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः | लोडयामास दुःषन्तः सूदयन्विविधान्मृगान् ||१४|| बाणगोचरसम्प्राप्तांस्तत्र व्याघ्रगणान्बहून् | पातयामास दुःषन्तो निर्बिभेद च सायकैः ||१५|| दूरस्थान्सायकैः कांश्चिदभिनत्स नरर्षभः | अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत ||१६|| कांश्चिदेणान्स निर्जघ्ने शक्त्या शक्तिमतां वरः | गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः ||१७|| तोमरैरसिभिश्चापि गदामुसलकर्पणैः | चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान् ||१८|| राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः | लोड्यमानं महारण्यं तत्यजुश्च महामृगाः ||१९|| तत्र विद्रुतसङ्घानि हतयूथपतीनि च | मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः ||२०|| शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिताः | व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः ||२१|| क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि | केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः ||२२|| केचिदग्निमथोत्पाद्य समिध्य च वनेचराः | भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा ||२३|| तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः | सङ्कोच्याग्रकरान्भीताः प्रद्रवन्ति स्म वेगिताः ||२४|| शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु | वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् ||२५|| तद्वनं बलमेघेन शरधारेण संवृतम् | व्यरोचन्महिषाकीर्णं राज्ञा हतमहामृगम् ||२६||

    ६४ वैशम्पायन उवाच|| ततो मृगसहस्राणि हत्वा विपुलवाहनः | राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह ||१|| एक एवोत्तमबलः क्षुत्पिपासासमन्वितः | स वनस्यान्तमासाद्य महदीरिणमासदत् ||२|| तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम् | मनःप्रह्लादजननं दृष्टिकान्तमतीव च ||३|| शीतमारुतसंयुक्तं जगामान्यन्महद्वनम् ||३|| पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् | विपुलं मधुरारावैर्नादितं विहगैस्तथा ||४|| प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम् | षट्पदाघूर्णितलतं लक्ष्म्या परमया युतम् ||५|| नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी | षट्पदैर्वाप्यनाकीर्णस्तस्मिन्वै काननेऽभवत् ||६|| विहगैर्नादितं पुष्पैरलङ्कृतमतीव च | सर्वर्तुकुसुमैर्वृक्षैरतीव सुखशाद्वलम् ||७|| मनोरमं महेष्वासो विवेश वनमुत्तमम् ||७|| मारुतागलितास्तत्र द्रुमाः कुसुमशालिनः | पुष्पवृष्टिं विचित्रां स्म व्यसृजंस्ते पुनः पुनः ||८|| दिवस्पृशोऽथ सङ्घुष्टाः पक्षिभिर्मधुरस्वरैः | विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः ||९|| तेषां तत्र प्रवालेषु पुष्पभारावनामिषु | रुवन्ति रावं विहगाः षट्पदैः सहिता मृदु ||१०|| तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान् | लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान् ||११|| सम्पश्यन्स महातेजा बभूव मुदितस्तदा ||११|| परस्पराश्लिष्टशाखैः पादपैः कुसुमाचितैः | अशोभत वनं तत्तैर्महेन्द्रध्वजसंनिभैः ||१२|| सुखशीतः सुगन्धी च पुष्परेणुवहोऽनिलः | परिक्रामन्वने वृक्षानुपैतीव रिरंसया ||१३|| एवङ्गुणसमायुक्तं ददर्श स वनं नृपः | नदीकच्छोद्भवं कान्तमुच्छ्रितध्वजसंनिभम् ||१४|| प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहङ्गमम् | आश्रमप्रवरं रम्यं ददर्श च मनोरमम् ||१५|| नानावृक्षसमाकीर्णं सम्प्रज्वलितपावकम् | यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम् ||१६|| अग्न्यागारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम् | महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च ||१७|| मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम् | नैकपक्षिगणाकीर्णां तपोवनमनोरमाम् ||१८|| तत्र व्यालमृगान्सौम्यान्पश्यन्प्रीतिमवाप सः ||१८|| तं चाप्यतिरथः श्रीमानाश्रमं प्रत्यपद्यत | देवलोकप्रतीकाशं सर्वतः सुमनोहरम् ||१९|| नदीमाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः | सर्वप्राणभृतां तत्र जननीमिव विष्ठिताम् ||२०|| सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम् | सकिंनरगणावासां वानरर्क्षनिषेविताम् ||२१|| पुण्यस्वाध्यायसङ्घुष्टां पुलिनैरुपशोभिताम् | मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम् ||२२|| नदीमाश्रमसम्बद्धां दृष्ट्वाश्रमपदं तथा | चकाराभिप्रवेशाय मतिं स नृपतिस्तदा ||२३|| अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया | नरनारायणस्थानं गङ्गयेवोपशोभितम् ||२४|| मत्तबर्हिणसङ्घुष्टं प्रविवेश महद्वनम् ||२४|| तत्स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः | अतीव गुणसम्पन्नमनिर्देश्यं च वर्चसा ||२५|| महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम् ||२५|| रथिनीमश्वसम्बाधां पदातिगणसङ्कुलाम् | अवस्थाप्य वनद्वारि सेनामिदमुवाच सः ||२६|| मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम् | काश्यपं स्थीयतामत्र यावदागमनं मम ||२७|| तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः | क्षुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम् ||२८|| सामात्यो राजलिङ्गानि सोऽपनीय नराधिपः | पुरोहितसहायश्च जगामाश्रममुत्तमम् ||२९|| दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम् ||२९|| ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य च | षट्पदोद्गीतसङ्घुष्टं नानाद्विज गणायुतम् ||३०|| ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः | शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु ||३१|| यज्ञविद्याङ्गविद्भिश्च क्रमद्भिश्च क्रमानपि | अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः ||३२|| अथर्ववेदप्रवराः पूगयाज्ञिक संमताः | संहितामीरयन्ति स्म पदक्रमयुतां तु ते ||३३|| शब्दसंस्कारसंयुक्तं ब्रुवद्भिश्चापरैर्द्विजैः | नादितः स बभौ श्रीमान्ब्रह्मलोक इवाश्रमः ||३४|| यज्ञसंस्कारविद्भिश्च क्रमशिक्षा विशारदैः | न्यायतत्त्वार्थविज्ञानसम्पन्नैर्वेदपारगैः ||३५|| नानावाक्यसमाहारसमवायविशारदैः | विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः ||३६|| स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः | लोकायतिकमुख्यैश्च समन्तादनुनादितम् ||३७|| तत्र तत्र च विप्रेन्द्रान्नियतान्संशितव्रतान् | जपहोमपरान्सिद्धान्ददर्श परवीरहा ||३८|| आसनानि विचित्राणि पुष्पवन्ति महीपतिः | प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत् ||३९|| देवतायतनानां च पूजां प्रेक्ष्य कृतां द्विजैः | ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः ||४०|| स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम् | नातृप्यत्प्रेक्षमाणो वै तपोधनगणैर्युतम् ||४१|| स काश्यपस्यायतनं महाव्रतै; र्वृतं समन्तादृषिभिस्तपोधनैः | विवेश सामात्यपुरोहितोऽरिहा; विविक्तमत्यर्थमनोहरं शिवम् ||४२||

    ६५ वैशम्पायन उवाच|| ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् | नापश्यदाश्रमे तस्मिंस्तमृषिं संशितव्रतम् ||१|| सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तमाश्रमम् | उवाच क इहेत्युच्चैर्वनं संनादयन्निव ||२|| श्रुत्वाथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी | निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी ||३|| सा तं दृष्ट्वैव राजानं दुःषन्तमसितेक्षणा | स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च ||४|| आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि | पप्रच्छानामयं राजन्कुशलं च नराधिपम् ||५|| यथावदर्चयित्वा सा पृष्ट्वा चानामयं तदा | उवाच स्मयमानेव किं कार्यं क्रियतामिति ||६|| तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम् | दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः ||७|| आगतोऽहं महाभागमृषिं कण्वमुपासितुम् | क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने ||८|| शकुन्तलोवाच|| गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात् | मुहूर्तं सम्प्रतीक्षस्व द्रक्ष्यस्येनमिहागतम् ||९|| वैशम्पायन उवाच|| अपश्यमानस्तमृषिं तया चोक्तस्तथा नृपः | तां च दृष्ट्वा वरारोहां श्रीमतीं चारुहासिनीम् ||१०|| विभ्राजमानां वपुषा तपसा च दमेन च | रूपयौवनसम्पन्नामित्युवाच महीपतिः ||११|| कासि कस्यासि सुश्रोणि किमर्थं चागता वनम् | एवंरूपगुणोपेता कुतस्त्वमसि शोभने ||१२|| दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः | इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने ||१३|| एवमुक्ता तदा कन्या तेन राज्ञा तदाश्रमे | उवाच हसती वाक्यमिदं सुमधुराक्षरम् ||१४|| कण्वष्याहं भगवतो दुःषन्त दुहिता मता | तपस्विनो धृतिमतो धर्मज्ञस्य यशस्विनः ||१५|| दुःषन्त उवाच|| ऊर्ध्वरेता महाभागो भगवाँल्लोकपूजितः | चलेद्धि वृत्ताद्धर्मोऽपि न चलेत्संशितव्रतः ||१६|| कथं त्वं तस्य दुहिता सम्भूता वरवर्णिनी | संशयो मे महानत्र तं मे छेत्तुमिहार्हसि ||१७|| शकुन्तलोवाच|| यथायमागमो मह्यं यथा चेदमभूत्पुरा | शृणु राजन्यथातत्त्वं यथास्मि दुहिता मुनेः ||१८|| ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् | तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिव ||१९|| तप्यमानः किल पुरा विश्वामित्रो महत्तपः | सुभृशं तापयामास शक्रं सुरगणेश्वरम् ||२०|| तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति | भीतः पुरंदरस्तस्मान्मेनकामिदमब्रवीत् ||२१|| गुणैर्दिव्यैरप्सरसां मेनके त्वं विशिष्यसे | श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु ||२२|| असावादित्यसङ्काशो विश्वामित्रो महातपाः | तप्यमानस्तपो घोरं मम कम्पयते मनः ||२३|| मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे | संशितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते ||२४|| स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय | चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् ||२५|| रूपयौवनमाधुर्यचेष्टितस्मितभाषितैः | लोभयित्वा वरारोहे तपसः संनिवर्तय ||२६|| मेनकोवाच|| महातेजाः स भगवान्सदैव च महातपाः | कोपनश्च तथा ह्येनं जानाति भगवानपि ||२७|| तेजसस्तपसश्चैव कोपस्य च महात्मनः | त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् ||२८|| महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत् | क्षत्रे जातश्च यः पूर्वमभवद्ब्राह्मणो बलात् ||२९|| शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः | यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः ||३०|| बभार यत्रास्य पुरा काले दुर्गे महात्मनः | दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः ||३१|| अतीतकाले दुर्भिक्षे यत्रैत्य पुनराश्रमम् | मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः ||३२|| मतङ्गं याजयां चक्रे यत्र प्रीतमनाः स्वयम् | त्वं च सोमं भयाद्यस्य गतः पातुं शुरेश्वर ||३३|| अति नक्षत्रवंशांश्च क्रुद्धो नक्षत्रसम्पदा | प्रति श्रवणपूर्वाणि नक्षत्राणि ससर्ज यः ||३४|| एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे | यथा मां न दहेत्क्रुद्धस्तथाज्ञापय मां विभो ||३५|| तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा | सङ्क्षिपेच्च महामेरुं तूर्णमावर्तयेत्तथा ||३६|| तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् | कथमस्मद्विधा बाला जितेन्द्रियमभिस्पृशेत् ||३७|| हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् | कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् ||३८|| यमश्च सोमश्च महर्षयश्च; साध्या विश्वे वालखिल्याश्च सर्वे | एतेऽपि यस्योद्विजन्ते प्रभावा; त्कस्मात्तस्मान्मादृशी नोद्विजेत ||३९|| त्वयैवमुक्ता च कथं समीप; मृषेर्न गच्छेयमहं सुरेन्द्र | रक्षां तु मे चिन्तय देवराज; यथा त्वदर्थं रक्षिताहं चरेयम् ||४०|| कामं तु मे मारुतस्तत्र वासः; प्रक्रीडिताया विवृणोतु देव | भवेच्च मे मन्मथस्तत्र कार्ये; सहायभूतस्तव देवप्रसादात् ||४१|| वनाच्च वायुः सुरभिः प्रवाये; त्तस्मिन्काले तमृषिं लोभयन्त्याः | तथेत्युक्त्वा विहिते चैव तस्मिं; स्ततो ययौ साश्रमं कौशिकस्य ||४२||

    ६६ शकुन्तलोवाच|| एवमुक्तस्तया शक्रः संदिदेश सदागतिम् | प्रातिष्ठत तदा काले मेनका वायुना सह ||१|| अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम् | विश्वामित्रं तपस्यन्तं मेनका भीरुराश्रमे ||२|| अभिवाद्य ततः सा तं प्राक्रीडदृषिसंनिधौ | अपोवाह च वासोऽस्या मारुतः शशिसंनिभम् ||३|| सागच्छत्त्वरिता भूमिं वासस्तदभिलिङ्गती | उत्स्मयन्तीव सव्रीडं मारुतं वरवर्णिनी ||४|| गृद्धां वाससि सम्भ्रान्तां मेनकां मुनिसत्तमः | अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा ||५|| तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा | चकार भावं संसर्गे तया कामवशं गतः ||६|| न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता | तौ तत्र सुचिरं कालं वने व्यहरतामुभौ ||७|| रममाणौ यथाकामं यथैकदिवसं तथा ||७|| जनयामास स मुनिर्मेनकायां शकुन्तलाम् | प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् ||८|| जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु | कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम् ||९|| तं वने विजने गर्भं सिंहव्याघ्रसमाकुले | दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् ||१०|| नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः | पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ||११|| उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम् | निर्जने विपिनेऽरण्ये शकुन्तैः परिवारिताम् ||१२|| आनयित्वा ततश्चैनां दुहितृत्वे न्ययोजयम् ||१२|| शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते | क्रमेण ते त्रयोऽप्युक्ताः पितरो धर्मनिश्चये ||१३|| निर्जने च वने यस्माच्छकुन्तैः परिरक्षिता | शकुन्तलेति नामास्याः कृतं चापि ततो मया ||१४|| एवं दुहितरं विद्धि मम सौम्य शकुन्तलाम् | शकुन्तला च पितरं मन्यते मामनिन्दिता ||१५|| एतदाचष्ट पृष्टः सन्मम जन्म महर्षये | सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप ||१६|| कण्वं हि पितरं मन्ये पितरं स्वमजानती | इति ते कथितं राजन्यथावृत्तं श्रुतं मया ||१७||

    ६७ दुःषन्त उवाच|| सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे | भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ||१|| सुवर्णमाला वासांसि कुण्डले परिहाटके | नानापत्तनजे शुभ्रे मणिरत्ने च शोभने ||२|| आहरामि तवाद्याहं निष्कादीन्यजिनानि च | सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने ||३|| गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि | विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ||४|| शकुन्तलोवाच|| फलाहारो गतो राजन्पिता मे इत आश्रमात् | तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति ||५|| दुःषन्त उवाच|| इच्छामि त्वां वरारोहे भजमानामनिन्दिते | त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ||६|| आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः | आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ||७|| अष्टावेव समासेन विवाहा धर्मतः स्मृताः | ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ||८|| गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः | तेषां धर्मान्यथापूर्वं मनुः स्वायम्भुवोऽब्रवीत् ||९|| प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय | षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते ||१०|| राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः | पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह ||११|| पैशाचश्चासुरश्चैव न कर्तव्यौ कथञ्चन | अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता ||१२|| गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः | पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः ||१३|| सा त्वं मम सकामस्य सकामा वरवर्णिनि | गान्धर्वेण विवाहेन भार्या भवितुमर्हसि ||१४|| शकुन्तलोवाच|| यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम | प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो ||१५|| सत्यं मे प्रतिजानीहि यत्त्वां वक्ष्याम्यहं रहः | मम जायेत यः पुत्रः स भवेत्त्वदनन्तरम् ||१६|| युवराजो महाराज सत्यमेतद्ब्रवीहि मे | यद्येतदेवं दुःषन्त अस्तु मे सङ्गमस्त्वया ||१७|| वैशम्पायन उवाच|| एवमस्त्विति तां राजा प्रत्युवाचाविचारयन् | अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते ||१८|| यथा त्वमर्हा सुश्रोणि सत्यमेतद्ब्रवीमि ते ||१८|| एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् | जग्राह विधिवत्पाणावुवास च तया सह ||१९|| विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः | प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् ||२०|| तया त्वामानयिष्यामि निवासं स्वं शुचिस्मिते ||२०|| इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय | मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः ||२१|| भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति | एवं सञ्चिन्तयन्नेव प्रविवेश स्वकं पुरम् ||२२|| मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत् | शकुन्तला च पितरं ह्रिया नोपजगाम तम् ||२३|| विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः | उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा ||२४|| त्वयाद्य राजान्वयया मामनादृत्य यत्कृतः | पुंसा सह समायोगो न स धर्मोपघातकः ||२५|| क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते | सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः ||२६|| धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः | अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले ||२७|| महात्मा जनिता लोके पुत्रस्तव महाबलः | य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम् ||२८|| परं चाभिप्रयातस्य चक्रं तस्य महात्मनः | भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः ||२९|| ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत् | विनिधाय ततो भारं संनिधाय फलानि च ||३०|| मया पतिर्वृतो योऽसौ दुःषन्तः पुरुषोत्तमः | तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि ||३१|| कण्व उवाच|| प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि | गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् ||३२|| वैशम्पायन उवाच|| ततो धर्मिष्ठतां वव्रे राज्याच्चास्खलनं तथा | शकुन्तला पौरवाणां दुःषन्तहितकाम्यया ||३३||

    ६८ वैशम्पायन उवाच|| प्रतिज्ञाय तु दुःषन्ते प्रतियाते शकुन्तला | गर्भं सुषाव वामोरुः कुमारममितौजसम् ||१|| त्रिषु वर्षेषु पूर्णेषु दिप्तानलसमद्युतिम् | रूपौदार्यगुणोपेतं दौःषन्तिं जनमेजय ||२|| जातकर्मादिसंस्कारं कण्वः पुण्यकृतां वरः | तस्याथ कारयामास वर्धमानस्य धीमतः ||३|| दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो युवा | चक्राङ्कितकरः श्रीमान्महामूर्धा महाबलः ||४|| कुमारो देवगर्भाभः स तत्राशु व्यवर्धत ||४|| षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति | व्याघ्रान्सिंहान्वराहांश्च गजांश्च महिषांस्तथा ||५|| बद्ध्वा वृक्षेषु बलवानाश्रमस्य समन्ततः | आरोहन्दमयंश्चैव क्रीडंश्च परिधावति ||६|| ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः | अस्त्वयं सर्वदमनः सर्वं हि दमयत्ययम् ||७|| स सर्वदमनो नाम कुमारः समपद्यत | विक्रमेणौजसा चैव बलेन च समन्वितः ||८|| तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम् | समयो यौवराज्यायेत्यब्रवीच्च शकुन्तलाम् ||९|| तस्य तद्बलमाज्ञाय कण्वः शिष्यानुवाच ह | शकुन्तलामिमां शीघ्रं सहपुत्रामितोऽऽश्रमात् ||१०|| भर्त्रे प्रापयताद्यैव सर्वलक्षणपूजिताम् ||१०|| नारीणां चिरवासो हि बान्धवेषु न रोचते | कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत माचिरम् ||११|| तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्तामितौजसः | शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम् ||१२|| गृहीत्वामरगर्भाभं पुत्रं कमललोचनम् | आजगाम ततः शुभ्रा दुःषन्तविदिताद्वनात् ||१३|| अभिसृत्य च राजानं विदिता सा प्रवेशिता | सह तेनैव पुत्रेण तरुणादित्यवर्चसा ||१४|| पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला | अयं पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम् ||१५|| त्वया ह्ययं सुतो राजन्मय्युत्पन्नः सुरोपमः | यथासमयमेतस्मिन्वर्तस्व पुरुषोत्तम ||१६|| यथा समागमे पूर्वं कृतः स समयस्त्वया | तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति ||१७|| सोऽथ श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि | अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि ||१८|| धर्मकामार्थसम्बन्धं न स्मरामि त्वया सह | गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु ||१९|| सैवमुक्ता वरारोहा व्रीडितेव मनस्विनी | विसञ्ज्ञेव च दुःखेन तस्थौ स्थाणुरिवाचला ||२०|| संरम्भामर्षताम्राक्षी स्फुरमाणोष्ठसम्पुटा | कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत ||२१|| आकारं गूहमाना च मन्युनाभिसमीरिता | तपसा सम्भृतं तेजो धारयामास वै तदा ||२२|| सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता | भर्तारमभिसम्प्रेक्ष्य क्रुद्धा वचनमब्रवीत् ||२३|| जानन्नपि महाराज कस्मादेवं प्रभाषसे | न जानामीति निःसङ्गं यथान्यः प्राकृतस्तथा ||२४|| अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च | कल्याण बत साक्षी त्वं मात्मानमवमन्यथाः ||२५|| योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते | किं तेन न कृतं पापं चोरेणात्मापहारिणा ||२६|| एकोऽहमस्मीति च मन्यसे त्वं; न हृच्छयं वेत्सि मुनिं पुराणम् | यो वेदिता कर्मणः पापकस्य; तस्यान्तिके त्वं वृजिनं करोषि ||२७|| मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति | विदन्ति चैनं देवाश्च स्वश्चैवान्तरपूरुषः ||२८|| आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो हृदयं यमश्च | अहश्च रात्रिश्च उभे च सन्ध्ये; धर्मश्च जानाति नरस्य वृत्तम् ||२९|| यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम् | हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति ||३०|| न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः | तं यमः पापकर्माणं निर्यातयति दुष्कृतम् ||३१|| अवमन्यात्मनात्मानमन्यथा प्रतिपद्यते | देवा न तस्य श्रेयांसो यस्यात्मापि न कारणम् ||३२|| स्वयं प्राप्तेति मामेवं मावमंस्थाः पतिव्रताम् | अर्घ्यार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम् ||३३|| किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि | न खल्वहमिदं शून्ये रौमि किं न शृणोषि मे ||३४|| यदि मे याचमानाया वचनं न करिष्यसि | दुःषन्त शतधा मूर्धा ततस्तेऽद्य फलिष्यति ||३५|| भार्यां पतिः सम्प्रविश्य स यस्माज्जायते पुनः | जायाया इति जायात्वं पुराणाः कवयो विदुः ||३६|| यदागमवतः पुंसस्तदपत्यं प्रजायते | तत्तारयति सन्तत्या पूर्वप्रेतान्पितामहान् ||३७|| पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः | तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयम्भुवा ||३८|| सा भार्या या गृहे दक्षा सा भार्या या प्रजावती | सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ||३९|| अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा | भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः ||४०|| भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः | भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ||४१|| सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः | पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ||४२|| कान्तारेष्वपि विश्रामो नरस्याध्वनिकस्य वै | यः सदारः स विश्वास्यस्तस्माद्दाराः परा गतिः ||४३|| संसरन्तमपि प्रेतं विषमेष्वेकपातिनम् | भार्यैवान्वेति भर्तारं सततं या पतिव्रता ||४४|| प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते | पूर्वं मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति ||४५|| एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते | यदाप्नोति पतिर्भार्यामिह लोके परत्र च ||४६|| आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः | तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्रमातरम् ||४७|| भार्यायां जनितं पुत्रमादर्शे स्वमिवाननम् | ह्लादते जनिता प्रेष्क्य स्वर्गं प्राप्येव पुण्यकृत् ||४८|| दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः | ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव ||४९|| सुसंरब्धोऽपि रामाणां न ब्रूयादप्रियं बुधः | रतिं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य च ||५०|| आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम् | ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाः ||५१|| परिपत्य यदा सूनुर्धरणीरेणुगुण्ठितः | पितुराश्लिष्यतेऽङ्गानि किमिवास्त्यधिकं ततः ||५२|| स त्वं स्वयमनुप्राप्तं साभिलाषमिमं सुतम् | प्रेक्षमाणं च काक्षेण किमर्थमवमन्यसे ||५३|| अण्डानि बिभ्रति स्वानि न भिन्दन्ति पिपीलिकाः | न भरेथाः कथं नु त्वं धर्मज्ञः सन्स्वमात्मजम् ||५४|| न वाससां न रामाणां नापां स्पर्शस्तथा सुखः | शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः ||५५|| ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् | गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः ||५६|| स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः | पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते ||५७|| त्रिषु वर्षेषु पूर्णेषु प्रजाताहमरिंदम | इमं कुमारं राजेन्द्र तव शोकप्रणाशनम् ||५८|| आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरव | इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा ||५९|| ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः | मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः ||६०|| वेदेष्वपि वदन्तीमं मन्त्रवादं द्विजातयः | जातकर्मणि पुत्राणां तवापि विदितं तथा ||६१|| अङ्गादङ्गात्सम्भवसि हृदयादभिजायसे | आत्मा वै पुत्रनामासि स जीव शरदः शतम् ||६२|| पोषो हि त्वदधीनो मे सन्तानमपि चाक्षयम् | तस्मात्त्वं जीव मे वत्स सुसुखी शरदां शतम् ||६३|| त्वदङ्गेभ्यः प्रसूतोऽयं पुरुषात्पुरुषोऽपरः | सरसीवामलेऽऽत्मानं द्वितीयं पश्य मे सुतम् ||६४|| यथा ह्याहवनीयोऽग्निर्गार्हपत्यात्प्रणीयते | तथा त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधा कृतः ||६५|| मृगापकृष्टेन हि ते मृगयां परिधावता | अहमासादिता राजन्कुमारी पितुराश्रमे ||६६|| उर्वशी पूर्वचित्तिश्च सहजन्या च मेनका | विश्वाची च घृताची च षडेवाप्सरसां वराः ||६७|| तासां मां मेनका नाम ब्रह्मयोनिर्वराप्सराः | दिवः सम्प्राप्य जगतीं विश्वामित्रादजीजनत् ||६८|| सा मां हिमवतः पृष्ठे सुषुवे मेनकाप्सराः | अवकीर्य च मां याता परात्मजमिवासती ||६९|| किं नु कर्माशुभं पूर्वं कृतवत्यस्मि जन्मनि | यदहं बान्धवैस्त्यक्ता बाल्ये सम्प्रति च त्वया ||७०|| कामं त्वया परित्यक्ता गमिष्याम्यहमाश्रमम् | इमं तु बालं सन्त्यक्तुं नार्हस्यात्मजमात्मना ||७१|| दुःषन्त उवाच|| न पुत्रमभिजानामि त्वयि जातं शकुन्तले | असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः ||७२|| मेनका निरनुक्रोशा बन्धकी जननी तव | यया हिमवतः पृष्ठे निर्माल्येव प्रवेरिता ||७३|| स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव | विश्वामित्रो ब्राह्मणत्वे लुब्धः कामपरायणः ||७४|| मेनकाप्सरसां श्रेष्ठा महर्षीणां च ते पिता | तयोरपत्यं कस्मात्त्वं पुंश्चलीवाभिधास्यसि ||७५|| अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे | विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् ||७६|| क्व महर्षिः सदैवोग्रः साप्सरा क्व च मेनका | क्व च त्वमेवं कृपणा तापसीवेषधारिणी ||७७|| अतिकायश्च पुत्रस्ते बालोऽपि बलवानयम् | कथमल्पेन कालेन शालस्कन्ध इवोद्गतः ||७८|| सुनिकृष्टा च योनिस्ते पुंश्चली प्रतिभासि मे | यदृच्छया कामरागाज्जाता मेनकया ह्यसि ||७९|| सर्वमेतत्परोक्षं मे यत्त्वं वदसि तापसि | नाहं त्वामभिजानामि यथेष्टं गम्यतां त्वया ||८०||

    ६९ शकुन्तलोवाच|| राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि | आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ||१|| मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् | ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः ||२|| क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम् | आवयोरन्तरं पश्य मेरुसर्षपयोरिव ||३|| महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च | भवनान्यनुसंयामि प्रभावं पश्य मे नृप ||४|| सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ | निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि ||५|| विरूपो यावदादर्शे नात्मनः पश्यते मुखम् | मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ||६|| यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते | तदेतरं विजानाति आत्मानं नेतरं जनम् ||७|| अतीव रूपसम्पन्नो न किञ्चिदवमन्यते | अतीव जल्पन्दुर्वाचो भवतीह विहेठकः ||८|| मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः | अशुभं वाक्यमादत्ते पुरीषमिव सूकरः ||९|| प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः | गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः ||१०|| अन्यान्परिवदन्साधुर्यथा हि परितप्यते | तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः ||११|| अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम् | एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ||१२|| सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः | यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् ||१३|| अतो हास्यतरं लोके किञ्चिदन्यन्न विद्यते | यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् ||१४|| सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव | अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः ||१५|| स्वयमुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते | तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते ||१६|| कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् | उत्तमं सर्वधर्माणां तस्मात्पुत्रं न सन्त्यजेत् ||१७|| स्वपत्नीप्रभवान्पञ्च लब्धान्क्रीतान्विवर्धितान् | कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् ||१८|| धर्मकीर्त्यावहा नृणां मनसः प्रीतिवर्धनाः | त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितृन् ||१९|| स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि | आत्मानं सत्यधर्मौ च पालयानो महीपते ||२०|| नरेन्द्रसिंह कपटं न वोढुं त्वमिहार्हसि ||२०|| वरं कूपशताद्वापी वरं वापीशतात्क्रतुः | वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ||२१|| अश्वमेधसहस्रं च सत्यं च तुलया धृतम् | अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ||२२|| सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् | सत्यं च वदतो राजन्समं वा स्यान्न वा समम् ||२३|| नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम् | न हि तीव्रतरं किञ्चिदनृतादिह विद्यते ||२४|| राजन्सत्यं परं ब्रह्म सत्यं च समयः परः | मा त्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते ||२५|| अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम् | आत्मनो हन्त गच्छामि त्वादृशे नास्ति सङ्गतम् ||२६|| ऋतेऽपि त्वयि दुःषन्त शैलराजावतंसकाम् | चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति ||२७|| वैशम्पायन उवाच|| एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला | अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी ||२८|| ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा ||२८|| भस्त्रा माता पितुः पुत्रो येन जातः स एव सः | भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ||२९|| रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् | त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ||३०|| जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम् | तस्माद्भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप ||३१|| अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम् | शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव ||३२|| भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि | तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः ||३३|| तच्छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम् | पुरोहितममात्यांश्च सम्प्रहृष्टोऽब्रवीदिदम् ||३४|| शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम् | अहमप्येवमेवैनं जानामि स्वयमात्मजम् ||३५|| यद्यहं वचनादेव गृह्णीयामिममात्मजम् | भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् ||३६|| तं विशोध्य तदा राजा देवदूतेन भारत | हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् ||३७|| मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे | सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः ||३८|| स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः ||३८|| तां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः | अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः ||३९|| कृतो लोकपरोक्षोऽयं सम्बन्धो वै त्वया सह | तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम् ||४०|| मन्यते चैव लोकस्ते स्त्रीभावान्मयि सङ्गतम् | पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम् ||४१|| यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये | प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे ||४२|| तामेवमुक्त्वा राजर्षिर्दुःषन्तो महिषीं प्रियाम् | वासोभिरन्नपानैश्च पूजयामास भारत ||४३|| दुःषन्तश्च ततो राजा पुत्रं शाकुन्तलं तदा | भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् ||४४|| तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः | भास्वरं दिव्यमजितं लोकसंनादनं महत् ||४५|| स विजित्य महीपालांश्चकार वशवर्तिनः | चचार च सतां धर्मं प्राप चानुत्तमं यशः ||४६|| स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान् | ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः ||४७|| याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम् | श्रीमान्गोविततं नाम वाजिमेधमवाप सः ||४८|| यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ ||४८|| भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् | अपरे ये च पूर्वे च भारता इति विश्रुताः ||४९|| भरतस्यान्ववाये हि देवकल्पा महौजसः | बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः ||५०|| येषामपरिमेयानि नामधेयानि सर्वशः | तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत ||५१|| महाभागान्देवकल्पान्सत्यार्जवपरायणान् ||५१||

    ययात्युपाख्यानम् ७० वैशम्पायन उवाच|| प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च | भरतस्य कुरोः पूरोरजमीढस्य चान्वये ||१|| यादवानामिमं वंशं पौरवाणां च सर्वशः | तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् ||२|| धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ ||२|| तेजोभिरुदिताः सर्वे महर्षिसमतेजसः | दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः ||३|| मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः ||३|| तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः | सम्भूताः पुरुषव्याघ्र स हि लोकपितामहः ||४|| वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः | आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् ||५|| सहस्रसङ्ख्यान्समितान्सुतान्दक्षस्य नारदः | मोक्षमध्यापयामास साङ्ख्यज्ञानमनुत्तमम् ||६|| ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे | प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय ||७|| ददौ स दश धर्माय कश्यपाय त्रयोदश | कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ||८|| त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा | मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् ||९|| इन्द्रादीन्वीर्यसम्पन्नान्विवस्वन्तमथापि च ||९|| विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः | मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत ||१०|| मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः | मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् ||११|| ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ||११|| तत्राभवत्तदा राजन्ब्रह्म क्षत्रेण सङ्गतम् | ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् ||१२|| वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च | करूषमथ शर्यातिं तथैवात्राष्टमीमिलाम् ||१३|| पृषध्रनवमानाहुः क्षत्रधर्मपरायणान् | नाभागारिष्टदशमान्मनोः पुत्रान्महाबलान् ||१४|| पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ | अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् ||१५|| पुरूरवास्ततो विद्वानिलायां समपद्यत | सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् ||१६|| त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः | अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः ||१७|| विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः | जहार च स विप्राणां रत्नान्युत्क्रोशतामपि ||१८|| सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह | अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ ||१९|| ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत | लोभान्वितो मदबलान्नष्टसञ्ज्ञो नराधिपः ||२०|| स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट् | आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा ||२१|| षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुः | दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशीसुताः ||२२|| नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम् | स्वर्भानवीसुतानेतानायोः पुत्रान्प्रचक्षते ||२३|| आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः | राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः ||२४|| पितृन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् | नहुषः पालयामास ब्रह्मक्षत्रमथो विशः ||२५|| स हत्वा दस्युसङ्घातानृषीन्करमदापयत् | पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् ||२६|| कारयामास चेन्द्रत्वमभिभूय दिवौकसः | तेजसा तपसा चैव विक्रमेणौजसा तथा ||२७|| यतिं ययातिं संयातिमायातिं पाञ्चमुद्धवम् | नहुषो जनयामास षट्पुत्रान्प्रियवाससि ||२८|| ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः | स पालयामास महीमीजे च विविधैः सवैः ||२९|| अतिशक्त्या पितृनर्चन्देवांश्च प्रयतः सदा | अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः ||३०|| तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः | देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे ||३१|| देवयान्यामजायेतां यदुस्तुर्वसुरेव च | द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे ||३२|| स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन् | जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् ||३३|| जराभिभूतः पुत्रान्स राजा वचनमब्रवीत् | यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत ||३४|| यौवनेन चरन्कामान्युवा युवतिभिः सह | विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः ||३५|| तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् | किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च ||३६|| ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम् | यौवनेन त्वदीयेन चरेयं विषयानहम् ||३७|| यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः | कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः ||३८|| मामकेन शरीरेण राज्यमेकः प्रशास्तु वः | अहं तन्वाभिनवया युवा कामानवाप्नुयाम् ||३९|| न ते तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् | तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः ||४०|| राजंश्चराभिनवया तन्वा यौवनगोचरः | अहं जरां समास्थाय राज्ये स्थास्यामि तेऽऽज्ञया ||४१|| एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात् | सञ्चारयामास जरां तदा पुत्रे महात्मनि ||४२|| पौरवेणाथ वयसा राजा यौवनमास्थितः | यायातेनापि वयसा राज्यं पूरुरकारयत् ||४३|| ततो वर्षसहस्रान्ते ययातिरपराजितः | अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ||४४|| त्वया दायादवानस्मि त्वं मे वंशकरः सुतः | पौरवो वंश इति ते ख्यातिं लोके गमिष्यति ||४५|| ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च | कालेन महता पश्चात्कालधर्ममुपेयिवान् ||४६||

    ७१ जनमेजय उवाच|| ययातिः पूर्वकोऽस्माकं दशमो यः प्रजापतेः | कथं स शुक्रतनयां लेभे परमदुर्लभाम् ||१|| एतदिच्छाम्यहं श्रोतुं विस्तरेण द्विजोत्तम | आनुपूर्व्या च मे शंस पूरोर्वंशकरान्पृथक् ||२|| वैशम्पायन उवाच|| ययातिरासीद्राजर्षिर्देवराजसमद्युतिः | तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा ||३|| तत्तेऽहं सम्प्रवक्ष्यामि पृच्छतो जनमेजय | देवयान्याश्च संयोगं ययातेर्नाहुषस्य च ||४|| सुराणामसुराणां च समजायत वै मिथः | ऐश्वर्यं प्रति सङ्घर्षस्त्रैलोक्ये सचराचरे ||५|| जिगीषया ततो देवा वव्रिरेऽऽङ्गिरसं मुनिम् | पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे ||६|| ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् ||६|| तत्र देवा निजघ्नुर्यान्दानवान्युधि सङ्गतान् | तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात् ||७|| ततस्ते पुनरुत्थाय योधयां चक्रिरे सुरान् ||७|| असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि | न तान्सञ्जीवयामास बृहस्पतिरुदारधीः ||८|| न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् | सञ्जीवनीं ततो देवा विषादमगमन्परम् ||९|| ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा | ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ||१०|| भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम् | यासौ विद्या निवसति ब्राह्मणेऽमिततेजसि ||११|| शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि ||११|| वृषपर्वसमीपे स शक्यो द्रष्टुं त्वया द्विजः | रक्षते दानवांस्तत्र न स रक्षत्यदानवान् ||१२|| तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम् | देवयानीं च दयितां सुतां तस्य महात्मनः ||१३|| त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते | शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च ||१४|| देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ||१४|| तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः | तदाभिपूजितो देवैः समीपं वृषपर्वणः ||१५|| स गत्वा त्वरितो राजन्देवैः सम्प्रेषितः कचः | असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह ||१६|| ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः | नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् ||१७|| ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ | अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान् ||१८|| शुक्र उवाच|| कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः | अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः ||१९|| वैशम्पायन उवाच|| कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् | आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् ||२०|| व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत | आराधयन्नुपाध्यायं देवयानीं च भारत ||२१|| नित्यमाराधयिष्यंस्तां युवा यौवनगोऽऽमुखे | गायन्नृत्यन्वादयंश्च देवयानीमतोषयत् ||२२|| संशीलयन्देवयानीं कन्यां सम्प्राप्तयौवनाम् | पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत ||२३|| देवयान्यपि तं विप्रं नियमव्रतचारिणम् | अनुगायमाना ललना रहः पर्यचरत्तदा ||२४|| पञ्च वर्षशतान्येवं कचस्य चरतो व्रतम् | तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् ||२५|| गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः | जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च ||२६|| हत्वा शालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् ||२६|| ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम् | ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् ||२७|| उवाच वचनं काले देवयान्यथ भारत ||२७|| अहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो | अगोपाश्चागता गावः कचस्तात न दृश्यते ||२८|| व्यक्तं हतो मृतो वापि कचस्तात भविष्यति | तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते ||२९|| शुक्र उवाच|| अयमेहीति शब्देन मृतं सञ्जीवयाम्यहम् | वैशम्पायन उवाच|| ततः सञ्जीवनीं विद्यां प्रयुज्य कचमाह्वयत् | आहूतः प्रादुरभवत्कचोऽरिष्टोऽथ विद्यया ||३१|| हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया ||३१|| स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया | वनं ययौ ततो विप्रो ददृशुर्दानवाश्च तम् ||३२|| ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः | प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तदा ||३३|| देवयान्यथ भूयोऽपि वाक्यं पितरमब्रवीत् | पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते ||३४|| शुक्र उवाच|| बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः | विद्यया जीवितोऽप्येवं हन्यते करवाणि किम् ||३५|| मैवं शुचो मा रुद देवयानि; न त्वादृशी मर्त्यमनुप्रशोचेत् | सुराश्च विश्वे च जगच्च सर्व; मुपस्थितां वैकृतिमानमन्ति ||३६|| देवयान्युवाच|| यस्याङ्गिरा वृद्धतमः पितामहो; बृहस्पतिश्चापि पिता तपोधनः | ऋषेः पुत्रं तमथो वापि पौत्रं; कथं न शोचेयमहं न रुद्याम् ||३७|| स ब्रह्मचारी च तपोधनश्च; सदोत्थितः कर्मसु चैव दक्षः | कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये; प्रियो हि मे तात कचोऽभिरूपः ||३८|| शुक्र उवाच|| असंशयं मामसुरा द्विषन्ति; ये मे शिष्यं नागसं सूदयन्ति | अब्राह्मणं कर्तुमिच्छन्ति रौद्रा; स्ते मां यथा प्रस्तुतं दानवैर्हि ||३९|| अप्यस्य पापस्य भवेदिहान्तः; कं ब्रह्महत्या न दहेदपीन्द्रम् ||३९|| वैशम्पायन उवाच|| सञ्चोदितो देवयान्या महर्षिः पुनराह्वयत् | संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् ||४०|| गुरोर्भीतो विद्यया चोपहूतः; शनैर्वाचं जठरे व्याजहार | तमब्रवीत्केन पथोपनीतो; ममोदरे तिष्ठसि ब्रूहि विप्र ||४१|| कच उवाच|| भवत्प्रसादान्न जहाति मां स्मृतिः; स्मरे च सर्वं यच्च यथा च वृत्तम् | न त्वेवं स्यात्तपसो व्ययो मे; ततः क्लेशं घोरमिमं सहामि ||४२|| असुरैः सुरायां भवतोऽस्मि दत्तो; हत्वा दग्ध्वा चूर्णयित्वा च काव्य | ब्राह्मीं मायामासुरी चैव माया; त्वयि स्थिते कथमेवातिवर्तेत् ||४३|| शुक्र उवाच|| किं ते प्रियं करवाण्यद्य वत्से; वधेन मे जीवितं स्यात्कचस्य | नान्यत्र कुक्षेर्मम भेदनेन; दृश्येत्कचो मद्गतो देवयानि ||४४|| देवयान्युवाच|| द्वौ मां शोकावग्निकल्पौ दहेतां; कचस्य नाशस्तव चैवोपघातः | कचस्य नाशे मम नास्ति शर्म; तवोपघाते जीवितुं नास्मि शक्ता ||४५|| शुक्र उवाच|| संसिद्धरूपोऽसि बृहस्पतेः सुत; यत्त्वां भक्तं भजते देवयानी | विद्यामिमां प्राप्नुहि जीवनीं त्वं; न चेदिन्द्रः कचरूपी त्वमद्य ||४६|| न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात् | ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि ||४७|| पुत्रो भूत्वा भावय भावितो मा; मस्माद्देहादुपनिष्क्रम्य तात | समीक्षेथा धर्मवतीमवेक्षां; गुरोः सकाशात्प्राप्य विद्यां सविद्यः ||४८|| वैशम्पायन उवाच|| गुरोः सकाशात्समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः | कचोऽभिरूपो दक्षिणं ब्राह्मणस्य; शुक्लात्यये पौर्णमास्यामिवेन्दुः ||४९|| दृष्ट्वा च तं पतितं ब्रह्मराशि; मुत्थापयामास मृतं कचोऽपि | विद्यां सिद्धां तामवाप्याभिवाद्य; ततः कचस्तं गुरुमित्युवाच ||५०|| ऋतस्य दातारमनुत्तमस्य; निधिं निधीनां चतुरन्वयानाम् | ये नाद्रियन्ते गुरुमर्चनीयं; पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठान् ||५१|| वैशम्पायन उवाच|| सुरापानाद्वञ्चनां प्रापयित्वा; सञ्ज्ञानाशं चैव तथातिघोरम् | दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरया मोहितेन ||५२|| समन्युरुत्थाय महानुभाव; स्तदोशना विप्रहितं चिकीर्षुः | काव्यः स्वयं वाक्यमिदं जगाद; सुरापानं प्रति वै जातशङ्कः ||५३|| यो ब्राह्मणोऽद्य प्रभृतीह कश्चि; न्मोहात्सुरां पास्यति मन्दबुद्धिः | अपेतधर्मो ब्रह्महा चैव स स्या; दस्मिँल्लोके गर्हितः स्यात्परे च ||५४|| मया चेमां विप्रधर्मोक्तिसीमां; मर्यादां वै स्थापितां सर्वलोके | सन्तो विप्राः शुश्रुवांसो गुरूणां; देवा लोकाश्चोपशृण्वन्तु सर्वे ||५५|| इतीदमुक्त्वा स महानुभाव; स्तपोनिधीनां निधिरप्रमेयः | तान्दानवान्दैवविमूढबुद्धी; निदं समाहूय वचोऽभ्युवाच ||५६|| आचक्षे वो दानवा बालिशाः स्थ; सिद्धः कचो वत्स्यति मत्सकाशे | सञ्जीवनीं प्राप्य विद्यां महार्थां; तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः ||५७|| गुरोरुष्य सकाशे तु दश वर्षशतानि सः | अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् ||५८||

    ७२ वैशम्पायन उवाच|| समावृत्तव्रतं तं तु विसृष्टं गुरुणा तदा | प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् ||१|| ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च | भ्राजसे विद्यया चैव तपसा च दमेन च ||२|| ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः | तथा मान्यश्च पूज्यश्च भूयो मम बृहस्पतिः ||३|| एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन | व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि ||४|| स समावृत्तविद्यो मां भक्तां भजितुमर्हसि | गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् ||५|| कच उवाच|| पूज्यो मान्यश्च भगवान्यथा तव पिता मम | तथा त्वमनवद्याङ्गि पूजनीयतरा मम ||६|| आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः | त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम ||७|| यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव | देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि ||८|| देवयान्युवाच|| गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः | तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम ||९|| असुरैर्हन्यमाने च कच त्वयि पुनः पुनः | तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे ||१०|| सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् | न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् ||११|| कच उवाच|| अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते | प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे ||१२|| यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने | तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ||१३|| भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने | सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम ||१४|| आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि | अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे ||१५|| अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम ||१५|| देवयान्युवाच|| यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः | ततः कच न ते विद्या सिद्धिमेषा गमिष्यति ||१६|| कच उवाच|| गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः | गुरुणा चाभ्यनुज्ञातः काममेवं शपस्व माम् ||१७|| आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया | शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः ||१८|| तस्माद्भवत्या यः कामो न तथा स भविष्यति | ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति ||१९|| फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा | अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति ||२०|| वैशम्पायन उवाच|| एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा | त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ||२१|| तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः | बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः ||२२|| यत्त्वमस्मद्धितं कर्म चकर्थ परमाद्भुतम् | न ते यशः प्रणशिता भागभाङ्नो भविष्यसि ||२३||

    ७३ वैशम्पायन उवाच|| कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः | कचादधीत्य तां विद्यां कृतार्था भरतर्षभ ||१|| सर्व एव समागम्य शतक्रतुमथाब्रुवन् | कालस्ते विक्रमस्याद्य जहि शत्रून्पुरंदर ||२|| एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा | तथेत्युक्त्वोपचक्राम सोऽपश्यत वने स्त्रियः ||३|| क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे | वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ||४|| ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा | वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः ||५|| तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा | व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः ||६|| ततस्तयोर्मिथस्तत्र विरोधः समजायत | देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ||७|| देवयान्युवाच|| कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि | समुदाचारहीनाया न ते श्रेयो भविष्यति ||८|| शर्मिष्ठोवाच|| आसीनं च शयानं च पिता ते पितरं मम | स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् ||९|| याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः | सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ||१०|| अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि | लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् ||११|| वैशम्पायन उवाच|| समुच्छ्रयं देवयानीं गतां सक्तां च वाससि | शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाव्रजत् ||१२|| हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया | अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा ||१३|| अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः | श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः ||१४|| स नाहुषः प्रेक्षमाण उदपानं गतोदकम् | ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव ||१५|| तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् | सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ||१६|| का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला | दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा ||१७|| कथं च पतितास्यस्मिन्कूपे वीरुत्तृणावृते | दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे ||१८|| देवयान्युवाच|| योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया | तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते ||१९|| एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः | समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः ||२०|| जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् | तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि ||२१|| वैशम्पायन उवाच|| तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः | गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् ||२२|| उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः | आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ ||२३|| देवयान्युवाच|| त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः | नेदानीं हि प्रवेक्यामि नगरं वृषपर्वणः ||२४|| वैशम्पायन उवाच|| सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् | दृष्ट्वा काव्यमुवाचेदं सम्भ्रमाविष्टचेतना ||२५|| आचक्षे ते महाप्राज्ञ देवयानी वने हता | शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः ||२६|| श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् | त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने ||२७|| दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने | बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत् ||२८|| आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः | मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता ||२९|| देवयान्युवाच|| निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम | शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः ||३०|| सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः ||३०|| एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी | वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् ||३१|| स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः | सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ||३२|| इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः | क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः ||३३|| यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः | प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया ||३४|| शुक्र उवाच|| स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः | अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि ||३५|| वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः | अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम ||३६||

    ७४ शुक्र उवाच|| यः परेषां नरो नित्यमतिवादांस्तितिक्षति | देवयानि विजानीहि तेन सर्वमिदं जितम् ||१|| यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा | स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ||२|| यः समुत्पतितं क्रोधमक्रोधेन निरस्यति | देवयानि विजानीहि तेन सर्वमिदं जितम् ||३|| यः समुत्पतितं क्रोधं क्षमयेह निरस्यति | यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ||४|| यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षति | यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ||५|| यो यजेदपरिश्रान्तो मासि मासि शतं समाः | न क्रुध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः ||६|| यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः | न तत्प्राज्ञोऽनुकुर्वीत विदुस्ते न बलाबलम् ||७|| देवयान्युवाच|| वेदाहं तात बालापि धर्माणां यदिहान्तरम् | अक्रोधे चातिवादे च वेद चापि बलाबलम् ||८|| शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषता | तस्मात्सङ्कीर्णवृत्तेषु वासो मम न रोचते ||९|| पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च | न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु ||१०|| ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च | तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ||११|| वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः | न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु ||१२|| यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ||१२||

    ७५ वैशम्पायन उवाच|| ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह | वृषपर्वाणमासीनमित्युवाचाविचारयन् ||१|| नाधर्मश्चरितो राजन्सद्यः फलति गौरिव | पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति ||२|| फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे ||२|| यदघातयथा विप्रं कचमाङ्गिरसं तदा | अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ||३|| वधादनर्हतस्तस्य वधाच्च दुहितुर्मम | वृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् ||४|| स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह ||४|| अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम् | यथेममात्मनो दोषं न नियच्छस्युपेक्षसे ||५|| वृषपर्वोवाच|| नाधर्मं न मृषावादं त्वयि जानामि भार्गव | त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् ||६|| यद्यस्मानपहाय त्वमितो गच्छसि भार्गव | समुद्रं सम्प्रवेक्ष्यामो नान्यदस्ति परायणम् ||७|| शुक्र उवाच|| समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः | दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे ||८|| प्रसाद्यतां देवयानी जीवितं ह्यत्र मे स्थितम् | योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ||९|| वृषपर्वोवाच|| यत्किञ्चिदसुरेन्द्राणां विद्यते वसु भार्गव | भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः ||१०|| शुक्र उवाच|| यत्किञ्चिदस्ति द्रविणं दैत्येन्द्राणां महासुर | तस्येश्वरोऽस्मि यदि ते देवयानी प्रसाद्यताम् ||११|| देवयान्युवाच|| यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव | नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् ||१२|| वृषपर्वोवाच|| यं काममभिकामासि देवयानि शुचिस्मिते | तत्तेऽहं सम्प्रदास्यामि यदि चेदपि दुर्लभम् ||१३|| देवयान्युवाच|| दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये | अनु मां तत्र गच्छेत्सा यत्र दास्यति मे पिता ||१४|| वृषपर्वोवाच|| उत्तिष्ठ हे सङ्ग्रहीत्रि शर्मिष्ठां शीघ्रमानय | यं च कामयते कामं देवयानी करोतु तम् ||१५|| वैशम्पायन उवाच|| ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत् | उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ||१६|| त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः | सा यं कामयते कामं स कार्योऽद्य त्वयानघे ||१७|| शर्मिष्ठोवाच|| सा यं कामयते कामं करवाण्यहमद्य तम् | मा त्वेवापगमच्छुक्रो देवयानी च मत्कृते ||१८|| वैशम्पायन उवाच|| ततः कन्यासहस्रेण वृता शिबिकया तदा | पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् ||१९|| शर्मिष्ठोवाच|| अहं कन्यासहस्रेण दासी ते परिचारिका | अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता ||२०|| देवयान्युवाच|| स्तुवतो दुहिता तेऽहं बन्दिनः प्रतिगृह्णतः | स्तूयमानस्य दुहिता कथं दासी भविष्यसि ||२१|| शर्मिष्ठोवाच|| येन केनचिदार्तानां ज्ञातीनां सुखमावहेत् | अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता ||२२|| वैशम्पायन उवाच|| प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः | देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् ||२३|| प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम | अमोघं तव विज्ञानमस्ति विद्याबलं च ते ||२४|| एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः | प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः ||२५||

    ७६ वैशम्पायन उवाच|| अथ दीर्घस्य कालस्य देवयानी नृपोत्तम | वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी ||१|| तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा | तमेव देशं सम्प्राप्ता यथाकामं चचार सा ||२|| ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् ||२|| क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम् | खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च ||३|| पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया | तमेव देशं सम्प्राप्तो जलार्थी श्रमकर्शितः ||४|| ददृशे देवयानीं च शर्मिष्ठां ताश्च योषितः | पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः ||५|| उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् | रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् ||६|| शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः ||६|| ययातिरुवाच|| द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते | गोत्रे च नामनी चैव द्वयोः पृच्छामि वामहम् ||७|| देवयान्युवाच|| आख्यास्याम्यहमादत्स्व वचनं मे नराधिप | शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् ||८|| इयं च मे सखी दासी यत्राहं तत्र गामिनी | दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ||९|| ययातिरुवाच|| कथं नु ते सखी दासी कन्येयं वरवर्णिनी | असुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे ||१०|| देवयान्युवाच|| सर्व एव नरव्याघ्र विधानमनुवर्तते | विधानविहितं मत्वा मा विचित्राः कथाः कृथाः ||११|| राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च | किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे ||१२|| ययातिरुवाच|| ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः | राजाहं राजपुत्रश्च ययातिरिति विश्रुतः ||१३|| देवयान्युवाच|| केनास्यर्थेन नृपते इमं देशमुपागतः | जिघृक्षुर्वारिजं किञ्चिदथ वा मृगलिप्सया ||१४|| ययातिरुवाच|| मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः | बहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि ||१५|| देवयान्युवाच|| द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह | त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव ||१६|| ययातिरुवाच|| विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि | अविवाह्या हि राजानो देवयानि पितुस्तव ||१७|| देवयान्युवाच|| संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम् | ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वहस्व माम् ||१८|| ययातिरुवाच|| एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने | पृथग्धर्माः पृथक्षौचास्तेषां तु ब्राह्मणो वरः ||१९|| देवयान्युवाच|| पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा | तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः ||२०|| कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् | गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ||२१|| ययातिरुवाच|| क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् | दुराधर्षतरो विप्रः पुरुषेण विजानता ||२२|| देवयान्युवाच|| कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् | दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ||२३|| ययातिरुवाच|| एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते | हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ||२४|| दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम | अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ||२५|| देवयान्युवाच|| दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया | अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ||२६|| वैशम्पायन उवाच|| त्वरितं देवयान्याथ प्रेषितं पितुरात्मनः | श्रुत्वैव च स राजानं दर्शयामास भार्गवः ||२७|| दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः | ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः ||२८|| देवयान्युवाच|| राजायं नाहुषस्तात दुर्गे मे पाणिमग्रहीत् | नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे ||२९|| शुक्र उवाच|| वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया | गृहाणेमां मया दत्तां महिषीं नहुषात्मज ||३०|| ययातिरुवाच|| अधर्मो न स्पृशेदेवं महान्मामिह भार्गव | वर्णसङ्करजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् ||३१|| शुक्र उवाच|| अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम् | अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते ||३२|| वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम् | अनया सह सम्प्रीतिमतुलां समवाप्स्यसि ||३३|| इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी | सम्पूज्या सततं राजन्मा चैनां शयने ह्वयेः ||३४|| वैशम्पायन उवाच|| एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् | जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना ||३५||

    ७७ वैशम्पायन उवाच|| ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् | प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ||१|| देवयान्याश्चानुमते तां सुतां वृषपर्वणः | अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ||२|| वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम् | वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम् ||३|| देवयान्या तु सहितः स नृपो नहुषात्मजः | विजहार बहूनब्दान्देववन्मुदितो भृशम् ||४|| ऋतुकाले तु सम्प्राप्ते देवयानी वराङ्गना | लेभे गर्भं प्रथमतः कुमारं च व्यजायत ||५|| गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी | ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् ||६|| ऋतुकालश्च सम्प्राप्तो न च मेऽस्ति पतिर्वृतः | किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् ||७|| देवयानी प्रजातासौ वृथाहं प्राप्तयौवना | यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् ||८|| राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः | अपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः ||९|| अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया | अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः ||१०|| तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी | प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ||११|| सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा | तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुमर्हति ||१२|| रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा | सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप ||१३|| ययातिरुवाच|| वेद्मि त्वां शीलसम्पन्नां दैत्यकन्यामनिन्दिताम् | रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम् ||१४|| अब्रवीदुशना काव्यो देवयानीं यदावहम् | नेयमाह्वयितव्या ते शयने वार्षपर्वणी ||१५|| शर्मिष्ठोवाच|| न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले | प्राणात्यये सर्वधनापहारे; पञ्चानृतान्याहुरपातकानि ||१६|| पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा; वदन्ति मिथ्योपहितं नरेन्द्र | एकार्थतायां तु समाहितायां; मिथ्या वदन्तमनृतं हिनस्ति ||१७|| ययातिरुवाच|| राजा प्रमाणं भूतानां स नश्येत मृषा वदन् | अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ||१८|| शर्मिष्ठोवाच|| समावेतौ मतौ राजन्पतिः सख्याश्च यः पतिः | समं विवाहमित्याहुः सख्या मेऽसि पतिर्वृतः ||१९|| ययातिरुवाच|| दातव्यं याचमानेभ्य इति मे व्रतमाहितम् | त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते ||२०|| शर्मिष्ठोवाच|| अधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादय | त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ||२१|| त्रय एवाधना राजन्भार्या दासस्तथा सुतः | यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ||२२|| देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी | सा चाहं च त्वया राजन्भरणीये भजस्व माम् ||२३|| वैशम्पायन उवाच|| एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान् | पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् ||२४|| समागम्य च शर्मिष्ठां यथाकाममवाप्य च | अन्योन्यमभिसम्पूज्य जग्मतुस्तौ यथागतम् ||२५|| तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी | लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् ||२६|| प्रजज्ञे च ततः काले राजन्राजीवलोचना | कुमारं देवगर्भाभं राजीवनिभलोचनम् ||२७||

    ७८ वैशम्पायन उवाच|| श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता | चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत ||१|| अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम् | किमिदं वृजिनं सुभ्रु कृतं ते कामलुब्धया ||२|| शर्मिष्ठोवाच|| ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः | स मया वरदः कामं याचितो धर्मसंहितम् ||३|| नाहमन्यायतः काममाचरामि शुचिस्मिते | तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते ||४|| देवयान्युवाच|| शोभनं भीरु सत्यं चेदथ स ज्ञायते द्विजः | गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् ||५|| शर्मिष्ठोवाच|| ओजसा तेजसा चैव दीप्यमानं रविं यथा | तं दृष्ट्वा मम सम्प्रष्टुं शक्तिर्नासीच्छुचिस्मिते ||६|| देवयान्युवाच|| यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम | अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ||७|| वैशम्पायन उवाच|| अन्योन्यमेवमुक्त्वा च सम्प्रहस्य च ते मिथः | जगाम भार्गवी वेश्म तथ्यमित्येव जज्ञुषी ||८|| ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः | यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ ||९|| तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी | द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् ||१०|| ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता | ययातिसहिता राजन्निर्जगाम महावनम् ||११|| ददर्श च तदा तत्र कुमारान्देवरूपिणः | क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् ||१२|| कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः | वर्चसा रूपतश्चैव सदृशा मे मतास्तव ||१३|| एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत | किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता ||१४|| विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् ||१४|| तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् | शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः ||१५|| इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः | नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके ||१६|| रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः ||१६|| दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति | बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् ||१७|| मदधीना सती कस्मादकार्षीर्विप्रियं मम | तमेवासुरधर्मं त्वमास्थिता न बिभेषि किम् ||१८|| शर्मिष्ठोवाच|| यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि | न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ||१९|| यदा त्वया वृतो राजा वृत एव तदा मया | सखीभर्ता हि धर्मेण भर्ता भवति शोभने ||२०|| पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी | त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् ||२१|| वैशम्पायन उवाच|| श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् | राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया ||२२|| सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् | त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ||२३|| अनुवव्राज सम्भ्रान्तः पृष्ठतः सान्त्वयन्नृपः | न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना ||२४|| अविब्रुवन्ती किञ्चित्तु राजानं चारुलोचना | अचिरादिव सम्प्राप्ता काव्यस्योशनसोऽन्तिकम् ||२५|| सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता | अनन्तरं ययातिस्तु पूजयामास भार्गवम् ||२६|| देवयान्युवाच|| अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् | शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः ||२७|| त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना | दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ||२८|| धर्मज्ञ इति विख्यात एष राजा भृगूद्वह | अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ||२९|| शुक्र उवाच|| धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम् | तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया ||३०|| ययातिरुवाच|| ऋतुं वै याचमानाया भगवन्नान्यचेतसा | दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया ||३१|| ऋतुं वै याचमानाया न ददाति पुमान्वृतः | भ्रूणहेत्युच्यते ब्रह्मन्स इह ब्रह्मवादिभिः ||३२|| अभिकामां स्त्रियं यस्तु गम्यां रहसि याचितः | नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः ||३३|| इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह | अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् ||३४|| शुक्र उवाच|| नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव | मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष ||३५|| वैशम्पायन उवाच|| क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा | पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत ||३६|| ययातिरुवाच|| अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह | प्रसादं कुरु मे ब्रह्मञ्जरेयं मा विशेत माम् ||३७|| शुक्र उवाच|| नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप | जरां त्वेतां त्वमन्यस्मै सङ्क्रामय यदीच्छसि ||३८|| ययातिरुवाच|| राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा | यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् ||३९|| शुक्र उवाच|| सङ्क्रामयिष्यसि जरां यथेष्टं नहुषात्मज | मामनुध्याय भावेन न च पापमवाप्स्यसि ||४०|| वयो दास्यति ते पुत्रो यः स राजा भविष्यति | आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च ||४१||

    ७९ वैशम्पायन उवाच|| जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ह | पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः ||१|| जरा वली च मां तात पलितानि च पर्यगुः | काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ||२|| त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह | यौवनेन त्वदीयेन चरेयं विषयानहम् ||३|| पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् | दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह ||४|| यदुरुवाच|| सितश्मश्रुशिरा दीनो जरया शिथिलीकृतः | वलीसन्ततगात्रश्च दुर्दर्शो दुर्बलः कृशः ||५|| अशक्तः कार्यकरणे परिभूतः स यौवनैः | सहोपजीविभिश्चैव तां जरां नाभिकामये ||६|| ययातिरुवाच|| यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि | तस्मादराज्यभाक्तात प्रजा ते वै भविष्यति ||७|| तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह | यौवनेन चरेयं वै विषयांस्तव पुत्रक ||८|| पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् | स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ||९|| तुर्वसुरुवाच|| न कामये जरां तात कामभोगप्रणाशिनीम् | बलरूपान्तकरणीं बुद्धिप्राणविनाशिनीम् ||१०|| ययातिरुवाच|| यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि | तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति ||११|| सङ्कीर्णाचारधर्मेषु प्रतिलोमचरेषु च | पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि ||१२|| गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च | पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि ||१३|| वैशम्पायन उवाच|| एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः | शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ||१४|| द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् | जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च ||१५|| पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् | स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह ||१६|| द्रुह्युरुवाच|| न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् | वाग्भङ्गश्चास्य भवति तज्जरां नाभिकामये ||१७|| ययातिरुवाच|| यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि | तस्माद्द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्वचित् ||१८|| उडुपप्लवसन्तारो यत्र नित्यं भविष्यति | अराजा भोजशब्दं त्वं तत्रावाप्स्यसि सान्वयः ||१९|| अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह | एकं वर्षसहस्रं तु चरेयं यौवनेन ते ||२०|| अनुरुवाच|| जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा | न जुहोति च कालेऽग्निं तां जरां नाभिकामये ||२१|| ययातिरुवाच|| यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि | जरादोषस्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे ||२२|| प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव | अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि ||२३|| पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि | जरा वली च मे तात पलितानि च पर्यगुः ||२४|| काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ||२४|| पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह | कञ्चित्कालं चरेयं वै विषयान्वयसा तव ||२५|| पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् | स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ||२६|| वैशम्पायन उवाच|| एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा | यथात्थ मां महाराज तत्करिष्यामि ते वचः ||२७|| प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह | गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ||२८|| जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव | यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् ||२९|| ययातिरुवाच|| पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते | सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ||३०||

    ८० वैशम्पायन उवाच|| पौरवेणाथ वयसा ययातिर्नहुषात्मजः | प्रीतियुक्तो नृपश्रेष्ठश्चचार विषयान्प्रियान् ||१|| यथाकामं यथोत्साहं यथाकालं यथासुखम् | धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि ||२|| देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वत्पितृनपि | दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ||३|| अतिथीनन्नपानैश्च विशश्च परिपालनैः | आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च ||४|| धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् | ययातिः पालयामास साक्षादिन्द्र इवापरः ||५|| स राजा सिंहविक्रान्तो युवा विषयगोचरः | अविरोधेन धर्मस्य चचार सुखमुत्तमम् ||६|| स सम्प्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः | कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ||७|| परिसङ्ख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् | पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ||८|| यथाकामं यथोत्साहं यथाकालमरिंदम | सेविता विषयाः पुत्र यौवनेन मया तव ||९|| पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् | राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः ||१०|| प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा | यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ||११|| अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम् | ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ||१२|| कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो | ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि ||१३|| यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः | शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ||१४|| कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति | एतत्सम्बोधयामस्त्वां धर्मं त्वमनुपालय ||१५|| ययातिरुवाच|| ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः | ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन ||१६|| मम ज्येष्ठेन यदुना नियोगो नानुपालितः | प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ||१७|| मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः | स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ||१८|| यदुनाहमवज्ञातस्तथा तुर्वसुनापि च | द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् ||१९|| पूरुणा मे कृतं वाक्यं मानितश्च विशेषतः | कनीयान्मम दायादो जरा येन धृता मम ||२०|| मम कामः स च कृतः पूरुणा पुत्ररूपिणा ||२०|| शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् | पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः ||२१|| भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् ||२१|| प्रकृतय ऊचुः|| यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा | सर्वमर्हति कल्याणं कनीयानपि स प्रभो ||२२|| अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव | वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ||२३|| वैशम्पायन उवाच|| पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा | अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मजम् ||२४|| दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः | पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ||२५|| यदोस्तु यादवा जातास्तुर्वसोर्यवनाः सुताः | द्रुह्योरपि सुता भोजा अनोस्तु म्लेच्छजातयः ||२६|| पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव | इदं वर्षसहस्राय राज्यं कारयितुं वशी ||२७||

    उत्तरयायातम् ८१ वैशम्पायन उवाच|| एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् | राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ||१|| उषित्वा च वने वासं ब्राह्मणैः सह संश्रितः | फलमूलाशनो दान्तो यथा स्वर्गमितो गतः ||२|| स गतः सुरवासं तं निवसन्मुदितः सुखम् | कालस्य नातिमहतः पुनः शक्रेण पातितः ||३|| निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम् | स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया ||४|| तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः | राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् ||५|| प्रतर्दनेन शिबिना समेत्य किल संसदि ||५|| जनमेजय उवाच|| कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः | सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः ||६|| कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ||६|| देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः | वर्धनः कुरुवंशस्य विभावसुसमद्युतिः ||७|| तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः | चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः ||८|| वैशम्पायन उवाच|| हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम् | दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ||९|| ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् | राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा ||१०|| अन्तेषु स विनिक्षिप्य पुत्रान्यदुपुरोगमान् | फलमूलाशनो राजा वने संन्यवसच्चिरम् ||११|| संशितात्मा जितक्रोधस्तर्पयन्पितृदेवताः | अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः ||१२|| अतिथीन्पूजयामास वन्येन हविषा विभुः | शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः ||१३|| पूर्णं वर्षसहस्रं स एवंवृत्तिरभून्नृपः | अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः ||१४|| ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः | पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं नृपः ||१५|| एकपादस्थितश्चासीत्षण्मासाननिलाशनः | पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी ||१६||

    ८२ वैशम्पायन उवाच|| स्वर्गतः स तु राजेन्द्रो निवसन्देवसद्मनि | पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा ||१|| देवलोकाद्ब्रह्मलोकं सञ्चरन्पुण्यकृद्वशी | अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ||२|| स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत् | कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः ||३|| शक्र उवाच|| यदा स पूरुस्तव रूपेण राज; ञ्जरां गृहीत्वा प्रचचार भूमौ | तदा राज्यं सम्प्रदायैव तस्मै; त्वया किमुक्तः कथयेह सत्यम् ||४|| ययातिरुवाच|| गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव | मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव ||५|| अक्रोधनः क्रोधनेभ्यो विशिष्ट; स्तथा तितिक्षुरतितिक्षोर्विशिष्टः | अमानुषेभ्यो मानुषाश्च प्रधाना; विद्वांस्तथैवाविदुषः प्रधानः ||६|| आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः | आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ||७|| नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत | ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ||८|| अरुन्तुदं पुरुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान् | विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम् ||९|| सद्भिः पुरस्तादभिपूजितः स्या; त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात् | सदासतामतिवादांस्तितिक्षे; त्सतां वृत्तं चाददीतार्यवृत्तः ||१०|| वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि | परस्य वा मर्मसु ये पतन्ति; तान्पण्डितो नावसृजेत्परेषु ||११|| न हीदृशं संवननं त्रिषु लोकेषु विद्यते | यथा मैत्री च भूतेषु दानं च मधुरा च वाक् ||१२|| तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् | पूज्यान्सम्पूजयेद्दद्यान्न च याचेत्कदाचन ||१३||

    ८३ इन्द्र उवाच|| सर्वाणि कर्माणि समाप्य राज; न्गृहान्परित्यज्य वनं गतोऽसि | तत्त्वां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस्तपसा ययाते ||१|| ययातिरुवाच|| नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु | आत्मनस्तपसा तुल्यं कञ्चित्पश्यामि वासव ||२|| इन्द्र उवाच|| यदावमंस्थाः सदृशः श्रेयसश्च; पापीयसश्चाविदितप्रभावः | तस्माल्लोका अन्तवन्तस्तवेमे; क्षीणे पुण्ये पतितास्यद्य राजन् ||३|| ययातिरुवाच|| सुरर्षिगन्धर्वनरावमाना; त्क्षयं गता मे यदि शक्र लोकाः | इच्छेयं वै सुरलोकाद्विहीनः; सतां मध्ये पतितुं देवराज ||४|| इन्द्र उवाच|| सतां सकाशे पतितासि राजं; श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः | एवं विदित्वा तु पुनर्ययाते; न तेऽवमान्याः सदृशः श्रेयसश्च ||५|| वैशम्पायन उवाच|| ततः प्रहायामरराजजुष्टा; न्पुण्याँल्लोकान्पतमानं ययातिम् | सम्प्रेक्ष्य राजर्षिवरोऽष्टकस्त; मुवाच सद्धर्मविधानगोप्ता ||६|| कस्त्वं युवा वासवतुल्यरूपः; स्वतेजसा दीप्यमानो यथाग्निः | पतस्युदीर्णाम्बुधरान्धकारा; त्खात्खेचराणां प्रवरो यथार्कः ||७|| दृष्ट्वा च त्वां सूर्यपथात्पतन्तं; वैश्वानरार्कद्युतिमप्रमेयम् | किं नु स्विदेतत्पततीति सर्वे; वितर्कयन्तः परिमोहिताः स्मः ||८|| दृष्ट्वा च त्वां विष्ठितं देवमार्गे; शक्रार्कविष्णुप्रतिमप्रभावम् | अभ्युद्गतास्त्वां वयमद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः ||९|| न चापि त्वां धृष्णुमः प्रष्टुमग्रे; न च त्वमस्मान्पृच्छसि ये वयं स्मः | तत्त्वां पृच्छामः स्पृहणीयरूपं; कस्य त्वं वा किंनिमित्तं त्वमागाः ||१०|| भयं तु ते व्येतु विषादमोहौ; त्यजाशु देवेन्द्रसमानरूप | त्वां वर्तमानं हि सतां सकाशे; नालं प्रसोढुं बलहापि शक्रः ||११|| सन्तः प्रतिष्ठा हि सुखच्युतानां; सतां सदैवामरराजकल्प | ते सङ्गताः स्थावरजङ्गमेशाः; प्रतिष्ठितस्त्वं सदृशेषु सत्सु ||१२|| प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः | प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः ||१३||

    ८४ ययातिरुवाच|| अहं ययातिर्नहुषस्य पुत्रः; पूरोः पिता सर्वभूतावमानात् | प्रभ्रंशितः सुरसिद्धर्षिलोका; त्परिच्युतः प्रपताम्यल्पपुण्यः ||१|| अहं हि पूर्वो वयसा भवद्भ्य; स्तेनाभिवादं भवतां न प्रयुञ्जे | यो विद्यया तपसा जन्मना वा; वृद्धः स पूज्यो भवति द्विजानाम् ||२|| अष्टक उवाच|| अवादीश्चेद्वयसा यः स वृद्ध; इति राजन्नाभ्यवदः कथञ्चित् | यो वै विद्वान्वयसा सन्स्म वृद्धः; स एव पूज्यो भवति द्विजानाम् ||३|| ययातिरुवाच|| प्रतिकूलं कर्मणां पापमाहु; स्तद्वर्ततेऽप्रवणे पापलोक्यम् | सन्तोऽसतां नानुवर्तन्ति चैत; द्यथा आत्मैषामनुकूलवादी ||४|| अभूद्धनं मे विपुलं महद्वै; विचेष्टमानो नाधिगन्ता तदस्मि | एवं प्रधार्यात्महिते निविष्टो; यो वर्तते स विजानाति जीवन् ||५|| नानाभावा बहवो जीवलोके; दैवाधीना नष्टचेष्टाधिकाराः | तत्तत्प्राप्य न विहन्येत धीरो; दिष्टं बलीय इति मत्वात्मबुद्ध्या ||६|| सुखं हि जन्तुर्यदि वापि दुःखं; दैवाधीनं विन्दति नात्मशक्त्या | तस्माद्दिष्टं बलवन्मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् ||७|| दुःखे न तप्येन्न सुखेन हृष्ये; त्समेन वर्तेत सदैव धीरः | दिष्टं बलीय इति मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् ||८|| भये न मुह्याम्यष्टकाहं कदा चि; त्सन्तापो मे मानसो नास्ति कश्चित् | धाता यथा मां विदधाति लोके; ध्रुवं तथाहं भवितेति मत्वा ||९|| संस्वेदजा अण्डजा उद्भिदाश्च; सरीसृपाः कृमयोऽथाप्सु मत्स्याः | तथाश्मानस्तृणकाष्ठं च सर्वं; दिष्टक्षये स्वां प्रकृतिं भजन्ते ||१०|| अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात्सन्तापमष्टकाहं भजेयम् | किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात्सन्तापं वर्जयाम्यप्रमत्तः ||११|| अष्टक उवाच|| ये ये लोकाः पार्थिवेन्द्र प्रधाना; स्त्वया भुक्ता यं च कालं यथा च | तन्मे राजन्ब्रूहि सर्वं यथाव; त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् ||१२|| ययातिरुवाच|| राजाहमासमिह सार्वभौम; स्ततो लोकान्महतो अजयं वै | तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ||१३|| ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयोजनायताम् | अध्यावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ||१४|| ततो दिव्यमजरं प्राप्य लोकं; प्रजापतेर्लोकपतेर्दुरापम् | तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ||१५|| देवस्य देवस्य निवेशने च; विजित्य लोकानवसं यथेष्टम् | सम्पूज्यमानस्त्रिदशैः समस्तै; स्तुल्यप्रभावद्युतिरीश्वराणाम् ||१६|| तथावसं नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् | सहाप्सरोभिर्विहरन्पुण्यगन्धा; न्पश्यन्नगान्पुष्पितांश्चारुरूपान् ||१७|| तत्रस्थं मां देवसुखेषु सक्तं; कालेऽतीते महति ततोऽतिमात्रम् | दूतो देवानामब्रवीदुग्ररूपो; ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ||१८|| एतावन्मे विदितं राजसिंह; ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः | वाचोऽश्रौषं चान्तरिक्षे सुराणा; मनुक्रोशाच्छोचतां मानवेन्द्र ||१९|| अहो कष्टं क्षीणपुण्यो ययातिः; पतत्यसौ पुण्यकृत्पुण्यकीर्तिः | तानब्रुवं पतमानस्ततोऽहं; सतां मध्ये निपतेयं कथं नु ||२०|| तैराख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां त्वरितमुपागतोऽस्मि | हविर्गन्धं देशिकं यज्ञभूमे; र्धूमापाङ्गं प्रतिगृह्य प्रतीतः ||२१||

    ८५ अष्टक उवाच|| यदावसो नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् | किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधामन्वपद्यः ||१|| ययातिरुवाच|| ज्ञातिः सुहृत्स्वजनो यो यथेह; क्षीणे वित्ते त्यज्यते मानवैर्हि | तथा तत्र क्षीणपुण्यं मनुष्यं; त्यजन्ति सद्यः सेश्वरा देवसङ्घाः ||२|| अष्टक उवाच|| कथं तस्मिन्क्षीणपुण्या भवन्ति; संमुह्यते मेऽत्र मनोऽतिमात्रम् | किंविशिष्टाः कस्य धामोपयान्ति; तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ||३|| ययातिरुवाच|| इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे | ते कङ्कगोमायुबलाशनार्थं; क्षीणा विवृद्धिं बहुधा व्रजन्ति ||४|| तस्मादेतद्वर्जनीयं नरेण; दुष्टं लोके गर्हणीयं च कर्म | आख्यातं ते पार्थिव सर्वमेत; द्भूयश्चेदानीं वद किं ते वदामि ||५|| अष्टक उवाच|| यदा तु तान्वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतङ्गाः | कथं भवन्ति कथमाभवन्ति; न भौममन्यं नरकं शृणोमि ||६|| ययातिरुवाच|| ऊर्ध्वं देहात्कर्मणो जृम्भमाणा; द्व्यक्तं पृथिव्यामनुसञ्चरन्ति | इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगाननेकान् ||७|| षष्टिं सहस्राणि पतन्ति व्योम्नि; तथा अशीतिं परिवत्सराणि | तान्वै तुदन्ति प्रपततः प्रपातं; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ||८|| अष्टक उवाच|| यदेनसस्ते पततस्तुदन्ति; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः | कथं भवन्ति कथमाभवन्ति; कथम्भूता गर्भभूता भवन्ति ||९|| ययातिरुवाच|| अस्रं रेतः पुष्पफलानुपृक्त; मन्वेति तद्वै पुरुषेण सृष्टम् | स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र ||१०|| वनस्पतींश्चौषधीश्चाविशन्ति; अपो वायुं पृथिवीं चान्तरिक्षम् | चतुष्पदं द्विपदं चापि सर्व; मेवम्भूता गर्भभूता भवन्ति ||११|| अष्टक उवाच|| अन्यद्वपुर्विदधातीह गर्भ; उताहो स्वित्स्वेन कामेन याति | आपद्यमानो नरयोनिमेता; माचक्ष्व मे संशयात्प्रब्रवीमि ||१२|| शरीरदेहादिसमुच्छ्रयं च; चक्षुःश्रोत्रे लभते केन सञ्ज्ञाम् | एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः; क्षेत्रज्ञं त्वां तात मन्याम सर्वे ||१३|| ययातिरुवाच|| वायुः समुत्कर्षति गर्भयोनि; मृतौ रेतः पुष्परसानुपृक्तम् | स तत्र तन्मात्रकृताधिकारः; क्रमेण संवर्धयतीह गर्भम् ||१४|| स जायमानो विगृहीतगात्रः; षड्ज्ञाननिष्ठायतनो मनुष्यः | स श्रोत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च ||१५|| घ्राणेन गन्धं जिह्वयाथो रसं च; त्वचा स्पर्शं मनसा वेद भावम् | इत्यष्टकेहोपचितिं च विद्धि; महात्मनः प्राणभृतः शरीरे ||१६|| अष्टक उवाच|| यः संस्थितः पुरुषो दह्यते वा; निखन्यते वापि निघृष्यते वा | अभावभूतः स विनाशमेत्य; केनात्मानं चेतयते पुरस्तात् ||१७|| ययातिरुवाच|| हित्वा सोऽसून्सुप्तवन्निष्टनित्वा; पुरोधाय सुकृतं दुष्कृतं च | अन्यां योनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह ||१८|| पुण्यां योनिं पुण्यकृतो व्रजन्ति; पापां योनिं पापकृतो व्रजन्ति | कीटाः पतङ्गाश्च भवन्ति पापा; न मे विवक्षास्ति महानुभाव ||१९|| चतुष्पदा द्विपदाः षट्पदाश्च; तथाभूता गर्भभूता भवन्ति | आख्यातमेतन्निखिलेन सर्वं; भूयस्तु किं पृच्छसि राजसिंह ||२०|| अष्टक उवाच|| किं स्वित्कृत्वा लभते तात लोका; न्मर्त्यः श्रेष्ठांस्तपसा विद्यया वा | तन्मे पृष्टः शंस सर्वं यथाव; च्छुभाँल्लोकान्येन गच्छेत्क्रमेण ||२१|| ययातिरुवाच|| तपश्च दानं च शमो दमश्च; ह्रीरार्जवं सर्वभूतानुकम्पा | नश्यन्ति मानेन तमोऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः ||२२|| अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् | तस्यान्तवन्तश्च भवन्ति लोका; न चास्य तद्ब्रह्म फलं ददाति ||२३|| चत्वारि कर्माण्यभयङ्कराणि; भयं प्रयच्छन्त्ययथाकृतानि | मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः ||२४|| न मान्यमानो मुदमाददीत; न सन्तापं प्राप्नुयाच्चावमानात् | सन्तः सतः पूजयन्तीह लोके; नासाधवः साधुबुद्धिं लभन्ते ||२५|| इति दद्यादिति यजेदित्यधीयीत मे व्रतम् | इत्यस्मिन्नभयान्याहुस्तानि वर्ज्यानि नित्यशः ||२६|| येनाश्रयं वेदयन्ते पुराणं; मनीषिणो मानसमानभक्तम् | तन्निःश्रेयस्तैजसं रूपमेत्य; परां शान्तिं प्राप्नुयुः प्रेत्य चेह ||२७||

    ८६ अष्टक उवाच|| चरन्गृहस्थः कथमेति देवा; न्कथं भिक्षुः कथमाचार्यकर्मा | वानप्रस्थः सत्पथे संनिविष्टो; बहून्यस्मिन्सम्प्रति वेदयन्ति ||१|| ययातिरुवाच|| आहूताध्यायी गुरुकर्मस्वचोद्यः; पूर्वोत्थायी चरमं चोपशायी | मृदुर्दान्तो धृतिमानप्रमत्तः; स्वाध्यायशीलः सिध्यति ब्रह्मचारी ||२|| धर्मागतं प्राप्य धनं यजेत; दद्यात्सदैवातिथीन्भोजयेच्च | अनाददानश्च परैरदत्तं; सैषा गृहस्थोपनिषत्पुराणी ||३|| स्ववीर्यजीवी वृजिनान्निवृत्तो; दाता परेभ्यो न परोपतापी | तादृङ्मुनिः सिद्धिमुपैति मुख्यां; वसन्नरण्ये नियताहारचेष्टः ||४|| अशिल्पजीवी नगृहश्च नित्यं; जितेन्द्रियः सर्वतो विप्रमुक्तः | अनोकसारी लघुरल्पचार; श्चरन्देशानेकचरः स भिक्षुः ||५|| रात्र्या यया चाभिजिताश्च लोका; भवन्ति कामा विजिताः सुखाश्च | तामेव रात्रिं प्रयतेत विद्वा; नरण्यसंस्थो भवितुं यतात्मा ||६|| दशैव पूर्वान्दश चापरांस्तु; ज्ञातीन्सहात्मानमथैकविंशम् | अरण्यवासी सुकृते दधाति; विमुच्यारण्ये स्वशरीरधातून् ||७|| अष्टक उवाच|| कति स्विदेव मुनयो मौनानि कति चाप्युत | भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् ||८|| ययातिरुवाच|| अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः | ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप ||९|| अष्टक उवाच|| कथं स्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः | ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः ||१०|| ययातिरुवाच|| न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् | तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः ||११|| अनग्निरनिकेतश्च अगोत्रचरणो मुनिः | कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ||१२|| यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम् | तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ||१३|| यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः | आतिष्ठेत मुनिर्मौनं स लोके सिद्धिमाप्नुयात् ||१४|| धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम् | असितं सितकर्मस्थं कस्तं नार्चितुमर्हति ||१५|| तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः | यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः ||१६|| अथ लोकमिमं जित्वा लोकं विजयते परम् ||१६|| आस्येन तु यदाहारं गोवन्मृगयते मुनिः | अथास्य लोकः पूर्वो यः सोऽमृतत्वाय कल्पते ||१७||

    ८७ अष्टक उवाच|| कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम् | उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव ||१|| ययातिरुवाच|| अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः | ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः ||२|| अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत् | तप्येत यदि तत्कृत्वा चरेत्सोऽन्यत्ततस्तपः ||३|| यद्वै नृशंसं तदपथ्यमाहु; र्यः सेवते धर्ममनर्थबुद्धिः | अस्वोऽप्यनीशश्च तथैव राजं; स्तदार्जवं स समाधिस्तदार्यम् ||४|| अष्टक उवाच|| केनासि दूतः प्रहितोऽद्य राज; न्युवा स्रग्वी दर्शनीयः सुवर्चाः | कुत आगतः कतरस्यां दिशि त्व; मुताहो स्वित्पार्थिवं स्थानमस्ति ||५|| ययातिरुवाच|| इमं भौमं नरकं क्षीणपुण्यः; प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः | उक्त्वाहं वः प्रपतिष्याम्यनन्तरं; त्वरन्ति मां ब्राह्मणा लोकपालाः ||६|| सतां सकाशे तु वृतः प्रपात; स्ते सङ्गता गुणवन्तश्च सर्वे | शक्राच्च लब्धो हि वरो मयैष; पतिष्यता भूमितले नरेन्द्र ||७|| अष्टक उवाच|| पृच्छामि त्वां मा प्रपत प्रपातं; यदि लोकाः पार्थिव सन्ति मेऽत्र | यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ||८|| ययातिरुवाच|| यावत्पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश्च | तावल्लोका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्रसिंह ||९|| अष्टक उवाच|| तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोका दिवि राजेन्द्र सन्ति | यद्यन्तरिक्षे यदि वा दिवि श्रिता; स्तानाक्रम क्षिप्रममित्रसाह ||१०|| ययातिरुवाच|| नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च; प्रतिग्रहे वर्तते राजमुख्य | यथा प्रदेयं सततं द्विजेभ्य; स्तथाददं पूर्वमहं नरेन्द्र ||११|| नाब्राह्मणः कृपणो जातु जीवे; द्या चापि स्याद्ब्राह्मणी वीरपत्नी | सोऽहं यदैवाकृतपूर्वं चरेयं; विवित्समानः किमु तत्र साधु ||१२|| प्रतर्दन उवाच|| पृच्छामि त्वां स्पृहणीयरूप; प्रतर्दनोऽहं यदि मे सन्ति लोकाः | यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ||१३|| ययातिरुवाच|| सन्ति लोका बहवस्ते नरेन्द्र; अप्येकैकः सप्त सप्ताप्यहानि | मधुच्युतो घृतपृक्ता विशोका; स्ते नान्तवन्तः प्रतिपालयन्ति ||१४|| प्रतर्दन उवाच|| तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोकास्तव ते वै भवन्तु | यद्यन्तरिक्षे यदि वा दिवि श्रिता; स्तानाक्रम क्षिप्रमपेतमोहः ||१५|| ययातिरुवाच|| न तुल्यतेजाः सुकृतं कामयेत; योगक्षेमं पार्थिव पार्थिवः सन् | दैवादेशादापदं प्राप्य विद्वां; श्चरेन्नृशंसं न हि जातु राजा ||१६|| धर्म्यं मार्गं चेतयानो यशस्यं; कुर्यान्नृपो धर्ममवेक्षमाणः | न मद्विधो धर्मबुद्धिः प्रजान; न्कुर्यादेवं कृपणं मां यथात्थ ||१७|| कुर्यामपूर्वं न कृतं यदन्यै; र्विवित्समानः किमु तत्र साधु | ब्रुवाणमेवं नृपतिं ययातिं; नृपोत्तमो वसुमनाब्रवीत्तम् ||१८||

    ८८ वसुमना उवाच|| पृच्छामि त्वां वसुमना रौशदश्वि; र्यद्यस्ति लोको दिवि मह्यं नरेन्द्र | यद्यन्तरिक्षे प्रथितो महात्म; न्क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ||१|| ययातिरुवाच|| यदन्तरिक्षं पृथिवी दिशश्च; यत्तेजसा तपते भानुमांश्च | लोकास्तावन्तो दिवि संस्थिता वै; ते नान्तवन्तः प्रतिपालयन्ति ||२|| वसुमना उवाच|| तांस्ते ददामि पत मा प्रपातं; ये मे लोकास्तव ते वै भवन्तु | क्रीणीष्वैनांस्तृणकेनापि राज; न्प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः ||३|| ययातिरुवाच|| न मिथ्याहं विक्रयं वै स्मरामि; वृथा गृहीतं शिशुकाच्छङ्कमानः | कुर्यां न चैवाकृतपूर्वमन्यै; र्विवित्समानः किमु तत्र साधु ||४|| वसुमना उवाच|| तांस्त्वं लोकान्प्रतिपद्यस्व राज; न्मया दत्तान्यदि नेष्टः क्रयस्ते | अहं न तान्वै प्रतिगन्ता नरेन्द्र; सर्वे लोकास्तव ते वै भवन्तु ||५|| शिबिरुवाच|| पृच्छामि त्वां शिबिरौशीनरोऽहं; ममापि लोका यदि सन्तीह तात | यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ||६|| ययातिरुवाच|| न त्वं वाचा हृदयेनापि विद्व; न्परीप्समानान्नावमंस्था नरेन्द्र | तेनानन्ता दिवि लोकाः श्रितास्ते; विद्युद्रूपाः स्वनवन्तो महान्तः ||७|| शिबिरुवाच|| तांस्त्वं लोकान्प्रतिपद्यस्व राज; न्मया दत्तान्यदि नेष्टः क्रयस्ते | न चाहं तान्प्रतिपत्स्येह दत्त्वा; यत्र गत्वा त्वमुपास्से ह लोकान् ||८|| ययातिरुवाच|| यथा त्वमिन्द्रप्रतिमप्रभाव; स्ते चाप्यनन्ता नरदेव लोकाः | तथाद्य लोके न रमेऽन्यदत्ते; तस्माच्छिबे नाभिनन्दामि दायम् ||९|| अष्टक उवाच|| न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि | सर्वे प्रदाय भवते गन्तारो नरकं वयम् ||१०|| ययातिरुवाच|| यदर्हाय ददध्वं तत्सन्तः सत्यानृशंस्यतः | अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा ||११|| अष्टक उवाच|| कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः | उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ||१२|| ययातिरुवाच|| युष्मानेते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः | उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ||१३|| अष्टक उवाच|| आतिष्ठस्व रथं राजन्विक्रमस्व विहायसा | वयमप्यनुयास्यामो यदा कालो भविष्यति ||१४|| ययातिरुवाच|| सर्वैरिदानीं गन्तव्यं सहस्वर्गजितो वयम् | एष नो विरजाः पन्था दृश्यते देवसद्मनः ||१५|| वैशम्पायन उवाच|| तेऽधिरुह्य रथान्सर्वे प्रयाता नृपसत्तमाः | आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी ||१६|| अष्टक उवाच|| अहं मन्ये पूर्वमेकोऽस्मि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा | कस्मादेवं शिबिरौशीनरोऽय; मेकोऽत्यगात्सर्ववेगेन वाहान् ||१७|| ययातिरुवाच|| अददाद्देवयानाय यावद्वित्तमविन्दत | उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि नः शिबिः ||१८|| दानं तपः सत्यमथापि धर्मो; ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा | राजन्नेतान्यप्रतिमस्य राज्ञः; शिबेः स्थितान्यनृशंसस्य बुद्ध्या ||१९|| एवंवृत्तो ह्रीनिषेधश्च यस्मा; त्तस्माच्छिबिरत्यगाद्वै रथेन ||१९|| वैशम्पायन उवाच|| अथाष्टकः पुनरेवान्वपृच्छ; न्मातामहं कौतुकादिन्द्रकल्पम् | पृच्छामि त्वां नृपते ब्रूहि सत्यं; कुतश्च कस्यासि सुतश्च कस्य ||२०|| कृतं त्वया यद्धि न तस्य कर्ता; लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा ||२०|| ययातिरुवाच|| ययातिरस्मि नहुषस्य पुत्रः; पूरोः पिता सार्वभौमस्त्विहासम् | गुह्यमर्थं मामकेभ्यो ब्रवीमि; मातामहोऽहं भवतां प्रकाशः ||२१|| सर्वामिमां पृथिवीं निर्जिगाय; प्रस्थे बद्ध्वा ह्यददं ब्राह्मणेभ्यः | मेध्यानश्वानेकशफान्सुरूपां; स्तदा देवाः पुण्यभाजो भवन्ति ||२२|| अदामहं पृथिवीं ब्राह्मणेभ्यः; पूर्णामिमामखिलां वाहनस्य | गोभिः सुवर्णेन धनैश्च मुख्यै; स्तत्रासन्गाः शतमर्बुदानि ||२३|| सत्येन मे द्यौश्च वसुन्धरा च; तथैवाग्निर्ज्वलते मानुषेषु | न मे वृथा व्याहृतमेव वाक्यं; सत्यं हि सन्तः प्रतिपूजयन्ति ||२४|| सर्वे च देवा मुनयश्च लोकाः; सत्येन पूज्या इति मे मनोगतम् ||२४|| यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत् | अनसूयुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम् ||२५|| वैशम्पायन उवाच|| एवं राजा स महात्मा ह्यतीव; स्वैर्दौहित्रैस्तारितोऽमित्रसाहः | त्यक्त्वा महीं परमोदारकर्मा; स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ||२६||

    संभवपर्व ८९ जनमेजय उवाच|| भगवञ्श्रोतुमिच्छामि पूरोर्वंशकरान्नृपान् | यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः ||१|| न ह्यस्मिञ्शीलहीनो वा निर्वीर्यो वा नराधिपः | प्रजाविरहितो वापि भूतपूर्वः कदाचन ||२|| तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम् | चरितं श्रोतुमिच्छामि विस्तरेण तपोधन ||३|| वैशम्पायन उवाच|| हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि | पूरोर्वंशधरान्वीराञ्शक्रप्रतिमतेजसः ||४|| प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः | पूरोः पौष्ट्यामजायन्त प्रवीरस्तत्र वंशकृत् ||५|| मनस्युरभवत्तस्माच्छूरः श्येनीसुतः प्रभुः | पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः ||६|| सुभ्रूः संहननो वाग्मी सौवीरीतनयास्त्रयः | मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः ||७|| रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः | यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः ||८|| सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः ||८|| ऋचेपुरथ कक्षेपुः कृकणेपुश्च वीर्यवान् | स्थण्डिलेपुर्वनेपुश्च स्थलेपुश्च महारथः ||९|| तेजेपुर्बलवान्धीमान्सत्येपुश्चेन्द्रविक्रमः | धर्मेपुः संनतेपुश्च दशमो देवविक्रमः ||१०|| अनाधृष्टिसुतास्तात राजसूयाश्वमेधिनः ||१०|| मतिनारस्ततो राजा विद्वांश्चर्चेपुतोऽभवत् | मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः ||११|| तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः ||११|| तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् | आजहार यशो दीप्तं जिगाय च वसुन्धराम् ||१२|| इलिनं तु सुतं तंसुर्जनयामास वीर्यवान् | सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः ||१३|| रथन्तर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः | इलिनो जनयामास दुःषन्तप्रभृतीन्नृप ||१४|| दुःषन्तं शूरभीमौ च प्रपूर्वं वसुमेव च | तेषां ज्येष्ठोऽभवद्राजा दुःषन्तो जनमेजय ||१५|| दुःषन्ताद्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः | तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ||१६|| भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत् | नाभ्यनन्दन्त तान्राजा नानुरूपा ममेत्युत ||१७|| ततो महद्भिः क्रतुभिरीजानो भरतस्तदा | लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत ||१८|| ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः | भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् ||१९|| ततस्तस्य महीन्द्रस्य वितथः पुत्रकोऽभवत् | ततः स वितथो नाम भुमन्योरभवत्सुतः ||२०|| सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा | पुष्करिण्यामृचीकस्य भुमन्योरभवन्सुताः ||२१|| तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् | राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः ||२२|| सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम् | पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम् ||२३|| ममज्जेव मही तस्य भूरिभारावपीडिता | हस्त्यश्वरथसम्पूर्णा मनुष्यकलिला भृशम् ||२४|| सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः | चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः ||२५|| प्रवृद्धजनसस्या च सहदेवा व्यरोचत ||२५|| ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः | अजमीढं सुमीढं च पुरुमीढं च भारत ||२६|| अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः | षट्पुत्रान्सोऽप्यजनयत्तिसृषु स्त्रीषु भारत ||२७|| ऋक्षं धूमिन्यथो नीली दुःषन्तपरमेष्ठिनौ | केशिन्यजनयज्जह्नुमुभौ च जनरूपिणौ ||२८|| तथेमे सर्वपाञ्चाला दुःषन्तपरमेष्ठिनोः | अन्वयाः कुशिका राजञ्जह्नोरमिततेजसः ||२९|| जनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् | ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव ||३०|| आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम् | सङ्क्षयः सुमहानासीत्प्रजानामिति शुश्रुमः ||३१|| व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तथा | क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् ||३२|| अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च ||३२|| चालयन्वसुधां चैव बलेन चतुरङ्गिणा | अभ्ययात्तं च पाञ्चाल्यो विजित्य तरसा महीम् ||३३|| अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् ||३३|| ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः | राजा संवरणस्तस्मात्पलायत महाभयात् ||३४|| सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत्तदा | नदीविषयपर्यन्ते पर्वतस्य समीपतः ||३५|| तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः ||३५|| तेषां निवसतां तत्र सहस्रं परिवत्सरान् | अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः ||३६|| तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च | अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा ||३७|| निवेद्य सर्वमृषये सत्कारेण सुवर्चसे ||३७|| तं समामष्टमीमुष्टं राजा वव्रे स्वयं तदा | पुरोहितो भवान्नोऽस्तु राज्याय प्रयतामहे ||३८|| ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत ||३८|| अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् | विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् ||३९|| भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम् | पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः ||४०|| ततः स पृथिवीं प्राप्य पुनरीजे महाबलः | आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः ||४१|| ततः संवरणात्सौरी सुषुवे तपती कुरुम् | राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे ||४२|| तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम् | कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः ||४३|| अश्ववन्तमभिष्वन्तं तथा चित्ररथं मुनिम् | जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः ||४४|| पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी ||४४|| अभिष्वतः परिक्षित्तु शबलाश्वश्च वीर्यवान् | अभिराजो विराजश्च शल्मलश्च महाबलः ||४५|| उच्चैःश्रवा भद्रकारो जितारिश्चाष्टमः स्मृतः | एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः ||४६|| जनमेजयादयः सप्त तथैवान्ये महाबलाः | परिक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः ||४७|| कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्यवान् | इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः ||४८|| जनमेजयस्य तनया भुवि ख्याता महाबलाः | धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च ||४९|| निषधश्च महातेजास्तथा जाम्बूनदो बली | कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः ||५०|| सर्वे धर्मार्थकुशलाः सर्वे भूतहिते रताः ||५०|| धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः | हस्ती वितर्कः क्राथश्च कुण्डलश्चापि पञ्चमः ||५१|| हविःश्रवास्तथेन्द्राभः सुमन्युश्चापराजितः ||५१|| प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ | देवापिः शन्तनुश्चैव बाह्लीकश्च महारथः ||५२|| देवापिस्तु प्रवव्राज तेषां धर्मपरीप्सया | शन्तनुश्च महीं लेभे बाह्लीकश्च महारथः ||५३|| भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः | देवर्षिकल्पा नृपते बहवो राजसत्तमाः ||५४|| एवंविधाश्चाप्यपरे देवकल्पा महारथाः | जाता मनोरन्ववाये ऐलवंशविवर्धनाः ||५५||

    ९० जनमेजय उवाच|| श्रुतस्त्वत्तो मया विप्र पूर्वेषां सम्भवो महान् | उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः ||१|| किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामति | प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे ||२|| एतामेव कथां दिव्यामा प्रजापतितो मनोः | तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् ||३|| सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम् | विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम् ||४|| गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम् | न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम् ||५|| वैशम्पायन उवाच|| शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम् | प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम् ||६|| दक्षस्यादितिः | अदितेर्विवस्वान् | विवस्वतो मनुः | मनोरिला | इलायाः पुरूरवाः | पुरूरवस आयुः | आयुषो नहुषः | नहुषस्य ययातिः | ००७ | ययातेर्द्वे भार्ये बभूवतुः | उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम | अत्रानुवंशो भवति | ००८ | यदुं च तुर्वसुं चैव देवयानी व्यजायत | द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ||९|| तत्र यदोर्यादवाः | पूरोः पौरवाः | ०१० | पूरोर्भार्या कौसल्या नाम | तस्यामस्य जज्ञे जनमेजयो नाम | यस्त्रीनश्वमेधानाजहार | विश्वजिता चेष्ट्वा वनं प्रविवेश | ०११ | जनमेजयः खल्वनन्तां नामोपयेमे माधवीम् | तस्यामस्य जज्ञे प्राचिन्वान् | यः प्राचीं दिशं जिगाय यावत्सूर्योदयात् | ततस्तस्य प्राचिन्वत्वम् | ०१२ | प्राचिन्वान्खल्वश्मकीमुपयेमे | तस्यामस्य जज्ञे संयातिः | ०१३ | संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे | तस्यामस्य जज्ञे अहम्पातिः | ०१४ | अहम्पातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम | तस्यामस्य जज्ञे सार्वभौमः | ०१५ | सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम | तस्यामस्य जज्ञे जयत्सेनः | ०१६ | जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम | तस्यामस्य जज्ञे अराचीनः | ०१७ | अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम | तस्यामस्य जज्ञे महाभौमः | ०१८ | महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम | तस्यामस्य जज्ञे अयुतनायी | यः पुरुषमेधानामयुतमानयत् | तदस्यायुतनायित्वम् | ०१९ | अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम | तस्यामस्य जज्ञे अक्रोधनः | ०२० | अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे | तस्यामस्य जज्ञे देवातिथिः | ०२१ | देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम | तस्यामस्य जज्ञे ऋचः | ०२२ | ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम | तस्यां पुत्रमजनयदृक्षम् | ०२३ | ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम | तस्यां पुत्रं मतिनारं नामोत्पादयामास | ०२४ | मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार | ०२५ | निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास | तस्यां पुत्रमजनयत्तंसुं नाम | ०२६ | अत्रानुवंशो भवति | ०२७ | तंसुं सरस्वती पुत्रं मतिनारादजीजनत् | इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् ||२८|| इलिनस्तु रथन्तर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत् | ०२९ | दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे | तस्यामस्य जज्ञे भरतः | तत्र श्लोकौ भवतः | ०३० | माता भस्त्रा पितुः पुत्रो येन जातः स एव सः | भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ||३१|| रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् | त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ||३२|| ततोऽस्य भरतत्वम् | ०३३ | भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम | तस्यामस्य जज्ञे भुमन्युः | ०३४ | भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम | तस्यामस्य जज्ञे सुहोत्रः | ०३५ | सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम | तस्यामस्य जज्ञे हस्ती | य इदं हास्तिनपुरं मापयामास | एतदस्य हास्तिनपुरत्वम् | ०३६ | हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम | तस्यामस्य जज्ञे विकुण्ठनः | ०३७ | विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम | तस्यामस्य जज्ञेऽजमीढः | ०३८ | अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेति | पृथक्पृथग्वंशकरा नृपतयः | तत्र वंशकरः संवरणः | ०३९ | संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे | तस्यामस्य जज्ञे कुरुः | ०४० | कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम | तस्यामस्य जज्ञे विडूरथः | ०४१ | विडूरथस्तु मागधीमुपयेमे सम्प्रियां नाम | तस्यामस्य जज्ञेऽरुग्वान्नाम | ०४२ | अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम | तस्यामस्य जज्ञे परिक्षित् | ०४३ | परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम | तस्यामस्य जज्ञे भीमसेनः | ०४४ | भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम | तस्यामस्य जज्ञे पर्यश्रवाः | यमाहुः प्रतीपं नाम | ०४५ | प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम | तस्यां पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति | ०४६ | देवापिः खलु बाल एवारण्यं प्रविवेश | शन्तनुस्तु महीपालोऽभवत् | अत्रानुवंशो भवति | ०४७ | यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते | पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ||४८|| तदस्य शन्तनुत्वम् | ०४९ | शन्तनुः खलु गङ्गां भागीरथीमुपयेमे | तस्यामस्य जज्ञे देवव्रतः | यमाहुर्भीष्म इति | ०५० | भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम् | यामाहुर्गन्धकालीति | ०५१ | तस्यां कानीनो गर्भः पराशराद्द्वैपायनः | तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः | चित्राङ्गदो विचित्रवीर्यश्च | ०५२ | तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः | विचित्रवीर्यस्तु राजा समभवत् | ०५३ | विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे | ०५४ | विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः | ०५५ | ततः सत्यवती चिन्तयामास | दौःषन्तो वंश उच्छिद्यते इति | ०५६ | सा द्वैपायनमृषिं चिन्तयामास | ०५७ | स तस्याः पुरतः स्थितः किं करवाणीति | ०५८ | सा तमुवाच | भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः | साध्वपत्यं तस्योत्पादयेति | ०५९ | स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति | ०६० | तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य | ०६१ | तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति | ०६२ | पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने | ०६३ | अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम् | तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान | ०६४ | स बाणविद्ध उवाच पाण्डुम् | चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति | ०६५ | स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये | ०६६ | वाक्यं चोवाच | स्वचापल्यादिदं प्राप्तवानहम् | शृणोमि च नानपत्यस्य लोका सन्तीति | ०६७ | सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच | ०६८ | सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति | ०६९ | स तां हृष्टरूपः पाण्डुरुवाच | इयं ते सपत्न्यनपत्या | साध्वस्यामपत्यमुत्पाद्यतामिति | ०७० | स एवमस्त्वित्युक्तः कुन्त्या | ०७१ | ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ | ०७२ | माद्रीं खल्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे | ०७३ | स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः | ०७४ | तत्रैनं चितास्थं माद्री समन्वारुरोह | ०७५ | उवाच कुन्तीम् | यमयोरार्ययाप्रमत्तया भवितव्यमिति | ०७६ | ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य च निवेदिताः | ०७७ | तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन | ०७८ | ततश्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः | ०७९ | तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः | ०८० | तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः | ०८१ | पुत्रांश्चोत्पादयामासुः | प्रतिविन्ध्यं युधिष्ठिरः | सुतसोमं वृकोदरः | श्रुतकीर्तिमर्जुनः | शतानीकं नकुलः | श्रुतकर्माणं सहदेव इति | ०८२ | युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे | तस्यां पुत्रं जनयामास यौधेयं नाम | ०८३ | भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम् | तस्यां पुत्रं सर्वगं नामोत्पादयामास | ०८४ | अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत् | तस्यां पुत्रमभिमन्युं नाम जनयामास | ०८५ | नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत् | तस्यां पुत्रं निरमित्रं नामाजनयत् | ०८६ | सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे | तस्यां पुत्रमजनयत्सुहोत्रं नाम | ०८७ | भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास | ०८८ | इत्येते एकादश पाण्डवानां पुत्राः | ०८९ | विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे | तस्यामस्य परासुर्गर्भोऽजायत | ०९० | तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य | षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति | ०९१ | सञ्जीवयित्वा चैनमुवाच | परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति | ०९२ | परिक्षित्तु खलु माद्रवतीं नामोपयेमे | तस्यामस्य जनमेजयः | ०९३ | जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश्च | ०९४ | शतानीकस्तु खलु वैदेहीमुपयेमे | तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः | ०९५ | इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः | पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते ||९६||

    ९१ वैशम्पायन उवाच|| इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः | महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः ||१|| सोऽश्वमेधसहस्रेण वाजपेयशतेन च | तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः ||२|| ततः कदाचिद्ब्रह्माणमुपासां चक्रिरे सुराः | तत्र राजर्षयो आसन्स च राजा महाभिषः ||३|| अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् | तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ||४|| ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा | महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् ||५|| अपध्यातो भगवता ब्रह्मणा स महाभिषः | उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ||६|| स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान् | प्रतीपं रोचयामास पितरं भूरिवर्चसम् ||७|| महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम् | तमेव मनसाध्यायमुपावर्तत्सरिद्वरा ||८|| सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः | ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः ||९|| तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा | किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् ||१०|| तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि | अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना ||११|| विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम् | सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा ||१२|| तेन कोपाद्वयं शप्ता योनौ सम्भवतेति ह | न शक्यमन्यथा कर्तुं यदुक्तं ब्रह्मवादिना ||१३|| त्वं तस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि | न मानुषीणां जठरं प्रविशेमाशुभं वयम् ||१४|| इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाब्रवीदिदम् | मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति ||१५|| वसव ऊचुः|| प्रतीपस्य सुतो राजा शन्तनुर्नाम धार्मिकः | भविता मानुषे लोके स नः कर्ता भविष्यति ||१६|| गङ्गोवाच|| ममाप्येवं मतं देवा यथावदत मानघाः | प्रियं तस्य करिष्यामि युष्माकं चैतदीप्शितम् ||१७|| वसव ऊचुः|| जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि | यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे ||१८|| गङ्गोवाच|| एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् | नास्य मोघः सङ्गमः स्यात्पुत्रहेतोर्मया सह ||१९|| वसव ऊचुः|| तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् | तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः ||२०|| न सम्पत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः | तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् ||२१|| वैशम्पायन उवाच|| एवं ते समयं कृत्वा गङ्गया वसवः सह | जग्मुः प्रहृष्टमनसो यथासङ्कल्पमञ्जसा ||२२||

    ९२ वैशम्पायन उवाच|| ततः प्रतीपो राजा स सर्वभूतहिते रतः | निषसाद समा बह्वीर्गङ्गातीरगतो जपन् ||१|| तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी | उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः ||२|| अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी | दक्षिणं शालसङ्काशमूरुं भेजे शुभानना ||३|| प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम् | करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् ||४|| स्त्र्युवाच|| त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम् | त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः ||५|| प्रतीप उवाच|| नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनि | न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम् ||६|| स्त्र्युवाच|| नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित् | भज मां भजमानां त्वं राजन्कन्यां वरस्त्रियम् ||७|| प्रतीप उवाच|| मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम् | अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः ||८|| प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने | अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् ||९|| सव्यतः कामिनीभागस्त्वया स च विवर्जितः | तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने ||१०|| स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम् | स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता ||११|| स्त्र्युवाच|| एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते | त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् ||१२|| पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् | गुणा न हि मया शक्या वक्तुं वर्षशतैरपि ||१३|| कुलस्य ये वः प्रस्थितास्तत्साधुत्वमनुत्तमम् ||१३|| स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो | तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् ||१४|| एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम् | पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः ||१५|| वैशम्पायन उवाच|| तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत | पुत्रजन्म प्रतीक्षंस्तु स राजा तदधारयत् ||१६|| एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः | तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन ||१७|| तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः | शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शन्तनुः ||१८|| संस्मरंश्चाक्षयाँल्लोकान्विजितान्स्वेन कर्मणा | पुण्यकर्मकृदेवासीच्छन्तनुः कुरुसत्तम ||१९|| प्रतीपः शन्तनुं पुत्रं यौवनस्थं ततोऽन्वशात् | पुरा मां स्त्री समभ्यागाच्छन्तनो भूतये तव ||२०|| त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी | कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया ||२१|| सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने ||२१|| यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ | मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् ||२२|| एवं संदिश्य तनयं प्रतीपः शन्तनुं तदा | स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह ||२३|| स राजा शन्तनुर्धीमान्ख्यातः पृथ्व्यां धनुर्धरः | बभूव मृगयाशीलः सततं वनगोचरः ||२४|| स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः | गङ्गामनुचचारैकः सिद्धचारणसेविताम् ||२५|| स कदाचिन्महाराज ददर्श परमस्त्रियम् | जाज्वल्यमानां वपुषा साक्षात्पद्मामिव श्रियम् ||२६|| सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् | सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम् ||२७|| तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसम्पदा | पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः ||२८|| सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् | स्नेहादागतसौहार्दा नातृप्यत विलासिनी ||२९|| तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा | देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः ||३०|| यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे | या वा त्वं सुरगर्भाभे भार्या मे भव शोभने ||३१|| एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च | वसूनां समयं स्मृत्वा अभ्यगच्छदनिन्दिता ||३२|| उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा | भविष्यामि महीपाल महिषी ते वशानुगा ||३३|| यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम् | न तद्वारयितव्यास्मि न वक्तव्या तथाप्रियम् ||३४|| एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव | वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् ||३५|| तथेति राज्ञा सा तूक्ता तदा भरतसत्तम | प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् ||३६|| आसाद्य शन्तनुस्तां च बुभुजे कामतो वशी | न प्रष्टव्येति मन्वानो न स तां किञ्चिदूचिवान् ||३७|| स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च | उपचारेण च रहस्तुतोष जगतीपतिः ||३८|| दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी | मानुषं विग्रहं श्रीमत्कृत्वा सा वरवर्णिनी ||३९|| भाग्योपनतकामस्य भार्येवोपस्थिताभवत् | शन्तनो राजसिंहस्य देवराजसमद्युतेः ||४०|| सम्भोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः | राजानं रमयामास यथा रेमे तथैव सः ||४१|| स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः | संवत्सरानृतून्मासान्न बुबोध बहून्गतान् ||४२|| रममाणस्तया सार्धं यथाकामं जनेश्वरः | अष्टावजनयत्पुत्रांस्तस्याममरवर्णिनः ||४३|| जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत | प्रीणामि त्वाहमित्युक्त्वा गङ्गास्रोतस्यमज्जयत् ||४४|| तस्य तन्न प्रियं राज्ञः शन्तनोरभवत्तदा | न च तां किञ्चनोवाच त्यागाद्भीतो महीपतिः ||४५|| अथ तामष्टमे पुत्रे जाते प्रहसितामिव | उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः ||४६|| मा वधीः कासि कस्यासि किं हिंससि सुतानिति | पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते ||४७|| स्त्र्युवाच|| पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर | जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ||४८|| अहं गङ्गा जह्नुसुता महर्षिगणसेविता | देवकार्यार्थसिद्ध्यर्थमुषिटाहं त्वया सह ||४९|| अष्टेमे वसवो देवा महाभागा महौजसः | वसिष्ठशापदोषेण मानुषत्वमुपागताः ||५०|| तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते | मद्विधा मानुषी धात्री न चैवास्तीह काचन ||५१|| तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता | जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः ||५२|| देवानां समयस्त्वेष वसूनां संश्रुतो मया | जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति ||५३|| तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः | स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् ||५४|| एष पर्यायवासो मे वसूनां संनिधौ कृतः | मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम् ||५५||

    ९३ शन्तनुरुवाच|| आपवो नाम को न्वेष वसूनां किं च दुष्कृतम् | यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः ||१|| अनेन च कुमारेण गङ्गादत्तेन किं कृतम् | यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ||२|| ईशानाः सर्वलोकस्य वसवस्ते च वै कथम् | मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ||३|| वैशम्पायन उवाच|| सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत् | भर्तारं जाह्नवी देवी शन्तनुं पुरुषर्षभम् ||४|| यं लेभे वरुणः पुत्रं पुरा भरतसत्तम | वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत ||५|| तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् | मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ||६|| स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम | वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ||७|| दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता | गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ||८|| अनुग्रहार्थं जगतः सर्वकामदुघां वराम् | तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ||९|| सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते | चचार रम्ये धर्म्ये च गौरपेतभया तदा ||१०|| अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ | पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् ||११|| ते सदारा वनं तच्च व्यचरन्त समन्ततः | रेमिरे रमणीयेषु पर्वतेषु वनेषु च ||१२|| तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम | सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा ||१३|| या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा ||१३|| सा विस्मयसमाविष्टा शीलद्रविणसम्पदा | दिवे वै दर्शयामास तां गां गोवृषभेक्षण ||१४|| स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम् | उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ||१५|| एवङ्गुणसमायुक्तां वसवे वसुनन्दिनी | दर्शयामास राजेन्द्र पुरा पौरवनन्दन ||१६|| द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम | उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् ||१७|| एषा गौरुत्तमा देवि वारुणेरसितेक्षणे | ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् ||१८|| अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे | दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः ||१९|| एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा | तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ||२०|| अस्ति मे मानुषे लोके नरदेवात्मजा सखी | नाम्ना जिनवती नाम रूपयौवनशालिनी ||२१|| उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः | दुहिता प्रथिता लोके मानुषे रूपसम्पदा ||२२|| तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् | आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन ||२३|| यावदस्याः पयः पीत्वा सा सखी मम मानद | मानुषेषु भवत्वेका जरारोगविवर्जिता ||२४|| एतन्मम महाभाग कर्तुमर्हस्यनिन्दित | प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथञ्चन ||२५|| एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया | पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् ||२६|| तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप | ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् ||२७|| हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ||२७|| अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः | न चापश्यत गां तत्र सवत्सां काननोत्तमे ||२८|| ततः स मृगयामास वने तस्मिंस्तपोधनः | नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः ||२९|| ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः | ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ||३०|| यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम् | तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः ||३१|| एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमः | वशं कोपस्य सम्प्राप्त आपवो भरतर्षभ ||३२|| शप्त्वा च तान्महाभागस्तपस्येव मनो दधे | एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः ||३३|| महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः ||३३|| अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः | शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ||३४|| प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ | न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात् ||३५|| आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ||३५|| उवाच च स धर्मात्मा सप्त यूयं धरादयः | अनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ ||३६|| अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति | द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा ||३७|| नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम् | न प्रजास्यति चाप्येष मानुषेषु महामनाः ||३८|| भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः | पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति ||३९|| एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः ||३९|| ततो मामुपजग्मुस्ते समस्ता वसवस्तदा | अयाचन्त च मां राजन्वरं स च मया कृतः ||४०|| जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि ||४०|| एवं तेषामहं सम्यक्षप्तानां राजसत्तम | मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् ||४१|| अयं शापादृषेस्तस्य एक एव नृपोत्तम | द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत ||४२|| एतदाख्याय सा देवी तत्रैवान्तरधीयत | आदाय च कुमारं तं जगामाथ यथेप्सितम् ||४३|| स तु देवव्रतो नाम गाङ्गेय इति चाभवत् | द्विनामा शन्तनोः पुत्रः शन्तनोरधिको गुणैः ||४४|| शन्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः | तस्याहं कीर्तयिष्यामि शन्तनोरमितान्गुणान् ||४५|| महाभाग्यं च नृपतेर्भारतस्य यशस्विनः | यस्येतिहासो द्युतिमान्महाभारतमुच्यते ||४६||

    ९४ वैशम्पायन उवाच|| स एवं शन्तनुर्धीमान्देवराजर्षिसत्कृतः | धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः ||१|| दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् | नित्यान्यासन्महासत्त्वे शन्तनौ पुरुषर्षभे ||२|| एवं स गुणसम्पन्नो धर्मार्थकुशलो नृपः | आसीद्भरतवंशस्य गोप्ता साधुजनस्य च ||३|| कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः | धर्म एव परः कामादर्थाच्चेति व्यवस्थितः ||४|| एतान्यासन्महासत्त्वे शन्तनौ भरतर्षभ | न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत् ||५|| वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम् | तं महीपा महीपालं राजराज्येऽभ्यषेचयन् ||६|| वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः | प्रति भारतगोप्तारं समपद्यन्त भूमिपाः ||७|| शन्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा | नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत ||८|| ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः | ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः ||९|| स हास्तिनपुरे रम्ये कुरूणां पुटभेदने | वसन्सागरपर्यन्तामन्वशाद्वै वसुन्धराम् ||१०|| स देवराजसदृशो धर्मज्ञः सत्यवागृजुः | दानधर्मतपोयोगाच्छ्रिया परमया युतः ||११|| अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः | तेजसा सूर्यसङ्काशो वायुवेगसमो जवे ||१२|| अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ||१२|| वधः पशुवराहाणां तथैव मृगपक्षिणाम् | शन्तनौ पृथिवीपाले नावर्तत वृथा नृप ||१३|| धर्मब्रह्मोत्तरे राज्ये शन्तनुर्विनयात्मवान् | समं शशास भूतानि कामरागविवर्जितः ||१४|| देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः | न चाधर्मेण केषाञ्चित्प्राणिनामभवद्वधः ||१५|| असुखानामनाथानां तिर्यग्योनिषु वर्तताम् | स एव राजा भूतानां सर्वेषामभवत्पिता ||१६|| तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति | श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः ||१७|| स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः | रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः ||१८|| तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः | गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः ||१९|| सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च | महाबलो महासत्त्वो महावीर्यो महारथः ||२०|| स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् | भागीरथीमल्पजलां शन्तनुर्दृष्टवान्नृपः ||२१|| तां दृष्ट्वा चिन्तयामास शन्तनुः पुरुषर्षभः | स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा ||२२|| ततो निमित्तमन्विच्छन्ददर्श स महामनाः | कुमारं रूपसम्पन्नं बृहन्तं चारुदर्शनम् ||२३|| दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरंदरम् | कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् ||२४|| तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके | अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम् ||२५|| जातमात्रं पुरा दृष्टं तं पुत्रं शन्तनुस्तदा | नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् ||२६|| स तु तं पितरं दृष्ट्वा मोहयामास मायया | संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत ||२७|| तदद्भुतं तदा दृष्ट्वा तत्र राजा स शन्तनुः | शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह ||२८|| दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् | गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम् ||२९|| अलङ्कृतामाभरणैररजोम्बरधारिणीम् | दृष्टपूर्वामपि सतीं नाभ्यजानात्स शन्तनुः ||३०|| गङ्गोवाच|| यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः | स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् ||३१|| वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान् | कृतास्त्रः परमेष्वासो देवराजसमो युधि ||३२|| सुराणां संमतो नित्यमसुराणां च भारत | उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः ||३३|| तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः | यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् ||३४|| तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि ||३४|| ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान् | यदस्त्रं वेद रामश्च तदप्यस्मिन्प्रतिष्ठितम् ||३५|| महेष्वासमिमं राजन्राजधर्मार्थकोविदम् | मया दत्तं निजं पुत्रं वीरं वीर गृहान्नय ||३६|| वैशम्पायन उवाच|| तयैवं समनुज्ञातः पुत्रमादाय शन्तनुः | भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति ||३७|| पौरवः स्वपुरं गत्वा पुरंदरपुरोपमम् | सर्वकामसमृद्धार्थं मेने आत्मानमात्मना ||३८|| पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत् ||३८|| पौरवाञ्शन्तनोः पुत्रः पितरं च महायशाः | राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ ||३९|| स तथा सह पुत्रेण रममाणो महीपतिः | वर्तयामास वर्षाणि चत्वार्यमितविक्रमः ||४०|| स कदाचिद्वनं यातो यमुनामभितो नदीम् | महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ||४१|| तस्य प्रभवमन्विच्छन्विचचार समन्ततः | स ददर्श तदा कन्यां दाशानां देवरूपिणीम् ||४२|| तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् | कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि ||४३|| साब्रवीद्दाशकन्यास्मि धर्मार्थं वाहये तरीम् | पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः ||४४|| रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम् | समीक्ष्य राजा दाशेयीं कामयामास शन्तनुः ||४५|| स गत्वा पितरं तस्या वरयामास तां तदा | पर्यपृच्छत्ततस्तस्याः पितरं चात्मकारणात् ||४६|| स च तं प्रत्युवाचेदं दाशराजो महीपतिम् | जातमात्रैव मे देया वराय वरवर्णिनी ||४७|| हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर ||४७|| यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ | सत्यवागसि सत्येन समयं कुरु मे ततः ||४८|| समयेन प्रदद्यां ते कन्यामहमिमां नृप | न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति ||४९|| शन्तनुरुवाच|| श्रुत्वा तव वरं दाश व्यवस्येयमहं न वा | दातव्यं चेत्प्रदास्यामि न त्वदेयं कथञ्चन ||५०|| दाश उवाच|| अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः | त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव ||५१|| वैशम्पायन उवाच|| नाकामयत तं दातुं वरं दाशाय शन्तनुः | शरीरजेन तीव्रेण दह्यमानोऽपि भारत ||५२|| स चिन्तयन्नेव तदा दाशकन्यां महीपतिः | प्रत्ययाद्धास्तिनपुरं शोकोपहतचेतनः ||५३|| ततः कदाचिच्छोचन्तं शन्तनुं ध्यानमास्थितम् | पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत् ||५४|| सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः | तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः ||५५|| ध्यायन्निव च किं राजन्नाभिभाषसि किञ्चन ||५५|| एवमुक्तः स पुत्रेण शन्तनुः प्रत्यभाषत | असंशयं ध्यानपरं यथा मात्थ तथास्म्युत ||५६|| अपत्यं नस्त्वमेवैकः कुले महति भारत | अनित्यता च मर्त्यानामतः शोचामि पुत्रक ||५७|| कथञ्चित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम् | असंशयं त्वमेवैकः शतादपि वरः सुतः ||५८|| न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे | सन्तानस्याविनाशाय कामये भद्रमस्तु ते ||५९|| अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः ||५९|| अग्निहोत्रं त्रयो वेदा यज्ञाश्च सहदक्षिणाः | सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् ||६०|| एवमेव मनुष्येषु स्याच्च सर्वप्रजास्वपि | यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः ||६१|| एषा त्रयी पुराणानामुत्तमानां च शाश्वती ||६१|| त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत | नान्यत्र शस्त्रात्तस्मात्ते निधनं विद्यतेऽनघ ||६२|| सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत् | इति ते कारणं तात दुःखस्योक्तमशेषतः ||६३|| ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः | देवव्रतो महाबुद्धिः प्रययावनुचिन्तयन् ||६४|| अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम् | तमपृच्छत्तदाभ्येत्य पितुस्तच्छोककारणम् ||६५|| तस्मै स कुरुमुख्याय यथावत्परिपृच्छते | वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ ||६६|| ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा | अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम् ||६७|| तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च | अब्रवीच्चैनमासीनं राजसंसदि भारत ||६८|| त्वमेव नाथः पर्याप्तः शन्तनोः पुरुषर्षभ | पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः ||६९|| को हि सम्बन्धकं श्लाघ्यमीप्सितं यौनमीदृशम् | अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः ||७०|| अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः | यस्य शुक्रात्सत्यवती प्रादुर्भूता यशस्विनी ||७१|| तेन मे बहुशस्तात पिता ते परिकीर्तितः | अर्हः सत्यवतीं वोढुं सर्वराजसु भारत ||७२|| असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया | सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः ||७३|| कन्यापितृत्वात्किञ्चित्तु वक्ष्यामि भरतर्षभ | बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् ||७४|| यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा | न स जातु सुखं जीवेत्त्वयि क्रुद्धे परन्तप ||७५|| एतावानत्र दोषो हि नान्यः कश्चन पार्थिव | एतज्जानीहि भद्रं ते दानादाने परन्तप ||७६|| एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत | शृण्वतां भूमिपालानां पितुरर्थाय भारत ||७७|| इदं मे मतमादत्स्व सत्यं सत्यवतां वर | नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत् ||७८|| एवमेतत्करिष्यामि यथा त्वमनुभाषसे | योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति ||७९|| इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत | चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ ||८०|| त्वमेव नाथः पर्याप्तः शन्तनोरमितद्युतेः | कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः ||८१|| इदं तु वचनं सौम्य कार्यं चैव निबोध मे | कौमारिकाणां शीलेन वक्ष्याम्यहमरिंदम ||८२|| यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण | राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् ||८३|| नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन | तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् ||८४|| तस्य तन्मतमाज्ञाय सत्यधर्मपरायणः | प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया ||८५|| देवव्रत उवाच|| दाशराज निबोधेदं वचनं मे नृपोत्तम | शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते ||८६|| राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिप | अपत्यहेतोरपि च करोम्येष विनिश्चयम् ||८७|| अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति | अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि ||८८|| वैशम्पायन उवाच|| तस्य तद्वचनं श्रुत्वा सम्प्रहृष्टतनूरुहः | ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत ||८९|| ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा | अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् ||९०|| ततः स पितुरर्थाय तामुवाच यशस्विनीम् | अधिरोह रथं मातर्गच्छावः स्वगृहानिति ||९१|| एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीम् | आगम्य हास्तिनपुरं शन्तनोः संन्यवेदयत् ||९२|| तस्य तद्दुष्करं कर्म प्रशशंसुर्नराधिपाः | समेताश्च पृथक्चैव भीष्मोऽयमिति चाब्रुवन् ||९३|| तद्दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शन्तनुः | स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् ||९४||

    ९५ वैशम्पायन उवाच|| ततो विवाहे निर्वृत्ते स राजा शन्तनुर्नृपः | तां कन्यां रूपसम्पन्नां स्वगृहे संन्यवेशयत् ||१|| ततः शान्तनवो धीमान्सत्यवत्यामजायत | वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति ||२|| अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः | विचित्रवीर्यं राजानं जनयामास वीर्यवान् ||३|| अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ | स राजा शन्तनुर्धीमान्कालधर्ममुपेयिवान् ||४|| स्वर्गते शन्तनौ भीष्मश्चित्राङ्गदमरिंदमम् | स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ||५|| स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् | मनुष्यं न हि मेने स कञ्चित्सदृशमात्मनः ||६|| तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा | गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा ||७|| तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ||७|| तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः | नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः ||८|| तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले | मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् ||९|| चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम् | अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः ||१०|| तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि | भीष्मः शान्तनवो राजन्प्रेतकार्याण्यकारयत् ||११|| विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् | कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् ||१२|| विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः | अन्वशासन्महाराज पितृपैतामहं पदम् ||१३|| स धर्मशास्त्रकुशलो भीष्मं शान्तनवं नृपः | पूजयामास धर्मेण स चैनं प्रत्यपालयत् ||१४||

    ९६ वैशम्पायन उवाच|| हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ | पालयामास तद्राज्यं सत्यवत्या मते स्थितः ||१|| सम्प्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम् | भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् ||२|| अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरःसमाः | शुश्राव सहिता राजन्वृण्वतीर्वै स्वयं वरम् ||३|| ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत् | जगामानुमते मातुः पुरीं वाराणसीं प्रति ||४|| तत्र राज्ञः समुदितान्सर्वतः समुपागतान् | ददर्श कन्यास्ताश्चैव भीष्मः शन्तनुनन्दनः ||५|| कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः | भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः ||६|| उवाच च महीपालान्राजञ्जलदनिःस्वनः | रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः ||७|| आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः | अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि ||८|| प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि | वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च ||९|| प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते | अष्टमं तमथो वित्त विवाहं कविभिः स्मृतम् ||१०|| स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च | प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः ||११|| ता इमाः पृथिवीपाला जिहीर्षामि बलादितः | ते यतध्वं परं शक्त्या विजयायेतराय वा ||१२|| स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः ||१२|| एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् | सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम् ||१३|| आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः ||१३|| ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः | संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् ||१४|| तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् | आमुञ्चतां च वर्माणि सम्भ्रमः सुमहानभूत् ||१५|| ताराणामिव सम्पातो बभूव जनमेजय | भूषणानां च शुभ्राणां कवचानां च सर्वशः ||१६|| सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः | सक्रोधामर्षजिह्मभ्रूसकषायदृशस्तथा ||१७|| सूतोपकॢप्तान्रुचिरान्सदश्वोद्यतधूर्गतान् | रथानास्थाय ते वीराः सर्वप्रहरणान्विताः ||१८|| प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः ||१८|| ततः समभवद्युद्धं तेषां तस्य च भारत | एकस्य च बहूनां च तुमुलं लोमहर्षणम् ||१९|| ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन् | अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत् ||२०|| ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन् | ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ||२१|| स तद्बाणमयं वर्षं शरैरावार्य सर्वतः | ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः ||२२|| तस्याति पुरुषानन्याँल्लाघवं रथचारिणः | रक्षणं चात्मनः सङ्ख्ये शत्रवोऽप्यभ्यपूजयन् ||२३|| तान्विनिर्जित्य तु रणे सर्वशस्त्रविशारदः | कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति ||२४|| ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः | अभ्याहनदमेयात्मा भीष्मं शान्तनवं रणे ||२५|| वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा | वाशितामनुसम्प्राप्तो यूथपो बलिनां वरः ||२६|| स्त्रीकाम तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः | शाल्वराजो महाबाहुरमर्षेणाभिचोदितः ||२७|| ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः | तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन् ||२८|| क्षत्रधर्मं समास्थाय व्यपेतभयसम्भ्रमः | निवर्तयामास रथं शाल्वं प्रति महारथः ||२९|| निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते | प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे ||३०|| तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे | अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ ||३१|| ततो भीष्मं शान्तनवं शरैः शतसहस्रशः | शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः ||३२|| पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः | विस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन् ||३३|| लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः | अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः ||३४|| क्षत्रियाणां तदा वाचः श्रुत्वा परपुरञ्जयः | क्रुद्धः शान्तनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत ||३५|| सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः | यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट् ||३६|| ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः | तेनाश्वांश्चतुरोऽमृद्नाच्छाल्वराज्ञो नराधिप ||३७|| अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवः | भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् ||३८|| अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान् ||३८|| कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा | जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् ||३९|| ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ ||३९|| राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः | स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जय ||४०|| एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः | प्रययौ हास्तिनपुरं यत्र राजा स कौरवः ||४१|| सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप | वनानि सरितश्चैव शैलांश्च विविधद्रुमान् ||४२|| अक्षतः क्षपयित्वारीन्सङ्ख्येऽसङ्ख्येयविक्रमः | आनयामास काश्यस्य सुताः सागरगासुतः ||४३|| स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः | यथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून् ||४४|| ताः सर्वा गुणसम्पन्ना भ्राता भ्रात्रे यवीयसे | भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः ||४५|| सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् | भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे ||४६|| सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् ||४६|| विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता | ज्येष्ठा तासामिदं वाक्यमब्रवीद्ध सती तदा ||४७|| मया सौभपतिः पूर्वं मनसाभिवृतः पतिः | तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः ||४८|| मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरे | एतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर ||४९|| एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि | चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः ||५०|| स विनिश्चित्य धर्मज्ञो ब्राह्मणैर्वेदपारगैः | अनुजज्ञे तदा ज्येष्टामम्बां काशिपतेः सुताम् ||५१|| अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे | भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा ||५२|| तयोः पाणिं गृहीत्वा स रूपयौवनदर्पितः | विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ||५३|| ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजे | रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे ||५४|| आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते | विचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते ||५५|| स चाश्विरूपसदृशो देवसत्त्वपराक्रमः | सर्वासामेव नारीणां चित्तप्रमथनोऽभवत् ||५६|| ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः | विचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत ||५७|| सुहृदां यतमानानामाप्तैः सह चिकित्सकैः | जगामास्तमिवादित्यः कौरव्यो यमसादनम् ||५८|| प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् | राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः ||५९|| ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः ||५९||

    ९७ वैशम्पायन उवाच|| ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी | पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत ||१|| धर्मं च पितृवंशं च मातृवंशं च मानिनी | प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् ||२|| शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः | त्वयि पिण्डश्च कीर्तिश्च सन्तानं च प्रतिष्ठितम् ||३|| यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् | यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः ||४|| वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च | विविधास्त्वं श्रुतीर्वेत्थ वेत्थ वेदांश्च सर्वशः ||५|| व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये | प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव ||६|| तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर | कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि ||७|| मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते | बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ ||८|| इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे | रूपयौवनसम्पन्ने पुत्रकामे च भारत ||९|| तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः | मन्नियोगान्महाभाग धर्मं कर्तुमिहार्हसि ||१०|| राज्ये चैवाभिषिच्यस्व भारताननुशाधि च | दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् ||११|| तथोच्यमानो मात्रा च सुहृद्भिश्च परन्तपः | प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः ||१२|| असंशयं परो धर्मस्त्वया मातरुदाहृतः | त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् ||१३|| जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे | स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः ||१४|| परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः | यद्वाप्यधिकमेताभ्यां न तु सत्यं कथञ्चन ||१५|| त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः | ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् ||१६|| प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम् | त्यजेच्छब्दं तथाकाशः सोमः शीतांशुतां त्यजेत् ||१७|| विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् | न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथञ्चन ||१८|| एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा | माता सत्यवती भीष्ममुवाच तदनन्तरम् ||१९|| जानामि ते स्थितिं सत्ये परां सत्यपराक्रम | इच्छन्सृजेथास्त्रीँल्लोकानन्यांस्त्वं स्वेन तेजसा ||२०|| जानामि चैव सत्यं तन्मदर्थं यदभाषथाः | आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम् ||२१|| यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् | सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप ||२२|| लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् | धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् ||२३|| राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः | सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते ||२४|| शन्तनोरपि सन्तानं यथा स्यादक्षयं भुवि | तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् ||२५|| श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः | आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च ||२६||

    ९८ भीष्म उवाच|| जामदग्न्येन रामेण पितुर्वधममृष्यता | क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः ||१|| शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै ||१|| पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता | निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् ||२|| एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना | त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ||३|| ततः सम्भूय सर्वाभिः क्षत्रियाभिः समन्ततः | उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः ||४|| पाणिग्राहस्य तनय इति वेदेषु निश्चितम् | धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः ||५|| लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः ||५|| अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा | ममता नाम तस्यासीद्भार्या परमसंमता ||६|| उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् | बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत ||७|| उवाच ममता तं तु देवरं वदतां वरम् | अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यतामिति ||८|| अयं च मे महाभाग कुक्षावेव बृहस्पते | औतथ्यो वेदमत्रैव षडङ्गं प्रत्यधीयत ||९|| अमोघरेतास्त्वं चापि नूनं भवितुमर्हसि | तस्मादेवङ्गतेऽद्य त्वमुपारमितुमर्हसि ||१०|| एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः | कामात्मानं तदात्मानं न शशाक नियच्छितुम् ||११|| सम्बभूव ततः कामी तया सार्धमकामया | उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत ||१२|| भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र सम्भवः | अमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः ||१३|| शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः | उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः ||१४|| यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति | एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ||१५|| स वै दीर्घतमा नाम शापादृषिरजायत | बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा ||१६|| स पुत्राञ्जनयामास गौतमादीन्महायशाः | ऋषेरुतथ्यस्य तदा सन्तानकुलवृद्धये ||१७|| लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः | काष्ठे समुद्गे प्रक्षिप्य गङ्गायां समवासृजन् ||१८|| न स्यादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते | चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् ||१९|| सोऽनुस्रोतस्तदा राजन्प्लवमान ऋषिस्ततः | जगाम सुबहून्देशानन्धस्तेनोडुपेन ह ||२०|| तं तु राजा बलिर्नाम सर्वधर्मविशारदः | अपश्यन्मज्जनगतः स्रोतसाभ्याशमागतम् ||२१|| जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः | ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ ||२२|| सन्तानार्थं महाभाग भार्यासु मम मानद | पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि ||२३|| एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः | तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा ||२४|| अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह | स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा ||२५|| तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशी | जनयामास धर्मात्मा पुत्रानेकादशैव तु ||२६|| काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः | उवाच तमृषिं राजा ममैत इति वीर्यवान् ||२७|| नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन् | शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः ||२८|| अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव | अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे ||२९|| ततः प्रसादयामास पुनस्तमृषिसत्तमम् | बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः ||३०|| तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् | भविष्यति कुमारस्ते तेजस्वी सत्यवागिति ||३१|| तत्राङ्गो नाम राजर्षिः सुदेष्णायामजायत | एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि ||३२|| जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः | एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् ||३३||

    ९९ भीष्म उवाच|| पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये | वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु ||१|| ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् | विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः ||२|| वैशम्पायन उवाच|| ततः सत्यवती भीष्मं वाचा संसज्जमानया | विहसन्तीव सव्रीडमिदं वचनमब्रवीत् ||३|| सत्यमेतन्महाबाहो यथा वदसि भारत | विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य च ||४|| न ते शक्यमनाख्यातुमापद्धीयं तथाविधा ||४|| त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः | तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् ||५|| धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम | सा कदाचिदहं तत्र गता प्रथमयौवने ||६|| अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः | आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् ||७|| स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा | सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु ||८|| तमहं शापभीता च पितुर्भीता च भारत | वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ||९|| अभिभूय स मां बालां तेजसा वशमानयत् | तमसा लोकमावृत्य नौगतामेव भारत ||१०|| मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः | तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ||११|| ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् | द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ||१२|| पाराशर्यो महायोगी स बभूव महानृषिः | कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः ||१३|| यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः | लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च ||१४|| सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः | स नियुक्तो मया व्यक्तं त्वया च अमितद्युते ||१५|| भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति ||१५|| स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति | तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि ||१६|| तव ह्यनुमते भीष्म नियतं स महातपाः | विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति ||१७|| महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् | धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति ||१८|| अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् | कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् ||१९|| यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान् ||१९|| तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः | उक्तं भवत्या यच्छ्रेयः परमं रोचते मम ||२०|| ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन | कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् ||२१|| स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् | प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन ||२२|| तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् | परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च ||२३|| मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् ||२३|| तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च | मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् ||२४|| भवत्या यदभिप्रेतं तदहं कर्तुमागतः | शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव ||२५|| तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये | स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम् ||२६|| तमासनगतं माता पृष्ट्वा कुशलमव्ययम् | सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् ||२७|| मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे | तेषां पिता यथा स्वामी तथा माता न संशयः ||२८|| विधातृविहितः स त्वं यथा मे प्रथमः सुतः | विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः ||२९|| यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः | भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ||३०|| अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः | बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने ||३१|| स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च | भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ ||३२|| अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च | आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि ||३३|| यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे | रूपयौवनसम्पन्ने पुत्रकामे च धर्मतः ||३४|| तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक | अनुरूपं कुलस्यास्य सन्तत्याः प्रसवस्य च ||३५|| व्यास उवाच|| वेत्थ धर्मं सत्यवति परं चापरमेव च | यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः ||३६|| तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् | ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् ||३७|| भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् | व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया ||३८|| संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः | न हि मामव्रतोपेता उपेयात्काचिदङ्गना ||३९|| सत्यवत्युवाच|| यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु | अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः ||४०|| कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो | तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धयिष्यति ||४१|| व्यास उवाच|| यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् | विरूपतां मे सहतामेतदस्याः परं व्रतम् ||४२|| यदि मे सहते गन्धं रूपं वेषं तथा वपुः | अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् ||४३|| वैशम्पायन उवाच|| समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः | ततोऽभिगम्य सा देवी स्नुषां रहसि सङ्गताम् ||४४|| धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् ||४४|| कौसल्ये धर्मतन्त्रं यद्ब्रवीमि त्वां निबोध मे | भरतानां समुच्छेदो व्यक्तं मद्भाग्यसङ्क्षयात् ||४५|| व्यथितां मां च सम्प्रेक्ष्य पितृवंशं च पीडितम् | भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये ||४६|| सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह | नष्टं च भारतं वंशं पुनरेव समुद्धर ||४७|| पुत्रं जनय सुश्रोणि देवराजसमप्रभम् | स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः ||४८|| सा धर्मतोऽनुनीयैनां कथञ्चिद्धर्मचारिणीम् | भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा ||४९||

    १०० वैशम्पायन उवाच|| ततः सत्यवती काले वधूं स्नातामृतौ तदा | संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत् ||१|| कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति | अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति ||२|| श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे | साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान् ||३|| ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः | दीप्यमानेषु दीपेषु शयनं प्रविवेश ह ||४|| तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने | बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् ||५|| सम्बभूव तया रात्रौ मातुः प्रियचिकीर्षया | भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् ||६|| ततो निष्क्रान्तमासाद्य माता पुत्रमथाब्रवीत् | अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति ||७|| निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान् | प्रोवाचातीन्द्रियज्ञानो विधिना सम्प्रचोदितः ||८|| नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः | महाभागो महावीर्यो महाबुद्धिर्भविष्यति ||९|| तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः | किं तु मातुः स वैगुण्यादन्ध एव भविष्यति ||१०|| तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत् | नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ||११|| ज्ञातिवंशस्य गोप्तारं पितृणां वंशवर्धनम् | द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि ||१२|| स तथेति प्रतिज्ञाय निश्चक्राम महातपाः | सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् ||१३|| पुनरेव तु सा देवी परिभाष्य स्नुषां ततः | ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता ||१४|| ततस्तेनैव विधिना महर्षिस्तामपद्यत | अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् ||१५|| विषण्णा पाण्डुसङ्काशा समपद्यत भारत ||१५|| तां भीतां पाण्डुसङ्काशां विषण्णां प्रेक्ष्य पार्थिव | व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् ||१६|| यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामपि | तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति ||१७|| नाम चास्य तदेवेह भविष्यति शुभानने | इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः ||१८|| ततो निष्क्रान्तमालोक्य सत्या पुत्रमभाषत | शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् ||१९|| तं माता पुनरेवान्यमेकं पुत्रमयाचत | तथेति च महर्षिस्तां मातरं प्रत्यभाषत ||२०|| ततः कुमारं सा देवी प्राप्तकालमजीजनत् | पाण्डुं लक्षणसम्पन्नं दीप्यमानमिव श्रिया ||२१|| तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः ||२१|| ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् | सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् ||२२|| नाकरोद्वचनं देव्या भयात्सुरसुतोपमा ||२२|| ततः स्वैर्भूषणैर्दासीं भूषयित्वाप्सरोपमाम् | प्रेषयामास कृष्णाय ततः काशिपतेः सुता ||२३|| दासी ऋषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च | संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह ||२४|| कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः | तया सहोषितो रात्रिं महर्षिः प्रीयमाणया ||२५|| उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि | अयं च ते शुभे गर्भः श्रीमानुदरमागतः ||२६|| धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः ||२६|| स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः | धृतराष्ट्रस्य च भ्राता पाण्डोश्चामितबुद्धिमान् ||२७|| धर्मो विदुररूपेण शापात्तस्य महात्मनः | माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः ||२८|| स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च | तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत ||२९|| एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि | जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः ||३०||

    १०१ जनमेजय उवाच|| किं कृतं कर्म धर्मेण येन शापमुपेयिवान् | कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत ||१|| वैशम्पायन उवाच|| बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः | धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ||२|| स आश्रमपदद्वारि वृक्षमूले महातपाः | ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः ||३|| तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः | तमाश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः ||४|| अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ ||४|| ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम | निधाय च भयाल्लीनास्तत्रैवान्वागते बले ||५|| तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् | आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ||६|| तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् | कतरेण पथा याता दस्यवो द्विजसत्तम ||७|| तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम् ||७|| तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः | न किञ्चिद्वचनं राजन्नवदत्साध्वसाधु वा ||८|| ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम् | ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च ||९|| ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति | संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् ||१०|| तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति | स वध्यघातैरज्ञातः शूले प्रोतो महातपाः ||११|| ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा | प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ||१२|| शूलस्थः स तु धर्मात्मा कालेन महता ततः | निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् ||१३|| धारयामास च प्राणानृषींश्च समुपानयत् ||१३|| शूलाग्रे तप्यमानेन तपस्तेन महात्मना | सन्तापं परमं जग्मुर्मुनयोऽथ परन्तप ||१४|| ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः | दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् ||१५|| श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि ||१५|| ततः स मुनिशार्दूलस्तानुवाच तपोधनान् | दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति ||१६|| राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः | प्रसादयामास तदा शूलस्थमृषिसत्तमम् ||१७|| यन्मयापकृतं मोहादज्ञानादृषिसत्तम | प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ||१८|| एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः | कृतप्रसादो राजा तं ततः समवतारयत् ||१९|| अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह | अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे ||२०|| स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः | स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः ||२१|| अणीमाण्डव्य इति च ततो लोकेषु कथ्यते ||२१|| स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् | आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः ||२२|| किं नु तद्दुष्कृतं कर्म मया कृतमजानता | यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया ||२३|| शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् ||२३|| धर्म उवाच|| पतङ्गकानां पुच्छेषु त्वयेषीका प्रवेशिता | कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन ||२४|| अणीमाण्डव्य उवाच|| अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः | शूद्रयोनावतो धर्म मानुषः सम्भविष्यसि ||२५|| मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् | आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम् ||२६|| परेण कुर्वतामेवं दोष एव भविष्यति ||२६|| वैशम्पायन उवाच|| एतेन त्वपराधेन शापात्तस्य महात्मनः | धर्मो विदुररूपेण शूद्रयोनावजायत ||२७|| धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः | दीर्घदर्शी शमपरः कुरूणां च हिते रतः ||२८||

    १०२ वैशम्पायन उवाच|| तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् | कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ||१|| ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च | यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ||२|| वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः | गन्धवन्ति च माल्यानि रसवन्ति फलानि च ||३|| वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः | शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ||४|| नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः | प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ||५|| दानक्रियाधर्मशीला यज्ञव्रतपरायणाः | अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा ||६|| मानक्रोधविहीनाश्च जना लोभविवर्जिताः | अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत ||७|| तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत | द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः ||८|| प्रासादशतसम्बाधं महेन्द्रपुरसंनिभम् ||८|| नदीषु वनखण्डेषु वापीपल्वलसानुषु | काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ||९|| उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा | विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः ||१०|| नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः ||१०|| तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः | कूपारामसभावाप्यो ब्राह्मणावसथास्तथा ||११|| भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते ||११|| बभूव रमणीयश्च चैत्ययूपशताङ्कितः | स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः ||१२|| भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ||१२|| क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् | पौरजानपदाः सर्वे बभूवुः सततोत्सवाः ||१३|| गृहेषु कुरुमुख्यानां पौराणां च नराधिप | दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः ||१४|| धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः | जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ||१५|| संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः | श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ||१६|| धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि | तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः ||१७|| इतिहासपुराणेषु नानाशिक्षासु चाभिभो | वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः ||१८|| पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् | अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः ||१९|| त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः | धर्मनित्यस्ततो राजन्धर्मे च परमं गतः ||२०|| प्रनष्टं शन्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् | ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ||२१|| वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् | सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् ||२२|| धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत | करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः ||२३||

    १०३ भीष्म उवाच|| गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् | अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् ||१|| रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः | नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् ||२|| मया च सत्यवत्या च कृष्णेन च महात्मना | समवस्थापितं भूयो युष्मासु कुलतन्तुषु ||३|| वर्धते तदिदं पुत्र कुलं सागरवद्यथा | तथा मया विधातव्यं त्वया चैव विशेषतः ||४|| श्रूयते यादवी कन्या अनुरूपा कुलस्य नः | सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ||५|| कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः | उचिताश्चैव सम्बन्धे तेऽस्माकं क्षत्रियर्षभाः ||६|| मन्ये वरयितव्यास्ता इत्यहं धीमतां वर | सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे ||७|| विदुर उवाच|| भवान्पिता भवान्माता भवान्नः परमो गुरुः | तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् ||८|| वैशम्पायन उवाच|| अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् | आराध्य वरदं देवं भगनेत्रहरं हरम् ||९|| गान्धारी किल पुत्राणां शतं लेभे वरं शुभा ||९|| इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः | ततो गान्धारराजस्य प्रेषयामास भारत ||१०|| अचक्षुरिति तत्रासीत्सुबलस्य विचारणा | कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः ||११|| ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् ||११|| गान्धारी त्वपि शुश्राव धृतराष्ट्रमचक्षुषम् | आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत ||१२|| ततः सा पट्टमादाय कृत्वा बहुगुणं शुभा | बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा ||१३|| नात्यश्नीयां पतिमहमित्येवं कृतनिश्चया ||१३|| ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् | स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् ||१४|| दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् | पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः ||१५|| गान्धार्यपि वरारोहा शीलाचारविचेष्टितैः | तुष्टिं कुरूणां सर्वेषां जनयामास भारत ||१६|| वृत्तेनाराध्य तान्सर्वान्पतिव्रतपरायणा | वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् ||१७||

    १०४ वैशम्पायन उवाच|| शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत् | तस्य कन्या पृथा नाम रूपेणासदृशी भुवि ||१|| पैतृष्वसेयाय स तामनपत्याय वीर्यवान् | अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान् ||२|| अग्रजातेति तां कन्यामग्र्यानुग्रहकाङ्क्षिणे | प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने ||३|| सा नियुक्ता पितुर्गेहे देवतातिथिपूजने | उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम् ||४|| निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः | तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् ||५|| तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया | अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः ||६|| यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि | तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति ||७|| तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा | कन्या सती देवमर्कमाजुहाव यशस्विनी ||८|| सा ददर्श तमायान्तं भास्करं लोकभावनम् | विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् ||९|| प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः | अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम् ||१०|| आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः ||१०|| सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः | अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः ||११|| प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः | दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः ||१२|| गूहमानापचारं तं बन्धुपक्षभयात्तदा | उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् ||१३|| तमुत्सृष्टं तदा गर्भं राधाभर्ता महायशाः | पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः ||१४|| नामधेयं च चक्राते तस्य बालस्य तावुभौ | वसुना सह जातोऽयं वसुषेणो भवत्विति ||१५|| स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् | आ पृष्ठतापादादित्यमुपतस्थे स वीर्यवान् ||१६|| यस्मिन्काले जपन्नास्ते स वीरः सत्यसङ्गरः | नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः ||१७|| तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः | कुण्डले प्रार्थयामास कवचं च महाद्युतिः ||१८|| उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम् | कर्णस्तु कुण्डले छित्त्वा प्रायच्छत्स कृताञ्जलिः ||१९|| शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यमब्रवीत् | देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ||२०|| यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति ||२०|| पुरा नाम तु तस्यासीद्वसुषेण इति श्रुतम् | ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् ||२१||

    १०५ वैशम्पायन उवाच|| रूपसत्त्वगुणोपेता धर्मारामा महाव्रता | दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे ||१|| सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम् | भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत ||२|| स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः | युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव ||३|| यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् | विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता ||४|| सर्वराजसु विख्याता रूपेणासदृशी भुवि | पाण्डोरर्थे परिक्रीता धनेन महता तदा ||५|| विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः ||५|| सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम् | पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि ||६|| कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः | जिगीषमाणो वसुधां ययौ शत्रूननेकशः ||७|| पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः | पाण्डुना नरसिंहेन कौरवाणां यशोभृता ||८|| ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् | प्रभूतहस्त्यश्वरथां पदातिगणसङ्कुलाम् ||९|| आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् | गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः ||१०|| ततः कोशं समादाय वाहनानि बलानि च | पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ||११|| तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ | स्वबाहुबलवीर्येण कुरूणामकरोद्यशः ||१२|| तं शरौघमहाज्वालमस्त्रार्चिषमरिंदमम् | पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः ||१३|| ते ससेनाः ससेनेन विध्वंसितबला नृपाः | पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः ||१४|| तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः | तमेकं मेनिरे शूरं देवेष्विव पुरंदरम् ||१५|| तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः | उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ||१६|| मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा | गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ||१७|| खरोष्ट्रमहिषांश्चैव यच्च किञ्चिदजाविकम् | तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः ||१८|| तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः | हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् ||१९|| शन्तनो राजसिंहस्य भरतस्य च धीमतः | प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः ||२०|| ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च | ते नागपुरसिंहेन पाण्डुना करदाः कृताः ||२१|| इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः | प्रतीतमनसो हृष्टाः पौरजानपदैः सह ||२२|| प्रत्युद्ययुस्तं सम्प्राप्तं सर्वे भीष्मपुरोगमाः | ते नदूरमिवाध्वानं गत्वा नागपुरालयाः ||२३|| आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः ||२३|| नानायानसमानीतै रत्नैरुच्चावचैस्तथा | हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः ||२४|| नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ||२४|| सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः | यथार्हं मानयामास पौरजानपदानपि ||२५|| प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् | पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ||२६|| स तूर्यशतसङ्घानां भेरीणां च महास्वनैः | हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् ||२७||

    १०६ वैशम्पायन उवाच|| धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् | भीष्माय सत्यवत्यै च मात्रे चोपजहार सः ||१|| विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् | सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ||२|| ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् | शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत ||३|| ननन्द माता कौसल्या तमप्रतिमतेजसम् | जयन्तमिव पौलोमी परिष्वज्य नरर्षभम् ||४|| तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः | अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ||५|| सम्प्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ | जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः ||६|| हित्वा प्रासादनिलयं शुभानि शयनानि च | अरण्यनित्यः सततं बभूव मृगयापरः ||७|| स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः | उवास गिरिपृष्ठेषु महाशालवनेषु च ||८|| रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् | करेण्वोरिव मध्यस्थः श्रीमान्पौरंदरो गजः ||९|| भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् | विचित्रकवचं वीरं परमास्त्रविदं नृपम् ||१०|| देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः ||१०|| तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः | उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः ||११|| अथ पारशवीं कन्यां देवकस्य महीपतेः | रूपयौवनसम्पन्नां स शुश्रावापगासुतः ||१२|| ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः | विवाहं कारयामास विदुरस्य महामतेः ||१३|| तस्यां चोत्पादयामास विदुरः कुरुनन्दनः | पुत्रान्विनयसम्पन्नानात्मनः सदृशान्गुणैः ||१४||

    १०७ वैशम्पायन उवाच|| ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय | धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः ||१|| पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः | देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै ||२|| जनमेजय उवाच|| कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम | कियता चैव कालेन तेषामायुश्च किं परम् ||३|| कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् | कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् ||४|| आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत ||४|| कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना | समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः ||५|| एतद्विद्वन्यथावृत्तं विस्तरेण तपोधन | कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु ||६|| वैशम्पायन उवाच|| क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् | तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ ||७|| सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः | ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् ||८|| संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् | अप्रजा धारयामास ततस्तां दुःखमाविशत् ||९|| श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् | उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत् ||१०|| अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः | सोदरं पातयामास गान्धारी दुःखमूर्च्छिता ||११|| ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता | द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे ||१२|| अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् | तां स मांसमयीं पेशीं ददर्श जपतां वरः ||१३|| ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् | सा चात्मनो मतं सत्यं शशंस परमर्षये ||१४|| ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् | दुःखेन परमेणेदमुदरं पातितं मया ||१५|| शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा | इयं च मे मांसपेशी जाता पुत्रशताय वै ||१६|| व्यास उवाच|| एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् | वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ||१७|| घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् | शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत ||१८|| वैशम्पायन उवाच|| सा सिच्यमाना अष्ठीला अभवच्छतधा तदा | अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु ||१९|| एकाधिकशतं पूर्णं यथायोगं विशां पते | मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् ||२०|| ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा | स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः ||२१|| शशास चैव भगवान्कालेनैतावता पुनः | विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम् ||२२|| इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च | जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् ||२३|| जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः | जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः ||२४|| जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम् | समानीय बहून्विप्रान्भीष्मं विदुरमेव च ||२५|| युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः | प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः ||२६|| अयं त्वनन्तरस्तस्मादपि राजा भविष्यति | एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् ||२७|| वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत | क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवशंसिनः ||२८|| लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः | तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः ||२९|| व्यक्तं कुलान्तकरणो भवितैष सुतस्तव | तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान् ||३०|| शतमेकोनमप्यस्तु पुत्राणां ते महीपते | एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च ||३१|| त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् | ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ||३२|| स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः | न चकार तथा राजा पुत्रस्नेहसमन्वितः ||३३|| ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव | मासमात्रेण सञ्जज्ञे कन्या चैका शताधिका ||३४|| गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता | धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत्किल ||३५|| तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः | जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप ||३६|| एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः | महारथानां वीराणां कन्या चैकाथ दुःशला ||३७||

    १०८ जनमेजय उवाच|| ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो | धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ||१|| वैशम्पायन उवाच|| दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा | दुःसहो दुःशलश्चैव जलसन्धः समः सहः ||२|| विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः | दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ||३|| विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः | चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ||४|| दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः | ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ||५|| सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ | चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः ||६|| अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः | भीमवेगो भीमबलो बलाकी बलवर्धनः ||७|| उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः | दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ||८|| दृढसन्धो जरासन्धः सत्यसन्धः सदःसुवाक् | उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः ||९|| अपराजितः पण्डितको विशालाक्षो दुरावरः | दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ||१०|| आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ | कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः ||११|| उग्रो भीमरथो वीरो वीरबाहुरलोलुपः | अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः ||१२|| अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः | दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः ||१३|| कुण्डाशी विरजाश्चैव दुःशला च शताधिका | एतदेकशतं राजन्कन्या चैका प्रकीर्तिता ||१४|| नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप | सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ||१५|| सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः | सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः ||१६|| सर्वेषामनुरूपाश्च कृता दारा महीपते | धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा ||१७|| दुःशलां समये राजा सिन्धुराजाय भारत | जयद्रथाय प्रददौ सौबलानुमते तदा ||१८||

    १०९ जनमेजय उवाच|| कथितो धार्तराष्ट्राणामार्षः सम्भव उत्तमः | अमानुषो मानुषाणां भवता ब्रह्मवित्तम ||१|| नामधेयानि चाप्येषां कथ्यमानानि भागशः | त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय ||२|| ते हि सर्वे महात्मानो देवराजपराक्रमाः | त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः ||३|| तस्मादिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम् | तेषामाजननं सर्वं वैशम्पायन कीर्तय ||४|| वैशम्पायन उवाच|| राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते | वने मैथुनकालस्थं ददर्श मृगयूथपम् ||५|| ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः | निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः ||६|| स च राजन्महातेजा ऋषिपुत्रस्तपोधनः | भार्यया सह तेजस्वी मृगरूपेण सङ्गतः ||७|| संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम् | क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः ||८|| मृग उवाच|| काममन्युपरीतापि बुद्ध्यङ्गरहितापि च | वर्जयन्ति नृशंसानि पापेष्वभिरता नराः ||९|| न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः | विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते ||१०|| शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत | कामलोभाभिभूतस्य कथं ते चलिता मतिः ||११|| पाण्डुरुवाच|| शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता | राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि ||१२|| अच्छद्मनामायया च मृगाणां वध इष्यते | स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे ||१३|| अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः | आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने ||१४|| प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे | अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता ||१५|| मृग उवाच|| न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् | रन्ध्र एषां विशेषेण वधकालः प्रशस्यते ||१६|| पाण्डुरुवाच|| प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा | उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे ||१७|| मृग उवाच|| नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात् | मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः ||१८|| सर्वभूतहिते काले सर्वभूतेप्सिते तथा | को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने ||१९|| पुरुषार्थफलं कान्तं यत्त्वया वितथं कृतम् ||१९|| पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम् | वंशे जातस्य कौरव्य नानुरूपमिदं तव ||२०|| नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् | अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत ||२१|| स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् | नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम् ||२२|| त्वया नृशंसकर्तारः पापाचाराश्च मानवाः | निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः ||२३|| किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम् | मुनिं मूलफलाहारं मृगवेषधरं नृप ||२४|| वसमानमरण्येषु नित्यं शमपरायणम् ||२४|| त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम् | द्वयोर्नृशंसकर्तारमवशं काममोहितम् ||२५|| जीवितान्तकरो भाव एवमेवागमिष्यति ||२५|| अहं हि किंदमो नाम तपसाप्रतिमो मुनिः | व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् ||२६|| मृगो भूत्वा मृगैः सार्धं चरामि गहने वने | न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः ||२७|| मृगरूपधरं हत्वा मामेवं काममोहितम् ||२७|| अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि | प्रियया सह संवासं प्राप्य कामविमोहितः ||२८|| त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि ||२८|| अन्तकाले च संवासं यया गन्तासि कान्तया | प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् ||२९|| भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति ||२९|| वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया | तथा सुखं त्वां सम्प्राप्तं दुःखमभ्यागमिष्यति ||३०|| वैशम्पायन उवाच|| एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत | मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत ||३१||

    ११० वैशम्पायन उवाच|| तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् | सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ||१|| पाण्डुरुवाच|| सतामपि कुले जाताः कर्मणा बत दुर्गतिम् | प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ||२|| शश्वद्धर्मात्मना जातो बाल एव पिता मम | जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ||३|| तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः | कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ||४|| तस्याद्य व्यसने बुद्धिः सञ्जातेयं ममाधमा | त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः ||५|| मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् | सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ||६|| अतीव तपसात्मानं योजयिष्याम्यसंशयम् ||६|| तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ | चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ||७|| पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः | वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ||८|| न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः | निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ||९|| न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित् | प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ||१०|| जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् | स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति ||११|| एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च | असम्भवे वा भैक्षस्य चरन्ननशनान्यपि ||१२|| अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित् | नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् ||१३|| वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः | नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः ||१४|| न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् | मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् ||१५|| याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः | ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः ||१६|| तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः | सम्परित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः ||१७|| निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः | न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ||१८|| एतया सततं वृत्त्या चरन्नेवम्प्रकारया | देहं सन्धारयिष्यामि निर्भयं मार्गमास्थितः ||१९|| नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते | स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः ||२०|| सत्कृतोऽसक्तृतो वापि योऽन्यां कृपणचक्षुषा | उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ||२१|| वैशम्पायन उवाच|| एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः | अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत ||२२|| कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः | आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ||२३|| ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः | पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः ||२४|| प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् ||२४|| निशम्य वचनं भर्तुर्वनवासे धृतात्मनः | तत्समं वचनं कुन्ती माद्री च समभाषताम् ||२५|| अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ | आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् ||२६|| त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः ||२६|| प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे | त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः ||२७|| यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते | अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः ||२८|| पाण्डुरुवाच|| यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् | स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ||२९|| त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः | वल्कली फलमूलाशी चरिष्यामि महावने ||३०|| अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् | कृशः परिमिताहारश्चीरचर्मजटाधरः ||३१|| शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः | तपसा दुश्चरेणेदं शरीरमुपशोषयन् ||३२|| एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् | पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ||३३|| वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् | नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम् ||३४|| एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् | काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् ||३५|| वैशम्पायन उवाच|| इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः | ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ||३६|| वासांसि च महार्हाणि स्त्रीणामाभरणानि च ||३६|| प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत | गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् ||३७|| अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् | प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुङ्गवः ||३८|| ततस्तस्यानुयात्राणि ते चैव परिचारकाः | श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः ||३९|| भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ||३९|| उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् | ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः ||४०|| श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने | धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ||४१|| राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः | जगाम सह भार्याभ्यां ततो नागसभं गिरिम् ||४२|| स चैत्ररथमासाद्य वारिषेणमतीत्य च | हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ||४३|| रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः | उवास स तदा राजा समेषु विषमेषु च ||४४|| इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च | शतशृङ्गे महाराज तापसः समपद्यत ||४५||

    १११ वैशम्पायन उवाच|| तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् | सिद्धचारणसङ्घानां बभूव प्रियदर्शनः ||१|| शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः | स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ||२|| केषाञ्चिदभवद्भ्राता केषाञ्चिदभवत्सखा | ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् ||३|| स तु कालेन महता प्राप्य निष्कल्मषं तपः | ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ ||४|| स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः | प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः ||५|| उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ||५|| दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम् | आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा ||६|| उद्यानानि कुबेरस्य समानि विषमाणि च | महानदीनितम्बांश्च दुर्गांश्च गिरिगह्वरान् ||७|| सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः | सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः ||८|| अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः | वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः ||९|| गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे | न सीदेतामदुःखार्हे मा गमो भरतर्षभ ||१०|| पाण्डुरुवाच|| अप्रजस्य महाभागा न द्वारं परिचक्षते | स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः ||११|| ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि | पितृदेवर्षिमनुजदेयैः शतसहस्रशः ||१२|| एतानि तु यथाकालं यो न बुध्यति मानवः | न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् ||१३|| यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन् | पुत्रैः श्राद्धैः पितृंश्चापि आनृशंस्येन मानवान् ||१४|| ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः | पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः ||१५|| देहनाशे ध्रुवो नाशः पितृणामेष निश्चयः | इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः ||१६|| यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना | तथैवास्मिन्मम क्षेत्रे कथं वै सम्भवेत्प्रजा ||१७|| तापसा ऊचुः|| अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम् | अपत्यमनघं राजन्वयं दिव्येन चक्षुषा ||१८|| दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय | अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः ||१९|| तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि | अपत्यं गुणसम्पन्नं लब्ध्वा प्रीतिमवाप्स्यसि ||२०|| वैशम्पायन उवाच|| तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत् | आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् ||२१|| सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् | अपत्योत्पादने योगमापदि प्रसमर्थयन् ||२२|| अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता | इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः ||२३|| इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः | सर्वमेवानपत्यस्य न पावनमिहोच्यते ||२४|| सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते | अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन् ||२५|| मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः | नृशंसकारिणो भीरु यथैवोपहतं तथा ||२६|| इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने | षडेवाबन्धुदायादाः पुत्रास्ताञ्शृणु मे पृथे ||२७|| स्वयञ्जातः प्रणीतश्च परिक्रीतश्च यः सुतः | पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते ||२८|| दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः | सहोढो जातरेताश्च हीनयोनिधृतश्च यः ||२९|| पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् | उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि ||३०|| अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः | आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् ||३१|| तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् | सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ||३२|| शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति | या वीरपत्नी गुरुभिर्नियुक्तापत्यजन्मनि ||३३|| पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे | वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् ||३४|| कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् | तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् ||३५|| तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् | मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति ||३६||

    ११२ वैशम्पायन उवाच|| एवमुक्ता महाराज कुन्ती पाण्डुमभाषत | कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् ||१|| न मामर्हसि धर्मज्ञ वक्तुमेवं कथञ्चन | धर्मपत्नीमभिरतां त्वयि राजीवलोचन ||२|| त्वमेव तु महाबाहो मय्यपत्यानि भारत | वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि ||३|| स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया | अपत्याय च मां गच्छ त्वमेव कुरुनन्दन ||४|| न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम् | त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः ||५|| इमां च तावद्धर्म्यां त्वं पौराणीं शृणु मे कथाम् | परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम् ||६|| व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः | पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः ||७|| तस्मिंश्च यजमाने वै धर्मात्मनि महात्मनि | उपागमंस्ततो देवाः सेन्द्राः सह महर्षिभिः ||८|| अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः | व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः ||९|| व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत | सर्वभूतान्यति यथा तपनः शिशिरात्यये ||१०|| स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः | प्राच्यानुदीच्यान्मध्यांश्च दक्षिणात्यानकालयत् ||११|| अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् | बभूव स हि राजेन्द्रो दशनागबलान्वितः ||१२|| अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः | व्युषिताश्वः समुद्रान्तां विजित्येमां वसुन्धराम् ||१३|| अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् ||१३|| यजमानो महायज्ञैर्ब्राह्मणेभ्यो ददौ धनम् | अनन्तरत्नान्यादाय आजहार महाक्रतून् ||१४|| सुषाव च बहून्सोमान्सोमसंस्थास्ततान च ||१४|| आसीत्काक्षीवती चास्य भार्या परमसंमता | भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि ||१५|| कामयामासतुस्तौ तु परस्परमिति श्रुतिः | स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत ||१६|| तेनाचिरेण कालेन जगामास्तमिवांशुमान् | तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता ||१७|| अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् | भद्रा परमदुःखार्ता तन्निबोध नराधिप ||१८|| नारी परमधर्मज्ञ सर्वा पुत्रविनाकृता | पतिं विना जीवति या न सा जीवति दुःखिता ||१९|| पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुङ्गव | त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम् ||२०|| त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे | प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् ||२१|| पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च | त्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम् ||२२|| छायेवानपगा राजन्सततं वशवर्तिनी | भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता ||२३|| अद्य प्रभृति मां राजन्कष्टा हृदयशोषणाः | आधयोऽभिभविष्यन्ति त्वदृते पुष्करेक्षण ||२४|| अभाग्यया मया नूनं वियुक्ताः सहचारिणः | संयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव ||२५|| तदिदं कर्मभिः पापैः पूर्वदेहेषु सञ्चितम् | दुःखं मामनुसम्प्राप्तं राजंस्त्वद्विप्रयोगजम् ||२६|| अद्य प्रभृत्यहं राजन्कुशप्रस्तरशायिनी | भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा ||२७|| दर्शयस्व नरव्याघ्र साधु मामसुखान्विताम् | दीनामनाथां कृपणां विलपन्तीं नरेश्वर ||२८|| एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः | तं शवं सम्परिष्वज्य वाक्किलान्तर्हिताब्रवीत् ||२९|| उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव | जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि ||३०|| आत्मीये च वरारोहे शयनीये चतुर्दशीम् | अष्टमीं वा ऋतुस्नाता संविशेथा मया सह ||३१|| एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता | यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा ||३२|| सा तेन सुषुवे देवी शवेन मनुजाधिप | त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम ||३३|| तथा त्वमपि मय्येव मनसा भरतर्षभ | शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वयात् ||३४||

    ११३ वैशम्पायन उवाच|| एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् | धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् ||१|| एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह | यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः ||२|| अथ त्विमं प्रवक्ष्यामि धर्मं त्वेतं निबोध मे | पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ||३|| अनावृताः किल पुरा स्त्रिय आसन्वरानने | कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने ||४|| तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् | नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराभवत् ||५|| तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः | अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः ||६|| पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ||६|| उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते | स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ||७|| अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते | स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु ||८|| बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् | श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः ||९|| मर्यादेयं कृता तेन मानुषेष्विति नः श्रुतम् | कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे ||१०|| श्वेतकेतोः किल पुरा समक्षं मातरं पितुः | जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ||११|| ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा | मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ||१२|| क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह | मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः ||१३|| अनावृता हि सर्वेषां वर्णानामङ्गना भुवि | यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः ||१४|| ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे | चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि ||१५|| मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु | तदा प्रभृति मर्यादा स्थितेयमिति नः श्रुतम् ||१६|| व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् | भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम् ||१७|| भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम् | पतिव्रतामेतदेव भविता पातकं भुवि ||१८|| पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च | न करिष्यति तस्याश्च भविष्यत्येतदेव हि ||१९|| इति तेन पुरा भीरु मर्यादा स्थापिता बलात् | उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ||२०|| सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि | मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् ||२१|| तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी | भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया ||२२|| अस्माकमपि ते जन्म विदितं कमलेक्षणे | कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये ||२३|| अत एतानि सर्वाणि कारणानि समीक्ष्य वै | ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते ||२४|| ऋतावृतौ राजपुत्रि स्त्रिया भर्ता यतव्रते | नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ||२५|| शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति | धर्ममेतं जनाः सन्तः पुराणं परिचक्षते ||२६|| भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा | यद्ब्रूयात्तत्तथा कार्यमिति धर्मविदो विदुः ||२७|| विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् | यथाहमनवद्याङ्गि पुत्रदर्शनलालसः ||२८|| तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे | प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः ||२९|| मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिकात् | पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि ||३०|| त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ||३०|| एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् | प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ||३१|| पितृवेश्मन्यहं बाला नियुक्तातिथिपूजने | उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् ||३२|| निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः | तमहं संशितात्मानं सर्वयत्नैरतोषयम् ||३३|| स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम् | मन्त्रग्रामं च मे प्रादादब्रवीच्चैव मामिदम् ||३४|| यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि | अकामो वा सकामो वा स ते वशमुपैष्यति ||३५|| इत्युक्ताहं तदा तेन पितृवेश्मनि भारत | ब्राह्मणेन वचस्तथ्यं तस्य कालोऽयमागतः ||३६|| अनुज्ञाता त्वया देवमाह्वयेयमहं नृप | तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा विभो ||३७|| आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर | त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्ध्यस्मिन्कर्मणि स्थिताम् ||३८|| पाण्डुरुवाच|| अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि | धर्ममावाहय शुभे स हि देवेषु पुण्यभाक् ||३९|| अधर्मेण न नो धर्मः संयुज्येत कथञ्चन | लोकश्चायं वरारोहे धर्मोऽयमिति मंस्यते ||४०|| धार्मिकश्च कुरूणां स भविष्यति न संशयः | दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः ||४१|| तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते | उपचाराभिचाराभ्यां धर्ममाराधयस्व वै ||४२|| वैशम्पायन उवाच|| सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना | अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत ||४३||

    ११४ वैशम्पायन उवाच|| संवत्सराहिते गर्भे गान्धार्या जनमेजय | आह्वयामास वै कुन्ती गर्भार्थं धर्ममच्युतम् ||१|| सा बलिं त्वरिता देवी धर्मायोपजहार ह | जजाप जप्यं विधिवद्दत्तं दुर्वाससा पुरा ||२|| सङ्गम्य सा तु धर्मेण योगमूर्तिधरेण वै | लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम् ||३|| ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे | दिवा मध्यगते सूर्ये तिथौ पुण्येऽभिपूजिते ||४|| समृद्धयशसं कुन्ती सुषाव समये सुतम् | जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी ||५|| एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः | युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः ||६|| भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः | यशसा तेजसा चैव वृत्तेन च समन्वितः ||७|| धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् | प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु ||८|| ततस्तथोक्ता पत्या तु वायुमेवाजुहाव सा | तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ||९|| तमप्यतिबलं जातं वागभ्यवददच्युतम् | सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ||१०|| इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे | यदङ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत् ||११|| कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल | नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम् ||१२|| ततः स वज्रसङ्घातः कुमारोऽभ्यपतद्गिरौ | पतता तेन शतधा शिला गात्रैर्विचूर्णिता ||१३|| तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागमत् ||१३|| यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम | दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप ||१४|| जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत् | कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति ||१५|| दैवे पुरुषकारे च लोकोऽयं हि प्रतिष्ठितः | तत्र दैवं तु विधिना कालयुक्तेन लभ्यते ||१६|| इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् | अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः ||१७|| तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् | यं दास्यति स मे पुत्रं स वरीयान्भविष्यति ||१८|| कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः ||१८|| ततः पाण्डुर्महातेजा मन्त्रयित्वा महर्षिभिः | दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् ||१९|| आत्मना च महाबाहुरेकपादस्थितोऽभवत् | उग्रं स तप आतस्थे परमेण समाधिना ||२०|| आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम् | सूर्येण सह धर्मात्मा पर्यवर्तत भारत ||२१|| तं तु कालेन महता वासवः प्रत्यभाषत | पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् ||२२|| देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम् | सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् ||२३|| इत्युक्तः कौरवो राजा वासवेन महात्मना | उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् ||२४|| नीतिमन्तं महात्मानमादित्यसमतेजसम् | दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम् ||२५|| पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् | लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते ||२६|| एवमुक्ता ततः शक्रमाजुहाव यशस्विनी | अथाजगाम देवेन्द्रो जनयामास चार्जुनम् ||२७|| जातमात्रे कुमारे तु वागुवाचाशरीरिणी | महागम्भीरनिर्घोषा नभो नादयती तदा ||२८|| कार्तवीर्यसमः कुन्ति शिबितुल्यपराक्रमः | एष शक्र इवाजेयो यशस्ते प्रथयिष्यति ||२९|| अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्धिता | तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः ||३०|| एष मद्रान्वशे कृत्वा कुरूंश्च सह केकयैः | चेदिकाशिकरूषांश्च कुरुलक्ष्म सुधास्यति ||३१|| एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः | मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् ||३२|| ग्रामणीश्च महीपालानेष जित्वा महाबलः | भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति ||३३|| जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः | एष वीर्यवतां श्रेष्ठो भविष्यत्यपराजितः ||३४|| तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति | विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः ||३५|| एतामत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके | उक्तवान्वायुराकाशे कुन्ती शुश्राव चास्य ताम् ||३६|| वाचमुच्चारितामुच्चैस्तां निशम्य तपस्विनाम् | बभूव परमो हर्षः शतशृङ्गनिवासिनाम् ||३७|| तथा देवऋषीणां च सेन्द्राणां च दिवौकसाम् | आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः ||३८|| उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः | समवेत्य च देवानां गणाः पार्थमपूजयन् ||३९|| काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा | प्रजानां पतयः सर्वे सप्त चैव महर्षयः ||४०|| भरद्वाजः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निर्वसिष्ठः | यश्चोदितो भास्करेऽभूत्प्रनष्टे; सोऽप्यत्रात्रिर्भगवानाजगाम ||४१|| मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः | दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा ||४२|| दिव्यमाल्याम्बरधराः सर्वालङ्कारभूषिताः | उपगायन्ति बीभत्सुमुपनृत्यन्ति चाप्सराः ||४३|| गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः ||४३|| भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा | गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ||४४|| युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा | त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ||४५|| कलिः पञ्चदशश्चात्र नारदश्चैव षोडशः | सद्वा बृहद्वा बृहकः करालश्च महायशाः ||४६|| ब्रह्मचारी बहुगुणः सुपर्णश्चेति विश्रुतः | विश्वावसुर्भुमन्युश्च सुचन्द्रो दशमस्तथा ||४७|| गीतमाधुर्यसम्पन्नौ विख्यातौ च हहाहुहू | इत्येते देवगन्धर्वा जगुस्तत्र नरर्षभम् ||४८|| तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः | ननृतुर्वै महाभागा जगुश्चायतलोचनाः ||४९|| अनूना चानवद्या च प्रियमुख्या गुणावरा | अद्रिका च तथा साची मिश्रकेशी अलम्बुसा ||५०|| मरीचिः शिचुका चैव विद्युत्पर्णा तिलोत्तमा | अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा ||५१|| असिता च सुबाहुश्च सुप्रिया सुवपुस्तथा | पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी ||५२|| काम्या शारद्वती चैव ननृतुस्तत्र सङ्घशः | मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ||५३|| क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि | उम्लोचेत्यभिविख्याता प्रम्लोचेति च ता दश ||५४|| उर्वश्येकादशीत्येता जगुरायतलोचनाः ||५४|| धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा | इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा ||५५|| पर्जन्यश्चैव विष्णुश्च आदित्याः पावकार्चिषः | महिमानं पाण्डवस्य वर्धयन्तोऽम्बरे स्थिताः ||५६|| मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः | अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः ||५७|| दहनोऽथेश्वरश्चैव कपाली च विशां पते | स्थाणुर्भवश्च भगवान्रुद्रास्तत्रावतस्थिरे ||५८|| अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः | विश्वेदेवास्तथा साध्यास्तत्रासन्परिसंस्थिताः ||५९|| कर्कोटकोऽथ शेषश्च वासुकिश्च भुजङ्गमः | कच्छपश्चापकुण्डश्च तक्षकश्च महोरगः ||६०|| आययुस्तेजसा युक्ता महाक्रोधा महाबलाः | एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः ||६१|| तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः | अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः ||६२|| तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः | अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवान्प्रति ||६३|| पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः | प्राहिणोद्दर्शनीयाङ्गीं कुन्ती त्वेनमथाब्रवीत् ||६४|| नातश्चतुर्थं प्रसवमापत्स्वपि वदन्त्युत | अतः परं चारिणी स्यात्पञ्चमे बन्धकी भवेत् ||६५|| स त्वं विद्वन्धर्ममिमं बुद्धिगम्यं कथं नु माम् | अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे ||६६||

    ११५ वैशम्पायन उवाच|| कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च | मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् ||१|| न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप | नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ||२|| गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा | श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ||३|| इदं तु मे महद्दुःखं तुल्यतायामपुत्रता | दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः ||४|| यदि त्वपत्यसन्तानं कुन्तिराजसुता मयि | कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ||५|| स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति | यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ||६|| पाण्डुरुवाच|| ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते | न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ||७|| तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम् | मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते ||८|| वैशम्पायन उवाच|| ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् | कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् ||९|| मम चापिण्डनाशाय पूर्वेषामपि चात्मनः | मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ||१०|| यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् | प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोर्थिना ||११|| तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् | गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि ||१२|| तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः | चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् ||१३|| सा त्वं माद्रीं प्लवेनेव तारयेमामनिन्दिते | अपत्यसंविभागेन परां कीर्तिमवाप्नुहि ||१४|| एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् | तस्मात्ते भवितापत्यमनुरूपमसंशयम् ||१५|| ततो माद्री विचार्यैव जगाम मनसाश्विनौ | तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ||१६|| नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि | तथैव तावपि यमौ वागुवाचाशरीरिणी ||१७|| रूपसत्त्वगुणोपेतावेतावन्याञ्जनानति | भासतस्तेजसात्यर्थं रूपद्रविणसम्पदा ||१८|| नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः | भक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते ||१९|| ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम् | अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् ||२०|| पूर्वजं नकुलेत्येवं सहदेवेति चापरम् | माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः ||२१|| अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः ||२१|| कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् | तमुवाच पृथा राजन्रहस्युक्ता सती सदा ||२२|| उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता | बिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी ||२३|| नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् | तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम ||२४|| एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः | सम्भूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः ||२५|| शुभलक्षणसम्पन्नाः सोमवत्प्रियदर्शनाः | सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः ||२६|| सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः ||२६|| विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ | विस्मयं जनयामासुर्महर्षीणां समेयुषाम् ||२७|| ते च पञ्च शतं चैव कुरुवंशविवर्धनाः | सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः ||२८||

    ११६ वैशम्पायन उवाच|| दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने | तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान् ||१|| सुपुष्पितवने काले कदाचिन्मधुमाधवे | भूतसंमोहने राजा सभार्यो व्यचरद्वनम् ||२|| पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः | अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः ||३|| जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् | पाण्डोर्वनं तु सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः ||४|| प्रहृष्टमनसं तत्र विहरन्तं यथामरम् | तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् ||५|| समीक्षमाणः स तु तां वयःस्थां तनुवाससम् | तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः ||६|| रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम् | न शशाक नियन्तुं तं कामं कामबलात्कृतः ||७|| तत एनां बलाद्राजा निजग्राह रहोगताम् | वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् ||८|| स तु कामपरीतात्मा तं शापं नान्वबुध्यत | माद्रीं मैथुनधर्मेण गच्छमानो बलादिव ||९|| जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः | शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम् ||१०|| तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता | सम्प्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा ||११|| स तया सह सङ्गम्य भार्यया कुरुनन्दन | पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा ||१२|| ततो माद्री समालिङ्ग्य राजानं गतचेतसम् | मुमोच दुःखजं शब्दं पुनः पुनरतीव ह ||१३|| सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ | आजग्मुः सहितास्तत्र यत्र राजा तथागतः ||१४|| ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः | एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः ||१५|| तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान् | हताहमिति विक्रुश्य सहसोपजगाम ह ||१६|| दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले | कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता ||१७|| रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् | कथं त्वमभ्यतिक्रान्तः शापं जानन्वनौकसः ||१८|| ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः | सा कथं लोभितवती विजने त्वं नराधिपम् ||१९|| कथं दीनस्य सततं त्वामासाद्य रहोगताम् | तं विचिन्तयतः शापं प्रहर्षः समजायत ||२०|| धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा | दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः ||२१|| माद्र्युवाच|| विलोभ्यमानेन मया वार्यमाणेन चासकृत् | आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा ||२२|| कुन्त्युवाच|| अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम | अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय ||२३|| अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम् | उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् ||२४|| माद्र्युवाच|| अहमेवानुयास्यामि भर्तारमपलायिनम् | न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम् ||२५|| मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः | तमुच्छिन्द्यामस्य कामं कथं नु यमसादने ||२६|| न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते | वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम् ||२७|| तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् | मां हि कामयमानोऽयं राजा प्रेतवशं गतः ||२८|| राज्ञः शरीरेण सह ममापीदं कलेवरम् | दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु ||२९|| दारकेष्वप्रमत्ता च भवेथाश्च हिता मम | अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किञ्चन ||३०|| वैशम्पायन उवाच|| इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम् | मद्रराजात्मजा तूर्णमन्वारोहद्यशस्विनी ||३१||

    ११७ वैशम्पायन उवाच|| पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः | ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः ||१|| हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः | अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः ||२|| स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह | प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः ||३|| ते परस्परमामन्त्र्य सर्वभूतहिते रताः | पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् ||४|| उदारमनसः सिद्धा गमने चक्रिरे मनः | भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि ||५|| तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे | पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः ||६|| सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला | प्रपन्ना दीर्घमध्वानं सङ्क्षिप्तं तदमन्यत ||७|| सा नदीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् | वर्धमानपुरद्वारमाससाद यशस्विनी ||८|| तं चारणसहस्राणां मुनीनामागमं तदा | श्रुत्वा नागपुरे नृणां विस्मयः समजायत ||९|| मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः | सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ||१०|| स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घान्समास्थिताः | ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः ||११|| तथा विट्शूद्रसङ्घानां महान्व्यतिकरोऽभवत् | न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः ||१२|| तथा भीष्मः शान्तनवः सोमदत्तोऽथ बाह्लिकः | प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् ||१३|| सा च सत्यवती देवी कौसल्या च यशस्विनी | राजदारैः परिवृता गान्धारी च विनिर्ययौ ||१४|| धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः | भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः ||१५|| तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च | उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ||१६|| तथैव शिरसा भूमावभिवाद्य प्रणम्य च | उपोपविविशुः सर्वे पौरजानपदा अपि ||१७|| तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा | भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् ||१८|| तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी | महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत् ||१९|| यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः | कामभोगान्परित्यज्य शतशृङ्गमितो गतः ||२०|| ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना | साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः ||२१|| तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः | मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् ||२२|| पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः | यस्य कीरित्र्महेष्वासान्सर्वानभिभविष्यति ||२३|| यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ | अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः ||२४|| चरता धर्मनित्येन वनवासं यशस्विना | एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ||२५|| पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च | पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत ||२६|| वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च | पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ||२७|| तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् | प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ||२८|| सा गता सह तेनैव पतिलोकमनुव्रता | तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ||२९|| इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः | क्रियाभिरनुगृह्यन्तां सह मात्रा परन्तपाः ||३०|| प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः | लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ||३१|| एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् | क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह ||३२|| गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः | ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः ||३३||

    ११८ धृतराष्ट्र उवाच|| पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय | राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः ||१|| पशून्वासांसि रत्नानि धनानि विविधानि च | पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् ||२|| यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु | यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् ||३|| न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः | यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः ||४|| वैशम्पायन उवाच|| विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत | पाण्डुं संस्कारयामास देशे परमसंवृते ||५|| ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः | निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः ||६|| अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः | शिबिकां समलञ्चक्रुर्वाससाच्छाद्य सर्वशः ||७|| तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः | अमात्या ज्ञातयश्चैव सुहृदश्चोपतस्थिरे ||८|| नृसिंहं नरयुक्तेन परमालङ्कृतेन तम् | अवहन्यानमुख्येन सह माद्र्या सुसंवृतम् ||९|| पाण्डुरेणातपत्रेण चामरव्यजनेन च | सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः ||१०|| रत्नानि चाप्युपादाय बहूनि शतशो नराः | प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेहिकम् ||११|| अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च | आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च ||१२|| याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः | अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः ||१३|| ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः | रुदन्तः शोकसन्तप्ता अनुजग्मुर्नराधिपम् ||१४|| अयमस्मानपाहाय दुःखे चाधाय शाश्वते | कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः ||१५|| क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च | रमणीये वनोद्देशे गङ्गातीरे समे शुभे ||१६|| न्यासयामासुरथ तां शिबिकां सत्यवादिनः | सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः ||१७|| ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम् | शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम् ||१८|| पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः ||१८|| चन्दनेन च मुख्येन शुक्लेन समलेपयन् | कालागुरुविमिश्रेण तथा तुङ्गरसेन च ||१९|| अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् | आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः ||२०|| शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः ||२०|| याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः | घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम् ||२१|| तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना | अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन् ||२२|| ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता | हाहा पुत्रेति कौसल्या पपात सहसा भुवि ||२३|| तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः | रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः ||२४|| क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः | मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि ||२५|| तथा भीष्मः शान्तनवो विदुरश्च महामतिः | सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः ||२६|| ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः | उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः ||२७|| कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान् | सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन् ||२८|| यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः | तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः ||२९|| तदनानन्दमस्वस्थमाकुमारमहृष्टवत् | बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः ||३०||

    ११९ वैशम्पायन उवाच|| ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः | ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा ||१|| कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः | रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि ||२|| कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् | आदाय विविशुः पौराः पुरं वारणसाह्वयम् ||३|| सततं स्मान्वतप्यन्त तमेव भरतर्षभम् | पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् ||४|| श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् | संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् ||५|| अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः | श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना ||६|| बहुमायासमाकीर्णो नानादोषसमाकुलः | लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति ||७|| गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने | मा द्रक्ष्यसि कुलस्यास्य घोरं सङ्क्षयमात्मनः ||८|| तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् | अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः ||९|| सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम् ||९|| तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् | वनमादाय भद्रं ते गच्छावो यदि मन्यसे ||१०|| तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता | वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ||११|| ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम | देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा ||१२|| अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा | अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि ||१३|| धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि | बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् ||१४|| जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे | धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति ||१५|| हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने | शिरःसु च निगृह्यैनान्योधयामास पाण्डवः ||१६|| शतमेकोत्तरं तेषां कुमाराणां महौजसाम् | एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः ||१७|| पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली | चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् ||१८|| दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः | आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति ||१९|| फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा | तदा पादप्रहारेण भीमः कम्पयते द्रुमम् ||२०|| प्रहारवेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः | सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः ||२१|| न ते नियुद्धे न जवे न योग्यासु कदाचन | कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् ||२२|| एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः | अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा ||२३|| ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् | भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् ||२४|| तस्य धर्मादपेतस्य पापानि परिपश्यतः | मोहादैश्वर्यलोभाच्च पापा मतिरजायत ||२५|| अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः | मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् ||२६|| अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम् | प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम् ||२७|| एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा | नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ||२८|| ततो जलविहारार्थं कारयामास भारत | चेलकम्बलवेश्मानि विचित्राणि महान्ति च ||२९|| प्रमाणकोट्यामुद्देशं स्थलं किञ्चिदुपेत्य च | क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलङ्कृताः ||३०|| सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ||३०|| दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः | विहारावसथेष्वेव वीरा वासमरोचयन् ||३१|| खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा | वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः ||३२|| प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् ||३२|| शीतं वासं समासाद्य श्रान्तो मदविमोहितः | निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् ||३३|| ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः | गम्भीरं भीमवेगं च स्थलाज्जलमपातयत् ||३४|| ततः प्रबुद्धः कौन्तेयः सर्वं सञ्छिद्य बन्धनम् | उदतिष्ठज्जलाद्भूयो भीमः प्रहरतां वरः ||३५|| सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः | कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु ||३६|| दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः | त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ||३७|| प्रतिबुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथयत् | सारथिं चास्य दयितमपहस्तेन जघ्निवान् ||३८|| भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम् | कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् ||३९|| वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया | तच्चापि भुक्त्वाजरयदविकारो वृकोदरः ||४०|| विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम् | भीमसंहननो भीमस्तदप्यजरयत्ततः ||४१|| एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः | अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ||४२|| पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः | उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ||४३||

    १२० जनमेजय उवाच|| कृपस्यापि महाब्रह्मन्सम्भवं वक्तुमर्हसि | शरस्तम्भात्कथं जज्ञे कथं चास्त्राण्यवाप्तवान् ||१|| वैशम्पायन उवाच|| महर्षेर्गौतमस्यासीच्छरद्वान्नाम नामतः | पुत्रः किल महाराज जातः सह शरैर्विभो ||२|| न तस्य वेदाध्ययने तथा बुद्धिरजायत | यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप ||३|| अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः | तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह ||४|| धनुर्वेदपरत्वाच्च तपसा विपुलेन च | भृशं सन्तापयामास देवराजं स गौतमः ||५|| ततो जालपदीं नाम देवकन्यां सुरेश्वरः | प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव ||६|| साभिगम्याश्रमपदं रमणीयं शरद्वतः | धनुर्बाणधरं बाला लोभयामास गौतमम् ||७|| तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने | लोकेऽप्रतिमसंस्थानामुत्फुल्लनयनोऽभवत् ||८|| धनुश्च हि शराश्चास्य कराभ्यां प्रापतन्भुवि | वेपथुश्चास्य तां दृष्ट्वा शरीरे समजायत ||९|| स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात् | अवतस्थे महाप्राज्ञो धैर्येण परमेण ह ||१०|| यस्त्वस्य सहसा राजन्विकारः समपद्यत | तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत ||११|| स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः | जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह ||१२|| शरस्तम्बे च पतितं द्विधा तदभवन्नृप | तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः ||१३|| मृगयां चरतो राज्ञः शन्तनोस्तु यदृच्छया | कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत ||१४|| धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च | व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत् ||१५|| स राज्ञे दर्शयामास मिथुनं सशरं तदा ||१५|| स तदादाय मिथुनं राजाथ कृपयान्वितः | आजगाम गृहानेव मम पुत्राविति ब्रुवन् ||१६|| ततः संवर्धयामास संस्कारैश्चाप्ययोजयत् | गौतमोऽपि तदापेत्य धनुर्वेदपरोऽभवत् ||१७|| कृपया यन्मया बालाविमौ संवर्धिताविति | तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः ||१८|| निहितौ गौतमस्तत्र तपसा तावविन्दत | आगम्य चास्मै गोत्रादि सर्वमाख्यातवांस्तदा ||१९|| चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च | निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा ||२०|| सोऽचिरेणैव कालेन परमाचार्यतां गतः ||२०|| ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः | धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः ||२१|| वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः ||२१||

    १२१ वैशम्पायन उवाच|| विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया | इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान् ||१|| नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः | नादेवसत्त्वो विनयेत्कुरूनस्त्रे महाबलान् ||२|| महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा | ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः ||३|| तस्या वायुः समुद्धूतो वसनं व्यपकर्षत | ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ||४|| तस्मिन्समभवद्द्रोणः कलशे तस्य धीमतः | अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ||५|| अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् | प्रत्यपादयदाग्नेयमस्त्रं धर्मभृतां वरः ||६|| अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम | भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् ||७|| भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः | तस्यापि द्रुपदो नाम तदा समभवत्सुतः ||८|| स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः | चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ||९|| ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् | पाञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः ||१०|| भरद्वाजोऽपि भगवानारुरोह दिवं तदा | ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः ||११|| शारद्वतीं ततो द्रोणः कृपीं भार्यामविन्दत ||११|| अग्निहोत्रे च धर्मे च दमे च सततं रता | अलभद्गौतमी पुत्रमश्वत्थामानमेव च ||१२|| स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः | तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् ||१३|| अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् | अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ||१४|| सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् | तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत् ||१५|| स शुश्राव महात्मानं जामदग्न्यं परन्तपम् | ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः ||१६|| वनं तु प्रस्थितं रामं भारद्वाजस्तदाब्रवीत् | आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम् ||१७|| राम उवाच|| हिरण्यं मम यच्चान्यद्वसु किञ्चन विद्यते | ब्राह्मणेभ्यो मया दत्तं सर्वमेव तपोधन ||१८|| तथैवेयं धरा देवी सागरान्ता सपत्तना | कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी ||१९|| शरीरमात्रमेवाद्य मयेदमवशेषितम् | अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च ||२०|| वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् ||२०|| द्रोण उवाच|| अस्त्राणि मे समग्राणि ससंहाराणि भार्गव | सप्रयोगरहस्यानि दातुमर्हस्यशेषतः ||२१|| वैशम्पायन उवाच|| तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः | सरहस्यव्रतं चैव धनुर्वेदमशेषतः ||२२|| प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः | प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति ||२३||

    १२२ वैशम्पायन उवाच|| ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् | अब्रवीत्पार्षतं राजन्सखायं विद्धि मामिति ||१|| द्रुपद उवाच|| अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी | यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज ||२|| न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्वचित् | सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ||३|| सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यताम् | सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् ||४|| न सख्यमजरं लोके जातु दृश्येत कर्हिचित् | कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति ||५|| मैवं जीर्णमुपासिष्ठाः सख्यं नवमुपाकुरु | आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् ||६|| न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा | शूरस्य न सखा क्लीबः सखिपूर्वं किमिष्यते ||७|| ययोरेव समं वित्तं ययोरेव समं कुलम् | तयोः सख्यं विवाहश्च न तु पुष्टविपुष्टयोः ||८|| नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा | नाराज्ञा सङ्गतं राज्ञः सखिपूर्वं किमिष्यते ||९|| वैशम्पायन उवाच|| द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् | मुहूर्तं चिन्तयामास मन्युनाभिपरिप्लुतः ||१०|| स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान् | जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ||११|| कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् | क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा ||१२|| पपात कूपे सा वीटा तेषां वै क्रीडतां तदा | न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये ||१३|| अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा | प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् ||१४|| अहो नु धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् | भरतस्यान्वये जाता ये वीटां नाधिगच्छत ||१५|| एष मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रितः | अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते ||१६|| वेत्स्यामीषीकया वीटां तामिषीकामथान्यया | तामन्यया समायोगो वीटाया ग्रहणे मम ||१७|| तदपश्यन्कुमारास्ते विस्मयोत्फुल्ललोचनाः | अवेष्क्य चोद्धृतां वीटां वीटावेद्धारमब्रुवन् ||१८|| अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते | कोऽसि कं त्वाभिजानीमो वयं किं करवामहे ||१९|| द्रोण उवाच|| आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् | स एव सुमहाबुद्धिः साम्प्रतं प्रतिपत्स्यते ||२०|| वैशम्पायन उवाच|| तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम् | ब्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत् ||२१|| भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत | युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च ||२२|| अथैनमानीय तदा स्वयमेव सुसत्कृतम् | परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः ||२३|| हेतुमागमने तस्य द्रोणः सर्वं न्यवेदयत् ||२३|| महर्षेरग्निवेश्यस्य सकाशमहमच्युत | अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया ||२४|| ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः | अवसं तत्र सुचिरं धनुर्वेदचिकीर्षया ||२५|| पाञ्चालराजपुत्रस्तु यज्ञसेनो महाबलः | मया सहाकरोद्विद्यां गुरोः श्राम्यन्समाहितः ||२६|| स मे तत्र सखा चासीदुपकारी प्रियश्च मे | तेनाहं सह सङ्गम्य रतवान्सुचिरं बत ||२७|| बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च ||२७|| स समासाद्य मां तत्र प्रियकारी प्रियंवदः | अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् ||२८|| अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः | अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा ||२९|| त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे | मम भोगाश्च वित्तं च त्वदधीनं सुखानि च ||३०|| एवमुक्तः प्रवव्राज कृतास्त्रोऽहं धनेप्सया | अभिषिक्तं च श्रुत्वैनं कृतार्थोऽस्मीति चिन्तयन् ||३१|| प्रियं सखायं सुप्रीतो राज्यस्थं पुनराव्रजम् | संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत् ||३२|| ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो | अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति ||३३|| उपस्थितं तु द्रुपदः सखिवच्चाभिसङ्गतम् | स मां निराकारमिव प्रहसन्निदमब्रवीत् ||३४|| अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी | यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज ||३५|| न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित् | सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ||३६|| नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा | नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ||३७|| द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः | अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः ||३८|| प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह | पौत्रानादाय तान्सर्वान्वसूनि विविधानि च ||३९|| शिष्या इति ददौ राजन्द्रोणाय विधिपूर्वकम् | स च शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् ||४०|| प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् | रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा ||४१|| कार्यं मे काङ्क्षितं किञ्चिद्धृदि सम्परिवर्तते | कृतास्त्रैस्तत्प्रदेयं मे तदृतं वदतानघाः ||४२|| तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशां पते | अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तपः ||४३|| ततोऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः | प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा ||४४|| ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च | ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् ||४५|| राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ | अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् ||४६|| वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः ||४६|| सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा | स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः ||४७|| दुर्योधनमुपाश्रित्य पाण्डवानत्यमन्यत ||४७||

    १२३ वैशम्पायन उवाच|| अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने | अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् ||१|| द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः | अन्धकारेऽर्जुनायान्नं न देयं ते कथञ्चन ||२|| ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने | तेन तत्र प्रदीपः स दीप्यमानो निवापितः ||३|| भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत | हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात् ||४|| तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः ||४|| तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत | उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् ||५|| प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः | त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते ||६|| ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च | अश्वेषु भूमावपि च रणशिक्षामशिक्षयत् ||७|| गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु | द्रोणः सङ्कीर्णयुद्धेषु शिक्षयामास पाण्डवम् ||८|| तस्य तत्कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः | राजानो राजपुत्राश्च समाजग्मुः सहस्रशः ||९|| ततो निषादराजस्य हिरण्यधनुषः सुतः | एकलव्यो महाराज द्रोणमभ्याजगाम ह ||१०|| न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् | शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया ||११|| स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः | अरण्यमनुसम्प्राप्तः कृत्वा द्रोणं महीमयम् ||१२|| तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा | इष्वस्त्रे योगमातस्थे परं नियममास्थितः ||१३|| परया श्रद्धया युक्तो योगेन परमेण च | विमोक्षादानसन्धाने लघुत्वं परमाप सः ||१४|| अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः | रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः ||१५|| तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया | राजन्ननुजगामैकः श्वानमादाय पाण्डवान् ||१६|| तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम् | श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान् ||१७|| स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने | नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके ||१८|| तदा तस्याथ भषतः शुनः सप्त शरान्मुखे | लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा ||१९|| स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह | तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः ||२०|| लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा | प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः ||२१|| तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् | ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् ||२२|| न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् | अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत ||२३|| एकलव्य उवाच|| निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् | द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम् ||२४|| वैशम्पायन उवाच|| ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः | यथावृत्तं च ते सर्वं द्रोणायाचख्युरद्भुतम् ||२५|| कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् | रहो द्रोणं समागम्य प्रणयादिदमब्रवीत् ||२६|| नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः | भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति ||२७|| अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् | अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः ||२८|| मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् | सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् ||२९|| ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् | एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् ||३०|| एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् | अभिगम्योपसङ्गृह्य जगाम शिरसा महीम् ||३१|| पूजयित्वा ततो द्रोणं विधिवत्स निषादजः | निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः ||३२|| ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः | यदि शिष्योऽसि मे तूर्णं वेतनं सम्प्रदीयताम् ||३३|| एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् | किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः ||३४|| न हि किञ्चिददेयं मे गुरवे ब्रह्मवित्तम | तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतां मम ||३५|| एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् | प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतः सदा ||३६|| तथैव हृष्टवदनस्तथैवादीनमानसः | छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः ||३७|| ततः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत | न तथा स तु शीघ्रोऽभूद्यथा पूर्वं नराधिप ||३८|| ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः | द्रोणश्च सत्यवागासीन्नान्योऽभ्यभवदर्जुनम् ||३९|| द्रोणस्य तु तदा शिष्यौ गदायोग्यां विशेषतः | दुर्योधनश्च भीमश्च कुरूणामभ्यगच्छताम् ||४०|| अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् | तथाति पुरुषानन्यान्त्सारुकौ यमजावुभौ ||४१|| युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः ||४१|| प्रथितः सागरान्तायां रथयूथपयूथपः | बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः ||४२|| अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः | तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् ||४३|| एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः ||४३|| प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् | धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप ||४४|| तांस्तु सर्वान्समानीय सर्वविद्यासु निष्ठितान् | द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ ||४५|| कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् | अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ||४६|| द्रोण उवाच|| शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय सत्वराः | भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः ||४७|| मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम् | एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः ||४८|| वैशम्पायन उवाच|| ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः | सन्धत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च च ||४९|| ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महारवम् | तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ||५०|| ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् | स मुहूर्तादुवाचेदं वचनं भरतर्षभ ||५१|| पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज | पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः ||५२|| स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत | अथ वृक्षमिमं मां वा भ्रातृन्वापि प्रपश्यसि ||५३|| तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम् | भवन्तं च तथा भ्रातृन्भासं चेति पुनः पुनः ||५४|| तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव | नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् ||५५|| ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः | तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत ||५६|| अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान् | तथा च सर्वे सर्वं तत्पश्याम इति कुत्सिताः ||५७|| ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत | त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं निशम्यताम् ||५८|| मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः | वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् ||५९|| एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः | तस्थौ लक्ष्यं समुद्दिश्य गुरुवाक्यप्रचोदितः ||६०|| मुहूर्तादिव तं द्रोणस्तथैव समभाषत | पश्यस्येनं स्थितं भासं द्रुमं मामपि वेत्युत ||६१|| पश्याम्येनं भासमिति द्रोणं पार्थोऽभ्यभाषत | न तु वृक्षं भवन्तं वा पश्यामीति च भारत ||६२|| ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः | प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम् ||६३|| भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः | शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् ||६४|| अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः | मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् ||६५|| ततस्तस्य नगस्थस्य क्षुरेण निशितेन ह | शिर उत्कृत्य तरसा पातयामास पाण्डवः ||६६|| तस्मिन्कर्मणि संसिद्धे पर्यश्वजत फल्गुनम् | मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम् ||६७|| कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः | जगाम गङ्गामभितो मज्जितुं भरतर्षभ ||६८|| अवगाढमथो द्रोणं सलिले सलिलेचरः | ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः ||६९|| स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् | ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव ||७०|| तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः | आवापैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत् ||७१|| इतरे तु विसंमूढास्तत्र तत्र प्रपेदिरे ||७१|| तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम् | विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा ||७२|| स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः | ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः ||७३|| अथाब्रवीन्महात्मानं भारद्वाजो महारथम् | गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम् ||७४|| अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम् ||७४|| न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथञ्चन | जगद्विनिर्दहेदेतदल्पतेजसि पातितम् ||७५|| असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते | तद्धारयेथाः प्रयतः शृणु चेदं वचो मम ||७६|| बाधेतामानुषः शत्रुर्यदा त्वां वीर कश्चन | तद्वधाय प्रयुञ्जीथास्तदास्त्रमिदमाहवे ||७७|| तथेति तत्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः | जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः ||७८|| भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः ||७८||

    जतुगृहदाहपर्व १२४ वैशम्पायन उवाच|| कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत | दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् ||१|| कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः | गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च ||२|| राजन्सम्प्राप्तविद्यास्ते कुमराः कुरुसत्तम | ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव ||३|| ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना | भारद्वाज महत्कर्म कृतं ते द्विजसत्तम ||४|| यदा तु मन्यसे कालं यस्मिन्देशे यथा यथा | तथा तथा विधानाय स्वयमाज्ञापयस्व माम् ||५|| स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम् | अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान् ||६|| क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा | न हीदृशं प्रियं मन्ये भविता धर्मवत्सल ||७|| ततो राजानमामन्त्र्य विदुरानुगतो बहिः | भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम् ||८|| समामवृक्षां निर्गुल्मामुदक्प्रवणसंस्थिताम् ||८|| तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते | अवघुष्टं पुरे चापि तदर्थं वदतां वर ||९|| रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि | प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः ||१०|| राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ ||१०|| मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः | विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः ||११|| तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा | भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् ||१२|| मुक्ताजालपरिक्षिप्तं वैडूर्यमणिभूषितम् | शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् ||१३|| गान्धारी च महाभागा कुन्ती च जयतां वर | स्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः ||१४|| हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा ||१४|| ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम् | दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम् ||१५|| प्रवादितैश्च वादित्रैर्जनकौतूहलेन च | महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा ||१६|| ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान् | शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः ||१७|| रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह | नभो जलधरैर्हीनं साङ्गारक इवांशुमान् ||१८|| स यथासमयं चक्रे बलिं बलवतां वरः | ब्राह्मणांश्चात्र मन्त्रज्ञान्वाचयामास मङ्गलम् ||१९|| अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम् | विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः ||२०|| ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाः | बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः ||२१|| अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः | चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ||२२|| केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे | मनुजा धृष्टमपरे वीक्षां चक्रुः सविस्मयाः ||२३|| ते स्म लक्ष्याणि विविधुर्बाणैर्नामाङ्कशोभितैः | विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् ||२४|| तत्कुमारबलं तत्र गृहीतशरकार्मुकम् | गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् ||२५|| सहसा चुक्रुशुस्तत्र नराः शतसहस्रशः | विस्मयोत्फुल्लनयनाः साधु साध्विति भारत ||२६|| कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् | गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः ||२७|| गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः | त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु ||२८|| लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् | ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् ||२९|| अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ | अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ ||३०|| बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ | बृंहन्तौ वाशिताहेतोः समदाविव कुञ्जरौ ||३१|| तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ | चेरतुर्निर्मलगदौ समदाविव गोवृषौ ||३२|| विदुरो धृतराष्ट्राय गान्धार्यै पाण्डवारणिः | न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् ||३३||

    १२५ वैशम्पायन उवाच|| कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे | पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः ||१|| हा वीर कुरुराजेति हा भीमेति च नर्दताम् | पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ||२|| ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् | भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् ||३|| वारयैतौ महावीर्यौ कृतयोग्यावुभावपि | मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः ||४|| ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ | युगान्तानिलसङ्क्षुब्धौ महावेगाविवार्णवौ ||५|| ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् | निवार्य वादित्रगणं महामेघनिभस्वनम् ||६|| यो मे पुत्रात्प्रियतरः सर्वास्त्रविदुषां वरः | ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति ||७|| आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा | बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः ||८|| काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः | सार्कः सेन्द्रायुधतडित्ससन्ध्य इव तोयदः ||९|| ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान् | प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः ||१०|| एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः | एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता ||११|| एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः | एष शीलवतां चापि शीलज्ञाननिधिः परः ||१२|| इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः | कुन्त्याः प्रस्नवसंमिश्रैरस्रैः क्लिन्नमुरोऽभवत् ||१३|| तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् | धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः ||१४|| क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः | सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् ||१५|| विदुर उवाच|| एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः | अवतीर्णः सकवचस्तत्रैष सुमहास्वनः ||१६|| धृतराष्ट्र उवाच|| धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते | पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः ||१७|| वैशम्पायन उवाच|| तस्मिन्समुदिते रङ्गे कथञ्चित्पर्यवस्थिते | दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम् ||१८|| आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः | वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान् ||१९|| भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन् | अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ||२०|| क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः | क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम् ||२१|| सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः | सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः ||२२|| भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् | पञ्च बाणानसंसक्तान्स मुमोचैकबाणवत् ||२३|| गव्ये विषाणकोशे च चले रज्ज्ववलम्बिते | निचखान महावीर्यः सायकानेकविंशतिम् ||२४|| इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् | गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् ||२५|| ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत | मन्दीभूते समाजे च वादित्रस्य च निस्वने ||२६|| द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः | वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः ||२७|| दीर्यन्ते किं नु गिरयः किं स्विद्भूमिर्विदीर्यते | किं स्विदापूर्यते व्योम जलभारघनैर्घनैः ||२८|| रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप | द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा ||२९|| पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ | पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः ||३०|| अश्वत्थाम्ना च सहितं भ्रातृणां शतमूर्जितम् | दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् ||३१|| स तैस्तदा भ्रातृभिरुद्यतायुधै; र्वृतो गदापाणिरवस्थितैः स्थितः | बभौ यथा दानवसङ्क्षये पुरा; पुरंदरो देवगणैः समावृतः ||३२||

    १२६ वैशम्पायन उवाच|| दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः | विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः ||१|| सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः | सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः ||२|| कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः | तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः ||३|| सिंहर्षभगजेन्द्राणां तुल्यवीर्यपराक्रमः | दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः ||४|| प्रांशुः कनकतालाभः सिंहसंहननो युवा | असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसम्भवः ||५|| स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम् | प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत् ||६|| स सामाजजनः सर्वो निश्चलः स्थिरलोचनः | कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत् ||७|| सोऽब्रवीन्मेघधीरेण स्वरेण वदतां वरः | भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ||८|| पार्थ यत्ते कृतं कर्म विशेषवदहं ततः | करिष्ये पश्यतां नृणां मात्मना विस्मयं गमः ||९|| असमाप्ते ततस्तस्य वचने वदतां वर | यन्त्रोत्क्षिप्त इव क्षिप्रमुत्तस्थौ सर्वतो जनः ||१०|| प्रीतिश्च पुरुषव्याघ्र दुर्योधनमथास्पृशत् | ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वविशच्च ह ||११|| ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा | यत्कृतं तत्र पार्थेन तच्चकार महाबलः ||१२|| अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत | कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् ||१३|| स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद | अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम् ||१४|| कर्ण उवाच|| कृतं सर्वेण मेऽन्येन सखित्वं च त्वया वृणे | द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छामि भारत ||१५|| दुर्योधन उवाच|| भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव | दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिंदम ||१६|| वैशम्पायन उवाच|| ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत | कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् ||१७|| अनाहूतोपसृप्तानामनाहूतोपजल्पिनाम् | ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे ||१८|| कर्ण उवाच|| रङ्गोऽयं सर्वसामान्यः किमत्र तव फल्गुन | वीर्यश्रेष्ठाश्च राजन्या बलं धर्मोऽनुवर्तते ||१९|| किं क्षेपैर्दुर्बलाश्वासैः शरैः कथय भारत | गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः ||२०|| वैशम्पायन उवाच|| ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरञ्जयः | भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् ||२१|| ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः | परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः ||२२|| ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोजवैः | आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः ||२३|| ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् | भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान् ||२४|| मेघच्छायोपगूढस्तु ततोऽदृश्यत पाण्डवः | सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत ||२५|| धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः | भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् ||२६|| द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत | कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह ||२७|| तां तथा मोहसम्पन्नां विदुरः सर्वधर्मवित् | कुन्तीमाश्वासयामास प्रोक्ष्याद्भिश्चन्दनोक्षितैः ||२८|| ततः प्रत्यागतप्राणा तावुभावपि दंशितौ | पुत्रौ दृष्ट्वा सुसन्तप्ता नान्वपद्यत किञ्चन ||२९|| तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत् | द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित् ||३०|| अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः | कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति ||३१|| त्वमप्येवं महाबाहो मातरं पितरं कुलम् | कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः ||३२|| ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा ||३२|| एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् | बभौ वर्षाम्बुभिः क्लिन्नं पद्ममागलितं यथा ||३३|| दुर्योधन उवाच|| आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये | तत्कुलीनश्च शूरश्च सेनां यश्च प्रकर्षति ||३४|| यद्ययं फल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति | तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते ||३५|| वैशम्पायन उवाच|| ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः | काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः ||३६|| अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबलः ||३६|| सच्छत्रवालव्यजनो जयशब्दान्तरेण च | उवाच कौरवं राजा राजानं तं वृषस्तदा ||३७|| अस्य राज्यप्रदानस्य सदृशं किं ददानि ते | प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप ||३८|| अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः ||३८|| एवमुक्तस्ततः कर्णस्तथेति प्रत्यभाषत | हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः ||३९||

    १२७ वैशम्पायन उवाच|| ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः | विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव ||१|| तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः | कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत ||२|| ततः पादाववच्छाद्य पटान्तेन ससम्भ्रमः | पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः ||३|| परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः | अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः ||४|| तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः | भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव ||५|| न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् | कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया ||६|| अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम | श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे ||७|| एवमुक्तस्ततः कर्णः किञ्चित्प्रस्फुरिताधरः | गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत ||८|| ततो दुर्योधनः कोपादुत्पपात महाबलः | भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः ||९|| सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् | वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् ||१०|| क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना | शूराणां च नदीनां च प्रभवा दुर्विदाः किल ||११|| सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् | दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् ||१२|| आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि | श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः ||१३|| क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः | आचार्यः कलशाज्जातः शरस्तम्बाद्गुरुः कृपः ||१४|| भवतां च यथा जन्म तदप्यागमितं नृपैः ||१४|| सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् | कथमादित्यसङ्काशं मृगी व्याघ्रं जनिष्यति ||१५|| पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः | अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना ||१६|| यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् | रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम् ||१७|| ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत् | साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत् ||१८|| ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप | दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ ||१९|| पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते | भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् ||२०|| अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत | कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा ||२१|| कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् | पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत ||२२|| दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव | भयमर्जुनसाञ्जातं क्षिप्रमन्तरधीयत ||२३|| स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत्सुयोधनम् | युधिष्ठिरस्याप्यभवत्तदा मति; र्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ ||२४||

    १२८ वैशम्पायन उवाच|| ततः शिष्यान्समानीय आचार्यार्थमचोदयत् | द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते ||१|| पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि | पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा ||२|| तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः | आचार्यधनदानार्थं द्रोणेन सहिता ययुः ||३|| ततोऽभिजग्मुः पाञ्चालान्निघ्नन्तस्ते नरर्षभाः | ममृदुस्तस्य नगरं द्रुपदस्य महौजसः ||४|| ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि | उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभाः ||५|| भग्नदर्पं हृतधनं तथा च वशमागतम् | स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् ||६|| प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया | प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते ||७|| एवमुक्त्वा प्रहस्यैनं निश्चित्य पुनरब्रवीत् | मा भैः प्राणभयाद्राजन्क्षमिणो ब्राह्मणा वयम् ||८|| आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह | तेन संवर्धितः स्नेहस्त्वया मे क्षत्रियर्षभ ||९|| प्रार्थयेयं त्वया सख्यं पुनरेव नरर्षभ | वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि ||१०|| अराजा किल नो राज्ञां सखा भवितुमर्हति | अतः प्रयतितं राज्ये यज्ञसेन मया तव ||११|| राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे | सखायं मां विजानीहि पाञ्चाल यदि मन्यसे ||१२|| द्रुपद उवाच|| अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु | प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् ||१३|| वैशम्पायन उवाच|| एवमुक्तस्तु तं द्रोणो मोक्षयामास भारत | सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् ||१४|| माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् | सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् ||१५|| दक्षिणांश्चैव पाञ्चालान्यावच्चर्मण्वती नदी ||१५|| द्रोणेन वैरं द्रुपदः संस्मरन्न शशाम ह | क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् ||१६|| हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च | पुत्रजन्म परीप्सन्वै स राजा तदधारयत् ||१७|| अहिच्छत्रं च विषयं द्रोणः समभिपद्यत ||१७|| एवं राजन्नहिच्छत्रा पुरी जनपदायुता | युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता ||१८||

    १२९ वैशम्पायन उवाच|| प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् | दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः ||१|| ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः | अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ||२|| पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः | उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ||३|| गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा | कथयन्ति स्म सम्भूय चत्वरेषु सभासु च ||४|| प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः | राज्यमप्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् ||५|| तथा भीष्मः शान्तनवः सत्यसन्धो महाव्रतः | प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति ||६|| ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् | अभिषिञ्चाम साध्वद्य सत्यं करुणवेदिनम् ||७|| स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित् | सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् ||८|| तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् | युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः ||९|| स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे | ईर्ष्यया चाभिसन्तप्तो धृतराष्ट्रमुपागमत् ||१०|| ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः | पौरानुरागसन्तप्तः पश्चादिदमभाषत ||११|| श्रुता मे जल्पतां तात पौराणामशिवा गिरः | त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् ||१२|| मतमेतच्च भीष्मस्य न स राज्यं बुभूषति | अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः ||१३|| पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा | त्वमप्यगुणसंयोगात्प्राप्तं राज्यं न लब्धवान् ||१४|| स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः | तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः ||१५|| ते वयं राजवंशेन हीनाः सह सुतैरपि | अवज्ञाता भविष्यामो लोकस्य जगतीपते ||१६|| सततं निरयं प्राप्ताः परपिण्डोपजीविनः | न भवेम यथा राजंस्तथा शीघ्रं विधीयताम् ||१७|| अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप | ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने ||१८||

    १३० वैशम्पायन उवाच|| धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम् | मुहूर्तमिव सञ्चिन्त्य दुर्योधनमथाब्रवीत् ||१|| धर्मनित्यः सदा पाण्डुर्ममासीत्प्रियकृद्धितः | सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः ||२|| नास्य किञ्चिन्न जानामि भोजनादि चिकीर्षितम् | निवेदयति नित्यं हि मम राज्यं धृतव्रतः ||३|| तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः | गुणवाँल्लोकविख्यातः पौराणां च सुसंमतः ||४|| स कथं शक्यमस्माभिरपक्रष्टुं बलादितः | पितृपैतामहाद्राज्यात्ससहायो विशेषतः ||५|| भृता हि पाण्डुनामात्या बलं च सततं भृतम् | भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः ||६|| ते पुरा सत्कृतास्तात पाण्डुना पौरवा जनाः | कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् ||७|| दुर्योधन उवाच|| एवमेतन्मया तात भावितं दोषमात्मनि | दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन योजिताः ||८|| ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः | अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते ||९|| स भवान्पाण्डवानाशु विवासयितुमर्हति | मृदुनैवाभ्युपायेन नगरं वारणावतम् ||१०|| यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति | तदा कुन्ती सहापत्या पुनरेष्यति भारत ||११|| धृतराष्ट्र उवाच|| दुर्योधन ममाप्येतद्धृदि सम्परिवर्तते | अभिप्रायस्य पापत्वान्नैतत्तु विवृणोम्यहम् ||१२|| न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः | विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित् ||१३|| समा हि कौरवेयाणां वयमेते च पुत्रक | नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः ||१४|| ते वयं कौरवेयाणामेतेषां च महात्मनाम् | कथं न वध्यतां तात गच्छेम जगतस्तथा ||१५|| दुर्योधन उवाच|| मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः | यतः पुत्रस्ततो द्रोणो भविता नात्र सांशयः ||१६|| कृपः शारद्वतश्चैव यत एते त्रयस्ततः | द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित् ||१७|| क्षत्तार्थबद्धस्त्वस्माकं प्रच्छन्नं तु यतः परे | न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम् ||१८|| स विश्रब्धः पाण्डुपुत्रान्सह मात्रा विवासय | वारणावतमद्यैव नात्र दोषो भविष्यति ||१९|| विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम् | शोकपावकमुद्भूतं कर्मणैतेन नाशय ||२०||

    १३१ वैशम्पायन उवाच|| ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः | अर्थमानप्रदानाभ्यां सञ्जहार सहानुजः ||१|| धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः | कथयां चक्रिरे रम्यं नगरं वारणावतम् ||२|| अयं समाजः सुमहान्रमणीयतमो भुवि | उपस्थितः पशुपतेर्नगरे वारणावते ||३|| सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे | इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः ||४|| कथ्यमाने तथा रम्ये नगरे वारणावते | गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप ||५|| यदा त्वमन्यत नृपो जातकौतूहला इति | उवाचैनानथ तदा पाण्डवानम्बिकासुतः ||६|| ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः | रमणीयतरं लोके नगरं वारणावतम् ||७|| ते तात यदि मन्यध्वमुत्सवं वारणावते | सगणाः सानुयात्राश्च विहरध्वं यथामराः ||८|| ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः | प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः ||९|| कञ्चित्कालं विहृत्यैवमनुभूय परां मुदम् | इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ ||१०|| धृतराष्ट्रस्य तं काममनुबुद्ध्वा युधिष्ठिरः | आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् ||११|| ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् | द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् ||१२|| कृपमाचार्यपुत्रं च गान्धारीं च यशस्विनीम् | युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा ||१३|| रमणीये जनाकीर्णे नगरे वारणावते | सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात् ||१४|| प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत | आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यति ||१५|| एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः | प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान् ||१६|| स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः | मा च वोऽस्त्वशुभं किञ्चित्सर्वतः पाण्डुनन्दनाः ||१७|| ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः | कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् ||१८||

    १३२ वैशम्पायन उवाच|| एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु | दुर्योधनः परं हर्षमाजगाम दुरात्मवान् ||१|| स पुरोचनमेकान्तमानीय भरतर्षभ | गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् ||२|| ममेयं वसुसम्पूर्णा पुरोचन वसुन्धरा | यथेयं मम तद्वत्ते स तां रक्षितुमर्हसि ||३|| न हि मे कश्चिदन्योऽस्ति वैश्वासिकतरस्त्वया | सहायो येन सन्धाय मन्त्रयेयं यथा त्वया ||४|| संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर | निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु ||५|| पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् | उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ||६|| स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना | वारणावतमद्यैव यथा यासि तथा कुरु ||७|| तत्र गत्वा चतुःशालं गृहं परमसंवृतम् | आयुधागारमाश्रित्य कारयेथा महाधनम् ||८|| शणसर्जरसादीनि यानि द्रव्याणि कानिचित् | आग्नेयान्युत सन्तीह तानि सर्वाणि दापय ||९|| सर्पिषा च सतैलेन लाक्षया चाप्यनल्पया | मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः ||१०|| शणान्वंशं घृतं दारु यन्त्राणि विविधानि च | तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ||११|| यथा च त्वां न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः | आग्नेयमिति तत्कार्यमिति चान्ये च मानवाः ||१२|| वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् | वासयेः पाण्डवेयांश्च कुन्तीं च ससुहृज्जनाम् ||१३|| तत्रासनानि मुख्यानि यानानि शयनानि च | विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता ||१४|| यथा रमेरन्विश्रब्धा नगरे वारणावते | तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः ||१५|| ज्ञात्वा तु तान्सुविश्वस्ताञ्शयानानकुतोभयान् | अग्निस्ततस्त्वया देयो द्वारतस्तस्य वेश्मनः ||१६|| दग्धानेवं स्वके गेहे दग्धा इति ततो जनाः | ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हिचित् ||१७|| तत्तथेति प्रतिज्ञाय कौरवाय पुरोचनः | प्रायाद्रासभयुक्तेन नगरं वारणावतम् ||१८|| स गत्वा त्वरितो राजन्दुर्योधनमते स्थितः | यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः ||१९||

    १३३ वैशम्पायन उवाच|| पाण्डवास्तु रथान्युक्त्वा सदश्वैरनिलोपमैः | आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत् ||१|| राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः | अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च ||२|| एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः | समालिङ्ग्य समानांश्च बालैश्चाप्यभिवादिताः ||३|| सर्वा मातृस्तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम् | सर्वाः प्रकृतयश्चैव प्रययुर्वारणावतम् ||४|| विदुरश्च महाप्राज्ञस्तथान्ये कुरुपुङ्गवाः | पौराश्च पुरुषव्याघ्रानन्वयुः शोककर्शिताः ||५|| तत्र केच्चिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा | शोचमानाः पाण्डुपुत्रानतीव भरतर्षभ ||६|| विषमं पश्यते राजा सर्वथा तमसावृतः | धृतराष्ट्रः सुदुर्बुद्धिर्न च धर्मं प्रपश्यति ||७|| न हि पापमपापात्मा रोचयिष्यति पाण्डवः | भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनञ्जयः ||८|| कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः ||८|| तद्राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते | अधर्ममखिलं किं नु भीष्मोऽयमनुमन्यते ||९|| विवास्यमानानस्थाने कौन्तेयान्भरतर्षभान् ||९|| पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा | विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः ||१०|| स तस्मिन्पुरुषव्याघ्रे दिष्टभावं गते सति | राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यते ||११|| वयमेतदमृष्यन्तः सर्व एव पुरोत्तमात् | गृहान्विहाय गच्छामो यत्र याति युधिष्ठिरः ||१२|| तांस्तथावादिनः पौरान्दुःखितान्दुःखकर्शितः | उवाच परमप्रीतो धर्मराजो युधिष्ठिरः ||१३|| पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः | अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम् ||१४|| भवन्तः सुहृदोऽस्माकमस्मान्कृत्वा प्रदक्षिणम् | आशीर्भिरभिनन्द्यास्मान्निवर्तध्वं यथागृहम् ||१५|| यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते | तदा करिष्यथ मम प्रियाणि च हितानि च ||१६|| ते तथेति प्रतिज्ञाय कृत्वा चैतान्प्रदक्षिणम् | आशीर्भिरभिनन्द्यैनाञ्जग्मुर्नगरमेव हि ||१७|| पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित् | बोधयन्पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ||१८|| प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग्धर्मार्थदर्शिवान् ||१८|| विज्ञायेदं तथा कुर्यादापदं निस्तरेद्यथा | अलोहं निशितं शस्त्रं शरीरपरिकर्तनम् ||१९|| यो वेत्ति न तमाघ्नन्ति प्रतिघातविदं द्विषः ||१९|| कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः | न दहेदिति चात्मानं यो रक्षति स जीवति ||२०|| नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः | नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः ||२१|| अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम् | श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात् ||२२|| चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः | आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते ||२३|| अनुशिष्ट्वानुगत्वा च कृत्वा चैनान्प्रदक्षिणम् | पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान् ||२४|| निवृत्ते विदुरे चैव भीष्मे पौरजने तथा | अजातशत्रुमामन्त्र्य कुन्ती वचनमब्रवीत् ||२५|| क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव | त्वया च तत्तथेत्युक्तो जानीमो न च तद्वयम् ||२६|| यदि तच्छक्यमस्माभिः श्रोतुं न च सदोषवत् | श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च ||२७|| युधिष्ठिर उवाच|| विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत् | पन्थाश्च वो नाविदितः कश्चित्स्यादिति चाब्रवीत् ||२८|| जितेन्द्रियश्च वसुधां प्राप्स्यसीति च माब्रवीत् | विज्ञातमिति तत्सर्वमित्युक्तो विदुरो मया ||२९|| वैशम्पायन उवाच|| अष्टमेऽहनि रोहिण्यां प्रयाताः फल्गुनस्य ते | वारणावतमासाद्य ददृशुर्नागरं जनम् ||३०||

    १३४ वैशम्पायन उवाच|| ततः सर्वाः प्रकृतयो नगराद्वारणावतात् | सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः ||१|| श्रुत्वागतान्पाण्डुपुत्रान्नानायानैः सहस्रशः | अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा ||२|| ते समासाद्य कौन्तेयान्वारणावतका जनाः | कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे ||३|| तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः | विबभौ देवसङ्काशो वज्रपाणिरिवामरैः ||४|| सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः | अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम् ||५|| ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान् | ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ||६|| नगराधिकृतानां च गृहाणि रथिनां तथा | उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहानपि ||७|| अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः | जग्मुरावसथं पश्चात्पुरोचनपुरस्कृताः ||८|| तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च | आसनानि च मुख्यानि प्रददौ स पुरोचनः ||९|| तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः | उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः ||१०|| दशरात्रोषितानां तु तत्र तेषां पुरोचनः | निवेदयामास गृहं शिवाख्यमशिवं तदा ||११|| तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः | पुरोचनस्य वचनात्कैलासमिव गुह्यकाः ||१२|| तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः | उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः ||१३|| जिघ्रन्सोम्य वसागन्धं सर्पिर्जतुविमिश्रितम् ||१३|| कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप | शणसर्जरसं व्यक्तमानीतं गृहकर्मणि ||१४|| मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम् ||१४|| शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि | विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः ||१५|| इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा | आपदं तेन मां पार्थ स सम्बोधितवान्पुरा ||१६|| ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम् | आचार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः ||१७|| भीम उवाच|| यदिदं गृहमाग्नेयं विहितं मन्यते भवान् | तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् ||१८|| युधिष्ठिर उवाच|| इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये | नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः ||१९|| यदि विन्देत चाकारमस्माकं हि पुरोचनः | शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः ||२०|| नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः | तथा हि वर्तते मन्दः सुयोधनमते स्थितः ||२१|| अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः | कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः ||२२|| धर्म इत्येव कुप्येत तथान्ये कुरुपुङ्गवाः ||२२|| वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि | स्पशैर्नो घातयेत्सार्वान्राज्यलुब्धः सुयोधनः ||२३|| अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः | हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् ||२४|| तदस्माभिरिमं पापं तं च पापं सुयोधनम् | वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्वचित्क्वचित् ||२५|| ते वयं मृगयाशीलाश्चराम वसुधामिमाम् | तथा नो विदिता मार्गा भविष्यन्ति पलायताम् ||२६|| भौमं च बिलमद्यैव करवाम सुसंवृतम् | गूढोच्छ्वसान्न नस्तत्र हुताशः सम्प्रधक्ष्यति ||२७|| वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः | पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः ||२८||

    १३५ वैशम्पायन उवाच|| विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित् | विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत् ||१|| प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् | पाण्डवानां प्रियं कार्यमिति किं करवाणि वः ||२|| प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिह पाण्डवान् | प्रतिपादय विश्वासादिति किं करवाणि वः ||३|| कृष्णपक्षे चतुर्दश्यां रात्रावस्य पुरोचनः | भवनस्य तव द्वारि प्रदास्यति हुताशनम् ||४|| मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः | इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम् ||५|| किञ्चिच्च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव | त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम् ||६|| उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः | अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै ||७|| शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम् | न विद्यते कवेः किञ्चिदभिज्ञानप्रयोजनम् ||८|| यथा नः स तथा नस्त्वं निर्विशेषा वयं त्वयि | भवतः स्म यथा तस्य पालयास्मान्यथा कविः ||९|| इदं शरणमाग्नेयं मदर्थमिति मे मतिः | पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् ||१०|| स पापः कोशवांश्चैव ससहायश्च दुर्मतिः | अस्मानपि च दुष्टात्मा नित्यकालं प्रबाधते ||११|| स भवान्मोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात् | अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः ||१२|| समृद्धमायुधागारमिदं तस्य दुरात्मनः | वप्रान्ते निष्प्रतीकारमाश्लिष्येदं कृतं महत् ||१३|| इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् | प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् ||१४|| सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा | पुरोचनस्याविदितानस्मांस्त्वं विप्रमोचय ||१५|| स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः | परिखामुत्किरन्नाम चकार सुमहद्बिलम् ||१६|| चक्रे च वेश्मनस्तस्य मध्ये नातिमहन्मुखम् | कपाटयुक्तमज्ञातं समं भूम्या च भारत ||१७|| पुरोचनभयाच्चैव व्यदधात्संवृतं मुखम् | स तत्र च गृहद्वारि वसत्यशुभधीः सदा ||१८|| तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप | दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् ||१९|| विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् | अतुष्टास्तुष्टवद्राजन्नूषुः परमदुःखिताः ||२०|| न चैनानन्वबुध्यन्त नरा नगरवासिनः | अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात् ||२१||

    १३६ वैशम्पायन उवाच|| तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् | विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः ||१|| पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः | भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित् ||२|| अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः | वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने ||३|| आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् | षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः ||४|| अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् | चक्रे निशि महद्राजन्नाजग्मुस्तत्र योषितः ||५|| ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत | जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम् ||६|| निषादी पञ्चपुत्रा तु तस्मिन्भोज्ये यदृच्छया | अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता ||७|| सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला | सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने ||८|| सुष्वाप विगतज्ञाना मृतकल्पा नराधिप ||८|| अथ प्रवाते तुमुले निशि सुप्ते जने विभो | तदुपादीपयद्भीमः शेते यत्र पुरोचनः ||९|| ततः प्रतापः सुमहाञ्शब्दश्चैव विभावसोः | प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः ||१०|| पौरा ऊचुः|| दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना | गृहमात्मविनाशाय कारितं दाहितं च यत् ||११|| अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी | यः शुचीन्पाण्डवान्बालान्दाहयामास मन्त्रिणा ||१२|| दिष्ट्या त्विदानीं पापात्मा दग्धोऽयमतिदुर्मतिः | अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् ||१३|| वैशम्पायन उवाच|| एवं ते विलपन्ति स्म वारणावतका जनाः | परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः ||१४|| पाण्डवाश्चापि ते राजन्मात्रा सह सुदुःखिताः | बिलेन तेन निर्गत्य जग्मुर्गूढमलक्षिताः ||१५|| तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः | न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः ||१६|| भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः | जगाम भ्रातृनादाय सर्वान्मातरमेव च ||१७|| स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् | पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ ||१८|| तरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् | स जगामाशु तेजस्वी वातरंहा वृकोदरः ||१९||

    १३७ वैशम्पायन उवाच|| अथ रात्र्यां व्यतीतायामशेषो नागरो जनः | तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ||१|| निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः | जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् ||२|| नूनं दुर्योधनेनेदं विहितं पापकर्मणा | पाण्डवानां विनाशाय इत्येवं चुक्रुषुर्जनाः ||३|| विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः | दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान् ||४|| नूनं शान्तनवो भीष्मो न धर्ममनुवर्तते | द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ||५|| ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः | संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि ||६|| ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् | निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् ||७|| खनकेन तु तेनैव वेश्म शोधयता बिलम् | पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम् ||८|| ततस्ते प्रेषयामासुर्धृतराष्ट्रस्य नागराः | पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् ||९|| श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् | विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ||१०|| अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः | तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ||११|| गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् | सत्कारयन्तु तान्वीरान्कुन्तिराजसुतां च ताम् ||१२|| कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च | ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि ||१३|| एवङ्गते मया शक्यं यद्यत्कारयितुं हितम् | पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः ||१४|| एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः | उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः ||१५|| चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः | विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः ||१६|| पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात् | जवेन प्रययू राजन्दक्षिणां दिशमाश्रिताः ||१७|| विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः | यतमाना वनं राजन्गहनं प्रतिपेदिरे ||१८|| ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः | पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ||१९|| इतः कष्टतरं किं नु यद्वयं गहने वने | दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः ||२०|| तं च पापं न जानीमो यदि दग्धः पुरोचनः | कथं नु विप्रमुच्येम भयादस्मादलक्षिताः ||२१|| पुनरस्मानुपादाय तथैव व्रज भारत | त्वं हि नो बलवानेको यथा सततगस्तथा ||२२|| इत्युक्तो धर्मराजेन भीमसेनो महाबलः | आदाय कुन्तीं भ्रातृंश्च जगामाशु महाबलः ||२३||

    १३८ वैशम्पायन उवाच|| तेन विक्रमता तूर्णमूरुवेगसमीरितम् | प्रववावनिलो राजञ्शुचिशुक्रागमे यथा ||१|| स मृद्नन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् | आरुजन्दारुगुल्मांश्च पथस्तस्य समीपजान् ||२|| तथा वृक्षान्भञ्जमानो जगामामितविक्रमः | तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत ||३|| असकृच्चापि सन्तीर्य दूरपारं भुजप्लवैः | पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा ||४|| कृच्छ्रेण मातरं त्वेकां सुकुमारीं यशस्विनीम् | अवहत्तत्र पृष्ठेन रोधःसु विषमेषु च ||५|| आगमंस्ते वनोद्देशमल्पमूलफलोदकम् | क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभाः ||६|| घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः | अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः ||७|| ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः | नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया ||८|| ततो भीमो वनं घोरं प्रविश्य विजनं महत् | न्यग्रोधं विपुलच्छायं रमणीयमुपाद्रवत् ||९|| तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः | पानीयं मृगयामीह विश्रमध्वमिति प्रभो ||१०|| एते रुवन्ति मधुरं सारसा जलचारिणः | ध्रुवमत्र जलस्थायो महानिति मतिर्मम ||११|| अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत | जगाम तत्र यत्र स्म रुवन्ति जलचारिणः ||१२|| स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ | उत्तरीयेण पानीयमाजहार तदा नृप ||१३|| गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति | स सुप्तां मातरं दृष्ट्वा भ्रातृंश्च वसुधातले ||१४|| भृशं दुःखपरीतात्मा विललाप वृकोदरः ||१४|| शयनेषु परार्ध्येषु ये पुरा वारणावते | नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले ||१५|| स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः | कुन्तिभोजसुतां कुन्तीं सर्वलक्षणपूजिताम् ||१६|| स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः | प्रासादशयनां नित्यं पुण्डरीकान्तरप्रभाम् ||१७|| सुकुमारतरां स्त्रीणां महार्हशयनोचिताम् | शयानां पश्यताद्येह पृथिव्यामतथोचिताम् ||१८|| धर्मादिन्द्राच्च वायोश्च सुषुवे या सुतानिमान् | सेयं भूमौ परिश्रान्ता शेते ह्यद्यातथोचिता ||१९|| किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् | योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले ||२०|| त्रिषु लोकेषु यद्राज्यं धर्मविद्योऽर्हते नृपः | सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् ||२१|| अयं नीलाम्बुदश्यामो नरेष्वप्रतिमो भुवि | शेते प्राकृतवद्भूमावतो दुःखतरं नु किम् ||२२|| अश्विनाविव देवानां याविमौ रूपसम्पदा | तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले ||२३|| ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः | स जीवेत्सुसुखं लोके ग्रामे द्रुम इवैकजः ||२४|| एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः | चैत्यो भवति निर्ज्ञातिरर्चनीयः सुपूजितः ||२५|| येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः | ते जीवन्ति सुखं लोके भवन्ति च निरामयाः ||२६|| बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः | जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव ||२७|| वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना | विवासिता न दग्धाश्च कथञ्चित्तस्य शासनात् ||२८|| तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः | कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् ||२९|| नातिदूरे च नगरं वनादस्माद्धि लक्षये | जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम् ||३०|| पास्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः | इति भीमो व्यवस्यैव जजागार स्वयं तदा ||३१||

    हिडिम्बवधपर्व १३९ वैशम्पायन उवाच|| तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः | अविदूरे वनात्तस्माच्छालवृक्षमुपाश्रितः ||१|| क्रूरो मानुषमांसादो महावीर्यो महाबलः | विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः ||२|| पिशितेप्सुः क्षुधार्तस्तानपश्यत यदृच्छया ||२|| ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् | जृम्भमाणो महावक्त्रः पुनः पुनरवेक्ष्य च ||३|| दुष्टो मानुषमांसादो महाकायो महाबलः | आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् ||४|| उपपन्नश्चिरस्याद्य भक्षो मम मनःप्रियः | स्नेहस्रवान्प्रस्रवति जिह्वा पर्येति मे मुखम् ||५|| अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः | देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च ||६|| आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि | उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु ||७|| गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः | मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे ||८|| हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् | अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते ||९|| एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः | भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम ||१०|| भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी | जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ ||११|| ददर्श तत्र गत्वा सा पाण्डवान्पृथया सह | शयानान्भीमसेनं च जाग्रतं त्वपराजितम् ||१२|| दृष्ट्वैव भीमसेनं सा शालस्कन्धमिवोद्गतम् | राक्षसी कामयामास रूपेणाप्रतिमं भुवि ||१३|| अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः | कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम ||१४|| नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम् | पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् ||१५|| मुहूर्तमिव तृप्तिश्च भवेद्भ्रातुर्ममैव च | हतैरेतैरहत्वा तु मोदिष्ये शाश्वतिः समाः ||१६|| सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम् | उपतस्थे महाबाहुं भीमसेनं शनैः शनैः ||१७|| विलज्जमानेव लता दिव्याभरणभूषिता | स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् ||१८|| कुतस्त्वमसि सम्प्राप्तः कश्चासि पुरुषर्षभ | क इमे शेरते चेह पुरुषा देवरूपिणः ||१९|| केयं च बृहती श्यामा सुकुमारी तवानघ | शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा ||२०|| नेदं जानाति गहनं वनं राक्षससेवितम् | वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः ||२१|| तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा | बिभक्षयिषता मांसं युष्माकममरोपम ||२२|| साहं त्वामभिसम्प्रेक्ष्य देवगर्भसमप्रभम् | नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते ||२३|| एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर | कामोपहतचित्ताङ्गीं भजमानां भजस्व माम् ||२४|| त्रास्येऽहं त्वां महाबाहो राक्षसात्पुरुषादकात् | वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ ||२५|| अन्तरिक्षचरा ह्यस्मि कामतो विचरामि च | अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह ||२६|| भीम उवाच|| मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानिमान् | परित्यजेत को न्वद्य प्रभवन्निव राक्षसि ||२७|| को हि सुप्तानिमान्भ्रातृन्दत्त्वा राक्षसभोजनम् | मातरं च नरो गच्छेत्कामार्त इव मद्विधः ||२८|| राक्षस्युवाच|| यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय | मोक्षयिष्यामि वः कामं राक्षसात्पुरुषादकात् ||२९|| भीम उवाच|| सुखसुप्तान्वने भ्रातृन्मातरं चैव राक्षसि | न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः ||३०|| न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् | न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने ||३१|| गच्छ वा तिष्ठ वा भद्रे यद्वापीच्छसि तत्कुरु | तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् ||३२||

    १४० वैशम्पायन उवाच|| तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः | अवतीर्य द्रुमात्तस्मादाजगामाथ पाण्डवान् ||१|| लोहिताक्षो महाबाहुरूर्ध्वकेशो महाबलः | मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रोज्ज्वलाननः ||२|| तमापतन्तं दृष्ट्वैव तथा विकृतदर्शनम् | हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः ||३|| आपतत्येष दुष्टात्मा सङ्क्रुद्धः पुरुषादकः | त्वामहं भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु ||४|| अहं कामगमा वीर रक्षोबलसमन्विता | आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा ||५|| प्रबोधयैनान्संसुप्तान्मातरं च परन्तप | सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा ||६|| भीम उवाच|| मा भैस्त्वं विपुलश्रोणि नैष कश्चिन्मयि स्थिते | अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे ||७|| नायं प्रतिबलो भीरु राक्षसापसदो मम | सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः ||८|| पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ | ऊरू परिघसङ्काशौ संहतं चाप्युरो मम ||९|| विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने | मावमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् ||१०|| हिडिम्बोवाच|| नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् | दृष्टापदानस्तु मया मानुषेष्वेव राक्षसः ||११|| वैशम्पायन उवाच|| तथा सञ्जल्पतस्तस्य भीमसेनस्य भारत | वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः ||१२|| अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः | स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम् ||१३|| सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् | सर्वाभरणसंयुक्तं सुसूक्ष्माम्बरवाससम् ||१४|| तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् | पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः ||१५|| सङ्क्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम | उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् ||१६|| को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः | न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता ||१७|| धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि | पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि ||१८|| यानिमानाश्रिताकार्षीरप्रियं सुमहन्मम | एष तानद्य वै सर्वान्हनिष्यामि त्वया सह ||१९|| एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः | वधायाभिपपातैनां दन्तैर्दन्तानुपस्पृशन् ||२०|| तमापतन्तं सम्प्रेक्ष्य भीमः प्रहरतां वरः | भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् ||२१||

    १४१ वैशम्पायन उवाच|| भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव | भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत् ||१|| किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः | मामासादय दुर्बुद्धे तरसा त्वं नराशन ||२|| मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि | विशेषतोऽनपकृते परेणापकृते सति ||३|| न हीयं स्ववशा बाला कामयत्यद्य मामिह | चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा ||४|| भगिनी तव दुर्बुद्धे राक्षसानां यशोहर ||४|| त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च | कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम् ||५|| अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस | मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि ||६|| समागच्छ मया सार्धमेकेनैको नराशन | अहमेव नयिष्यामि त्वामद्य यमसादनम् ||७|| अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् | कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः ||८|| अद्य गात्राणि क्रव्यादाः श्येना गोमायवश्च ते | कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ||९|| क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम् | पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान् ||१०|| अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि | द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ||११|| निराबाधास्त्वयि हते मया राक्षसपांसन | वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ||१२|| हिडिम्ब उवाच|| गर्जितेन वृथा किं ते कत्थितेन च मानुष | कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः ||१३|| बलिनं मन्यसे यच्च आत्मानमपराक्रमम् | ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् ||१४|| न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् | एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् ||१५|| पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि | हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ||१६|| वैशम्पायन उवाच|| एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः | अभ्यधावत सङ्क्रुद्धो भीमसेनमरिंदमम् ||१७|| तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः | वेगेन प्रहृतं बाहुं निजग्राह हसन्निव ||१८|| निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह | तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ||१९|| ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः | भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ||२०|| पुनर्भीमो बलादेनं विचकर्ष महाबलः | मा शब्दः सुखसुप्तानां भ्रातृणां मे भवेदिति ||२१|| अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा | राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम् ||२२|| बभञ्जतुर्महावृक्षाँल्लताश्चाकर्षतुस्ततः | मत्ताविव सुसंरब्धौ वारणौ षष्टिहायनौ ||२३|| तयोः शब्देन महता विबुद्धास्ते नरर्षभाः | सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम् ||२४||

    १४२ वैशम्पायन उवाच|| प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् | विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह ||१|| ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसम्पदा | उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः ||२|| कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि | केन कार्येण सुश्रोणि कुतश्चागमनं तव ||३|| यदि वास्य वनस्यासि देवता यदि वाप्सराः | आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि ||४|| हिडिम्बोवाच|| यदेतत्पश्यसि वनं नीलमेघनिभं महत् | निवासो राक्षसस्यैतद्धिडिम्बस्य ममैव च ||५|| तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि | भ्रात्रा सम्प्रेषितामार्ये त्वां सपुत्रां जिघांसता ||६|| क्रूरबुद्धेरहं तस्य वचनादागता इह | अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम् ||७|| ततोऽहं सर्वभूतानां भावे विचरता शुभे | चोदिता तव पुत्रस्य मन्मथेन वशानुगा ||८|| ततो वृतो मया भर्ता तव पुत्रो महाबलः | अपनेतुं च यतितो न चैव शकितो मया ||९|| चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः | स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् ||१०|| स तेन मम कान्तेन तव पुत्रेण धीमता | बलादितो विनिष्पिष्य व्यपकृष्टो महात्मना ||११|| विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् | पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ ||१२|| वैशम्पायन उवाच|| तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः | अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् ||१३|| तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् | काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ ||१४|| तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम् | दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ||१५|| वसुधारेणुसंवीतौ वसुधाधरसंनिभौ | विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ ||१६|| राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु | उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव ||१७|| भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम् | समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः ||१८|| साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् | नकुलः सहदेवश्च मातरं गोपयिष्यतः ||१९|| भीम उवाच|| उदासीनो निरीक्षस्व न कार्यः सम्भ्रमस्त्वया | न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः ||२०|| अर्जुन उवाच|| किमनेन चिरं भीम जीवता पापरक्षसा | गन्तव्यं न चिरं स्थातुमिह शक्यमरिंदम ||२१|| पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते | रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च ||२२|| त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् | पुरा विकुरुते मायां भुजयोः सारमर्पय ||२३|| वैशम्पायन उवाच|| अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः | उत्क्षिप्याभ्रामयद्देहं तूर्णं गुणशताधिकम् ||२४|| भीम उवाच|| वृथामांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः | वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ||२५|| अर्जुन उवाच|| अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि | करोमि तव साहाय्यं शीघ्रमेव निहन्यताम् ||२६|| अथ वाप्यहमेवैनं हनिष्यामि वृकोदर | कृतकर्मा परिश्रान्तः साधु तावदुपारम ||२७|| वैशम्पायन उवाच|| तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः | निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत् ||२८|| स मार्यमाणो भीमेन ननाद विपुलं स्वनम् | पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः ||२९|| भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः | मध्ये भङ्क्त्वा स बलवान्हर्षयामास पाण्डवान् ||३०|| हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः | अपूजयन्नरव्याघ्रं भीमसेनमरिंदमम् ||३१|| अभिपूज्य महात्मानं भीमं भीमपराक्रमम् | पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् ||३२|| नदूरे नगरं मन्ये वनादस्मादहं प्रभो | शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः ||३३|| ततः सर्वे तथेत्युक्त्वा सह मात्रा परन्तपाः | प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी ||३४||

    बकवधपर्व १४३ भीम उवाच|| स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् | हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् ||१|| युधिष्ठिर उवाच|| क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः | शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव ||२|| वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् | रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ||३|| वैशम्पायन उवाच|| हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः | युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत् ||४|| आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् | तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे ||५|| सोढं तत्परमं दुःखं मया कालप्रतीक्षया | सोऽयमभ्यागतः कालो भविता मे सुखाय वै ||६|| मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा | वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ||७|| वरेणापि तथानेन त्वया चापि यशस्विनि | तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति ||८|| त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा | भर्त्रानेन महाभागे संयोजय सुतेन ते ||९|| तमुपादाय गच्छेयं यथेष्टं देवरूपिणम् | पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे ||१०|| अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा | वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान् ||११|| पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः | यूयं प्रसादं कुरुत भीमसेनो भजेत माम् ||१२|| आपदस्तरणे प्राणान्धारयेद्येन येन हि | सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता ||१३|| आपत्सु यो धारयति ध्रमं धर्मविदुत्तमः | व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते ||१४|| पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते | येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते ||१५|| युधिष्ठिर उवाच|| एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः | स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे ||१६|| स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् | भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः ||१७|| अहःसु विहरानेन यथाकामं मनोजवा | अयं त्वानयितव्यस्ते भीमसेनः सदा निशि ||१८|| वैशम्पायन उवाच|| तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा | भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः ||१९|| शैलशृङ्गेषु रम्येषु देवतायतनेषु च | मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा ||२०|| कृत्वा च परमं रूपं सर्वाभरणभूषिता | सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् ||२१|| तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु | सरःसु रमणीयेषु पद्मोत्पलयुतेषु च ||२२|| नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च | सुतीर्थवनतोयासु तथा गिरिनदीषु च ||२३|| सगरस्य प्रदेशेषु मणिहेमचितेषु च | पत्तनेषु च रम्येषु महाशालवनेषु च ||२४|| देवारण्येषु पुण्येषु तथा पर्वतसानुषु | गुह्यकानां निवासेषु तापसायतनेषु च ||२५|| सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च | बिभ्रती परमं रूपं रमयामास पाण्डवम् ||२६|| रमयन्ती तथा भीमं तत्र तत्र मनोजवा | प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम् ||२७|| विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् | भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम् ||२८|| महेष्वासं महावीर्यं महासत्त्वं महाभुजम् | महाजवं महाकायं महामायमरिंदमम् ||२९|| अमानुषं मानुषजं भीमवेगं महाबलम् | यः पिशाचानतीवान्यान्बभूवाति स मानुषान् ||३०|| बालोऽपि यौवनं प्राप्तो मानुषेषु विशां पते | सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली ||३१|| सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च | कामरूपधराश्चैव भवन्ति बहुरूपिणः ||३२|| प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा | मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ||३३|| घटभासोत्कच इति मातरं सोऽभ्यभाषत | अभवत्तेन नामास्य घटोत्कच इति स्म ह ||३४|| अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः | तेषां च दयितो नित्यमात्मभूतो बभूव सः ||३५|| संवाससमयो जीर्ण इत्यभाषत तं ततः | हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत ||३६|| कृत्यकाल उपस्थास्ये पितृनिति घटोत्कचः | आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् ||३७|| स हि सृष्टो मघवता शक्तिहेतोर्महात्मना | कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः ||३८||

    १४४ वैशम्पायन उवाच|| ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून् | अपक्रम्य ययू राजंस्त्वरमाणा महारथाः ||१|| मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च | रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च ||२|| जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः | सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः ||३|| क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः | क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः ||४|| ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः | नीतिशास्त्रं च धर्मज्ञा ददृशुस्ते पितामहम् ||५|| तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा | तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः ||६|| व्यास उवाच|| मयेदं मनसा पूर्वं विदितं भरतर्षभाः | यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः ||७|| तद्विदित्वास्मि सम्प्राप्तश्चिकीर्षुः परमं हितम् | न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः ||८|| समास्ते चैव मे सर्वे यूयं चैव न संशयः | दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः ||९|| तस्मादभ्यधिकः स्नेहो युष्मासु मम साम्प्रतम् | स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत ||१०|| इदं नगरमभ्याशे रमणीयं निरामयम् | वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ||११|| वैशम्पायन उवाच|| एवं स तान्समाश्वास्य व्यासः पार्थानरिंदमान् | एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः ||१२|| जीवपुत्रि सुतस्तेऽयं धर्मपुत्रो युधिष्ठिरः | पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट् ||१३|| धर्मेण जित्वा पृथिवीमखिलां धर्मविद्वशी | भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयः ||१४|| पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः | स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ||१५|| यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् | राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ||१६|| अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च | पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः ||१७|| एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने | अब्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपायनस्तदा ||१८|| इह मां सम्प्रतीक्षध्वमागमिष्याम्यहं पुनः | देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम् ||१९|| स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप | जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः ||२०||

    १४५ जनमेजय उवाच|| एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः | अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ||१|| वैशम्पायन उवाच|| एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः | ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ||२|| रमणीयानि पश्यन्तो वनानि विविधानि च | पार्थिवानपि चोद्देशान्सरितश्च सरांसि च ||३|| चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते | बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः ||४|| निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि | तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् ||५|| अर्धं ते भुञ्जते वीराः सह मात्रा परन्तपाः | अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः ||६|| तथा तु तेषां वसतां तत्र राजन्महात्मनाम् | अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ||७|| ततः कदाचिद्भैक्षाय गतास्ते भरतर्षभाः | सङ्गत्या भीमसेनस्तु तत्रास्ते पृथया सह ||८|| अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने | भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ||९|| रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा | कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे ||१०|| मथ्यमानेव दुःखेन हृदयेन पृथा ततः | उवाच भीमं कल्याणी कृपान्वितमिदं वचः ||११|| वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने | अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ||१२|| सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् | प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् ||१३|| एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति | यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ||१४|| तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् | तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् ||१५|| भीम उवाच|| ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् | विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ||१६|| वैशम्पायन उवाच|| तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् | आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते ||१७|| अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः | विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी ||१८|| ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च | दुहित्रा चैव सहितं ददर्श विकृताननम् ||१९|| ब्राह्मण उवाच|| धिगिदं जीवितं लोकेऽनलसारमनर्थकम् | दुःखमूलं पराधीनं भृशमप्रियभागि च ||२०|| जीविते परमं दुःखं जीविते परमो ज्वरः | जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ||२१|| एकात्मापि हि धर्मार्थौ कामं च न निषेवते | एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम् ||२२|| आहुः केचित्परं मोक्षं स च नास्ति कथञ्चन | अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते ||२३|| अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् | जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ||२४|| न हि योगं प्रपश्यामि येन मुच्येयमापदः | पुत्रदारेण वा सार्धं प्राद्रवेयामनामयम् ||२५|| यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि | यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् ||२६|| इह जाता विवृद्धास्मि पिता चेह ममेति च | उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत् ||२७|| स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव | बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ||२८|| सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम | बन्धुप्रणाशः सम्प्राप्तो भृशं दुःखकरो मम ||२९|| अथवा मद्विनाशोऽयं न हि शक्ष्यामि कञ्चन | परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ||३०|| सहधर्मचरीं दान्तां नित्यं मातृसमां मम | सखायं विहितां देवैर्नित्यं परमिकां गतिम् ||३१|| मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् | वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ||३२|| कुलीनां शीलसम्पन्नामपत्यजननीं मम | त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् ||३३|| परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ||३३|| कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् | बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ||३४|| भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना | यस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सह ||३५|| स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ||३५|| मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः | कन्यायां नैव तु पुनर्मम तुल्यावुभौ मतौ ||३६|| यस्मिँल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् | अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे ||३७|| आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतः | त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् ||३८|| एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः | आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना ||३९|| स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् | अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः ||४०|| सर्वैः सह मृतं श्रेयो न तु मे जीवितं क्षमम् ||४०||

    १४६ ब्राह्मण्युवाच|| न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् | न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते ||१|| अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः | अवश्यभाविन्यर्थे वै सन्तापो नेह विद्यते ||२|| भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते | व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै ||३|| एतद्धि परमं नार्याः कार्यं लोके सनातनम् | प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् ||४|| तच्च तत्र कृतं कर्म तवापीह सुखावहम् | भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम् ||५|| एष चैव गुरुर्धर्मो यं प्रवक्षाम्यहं तव | अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते ||६|| यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि | कन्या चैव कुमारश्च कृताहमनृणा त्वया ||७|| समर्थः पोषणे चासि सुतयो रक्षणे तथा | न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे ||८|| मम हि त्वद्विहीनायाः सर्वकामा न आपदः | कथं स्यातां सुतौ बालौ भवेयं च कथं त्वहम् ||९|| कथं हि विधवानाथा बालपुत्रा विना त्वया | मिथुनं जीवयिष्यामि स्थिता साधुगते पथि ||१०|| अहङ्कृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम् | अयुक्तैस्तव सम्बन्धे कथं शक्ष्यामि रक्षितुम् ||११|| उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः | प्रार्थयन्ति जनाः सर्वे वीरहीनां तथा स्त्रियम् ||१२|| साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः | स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम ||१३|| कथं तव कुलस्यैकामिमां बालामसंस्कृताम् | पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे ||१४|| कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्षितान् | अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् ||१५|| इमामपि च ते बालामनाथां परिभूय माम् | अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा ||१६|| तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम् | प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् ||१७|| सम्प्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः | अनर्हवशमापन्नामिमां चापि सुतां तव ||१८|| अवज्ञाता च लोकस्य तथात्मानमजानती | अवलिप्तैर्नरैर्ब्रह्मन्मरिष्यामि न संशयः ||१९|| तौ विहीनौ मया बालौ त्वया चैव ममात्मजौ | विनश्येतां न संदेहो मत्स्याविव जलक्षये ||२०|| त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम् | त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि ||२१|| व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः | न तु ब्राह्मण पुत्राणां विषये परिवर्तितुम् ||२२|| परित्यक्तः सुतश्चायं दुहितेयं तथा मया | बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे ||२३|| यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा | विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः ||२४|| तदिदं यच्चिकीर्षामि धर्म्यं परमसंमतम् | इष्टं चैव हितं चैव तव चैव कुलस्य च ||२५|| इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः | आपद्धर्मविमोक्षाय भार्या चापि सतां मतम् ||२६|| एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धन | न समं सर्वमेवेति बुधानामेष निश्चयः ||२७|| स कुरुष्व मया कार्यं तारयात्मानमात्मना | अनुजानीहि मामार्य सुतौ मे परिरक्ष च ||२८|| अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये | धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि ||२९|| निःसंशयो वधः पुंसां स्त्रीणां संशयितो वधः | अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि ||३०|| भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया | त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितम् ||३१|| जातपुत्रा च वृद्धा च प्रियकामा च ते सदा | समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः ||३२|| उत्सृज्यापि च मामार्य वेत्स्यस्यन्यामपि स्त्रियम् | ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव ||३३|| न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम् | स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने ||३४|| एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् | आत्मानं तारय मया कुलं चेमौ च दारकौ ||३५|| वैशम्पायन उवाच|| एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत | मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः ||३६||

    १४७ वैशम्पायन उवाच|| तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तत् | भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत ||१|| किमिदं भृशदुःखार्तौ रोरवीथो अनाथवत् | ममापि श्रूयतां किञ्चिच्छ्रुत्वा च क्रियतां क्षमम् ||२|| धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः | त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया ||३|| इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति | तस्मिन्नुपस्थिते काले तरतं प्लववन्मया ||४|| इह वा तारयेद्दुर्गादुत वा प्रेत्य तारयेत् | सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः ||५|| आकाङ्क्षन्ते च दौहित्रानपि नित्यं पितामहाः | तान्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः ||६|| भ्राता च मम बालोऽयं गते लोकममुं त्वयि | अचिरेणैव कालेन विनश्येत न संशयः ||७|| तातेऽपि हि गते स्वर्गं विनष्टे च ममानुजे | पिण्डः पितृणां व्युच्छिद्येत्तत्तेषामप्रियं भवेत् ||८|| पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम् | दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिता ||९|| त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः | सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम् ||१०|| आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल | स कृच्छ्रान्मोचयात्मानं मां च धर्मेण योजय ||११|| अनाथा कृपणा बाला यत्रक्वचनगामिनी | भविष्यामि त्वया तात विहीना कृपणा बत ||१२|| अथवाहं करिष्यामि कुलस्यास्य विमोक्षणम् | फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् ||१३|| अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम | पीडिताहं भविष्यामि तदवेक्षस्व मामपि ||१४|| तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम | आत्मानं परिरक्षस्व त्यक्तव्यां मां च सन्त्यज ||१५|| अवश्यकरणीयेऽर्थे मा त्वां कालोऽत्यगादयम् | त्वया दत्तेन तोयेन भविष्यति हितं च मे ||१६|| किं न्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि | याचमानाः परादन्नं परिधावेमहि श्ववत् ||१७|| त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे | अमृते वसती लोके भविष्यामि सुखान्विता ||१८|| एवं बहुविधं तस्या निशम्य परिदेवितम् | पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः ||१९|| ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तयोः | उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत् ||२०|| मा रोदीस्तात मा मातर्मा स्वसस्त्वमिति ब्रुवन् | प्रहसन्निव सर्वांस्तानेकैकं सोऽपसर्पति ||२१|| ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत् | अनेन तं हनिष्यामि राक्षसं पुरुषादकम् ||२२|| तथापि तेषां दुःखेन परीतानां निशम्य तत् | बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान् ||२३|| अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् | गतासूनमृतेनेव जीवयन्तीदमब्रवीत् ||२४||

    १४८ कुन्त्युवाच|| कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः | विदित्वा अपकर्षेयं शक्यं चेदपकर्षितुम् ||१|| ब्राह्मण उवाच|| उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने | न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् ||२|| समीपे नगरस्यास्य बको वसति राक्षसः | ईशो जनपदस्यास्य पुरस्य च महाबलः ||३|| पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः | रक्षत्यसुरराण्नित्यमिमं जनपदं बली ||४|| नगरं चैव देशं च रक्षोबलसमन्वितः | तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् ||५|| वेतनं तस्य विहितं शालिवाहस्य भोजनम् | महिषौ पुरुषश्चैको यस्तदादाय गच्छति ||६|| एकैकश्चैव पुरुषस्तत्प्रयच्छति भोजनम् | स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः ||७|| तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्वचित् | सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत ||८|| वेत्रकीयगृहे राजा नायं नयमिहास्थितः | अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् ||९|| एतदर्हा वयं नूनं वसामो दुर्बलस्य ये | विषये नित्यमुद्विग्नाः कुराजानमुपाश्रिताः ||१०|| ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः | गुणैरेते हि वास्यन्ते कामगाः पक्षिणो यथा ||११|| राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् | त्रयस्य सञ्चये चास्य ज्ञातीन्पुत्रांश्च धारयेत् ||१२|| विपरीतं मया चेदं त्रयं सर्वमुपार्जितम् | त इमामापदं प्राप्य भृशं तप्स्यामहे वयम् ||१३|| सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः | भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया ||१४|| न च मे विद्यते वित्तं सङ्क्रेतुं पुरुषं क्वचित् | सुहृज्जनं प्रदातुं च न शक्ष्यामि कथञ्चन ||१५|| गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः ||१५|| सोऽहं दुःखार्णवे मग्नो महत्यसुतरे भृशम् | सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् ||१६|| ततो नः सहितन्क्षुद्रः सर्वानेवोपभोक्ष्यति ||१६||

    १४९ कुन्त्युवाच|| न विषादस्त्वया कार्यो भयादस्मात्कथञ्चन | उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः ||१|| एकस्तव सुतो बालः कन्या चैका तपस्विनी | न ते तयोस्तथा पत्न्या गमनं तत्र रोचये ||२|| मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति | त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः ||३|| ब्राह्मण उवाच|| नाहमेतत्करिष्यामि जीवितार्थी कथञ्चन | ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणैर्वियोजनम् ||४|| न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते | यद्ब्राह्मणार्थे विसृजेदात्मानमपि चात्मजम् ||५|| आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचये | ब्रह्मवध्यात्मवध्या वा श्रेय आत्मवधो मम ||६|| ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते | अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम ||७|| न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे | परैः कृते वधे पापं न किञ्चिन्मयि विद्यते ||८|| अभिसन्धिकृते तस्मिन्ब्राह्मणस्य वधे मया | निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च ||९|| आगतस्य गृहे त्यागस्तथैव शरणार्थिनः | याचमानस्य च वधो नृशंसं परमं मतम् ||१०|| कुर्यान्न निन्दितं कर्म न नृशंसं कदाचन | इति पूर्वे महात्मान आपद्धर्मविदो विदुः ||११|| श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् | ब्राह्मणस्य वधं नाहमनुमंस्ये कथञ्चन ||१२|| कुन्त्युवाच|| ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा | न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् ||१३|| न चासौ राक्षसः शक्तो मम पुत्रविनाशने | वीर्यवान्मन्त्रसिद्धश्च तेजस्वी च सुतो मम ||१४|| राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् | मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः ||१५|| समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः | बलवन्तो महाकाया निहताश्चाप्यनेकशः ||१६|| न त्विदं केषुचिद्ब्रह्मन्व्याहर्तव्यं कथञ्चन | विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात् ||१७|| गुरुणा चाननुज्ञातो ग्राहयेद्यं सुतो मम | न स कुर्यात्तया कार्यं विद्ययेति सतां मतम् ||१८|| वैशम्पायन उवाच|| एवमुक्तस्तु पृथया स विप्रो भार्यया सह | हृष्टः सम्पूजयामास तद्वाक्यममृतोपमम् ||१९|| ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् | तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ ||२०||

    १५० वैशम्पायन उवाच|| करिष्य इति भीमेन प्रतिज्ञाते तु भारत | आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः ||१|| आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः | रहः समुपविश्यैकस्ततः पप्रच्छ मातरम् ||२|| किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः | भवत्यनुमते कच्चिदयं कर्तुमिहेच्छति ||३|| कुन्त्युवाच|| ममैव वचनादेष करिष्यति परन्तपः | ब्राह्मणार्थे महत्कृत्यं मोष्काय नगरस्य च ||४|| युधिष्ठिर उवाच|| किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम् | परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः ||५|| कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि | लोकवृत्तिविरुद्धं वै पुत्रत्यागात्कृतं त्वया ||६|| यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे | राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः ||७|| यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः | न शेते वसतीः सर्वा दुःखाच्छकुनिना सह ||८|| यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम् | अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः ||९|| यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुन्धराम् | इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान् ||१०|| तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया | कच्चिन्न दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः ||११|| कुन्त्युवाच|| युधिष्ठिर न सन्तापः कार्यः प्रति वृकोदरम् | न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया ||१२|| इह विप्रस्य भवने वयं पुत्र सुखोषिताः | तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता ||१३|| एतावानेव पुरुषः कृतं यस्मिन्न नश्यति ||१३|| दृष्ट्वा भीष्मस्य विक्रान्तं तदा जतुगृहे महत् | हिडिम्बस्य वधाच्चैव विश्वासो मे वृकोदरे ||१४|| बाह्वोर्बलं हि भीमस्य नागायुतसमं महत् | येन यूयं गजप्रख्या निर्व्यूढा वारणावतात् ||१५|| वृकोदरबलो नान्यो न भूतो न भविष्यति | योऽभ्युदीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम् ||१६|| जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ | शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता ||१७|| तदहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव | प्रतीकारं च विप्रस्य ततः कृतवती मतिम् ||१८|| नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् | बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया ||१९|| अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः | प्रतीकारश्च वासस्य धर्मश्च चरितो महान् ||२०|| यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित् | क्षत्रियः स शुभाँल्लोकान्प्राप्नुयादिति मे श्रुतम् ||२१|| क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम् | विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च ||२२|| वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि | स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम् ||२३|| शूद्रं तु मोक्षयन्राजा शरणार्थिनमागतम् | प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते ||२४|| एवं स भगवान्व्यासः पुरा कौरवनन्दन | प्रोवाच सुतरां प्राज्ञस्तस्मादेतच्चिकीर्षितम् ||२५|| युधिष्ठिर उवाच|| उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् | आर्तस्य ब्राह्मणस्यैवमनुक्रोशादिदं कृतम् ||२६|| ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् ||२६|| यथा त्विदं न विन्देयुर्नरा नगरवासिनः | तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः ||२७||

    १५१ वैशम्पायन उवाच|| ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः | भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः ||१|| आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली | आजुहाव ततो नाम्ना तदन्नमुपयोजयन् ||२|| ततः स राक्षसः श्रुत्वा भीमसेनस्य तद्वचः | आजगाम सुसङ्क्रुद्धो यत्र भीमो व्यवस्थितः ||३|| महाकायो महावेगो दारयन्निव मेदिनीम् | त्रिशिखां भृकुटिं कृत्वा संदश्य दशनच्छदम् ||४|| भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः | विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत् ||५|| कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् | पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम् ||६|| भीमसेनस्तु तच्छ्रुत्वा प्रहसन्निव भारत | राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः ||७|| ततः स भैरवं कृत्वा समुद्यम्य करावुभौ | अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः ||८|| तथापि परिभूयैनं नेक्षमाणो वृकोदरः | राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा ||९|| अमर्षेण तु सम्पूर्णः कुन्तीपुत्रस्य राक्षसः | जघान पृष्ठं पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः ||१०|| तथा बलवता भीमः पाणिभ्यां भृशमाहतः | नैवावलोकयामास राक्षसं भुङ्क्त एव सः ||११|| ततः स भूयः सङ्क्रुद्धो वृक्षमादाय राक्षसः | ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली ||१२|| ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः | वार्युपस्पृश्य संहृष्टस्तस्थौ युधि महाबलः ||१३|| क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् | सव्येन पाणिना भीमः प्रहसन्निव भारत ||१४|| ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली | प्राहिणोद्भीमसेनाय तस्मै भीमश्च पाण्डवः ||१५|| तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् | घोररूपं महाराज बकपाण्डवयोर्महत् ||१६|| नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम् | भुजाभ्यां परिजग्राह भीमसेनं महाबलम् ||१७|| भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः | विस्फुरन्तं महावेगं विचकर्ष बलाद्बली ||१८|| स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम् | समयुज्यत तीव्रेण श्रमेण पुरुषादकः ||१९|| तयोर्वेगेन महता पृथिवी समकम्पत | पादपांश्च महाकायांश्चूर्णयामासतुस्तदा ||२०|| हीयमानं तु तद्रक्षः समीक्ष्य भरतर्षभ | निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकोदरः ||२१|| ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव | बाहुना परिजग्राह दक्षिणेन शिरोधराम् ||२२|| सव्येन च कटीदेशे गृह्य वाससि पाण्डवः | तद्रक्षो द्विगुणं चक्रे नदन्तं भैरवान्रवान् ||२३|| ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशां पते | भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः ||२४||

    १५२ वैशम्पायन उवाच|| तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः | निष्पपात गृहाद्राजन्सहैव परिचारिभिः ||१|| तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः | सान्त्वयामास बलवान्समये च न्यवेशयत् ||२|| न हिंस्या मानुषा भूयो युष्माभिरिह कर्हिचित् | हिंसतां हि वधः शीघ्रमेवमेव भवेदिति ||३|| तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत | एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम् ||४|| ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत | नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः ||५|| ततो भिमस्तमादाय गतासुं पुरुषादकम् | द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः ||६|| ततः स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत् | आचचक्षे यथावृत्तं राज्ञः सर्वमशेषतः ||७|| ततो नरा विनिष्क्रान्ता नगरात्काल्यमेव तु | ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् ||८|| तमद्रिकूटसदृशं विनिकीर्णं भयावहम् | एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः परे ||९|| ततः सहस्रशो राजन्नरा नगरवासिनः | तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः ||१०|| ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम् | दैवतान्यर्चयां चक्रुः सर्व एव विशां पते ||११|| ततः प्रगणयामासुः कस्य वारोऽद्य भोजने | ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव तत् ||१२|| एवं पृष्टस्तु बहुशो रक्षमाणश्च पाण्डवान् | उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा ||१३|| आज्ञापितं मामशने रुदन्तं सह बन्धुभिः | ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महाबलः ||१४|| परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च | अब्रवीद्ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्निव ||१५|| प्रापयिष्याम्यहं तस्मै इदमन्नं दुरात्मने | मन्निमित्तं भयं चापि न कार्यमिति वीर्यवान् ||१६|| स तदन्नमुपादाय गतो बकवनं प्रति | तेन नूनं भवेदेतत्कर्म लोकहितं कृतम् ||१७|| ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः | वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा ||१८|| ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति | तदद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन् ||१९||

    चैत्ररथपर्व १५३ जनमेजय उवाच|| ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम् | अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः ||१|| वैशम्पायन उवाच|| तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम् | अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने ||२|| ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः | प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह ||३|| स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा | ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती ||४|| ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः | उपासां चक्रिरे विप्रं कथयानं कथास्तदा ||५|| कथयामास देशान्स तीर्थानि विविधानि च | राज्ञां च विविधाश्चर्याः पुराणि विविधानि च ||६|| स तत्राकथयद्विप्रः कथान्ते जनमेजय | पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम् ||७|| धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः | अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे ||८|| तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः | विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः ||९|| कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात् | वेदिमध्याच्च कृष्णायाः सम्भवः कथमद्भुतः ||१०|| कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत | कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च ||११|| एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः | कथयामास तत्सर्वं द्रौपदीसम्भवं तदा ||१२||

    १५४ ब्राह्मण उवाच|| गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः | भरद्वाजो महाप्राज्ञः सततं संशितव्रतः ||१|| सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् | ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः ||२|| तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा | अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ||३|| तस्यां संसक्तमनसः कौमारब्रह्मचारिणः | हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ||४|| ततः समभवद्द्रोणः कुमारस्तस्य धीमतः | अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ||५|| भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः | तस्यापि द्रुपदो नाम तदा समभवत्सुतः ||६|| स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः | चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ||७|| ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत् | द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः ||८|| वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत् | आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ ||९|| राम उवाच|| शरीरमात्रमेवाद्य मयेदमवशेषितम् | अस्त्राणि वा शरीरं वा ब्रह्मन्नन्यतरं वृणु ||१०|| द्रोण उवाच|| अस्त्राणि चैव सर्वाणि तेषां संहारमेव च | प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् ||११|| ब्राह्मण उवाच|| तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः | प्रतिगृह्य ततो द्रोणः कृतकृत्योऽभवत्तदा ||१२|| सम्प्रहृष्टमनाश्चापि रामात्परमसंमतम् | ब्रह्मास्त्रं समनुप्राप्य नरेष्वभ्यधिकोऽभवत् ||१३|| ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् | अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति ||१४|| द्रुपद उवाच|| नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा | नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ||१५|| ब्राह्मण उवाच|| स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् | जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ||१६|| तस्मै पौत्रान्समादाय वसूनि विविधानि च | प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते ||१७|| द्रोणः शिष्यांस्ततः सर्वानिदं वचनमब्रवीत् | समानीय तदा विद्वान्द्रुपदस्यासुखाय वै ||१८|| आचार्यवेतनं किञ्चिद्धृदि सम्परिवर्तते | कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः ||१९|| यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः | ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः ||२०|| पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः | तस्यापकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् ||२१|| ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि | द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा ||२२|| द्रोण उवाच|| प्रार्थयामि त्वया सख्यं पुनरेव नराधिप | अराजा किल नो राज्ञः सखा भवितुमर्हति ||२३|| अतः प्रयतितं राज्ये यज्ञसेन मया तव | राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे ||२४|| ब्राह्मण उवाच|| असत्कारः स सुमहान्मुहूर्तमपि तस्य तु | न व्येति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत् ||२५||

    १५५ ब्राह्मण उवाच|| अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् | अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ||१|| पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः | नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत् ||२|| जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् | निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया ||३|| प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च | क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत ||४|| प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत ||४|| अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् | ब्राह्मणावसथं पुण्यमाससाद महीपतिः ||५|| तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः | तथैव नामहाभागः सोऽपश्यत्संशितव्रतौ ||६|| याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः | संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ||७|| तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ | स तावामन्त्रयामास सर्वकामैरतन्द्रितः ||८|| बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे | प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् ||९|| पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः | अर्हयित्वा यथान्यायमुपयाजमुवाच सः ||१०|| येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे | उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम् ||११|| यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् | सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः ||१२|| इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह | आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः ||१३|| ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः | उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा ||१४|| ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे | अपरिज्ञातशौचायां भूमौ निपतितं फलम् ||१५|| तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन् | विमर्शं सङ्करादाने नायं कुर्यात्कथञ्चन ||१६|| दृष्ट्वा फलस्य नापश्यद्दोषा येऽस्यानुबन्धिकाः | विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् ||१७|| संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः | भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा ||१८|| कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः ||१८|| तमहं फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा | तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति ||१९|| जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् | उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित् ||२०|| अभिसम्पूज्य पूजार्हमृषिं याजमुवाच ह ||२०|| अयुतानि ददान्यष्टौ गवां याजय मां विभो | द्रोणवैराभिसन्तप्तं त्वं ह्लादयितुमर्हसि ||२१|| स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः | तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे ||२२|| क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः | कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः ||२३|| द्रोणस्य शरजालानि प्राणिदेहहराणि च | षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत् ||२४|| स हि ब्राह्मणवेगेन क्षात्रं वेगमसंशयम् | प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ||२५|| क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः | तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि ||२६|| ब्राह्ममुच्चारयंस्तेजो हुताहुतिरिवानलः | समेत्य स दहत्याजौ क्षत्रं ब्रह्मपुरःसरः ||२७|| ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते ||२७|| सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान् | द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ||२८|| द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् | तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम् ||२९|| तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् | गुर्वर्थ इति चाकाममुपयाजमचोदयत् ||३०|| याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ||३०|| ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः | आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै ||३१|| स च पुत्रो महावीर्यो महातेजा महाबलः | इष्यते यद्विधो राजन्भविता ते तथाविधः ||३२|| भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूमिपः | आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये ||३३|| याजस्तु हवनस्यान्ते देवीमाह्वापयत्तदा | प्रैहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ||३४|| देव्युवाच|| अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च | सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये ||३५|| याज उवाच|| याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् | कथं कामं न संदध्यात्सा त्वं विप्रैहि तिष्ठ वा ||३६|| ब्राह्मण उवाच|| एवमुक्ते तु याजेन हुते हविषि संस्कृते | उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः ||३७|| ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् | बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः ||३८|| सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा | ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति ||३९|| भयापहो राजपुत्रः पाञ्चालानां यशस्करः | राज्ञः शोकापहो जात एष द्रोणवधाय वै ||४०|| इत्युवाच महद्भूतमदृश्यं खेचरं तदा ||४०|| कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता | सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा ||४१|| श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा | मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी ||४२|| नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति | या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ||४३|| तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी | सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति ||४४|| सुरकार्यमियं काले करिष्यति सुमध्यमा | अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् ||४५|| तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत् | न चैतान्हर्षसम्पूणानियं सेहे वसुन्धरा ||४६|| तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी | न वै मदन्यां जननीं जानीयातामिमाविति ||४७|| तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया | तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः ||४८|| धृष्टत्वादतिधृष्णुत्वाद्धर्माद्द्युत्सम्भवादपि | धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ||४९|| कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः | तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ||५०|| धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं विवेशनम् | उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ||५१|| अमोक्षणीयं दैवं हि भावि मत्वा महामतिः | तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ||५२||

    १५६ वैशम्पायन उवाच|| एतच्छ्रुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन् | सर्वे चास्वस्थमनसो बभूवुस्ते महारथाः ||१|| ततः कुन्ती सुतान्दृष्ट्वा विभ्रान्तान्गतचेतसः | युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी ||२|| चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने | रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर ||३|| यानीह रमणीयानि वनान्युपवनानि च | सर्वाणि तानि दृष्टानि पुनः पुनररिंदम ||४|| पुनर्दृष्टानि तान्येव प्रीणयन्ति न नस्तथा | भैक्षं च न तथा वीर लभ्यते कुरुनन्दन ||५|| ते वयं साधु पाञ्चालान्गच्छाम यदि मन्यसे | अपूर्वदर्शनं तात रमणीयं भविष्यति ||६|| सुभिक्षाश्चैव पाञ्चालाः श्रूयन्ते शत्रुकर्शन | यज्ञसेनश्च राजासौ ब्रह्मण्य इति शुश्रुमः ||७|| एकत्र चिरवासो हि क्षमो न च मतो मम | ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे ||८|| युधिष्ठिर उवाच|| भवत्या यन्मतं कार्यं तदस्माकं परं हितम् | अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः ||९|| वैशम्पायन उवाच|| ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा | उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा ||१०|| तत आमन्त्र्य तं विप्रं कुन्ती राजन्सुतैः सह | प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः ||११||

    १५७ वैशम्पायन उवाच|| वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु | आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः ||१|| तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः | प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा ||२|| समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत् | प्रसन्नः पूजितः पार्थैः प्रीतिपूर्वमिदं वचः ||३|| अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः | अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते ||४|| अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः | विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् ||५|| आसीत्तपोवने काचिदृषेः कन्या महात्मनः | विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता ||६|| कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत | नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ||७|| तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः | तोषयामास तपसा सा किलोग्रेण शङ्करम् ||८|| तस्याः स भगवांस्तुष्टस्तामुवाच तपस्विनीम् | वरं वरय भद्रं ते वरदोऽस्मीति भामिनि ||९|| अथेश्वरमुवाचेदमात्मनः सा वचो हितम् | पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ||१०|| तामथ प्रत्युवाचेदमीशानो वदतां वरः | पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः ||११|| प्रतिब्रुवन्तीमेकं मे पतिं देहीति शङ्करम् | पुनरेवाब्रवीद्देव इदं वचनमुत्तमम् ||१२|| पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः | देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ||१३|| द्रुपदस्य कुले जाता कन्या सा देवरूपिणी | निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता ||१४|| पाञ्चालनगरं तस्मात्प्रविशध्वं महाबलाः | सुखिनस्तामनुप्राप्य भविष्यथ न संशयः ||१५|| एवमुक्त्वा महाभागः पाण्डवानां पितामहः | पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः ||१६||

    १५८ वैशम्पायन उवाच|| ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः | समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परन्तपाः ||१|| ते गच्छन्तस्त्वहोरात्रं तीर्थं सोमश्रवायणम् | आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः ||२|| उल्मुकं तु समुद्यम्य तेषामग्रे धनञ्जयः | प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः ||३|| तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन्स्त्रियः | ईर्ष्युर्गन्धर्वराजः स्म जलक्रीडामुपागतः ||४|| शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् | तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली ||५|| स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परन्तपान् | विस्फारयन्धनुर्घोरमिदं वचनमब्रवीत् ||६|| सन्ध्या संरज्यते घोरा पूर्वरात्रागमेषु या | अशीतिभिस्त्रुटैर्हीनं तं मुहूर्तं प्रचक्षते ||७|| विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् | शेषमन्यन्मनुष्याणां कामचारमिह स्मृतम् ||८|| लोभात्प्रचारं चरतस्तासु वेलासु वै नरान् | उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् ||९|| ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः | गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि ||१०|| आरात्तिष्ठत मा मह्यं समीपमुपसर्पत | कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम् ||११|| अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम् | अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा ||१२|| अङ्गारपर्णमिति च ख्यतं वनमिदं मम | अनु गङ्गां च वाकां च चित्रं यत्र वसाम्यहम् ||१३|| न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः | इदं समुपसर्पन्ति तत्किं समुपसर्पथ ||१४|| अर्जुन उवाच|| समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते | रात्रावहनि सन्धौ च कस्य कॢप्तः परिग्रहः ||१५|| वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुमः | अशक्ता हि क्षणे क्रूरे युष्मानर्चन्ति मानवाः ||१६|| पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता | गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते ||१७|| इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः | देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम् ||१८|| तथा पितृन्वैतरणी दुस्तरा पापकर्मभिः | गङ्गा भवति गन्धर्व यथा द्वैपायनोऽब्रवीत् ||१९|| असम्बाधा देवनदी स्वर्गसम्पादनी शुभा | कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः ||२०|| अनिवार्यमसम्बाधं तव वाचा कथं वयम् | न स्पृशेम यथाकामं पुण्यं भागीरथीजलम् ||२१|| वैशम्पायन उवाच|| अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्य कार्मुकम् | मुमोच सायकान्दीप्तानहीनाशीविषानिव ||२२|| उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तमम् | व्यपोवाह शरांस्तस्य सर्वानेव धनञ्जयः ||२३|| अर्जुन उवाच|| बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते | अस्त्रज्ञेषु प्रयुक्तैषा फेनवत्प्रविलीयते ||२४|| मानुषानति गन्धर्वान्सर्वान्गन्धर्व लक्षये | तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया ||२५|| पुरास्त्रमिदमाग्नेयं प्रादात्किल बृहस्पतिः | भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः ||२६|| भरद्वाजादग्निवेश्यो अग्निवेश्याद्गुरुर्मम | स त्विदं मह्यमददाद्द्रोणो ब्राह्मणसत्तमः ||२७|| वैशम्पायन उवाच|| इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह | प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत् ||२८|| विरथं विप्लुतं तं तु स गन्धर्वं महाबलम् | अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम् ||२९|| शिरोरुहेषु जग्राह माल्यवत्सु धनञ्जयः | भ्रातृन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम् ||३०|| युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी | नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती ||३१|| गन्धर्व्युवाच|| त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे | गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्बीनसीं प्रभो ||३२|| युधिष्ठिर उवाच|| युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम् | को नु हन्याद्रिपुं त्वादृङ्मुञ्चेमं रिपुसूदन ||३३|| अर्जुन उवाच|| अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः | प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः ||३४|| गन्धर्व उवाच|| जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम् | न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि ||३५|| साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम् | गान्धर्व्या मायया योद्धुमिच्छामि वयसा वरम् ||३६|| अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः | सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम् ||३७|| सम्भृता चैव विद्येयं तपसेह पुरा मया | निवेदयिष्ये तामद्य प्राणदाया महात्मने ||३८|| संस्तम्भितं हि तरसा जितं शरणमागतम् | योऽरिं संयोजयेत्प्राणैः कल्याणं किं न सोऽर्हति ||३९|| चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः | ददौ स विश्वावसवे मह्यं विश्वावसुर्ददौ ||४०|| सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति | आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे ||४१|| यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किञ्चन | तत्पश्येद्यादृशं चेच्छेत्तादृषं द्रष्टुमर्हति ||४२|| समानपद्ये षण्मासान्स्थितो विद्यां लभेदिमाम् | अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते ||४३|| विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः | अविशिष्टाश्च देवानामनुभावप्रवर्तिताः ||४४|| गन्धर्वजानामश्वानामहं पुरुषसत्तम | भ्रातृभ्यस्तव पञ्चभ्यः पृथग्दाता शतं शतम् ||४५|| देवगन्धर्ववाहास्ते दिव्यगन्धा मनोगमाः | क्षीणाः क्षीणा भवन्त्येते न हीयन्ते च रंहसः ||४६|| पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणे | दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि ||४७|| ततो भागीकृतो देवैर्वज्रभाग उपास्यते | लोके यत्साधनं किञ्चित्सा वै वज्रतनुः स्मृता ||४८|| वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम् | वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः ||४९|| वज्रं क्षत्रस्य वाजिनो अवध्या वाजिनः स्मृताः | रथाङ्गं वडवा सूते सूताश्चाश्वेषु ये मताः ||५०|| कामवर्णाः कामजवाः कामतः समुपस्थिताः | इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः ||५१|| अर्जुन उवाच|| यदि प्रीतेन वा दत्तं संशये जीवितस्य वा | विद्या वित्तं श्रुतं वापि न तद्गन्धर्व कामये ||५२|| गन्धर्व उवाच|| संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते | जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते ||५३|| त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् | तथैव सख्यं बीभत्सो चिराय भरतर्षभ ||५४|| अर्जुन उवाच|| त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शाश्वतोऽस्तु नौ | सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं त्यजेत् ||५५||

    १५९ अर्जुन उवाच|| कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः | यान्तो ब्रह्मविदः सन्तः सर्वे रात्रावरिंदम ||१|| गन्धर्व उवाच|| अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः | यूयं ततो धर्षिताः स्थ मया पाण्डवनन्दन ||२|| यक्षराक्षसगन्धर्वाः पिशाचोरगमानवाः | विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते ||३|| नारदप्रभृतीनां च देवर्षीणां मया श्रुतम् | गुणान्कथयतां वीर पूर्वेषां तव धीमताम् ||४|| स्वयं चापि मया दृष्टश्चरता सागराम्बराम् | इमां वसुमतीं कृत्स्नां प्रभावः स्वकुलस्य ते ||५|| वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन | विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् ||६|| धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा | पाण्डुं च कुरुशार्दूल षडेतान्कुलवर्धनान् ||७|| पितृनेतानहं पार्थ देवमानुषसत्तमान् ||७|| दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः | भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः ||८|| उत्तमां तु मनोबुद्धिं भवतां भावितात्मनाम् | जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् ||९|| स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति | धर्षणामात्मनः पश्यन्बाहुद्रविणमाश्रितः ||१०|| नक्तं च बलमस्माकं भूय एवाभिवर्धते | यतस्ततो मां कौन्तेय सदारं मन्युराविशत् ||११|| सोऽहं त्वयेह विजितः सङ्ख्ये तापत्यवर्धन | येन तेनेह विधिना कीर्त्यमानं निबोध मे ||१२|| ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि | यस्मात्तस्मादहं पार्थ रणेऽस्मिन्विजितस्त्वया ||१३|| यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परन्तप | नक्तं च युधि युध्येत न स जीवेत्कथञ्चन ||१४|| यस्तु स्यात्कामवृत्तोऽपि राजा तापत्य सङ्गरे | जयेन्नक्तञ्चरान्सर्वान्स पुरोहितधूर्गतः ||१५|| तस्मात्तापत्य यत्किञ्चिन्नृणां श्रेय इहेप्सितम् | तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः ||१६|| वेदे षडङ्गे निरताः शुचयः सत्यवादिनः | धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः ||१७|| जयश्च नियतो राज्ञः स्वर्गश्च स्यादनन्तरम् | यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः ||१८|| लाभं लब्धुमलब्धं हि लब्धं च परिरक्षितुम् | पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् ||१९|| पुरोहितमते तिष्ठेद्य इच्छेत्पृथिवीं नृपः | प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्बराम् ||२०|| न हि केवलशौर्येण तापत्याभिजनेन च | जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित् ||२१|| तस्मादेवं विजानीहि कुरूणां वंशवर्धन | ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् ||२२||

    तापस्योपाख्यानम् १६० अर्जुन उवाच|| तापत्य इति यद्वाक्यमुक्तवानसि मामिह | तदहं ज्ञातुमिच्छामि तापत्यार्थविनिश्चयम् ||१|| तपती नाम का चैषा तापत्या यत्कृते वयम् | कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम् ||२|| वैशम्पायन उवाच|| एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनञ्जयम् | विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम् ||३|| गन्धर्व उवाच|| हन्त ते कथयिष्यामि कथामेतां मनोरमाम् | यथावदखिलां पार्थ धर्म्यां धर्मभृतां वर ||४|| उक्तवानस्मि येन त्वां तापत्य इति यद्वचः | तत्तेऽहं कथयिष्यामि शृणुष्वैकमना मम ||५|| य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा | एतस्य तपती नाम बभूवासदृशी सुता ||६|| विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो | विश्रुता त्रिषु लोकेषु तपती तपसा युता ||७|| न देवी नासुरी चैव न यक्षी न च राक्षसी | नाप्सरा न च गन्धर्वी तथारूपेण काचन ||८|| सुविभक्तानवद्याङ्गी स्वसितायतलोचना | स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी ||९|| न तस्याः सदृशं कञ्चित्त्रिषु लोकेषु भारत | भर्तारं सविता मेने रूपशीलकुलश्रुतैः ||१०|| सम्प्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम् | नोपलेभे ततः शान्तिं सम्प्रदानं विचिन्तयन् ||११|| अर्थर्क्षपुत्रः कौन्तेय कुरूणामृषभो बली | सूर्यमाराधयामास नृपः संवरणः सदा ||१२|| अर्घ्यमाल्योपहारैश्च शश्वच्च नृपतिर्यतः | नियमैरुपवासैश्च तपोभिर्विविधैरपि ||१३|| शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः | अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान् ||१४|| ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि | तपत्याः सदृशं मेने सूर्यः संवरणं पतिम् ||१५|| दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम् | नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै ||१६|| यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा | तथा भुवि महीपालो दीप्त्या संवरणोऽभवत् ||१७|| यथार्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः | तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः ||१८|| स सोममति कान्तत्वादादित्यमति तेजसा | बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि ||१९|| एवङ्गुणस्य नृपतेस्तथावृत्तस्य कौरव | तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम् ||२०|| स कदाचिदथो राजा श्रीमानुरुयशा भुवि | चचार मृगयां पार्थ पर्वतोपवने किल ||२१|| चरतो मृगयां तस्य क्षुत्पिपासाश्रमान्वितः | ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः ||२२|| स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः | ददर्शासदृशीं लोके कन्यामायतलोचनाम् ||२३|| स एक एकामासाद्य कन्यां तामरिमर्दनः | तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः ||२४|| स हि तां तर्कयामास रूपतो नृपतिः श्रियम् | पुनः सन्तर्कयामास रवेर्भ्रष्टामिव प्रभाम् ||२५|| गिरिप्रस्थे तु सा यस्मिन्स्थिता स्वसितलोचना | स सवृक्षक्षुपलतो हिरण्मय इवाभवत् ||२६|| अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः | अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम् ||२७|| जन्मप्रभृति यत्किञ्चिद्दृष्टवान्स महीपतिः | रूपं न सदृशं तस्यास्तर्कयामास किञ्चन ||२८|| तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा | न चचाल ततो देशाद्बुबुधे न च किञ्चन ||२९|| अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम् | लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम् ||३०|| एवं स तर्कयामास रूपद्रविणसम्पदा | कन्यामसदृशीं लोके नृपः संवरणस्तदा ||३१|| तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः | जगाम मनसा चिन्तां काममार्गणपीडितः ||३२|| दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना | अप्रगल्भां प्रगल्भः स तामुवाच यशस्विनीम् ||३३|| कासि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि | कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते ||३४|| त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता | विभूषणमिवैतेषां भूषणानामभीप्सितम् ||३५|| न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम् | न च भोगवतीं मन्ये न गन्धर्वीं न मानुषीम् ||३६|| या हि दृष्टा मया काश्चिच्छ्रुता वापि वराङ्गनाः | न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि ||३७|| एवं तां स महीपालो बभाषे न तु सा तदा | कामार्तं निर्जनेऽरण्ये प्रत्यभाषत किञ्चन ||३८|| ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा | सौदामिनीव साभ्रेषु तत्रैवान्तरधीयत ||३९|| तामन्विच्छन्स नृपतिः परिचक्राम तत्तदा | वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा ||४०|| अपश्यमानः स तु तां बहु तत्र विलप्य च | निश्चेष्टः कौरवश्रेष्ठो मुहूर्तं स व्यतिष्ठत ||४१||

    १६१ गन्धर्व उवाच|| अथ तस्यामदृश्यायां नृपतिः काममोहितः | पातनः शत्रुसङ्घानां पपात धरणीतले ||१|| तस्मिन्निपतिते भूमावथ सा चारुहासिनी | पुनः पीनायतश्रोणी दर्शयामास तं नृपम् ||२|| अथाबभाषे कल्याणी वाचा मधुरया नृपम् | तं कुरूणां कुलकरं कामाभिहतचेतसम् ||३|| उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिंदम | मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ ||४|| एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा | ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम् ||५|| अथ तामसितापाङ्गीमाबभाषे नराधिपः | मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा ||६|| साधु मामसितापाङ्गे कामार्तं मत्तकाशिनि | भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम् ||७|| त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः | कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति ||८|| ग्रस्तमेवमनाक्रन्दे भद्रे काममहाहिना | सा त्वं पीनायतश्रोणि पर्याप्नुहि शुभानने ||९|| त्वय्यधीना हि मे प्राणाः किंनरोद्गीतभाषिणि | चारुसर्वानवद्याङ्गि पद्मेन्दुसदृशानने ||१०|| न ह्यहं त्वदृते भीरु शक्ष्ये जीवितुमात्मना | तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने ||११|| भक्तं मामसितापाङ्गे न परित्यक्तुमर्हसि | त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि ||१२|| गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि | विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ||१३|| तपत्युवाच|| नाहमीशात्मनो राजन्कन्या पितृमती ह्यहम् | मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम ||१४|| यथा हि ते मया प्राणाः सङ्गृहीता नरेश्वर | दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः ||१५|| न चाहमीशा देहस्य तस्मान्नृपतिसत्तम | समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः ||१६|| का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम् | कन्या नाभिलषेन्नाथं भर्तारं भक्तवत्सलम् ||१७|| तस्मादेवङ्गते काले याचस्व पितरं मम | आदित्यं प्रणिपातेन तपसा नियमेन च ||१८|| स चेत्कामयते दातुं तव मामरिमर्दन | भविष्याम्यथ ते राजन्सततं वशवर्तिनी ||१९|| अहं हि तपती नाम सावित्र्यवरजा सुता | अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ ||२०||

    १६२ गन्धर्व उवाच|| एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता | स तु राजा पुनर्भूमौ तत्रैव निपपात ह ||१|| अमात्यः सानुयात्रस्तु तं ददर्श महावने | क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम् ||२|| तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितौ | बभूव सोऽस्य सचिवः सम्प्रदीप्त इवाग्निना ||३|| त्वरया चोपसङ्गम्य स्नेहादागतसम्भ्रमः | तं समुत्थापयामास नृपतिं काममोहितम् ||४|| भूतलाद्भूमिपालेशं पितेव पतितं सुतम् | प्रज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च ||५|| अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः | उवाच चैनं कल्याण्या वाचा मधुरयोत्थितम् ||६|| मा भैर्मनुजशार्दूल भद्रं चास्तु तवानघ ||६|| क्षुत्पिपासापरिश्रान्तं तर्कयामास तं नृपम् | पतितं पातनं सङ्ख्ये शात्रवाणां महीतले ||७|| वारिणाथ सुशीतेन शिरस्तस्याभ्यषेचयत् | अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना ||८|| ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः | सर्वं विसर्जयामास तमेकं सचिवं विना ||९|| ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम् | स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत् ||१०|| ततस्तस्मिन्गिरिवरे शुचिर्भूत्वा कृताञ्जलिः | आरिराधयिषुः सूर्यं तस्थावूर्ध्वभुजः क्षितौ ||११|| जगाम मनसा चैव वसिष्ठमृषिसत्तमम् | पुरोहितममित्रघ्नस्तदा संवरणो नृपः ||१२|| नक्तंदिनमथैकस्थे स्थिते तस्मिञ्जनाधिपे | अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि ||१३|| स विदित्वैव नृपतिं तपत्या हृतमानसम् | दिव्येन विधिना ज्ञात्वा भावितात्मा महानृषिः ||१४|| तथा तु नियतात्मानं स तं नृपतिसत्तमम् | आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया ||१५|| स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः | ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः ||१६|| सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः | वसिष्ठोऽहमिति प्रीत्या स चात्मानं न्यवेदयत् ||१७|| तमुवाच महातेजा विवस्वान्मुनिसत्तमम् | महर्षे स्वागतं तेऽस्तु कथयस्व यथेच्छसि ||१८||

    १६३ वसिष्ठ उवाच|| यैषा ते तपती नाम सावित्र्यवरजा सुता | तां त्वां संवरणस्यार्थे वरयामि विभावसो ||१|| स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः | युक्तः संवरणो भर्ता दुहितुस्ते विहङ्गम ||२|| गन्धर्व उवाच|| इत्युक्तः सविता तेन ददानीत्येव निश्चितः | प्रत्यभाषत तं विप्रं प्रतिनन्द्य दिवाकरः ||३|| वरः संवरणो राज्ञां त्वमृषीणां वरो मुने | तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात् ||४|| ततः सर्वानवद्याग्नीं तपतीं तपनः स्वयम् | ददौ संवरणस्यार्थे वसिष्ठाय महात्मने ||५|| प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा ||५|| वसिष्ठोऽथ विसृष्टश्च पुनरेवाजगाम ह | यत्र विख्यतकीर्तिः स कुरूणामृषभोऽभवत् ||६|| स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना | दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम् ||७|| वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ ||७|| कृच्छ्रे द्वादशरात्रे तु तस्य राज्ञः समापिते | आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः ||८|| तपसाराध्य वरदं देवं गोपतिमीश्वरम् | लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा ||९|| ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते | जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः ||१०|| वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे | सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया ||११|| ततः पुरे च राष्ट्रे च वाहनेषु बलेषु च | आदिदेश महीपालस्तमेव सचिवं तदा ||१२|| नृपतिं त्वभ्यनुज्ञाय वसिष्ठोऽथापचक्रमे | सोऽपि राजा गिरौ तस्मिन्विजहारामरोपमः ||१३|| ततो द्वादश वर्षाणि काननेषु जलेषु च | रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया ||१४|| तस्य राज्ञः पुरे तस्मिन्समा द्वादश सर्वशः | न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य सर्वशः ||१५|| तत्क्षुधार्तैर्निरानन्दैः शवभूतैस्तदा नरैः | अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम् ||१६|| ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः | अभ्यपद्यत धर्मात्मा वसिष्ठो राजसत्तमम् ||१७|| तं च पार्थिवशार्दूलमानयामास तत्पुरम् | तपत्या सहितं राजन्नुषितं द्वादशीः समाः ||१८|| ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा | तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः ||१९|| ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा | तेन पार्थिवमुख्येन भावितं भावितात्मना ||२०|| ततो द्वादश वर्षाणि पुनरीजे नराधिपः | पत्न्या तपत्या सहितो यथा शक्रो मरुत्पतिः ||२१|| एवमासीन्महाभागा तपती नाम पौर्विकी | तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः ||२२|| तस्यां सञ्जनयामास कुरुं संवरणो नृपः | तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन ||२३||

    वासिष्ठोपाख्यानम् १६४ वैशम्पायन उवाच|| स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ | अर्जुनः परया प्रीत्या पूर्णचन्द्र इवाबभौ ||१|| उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः | जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात् ||२|| वसिष्ठ इति यस्यैतदृषेर्नाम त्वयेरितम् | एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे ||३|| य एष गन्धर्वपते पूर्वेषां नः पुरोहितः | आसीदेतन्ममाचक्ष्व क एष भगवानृषिः ||४|| गन्धर्व उवाच|| तपसा निर्जितौ शश्वदजेयावमरैरपि | कामक्रोधावुभौ यस्य चरणौ संववाहतुः ||५|| यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः | विश्वामित्रापराधेन धारयन्मन्युमुत्तमम् ||६|| पुत्रव्यसनसन्तप्तः शक्तिमानपि यः प्रभुः | विश्वामित्रविनाशाय न मेने कर्म दारुणम् ||७|| मृतांश्च पुनराहर्तुं यः स पुत्रान्यमक्षयात् | कृतान्तं नातिचक्राम वेलामिव महोदधिः ||८|| यं प्राप्य विजितात्मानं महात्मानं नराधिपाः | इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम् ||९|| पुरोहितवरं प्राप्य वसिष्ठमृषिसत्तमम् | ईजिरे क्रतुभिश्चापि नृपास्ते कुरुनन्दन ||१०|| स हि तान्याजयामास सर्वान्नृपतिसत्तमान् | ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान् ||११|| तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः | ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रविमृश्यताम् ||१२|| क्षत्रियेण हि जातेन पृथिवीं जेतुमिच्छता | पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये ||१३|| महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःसरम् | तस्मात्पुरोहितः कश्चिद्गुणवानस्तु वो द्विजः ||१४||

    १६५ अर्जुन उवाच|| किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः | वसतोराश्रमे पुण्ये शंस नः सर्वमेव तत् ||१|| गन्धर्व उवाच|| इदं वासिष्ठमाख्यानं पुराणं परिचक्षते | पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे ||२|| कन्यकुब्जे महानासीत्पार्थिवो भरतर्षभ | गाधीति विश्रुतो लोके सत्यधर्मपरायणः ||३|| तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः | विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः ||४|| स चचार सहामात्यो मृगयां गहने वने | मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु ||५|| व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः | आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति ||६|| तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः | विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया ||७|| पाद्यार्घ्याचमनीयेन स्वागतेन च भारत | तथैव प्रतिजग्राह वन्येन हविषा तथा ||८|| तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः | उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः ||९|| ग्राम्यारण्या ओषधीश्च दुदुहे पय एव च | षड्रसं चामृतरसं रसायनमनुत्तमम् ||१०|| भोजनीयानि पेयानि भक्ष्याणि विविधानि च | लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुन ||११|| तैः कामैः सर्वसम्पूर्णैः पूजितः स महीपतिः | सामात्यः सबलश्चैव तुतोष स भृशं नृपः ||१२|| षडायतां सुपार्श्वोरुं त्रिपृथुं पञ्च संवृताम् | मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् ||१३|| सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् | पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम् ||१४|| अभिनन्दति तां नन्दीं वसिष्ठस्य पयस्विनीम् | अब्रवीच्च भृशं तुष्टो विश्वामित्रो मुनिं तदा ||१५|| अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः | नन्दिनीं सम्प्रयच्छस्व भुङ्क्ष्व राज्यं महामुने ||१६|| वसिष्ठ उवाच|| देवतातिथिपित्रर्थमाज्यार्थं च पयस्विनी | अदेया नन्दिनीयं मे राज्येनापि तवानघ ||१७|| विश्वामित्र उवाच|| क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः | ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु ||१८|| अर्बुदेन गवां यस्त्वं न ददासि ममेप्सिताम् | स्वधर्मं न प्रहास्यामि नयिष्ये ते बलेन गाम् ||१९|| वसिष्ठ उवाच|| बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः | यथेच्छसि तथा क्षिप्रं कुरु त्वं मा विचारय ||२०|| गन्धर्व उवाच|| एवमुक्तस्तदा पार्थ विश्वामित्रो बलादिव | हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् ||२१|| कशादण्डप्रतिहता काल्यमाना ततस्ततः | हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी ||२२|| आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी | भृशं च ताड्यमानापि न जगामाश्रमात्ततः ||२३|| वसिष्ठ उवाच|| शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः | बलाद्ध्रियसि मे नन्दि क्षमावान्ब्राह्मणो ह्यहम् ||२४|| गन्धर्व उवाच|| सा तु तेषां बलान्नन्दी बलानां भरतर्षभ | विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् ||२५|| गौरुवाच|| पाषाणदण्डाभिहतां क्रन्दन्तीं मामनाथवत् | विश्वामित्रबलैर्घोरैर्भगवन्किमुपेक्षसे ||२६|| गन्धर्व उवाच|| एवं तस्यां तदा पर्थ धर्षितायां महामुनिः | न चुक्षुभे न धैर्याच्च विचचाल धृतव्रतः ||२७|| वसिष्ठ उवाच|| क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् | क्षमा मां भजते तस्माद्गम्यतां यदि रोचते ||२८|| गौरुवाच|| किं नु त्यक्तास्मि भगवन्यदेवं मां प्रभाषसे | अत्यक्ताहं त्वया ब्रह्मन्न शक्या नयितुं बलात् ||२९|| वसिष्ठ उवाच|| न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते | दृढेन दाम्ना बद्ध्वैष वत्सस्ते ह्रियते बलात् ||३०|| गन्धर्व उवाच|| स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी | ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ घोरदर्शना ||३१|| क्रोधरक्तेक्षणा सा गौर्हम्भारवघनस्वना | विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः ||३२|| कशाग्रदण्डाभिहता काल्यमाना ततस्ततः | क्रोधदीप्तेक्षणा क्रोधं भूय एव समादधे ||३३|| आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ | अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् ||३४|| असृजत्पह्लवान्पुच्छाच्छकृतः शबराञ्शकान् | मूत्रतश्चासृजच्चापि यवनान्क्रोधमूर्च्छिता ||३५|| पुण्ड्रान्किरातान्द्रमिडान्सिंहलान्बर्बरांस्तथा | तथैव दरदान्म्लेच्छान्फेनतः सा ससर्ज ह ||३६|| तैर्विसृष्टैर्महत्सैन्यं नानाम्लेच्छगणैस्तदा | नानावरणसञ्छन्नैर्नानायुधधरैस्तथा ||३७|| अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः ||३७|| एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः | अस्त्रवर्षेण महता काल्यमानं बलं ततः ||३८|| प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः ||३८|| न च प्राणैर्वियुज्यन्त केचित्ते सैनिकास्तदा | विश्वामित्रस्य सङ्क्रुद्धैर्वासिष्ठैर्भरतर्षभ ||३९|| विश्वामित्रस्य सैन्यं तु काल्यमानं त्रियोजनम् | क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत ||४०|| दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा | विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत् ||४१|| धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् | बलाबलं विनिश्चित्य तप एव परं बलम् ||४२|| स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम् | भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे ||४३|| स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा | तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप च ||४४|| अपिबच्च सुतं सोममिन्द्रेण सह कौशिकः ||४४||

    १६६ गन्धर्व उवाच|| कल्माषपाद इत्यस्मिँल्लोके राजा बभूव ह | इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि ||१|| स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात् | मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः ||२|| स तु राजा महात्मानं वासिष्ठमृषिसत्तमम् | तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि ||३|| अपश्यदजितः सङ्ख्ये मुनिं प्रतिमुखागतम् | शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम् ||४|| ज्येष्ठं पुत्रशतात्पुत्रं वसिष्ठस्य महात्मनः ||४|| अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत् | तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा ||५|| ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः | नापि राजा मुनेर्मानात्क्रोधाच्चापि जगाम ह ||६|| अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः | जघान कशया मोहात्तदा राक्षसवन्मुनिम् ||७|| कशाप्रहाराभिहतस्ततः स मुनिसत्तमः | तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः ||८|| हंसि राक्षसवद्यस्माद्राजापसद तापसम् | तस्मात्त्वमद्य प्रभृति पुरुषादो भविष्यसि ||९|| मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् | गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना ||१०|| ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः | वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत ||११|| तयोर्विवदतोरेवं समीपमुपचक्रमे | ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् ||१२|| ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः | ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा ||१३|| अन्तर्धाय तदात्मानं विश्वामित्रोऽपि भारत | तावुभावुपचक्राम चिकीर्षन्नात्मनः प्रियम् ||१४|| स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः | जगाम शरणं शक्तिं प्रसादयितुमर्हयन् ||१५|| तस्य भावं विदित्वा स नृपतेः कुरुनन्दन | विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति ||१६|| स शापात्तस्य विप्रर्षेर्विश्वामित्रस्य चाज्ञया | राक्षसः किङ्करो नाम विवेश नृपतिं तदा ||१७|| रक्षसा तु गृहीतं तं विदित्वा स मुनिस्तदा | विश्वामित्रोऽप्यपक्रामत्तस्माद्देशादरिंदम ||१८|| ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना | बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह ||१९|| ददर्श तं द्विजः कश्चिद्राजानं प्रस्थितं पुनः | ययाचे क्षुधितश्चैनं समांसं भोजनं तदा ||२०|| तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा | आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिति सान्त्वयन् ||२१|| निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् | इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः ||२२|| अन्तर्गतं तु तद्राज्ञस्तदा ब्राह्मणभाषितम् | सोऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः ||२३|| ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम् | उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् ||२४|| गच्छामुष्मिन्नसौ देशे ब्राह्मणो मां प्रतीक्षते | अन्नार्थी त्वं तमन्नेन समांसेनोपपादय ||२५|| एवमुक्तस्तदा सूदः सोऽनासाद्यामिषं क्वचित् | निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः ||२६|| राजा तु रक्षसाविष्टः सूदमाह गतव्यथः | अप्येनं नरमांसेन भोजयेति पुनः पुनः ||२७|| तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् | गत्वा जहार त्वरितो नरमांसमपेतभीः ||२८|| स तत्संस्कृत्य विधिवदन्नोपहितमाशु वै | तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने ||२९|| स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः | अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः ||३०|| यस्मादभोज्यमन्नं मे ददाति स नराधिपः | तस्मात्तस्यैव मूढस्य भविष्यत्यत्र लोलुपा ||३१|| सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा | उद्वेजनीयो भूतानां चरिष्यति महीमिमाम् ||३२|| द्विरनुव्याहृते राज्ञः स शापो बलवानभूत् | रक्षोबलसमाविष्टो विसञ्ज्ञश्चाभवत्तदा ||३३|| ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः | उवाच शक्तिं तं दृष्ट्वा नचिरादिव भारत ||३४|| यस्मादसदृशः शापः प्रयुक्तोऽयं त्वया मयि | तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं मानुषानहम् ||३५|| एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयुज्य सः | शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम् ||३६|| शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस्ततः पुनः | वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह ||३७|| स ताञ्शतावरान्पुत्रान्वसिष्ठस्य महात्मनः | भक्षयामास सङ्क्रुद्धः सिंहः क्षुद्रमृगानिव ||३८|| वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान् | धारयामास तं शोकं महाद्रिरिव मेदिनीम् ||३९|| चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः | न त्वेव कुशिकोच्छेदं मेने मतिमतां वरः ||४०|| स मेरुकूटादात्मानं मुमोच भगवानृषिः | शिरस्तस्य शिलायां च तूलराशाविवापतत् ||४१|| न ममार च पातेन स यदा तेन पाण्डव | तदाग्निमिद्ध्वा भगवान्संविवेश महावने ||४२|| तं तदा सुसमिद्धोऽपि न ददाह हुताशनः | दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः ||४३|| स समुद्रमभिप्रेत्य शोकाविष्टो महामुनिः | बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदम्भसि ||४४|| स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः | जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति ||४५||

    १६७ गन्धर्व उवाच|| ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः | निर्जगाम सुदुःखार्तः पुनरेवाश्रमात्ततः ||१|| सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा | वृक्षान्बहुविधान्पार्थ वहन्तीं तीरजान्बहून् ||२|| अथ चिन्तां समापेदे पुनः पौरवनन्दन | अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः ||३|| ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः | तस्या जले महानद्या निममज्ज सुदुःखितः ||४|| अथ छित्त्वा नदी पाशांस्तस्यारिबलमर्दन | समस्थं तमृषिं कृत्वा विपाशं समवासृजत् ||५|| उत्ततार ततः पाशैर्विमुक्तः स महानृषिः | विपाशेति च नामास्या नद्याश्चक्रे महानृषिः ||६|| शोके बुद्धिं ततश्चक्रे न चैकत्र व्यतिष्ठत | सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च ||७|| ततः स पुनरेवर्षिर्नदीं हैमवतीं तदा | चण्डग्राहवतीं दृष्ट्वा तस्याः स्रोतस्यवापतत् ||८|| सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा | शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता ||९|| ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना | मर्तुं न शक्यमित्युक्त्वा पुनरेवाश्रमं ययौ ||१०|| वध्वादृश्यन्त्यानुगत आश्रमाभिमुखो व्रजन् | अथ शुश्राव सङ्गत्या वेदाध्ययननिःस्वनम् ||११|| पृष्ठतः परिपूर्णार्थैः षड्भिरङ्गैरलङ्कृतम् ||११|| अनुव्रजति को न्वेष मामित्येव च सोऽब्रवीत् | अहं त्वदृश्यती नाम्ना तं स्नुषा प्रत्यभाषत ||१२|| शक्तेर्भार्या महाभाग तपोयुक्ता तपस्विनी ||१२|| वसिष्ठ उवाच|| पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः | पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः ||१३|| अदृश्यन्त्युवाच|| अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते | समा द्वादश तस्येह वेदानभ्यसतो मुने ||१४|| गन्धर्व उवाच|| एवमुक्तस्ततो हृष्टो वसिष्ठः श्रेष्ठभागृषिः | अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत ||१५|| ततः प्रतिनिवृत्तः स तया वध्वा सहानघ | कल्माषपादमासीनं ददर्श विजने वने ||१६|| स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत | आविष्टो रक्षसोग्रेण इयेषात्तुं ततः स्म तम् ||१७|| अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः | भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत् ||१८|| असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः | प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति भीषणः ||१९|| तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन | त्वदृतेऽद्य महाभाग सर्ववेदविदां वर ||२०|| त्राहि मां भगवन्पापादस्माद्दारुणदर्शनात् | रक्षो अत्तुमिह ह्यावां नूनमेतच्चिकीर्षति ||२१||

    १६८ वसिष्ठ उवाच|| मा भैः पुत्रि न भेतव्यं रक्षसस्ते कथञ्चन | नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम् ||१|| राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि | स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः ||२|| गन्धर्व उवाच|| तमापतन्तं सम्प्रेक्ष्य वसिष्ठो भगवानृषिः | वारयामास तेजस्वी हुङ्करेणैव भारत ||३|| मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा | मोक्षयामास वै घोराद्राक्षसाद्राजसत्तमम् ||४|| स हि द्वादश वर्षाणि वसिष्ठस्यैव तेजसा | ग्रस्त आसीद्गृहेणेव पर्वकाले दिवाकरः ||५|| रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत् | तेजसा रञ्जयामास सन्ध्याभ्रमिव भास्करः ||६|| प्रतिलभ्य ततः सञ्ज्ञामभिवाद्य कृताञ्जलिः | उवाच नृपतिः काले वसिष्ठमृषिसत्तमम् ||७|| सौदासोऽहं महाभाग याज्यस्ते द्विजसत्तम | अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते ||८|| वसिष्ठ उवाच|| वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि तत् | ब्राह्मणांश्च मनुष्येन्द्र मावमंस्थाः कदाचन ||९|| राजोवाच|| नावमंस्याम्यहं ब्रह्मन्कदाचिद्ब्राह्मणर्षभान् | त्वन्निदेशे स्थितः शश्वत्पुजयिष्याम्यहं द्विजान् ||१०|| इक्ष्वाकूणां तु येनाहमनृणः स्यां द्विजोत्तम | तत्त्वत्तः प्राप्तुमिच्छामि वरं वेदविदां वर ||११|| अपत्यायेप्सितां मह्यं महिषीं गन्तुमर्हसि | शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये ||१२|| गन्धर्व उवाच|| ददानीत्येव तं तत्र राजानं प्रत्युवाच ह | वसिष्ठः परमेष्वासं सत्यसन्धो द्विजोत्तमः ||१३|| ततः प्रतिययौ काले वसिष्ठसहितोऽनघ | ख्यातं पुरवरं लोकेष्वयोध्यां मनुजेश्वरः ||१४|| तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुस्तदा | विपाप्मानं महात्मानं दिवौकस इवेश्वरम् ||१५|| अचिरात्स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम् | विवेश सहितस्तेन वसिष्ठेन महात्मना ||१६|| ददृशुस्तं ततो राजन्नयोध्यावासिनो जनाः | पुष्येण सहितं काले दिवाकरमिवोदितम् ||१७|| स हि तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः | अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः ||१८|| संसिक्तमृष्टपन्थानं पताकोच्छ्रयभूषितम् | मनः प्रह्लादयामासा तस्य तत्पुरमुत्तमम् ||१९|| तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन | अशोभत तदा तेन शक्रेणेवामरावती ||२०|| ततः प्रविष्टे राजेन्द्रे तस्मिन्राजनि तां पुरीम् | तस्य राज्ञोऽऽज्ञया देवी वसिष्ठमुपचक्रमे ||२१|| ऋतावथ महर्षिः स सम्बभूव तया सह | देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः ||२२|| अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः | राज्ञाभिवादितस्तेन जगाम पुनराश्रमम् ||२३|| दीर्घकालधृतं गर्भं सुषाव न तु तं यदा | साथ देव्यश्मना कुक्षिं निर्बिभेद तदा स्वकम् ||२४|| द्वादशेऽथ ततो वर्षे स जज्ञे मनुजर्षभ | अश्मको नाम राजर्षिः पोतनं यो न्यवेशयत् ||२५||

    और्वोपाख्यानम् १६९ गन्धर्व उवाच|| आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत | शक्तेः कुलकरं राजन्द्वितीयमिव शक्तिनम् ||१|| जातकर्मादिकास्तस्य क्रियाः स मुनिपुङ्गवः | पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम् ||२|| परासुश्च यतस्तेन वसिष्ठः स्थापितस्तदा | गर्भस्थेन ततो लोके पराशर इति स्मृतः ||३|| अमन्यत स धर्मात्मा वसिष्ठं पितरं तदा | जन्मप्रभृति तस्मिंश्च पितरीव व्यवर्तत ||४|| स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत | मातुः समक्षं कौन्तेय अदृश्यन्त्याः परन्तप ||५|| तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः | अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वन्ती तमुवाच ह ||६|| मा तात तात तातेति न ते तातो महामुनिः | रक्षसा भक्षितस्तात तव तातो वनान्तरे ||७|| मन्यसे यं तु तातेति नैष तातस्तवानघ | आर्यस्त्वेष पिता तस्य पितुस्तव महात्मनः ||८|| स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः | सर्वलोकविनाशाय मतिं चक्रे महामनाः ||९|| तं तथा निश्चितात्मानं महात्मानं महातपाः | वसिष्ठो वारयामास हेतुना येन तच्छृणु ||१०|| वसिष्ठ उवाच|| कृतवीर्य इति ख्यातो बभूव नृपतिः क्षितौ | याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः ||११|| स तानग्रभुजस्तात धान्येन च धनेन च | सोमान्ते तर्पयामास विपुलेन विशां पतिः ||१२|| तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कदाचन | बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम् ||१३|| ते भृगूणां धनं ज्ञात्वा राजानः सर्व एव ह | याचिष्णवोऽभिजग्मुस्तांस्तात भार्गवसत्तमान् ||१४|| भूमौ तु निदधुः केचिद्भृगवो धनमक्षयम् | ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम् ||१५|| भृगवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम् | क्षत्रियाणां तदा तात कारणान्तरदर्शनात् ||१६|| ततो महीतलं तात क्षत्रियेण यदृच्छया | खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि ||१७|| तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः ||१७|| अवमन्य ततः कोपाद्भृगूंस्ताञ्शरणागतान् | निजघ्नुस्ते महेष्वासाः सर्वांस्तान्निशितैः शरैः ||१८|| आ गर्भादनुकृन्तन्तश्चेरुश्चैव वसुन्धराम् ||१८|| तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा | भृगुपत्न्यो गिरिं तात हिमवन्तं प्रपेदिरे ||१९|| तासामन्यतमा गर्भं भयाद्दाधार तैजसम् | ऊरुणैकेन वामोरूर्भर्तुः कुलविवृद्धये ||२०|| ददृशुर्ब्राह्मणीं तां ते दीप्यमानां स्वतेजसा ||२०|| अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह | मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः ||२१|| ततश्चक्षुर्वियुक्तास्ते गिरिदुर्गेषु बभ्रमुः ||२१|| ततस्ते मोघसङ्कल्पा भयार्ताः क्षत्रियर्षभाः | ब्रह्मणीं शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम् ||२२|| ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः | ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः ||२३|| भगवत्याः प्रसादेन गच्छेत्क्षत्रं सचक्षुषम् | उपारम्य च गच्छेम सहिताः पापकर्मणः ||२४|| सपुत्रा त्वं प्रसादं नः सर्वेषां कर्तुमर्हसि | पुनर्दृष्टिप्रदानेन राज्ञः सन्त्रातुमर्हसि ||२५||

    १७० ब्राह्मण्युवाच|| नाहं गृह्णामि वस्तात दृष्टीर्नास्ति रुषान्विता | अयं तु भार्गवो नूनमूरुजः कुपितोऽद्य वः ||१|| तेन चक्षूंषि वस्तात नूनं कोपान्महात्मना | स्मरता निहतान्बन्धूनादत्तानि न संशयः ||२|| गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः | तदायमूरुणा गर्भो मया वर्षशतं धृतः ||३|| षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव हि | विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया ||४|| सोऽयं पितृवधान्नूनं क्रोधाद्वो हन्तुमिच्छति | तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः ||५|| तमिमं तात याचध्वमौर्वं मम सुतोत्तमम् | अयं वः प्रणिपातेन तुष्टो दृष्टीर्विमोक्ष्यति ||६|| गन्धर्व उवाच|| एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम् | ऊचुः प्रसीदेति तदा प्रसादं च चकार सः ||७|| अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः | स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत ||८|| चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः | भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम् ||९|| स चक्रे तात लोकानां विनाशाय महामनाः | सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः ||१०|| इच्छन्नपचितिं कर्तुं भृगूणां भृगुसत्तमः | सर्वलोकविनाशाय तपसा महतैधितः ||११|| तापयामास लोकान्स सदेवासुरमानुषान् | तपसोग्रेण महता नन्दयिष्यन्पितामहान् ||१२|| ततस्तं पितरस्तात विज्ञाय भृगुसत्तमम् | पितृलोकादुपागम्य सर्व ऊचुरिदं वचः ||१३|| और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक | प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः ||१४|| नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः | वधोऽभ्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम् ||१५|| आयुषा हि प्रकृष्टेन यदा नः खेद आविशत् | तदास्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम् ||१६|| निखातं तद्धि वै वित्तं केनचिद्भृगुवेश्मनि | वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः ||१७|| किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ ||१७|| यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः | तदास्माभिरयं दृष्ट उपायस्तात संमतः ||१८|| आत्महा च पुमांस्तात न लोकाँल्लभते शुभान् | ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा विनाशितः ||१९|| न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि | नियच्छेदं मनः पापात्सर्वलोकपराभवात् ||२०|| न हि नः क्षत्रियाः केचिन्न लोकाः सप्त पुत्रक | दूषयन्ति तपस्तेजः क्रोधमुत्पतितं जहि ||२१||

    १७१ और्व उवाच|| उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा | सर्वलोकविनाशाय न सा मे वितथा भवेत् ||१|| वृथारोषप्रतिज्ञो हि नाहं जीवितुमुत्सहे | अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् ||२|| यो हि कारणतः क्रोधं सञ्जातं क्षन्तुमर्हति | नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम् ||३|| अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता | स्थाने रोषः प्रयुक्तः स्यान्नृपैः स्वर्गजिगीषुभिः ||४|| अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा | आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे ||५|| सामरैर्हि यदा लोकैर्भृगूणां क्षत्रियाधमैः | आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविषत् ||६|| आपूर्णकोशाः किल मे मातरः पितरस्तथा | भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम् ||७|| तान्भृगूणां तदा दारान्कश्चिन्नाभ्यवपद्यत | यदा तदा दधारेयमूरुणैकेन मां शुभा ||८|| प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते | तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते ||९|| यदा तु प्रतिषेद्धारं पापो न लभते क्वचित् | तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु ||१०|| जानन्नपि च यः पापं शक्तिमान्न नियच्छति | ईशः सन्सोऽपि तेनैव कर्मणा सम्प्रयुज्यते ||११|| राजभिश्चेश्वरैश्चैव यदि वै पितरो मम | शक्तैर्न शकिता त्रातुमिष्टं मत्वेह जीवितम् ||१२|| अत एषामहं क्रुद्धो लोकानामीश्वरोऽद्य सन् | भवतां तु वचो नाहमलं समतिवर्तितुम् ||१३|| मम चापि भवेदेतदीश्वरस्य सतो महत् | उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम् ||१४|| यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति | दहेदेष च मामेव निगृहीतः स्वतेजसा ||१५|| भवतां च विजानामि सर्वलोकहितेप्सुताम् | तस्माद्विदध्वं यच्छ्रेयो लोकानां मम चेश्वराः ||१६|| पितर ऊचुः|| य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति | अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः ||१७|| आपोमयाः सर्वरसाः सर्वमापोमयं जगत् | तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम ||१८|| अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ | मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः ||१९|| एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति | न चैव सामरा लोका गमिष्यन्ति पराभवम् ||२०|| वसिष्ठ उवाच|| ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये | उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ ||२१|| महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः | तमग्निमुद्गिरन्वक्त्रात्पिबत्यापो महोदधौ ||२२|| तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि | पराशर परान्धर्माञ्जानञ्ज्ञानवतां वर ||२३||

    १७२ गन्धर्व उवाच|| एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना | न्ययच्छदात्मनः कोपं सर्वलोकपराभवात् ||१|| ईजे च स महातेजाः सर्ववेदविदां वरः | ऋषी राक्षससत्रेण शाक्तेयोऽथ पराशरः ||२|| ततो वृद्धांश्च बालांश्च राक्षसान्स महामुनिः | ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन् ||३|| न हि तं वारयामास वसिष्ठो रक्षसां वधात् | द्वितीयामस्य मा भाङ्क्षं प्रतिज्ञामिति निश्चयात् ||४|| त्रयाणां पावकानां स सत्रे तस्मिन्महामुनिः | आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः ||५|| तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः | तद्विदीपितमाकाशं सूर्येणेव घनात्यये ||६|| तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे | तेजसा दिवि दीप्यन्तं द्वितीयमिव भास्करम् ||७|| ततः परमदुष्प्रापमन्यैरृषिरुदारधीः | समापिपयिषुः सत्रं तमत्रिः समुपागमत् ||८|| तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुम् | उपाजग्मुरमित्रघ्न रक्षसां जीवितेप्सया ||९|| पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ | उवाचेदं वचः पार्थ पराशरमरिंदमम् ||१०|| कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक | अजानतामदोषाणां सर्वेषां रक्षसां वधात् ||११|| प्रजोच्छेदमिमं मह्यं सर्वं सोमपसत्तम | अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर ||१२|| राजा कल्माषपादश्च दिवमारोढुमिच्छति ||१२|| ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः | ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः ||१३|| सर्वमेतद्वसिष्ठस्य विदितं वै महामुने ||१३|| रक्षसां च समुच्छेद एष तात तपस्विनाम् | निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन ||१४|| स सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते ||१४|| एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता | तदा समापयामास सत्रं शाक्तिः पराशरः ||१५|| सर्वराक्षससत्राय सम्भृतं पावकं मुनिः | उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने ||१६|| स तत्राद्यापि रक्षांसि वृक्षानश्मान एव च | भक्षयन्दृश्यते वह्निः सदा पर्वणि पर्वणि ||१७||

    १७३ अर्जुन उवाच|| राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे | कारणं किं पुरस्कृत्य भार्या वै संनियोजिता ||१|| जानता च परं धर्मं लोक्यं तेन महात्मना | अगम्यागमनं कस्माद्वसिष्ठेन महात्मना ||२|| कृतं तेन पुरा सर्वं वक्तुमर्हसि पृच्छतः ||२|| गन्धर्व उवाच|| धनञ्जय निबोधेदं यन्मां त्वं परिपृच्छसि | वसिष्ठं प्रति दुर्धर्षं तथामित्रसहं नृपम् ||३|| कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः | शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना ||४|| स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः | निर्जगाम पुराद्राजा सहदारः परन्तपः ||५|| अरण्यं निर्जनं गत्वा सदारः परिचक्रमे | नानामृगगणाकीर्णं नानासत्त्वसमाकुलम् ||६|| नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम् | अरण्यं घोरसंनादं शापग्रस्तः परिभ्रमन् ||७|| स कदाचित्क्षुधाविष्टो मृगयन्भक्षमात्मनः | ददर्श सुपरिक्लिष्टः कस्मिंश्चिद्वननिर्झरे ||८|| ब्राह्मणीं ब्राह्मणं चैव मैथुनायोपसङ्गतौ ||८|| तौ समीक्ष्य तु वित्रस्तावकृतार्थौ प्रधावितौ | तयोश्च द्रवतोर्विप्रं जगृहे नृपतिर्बलात् ||९|| दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत | शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि सुव्रत ||१०|| आदित्यवंशप्रभवस्त्वं हि लोकपरिश्रुतः | अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः ||११|| शापं प्राप्तोऽसि दुर्धर्ष न पापं कर्तुमर्हसि | ऋतुकाले तु सम्प्राप्ते भर्त्रास्म्यद्य समागता ||१२|| अकृतार्था ह्यहं भर्त्रा प्रसवार्थश्च मे महान् | प्रसीद नृपतिश्रेष्ठ भर्ता मेऽयं विसृज्यताम् ||१३|| एवं विक्रोशमानायास्तस्याः स सुनृशंसकृत् | भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम् ||१४|| तस्याः क्रोधाभिभूताया यदश्रु न्यपतद्भुवि | सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत् ||१५|| ततः सा शोकसन्तप्ता भर्तृव्यसनदुःखिता | कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा ||१६|| यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत् | प्रेक्षन्त्या भक्षितो मेऽद्य प्रभुर्भर्ता महायशाः ||१७|| तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः | पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम् ||१८|| यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः | तेन सङ्गम्य ते भार्या तनयं जनयिष्यति ||१९|| स ते वंशकरः पुत्रो भविष्यति नृपाधम ||१९|| एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा | तस्यैव संनिधौ दीप्तं प्रविवेश हुताशनम् ||२०|| वसिष्ठश्च महाभागः सर्वमेतदपश्यत | ज्ञानयोगेन महता तपसा च परन्तप ||२१|| मुक्तशापश्च राजर्षिः कालेन महता ततः | ऋतुकालेऽभिपतितो मदयन्त्या निवारितः ||२२|| न हि सस्मार नृपतिस्तं शापं शापमोहितः | देव्याः सोऽथ वचः श्रुत्वा स तस्या नृपसत्तमः ||२३|| तं च शापमनुस्मृत्य पर्यतप्यद्भृशं तदा ||२३|| एतस्मात्कारणाद्राजा वसिष्ठं संन्ययोजयत् | स्वदारे भरतश्रेष्ठ शापदोषसमन्वितः ||२४||

    द्रौपदीस्वयंवरपर्व १७४ अर्जुन उवाच|| अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित् | पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव ||१|| गन्धर्व उवाच|| यवीयान्देवलस्यैष वने भ्राता तपस्यति | धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ ||२|| वैशम्पायन उवाच|| ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि | गन्धर्वाय तदा प्रीतो वचनं चेदमब्रवीत् ||३|| त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम | कर्मकाले ग्रहीष्यामि स्वस्ति तेऽस्त्विति चाब्रवीत् ||४|| तेऽन्योन्यमभिसम्पूज्य गन्धर्वः पाण्डवाश्च ह | रम्याद्भागीरथीकच्छाद्यथाकामं प्रतस्थिरे ||५|| तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते | तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत ||६|| तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः | पाद्येन फलमूलेन पौरोहित्येन चैव ह ||७|| ते तदाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः | तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम् ||८|| मातृषष्ठास्तु ते तेन गुरुणा सङ्गतास्तदा | नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः ||९|| स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः | तेन धर्मविदा पार्था याज्याः सर्वविदा कृताः ||१०|| वीरांस्तु स हि तान्मेने प्राप्तराज्यान्स्वधर्मतः | बुद्धिवीर्यबलोत्साहैर्युक्तान्देवानिवापरान् ||११|| कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः | मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम् ||१२||

    १७५ वैशम्पायन उवाच|| ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः | प्रययुर्द्रौपदीं द्रष्टुं तं च देवमहोत्सवम् ||१|| ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः | ब्राह्मणान्ददृशुर्मार्गे गच्छतः सगणान्बहून् ||२|| तानूचुर्ब्राह्मणा राजन्पाण्डवान्ब्रह्मचारिणः | क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह ||३|| युधिष्ठिर उवाच|| आगतानेकचक्रायाः सोदर्यान्देवदर्शिनः | भवन्तो हि विजानन्तु सहितान्मातृचारिणः ||४|| ब्राह्मणा ऊचुः|| गच्छताद्यैव पाञ्चालान्द्रुपदस्य निवेशनम् | स्वयंवरो महांस्तत्र भविता सुमहाधनः ||५|| एकसार्थं प्रयाताः स्मो वयमप्यत्र गामिनः | तत्र ह्यद्भुतसङ्काशो भविता सुमहोत्सवः ||६|| यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः | वेदीमध्यात्समुत्पन्ना पद्मपत्रनिभेक्षणा ||७|| दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी | धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः ||८|| यो जातः कवची खड्गी सशरः सशरासनः | सुसमिद्धे महाबाहुः पावके पावकप्रभः ||९|| स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा | नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति ||१०|| तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम् | गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम् ||११|| राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः | स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः ||१२|| तरुणा दर्शनीयाश्च नानादेशसमागताः | महारथाः कृतास्त्राश्च समुपैष्यन्ति भूमिपाः ||१३|| ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः | प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः ||१४|| प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम् | अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम् ||१५|| नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः | नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः ||१६|| एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च | सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ ||१७|| दर्शनीयांश्च वः सर्वान्देवरूपानवस्थितान् | समीक्ष्य कृष्णा वरयेत्सङ्गत्यान्यतमं वरम् ||१८|| अयं भ्राता तव श्रीमान्दर्शनीयो महाभुजः | नियुध्यमानो विजयेत्सङ्गत्या द्रविणं बहु ||१९|| युधिष्ठिर उवाच|| परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम् | भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम् ||२०||

    १७६ वैशम्पायन उवाच|| एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय | राज्ञा दक्षिणपाञ्चालान्द्रुपदेनाभिरक्षितान् ||१|| ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम् | ददृशुः पाण्डवा राजन्पथि द्वैपायनं तदा ||२|| तस्मै यथावत्सत्कारं कृत्वा तेन च सान्त्विताः | कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम् ||३|| पश्यन्तो रमणीयानि वनानि च सरांसि च | तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः ||४|| स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः | आनुपूर्व्येण सम्प्राप्ताः पाञ्चालान्कुरुनन्दनाः ||५|| ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः | कुम्भकारस्य शालायां निवेशं चक्रिरे तदा ||६|| तत्र भैक्षं समाजह्रुर्ब्राह्मीं वृत्तिं समाश्रिताः | तांश्च प्राप्तांस्तदा वीराञ्जज्ञिरे न नराः क्वचित् ||७|| यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने | कृष्णां दद्यामिति सदा न चैतद्विवृणोति सः ||८|| सोऽन्वेषमाणः कौन्तेयान्पाञ्चाल्यो जनमेजय | दृढं धनुरनायम्यं कारयामास भारत ||९|| यन्त्रं वैहायसं चापि कारयामास कृत्रिमम् | तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम् ||१०|| द्रुपद उवाच|| इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः | अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुतामिति ||११|| वैशम्पायन उवाच|| इति स द्रुपदो राजा सर्वतः समघोषयत् | तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत ||१२|| ऋषयश्च महात्मानः स्वयंवरदिदृक्षया | दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप ||१३|| ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन् | तेऽभ्यर्चिता राजगणा द्रुपदेन महात्मना ||१४|| ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः | शिशुमारपुरं प्राप्य न्यविशंस्ते च पार्थिवाः ||१५|| प्रागुत्तरेण नगराद्भूमिभागे समे शुभे | समाजवाटः शुशुभे भवनैः सर्वतो वृतः ||१६|| प्राकारपरिखोपेतो द्वारतोरणमण्डितः | वितानेन विचित्रेण सर्वतः समवस्तृतः ||१७|| तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः | चन्दनोदकसिक्तश्च माल्यदामैश्च शोभितः ||१८|| कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः | सर्वतः संवृतैर्नद्धः प्रासादैः सुकृतोच्छ्रितैः ||१९|| सुवर्णजालसंवीतैर्मणिकुट्टिमभूषितैः | सुखारोहणसोपानैर्महासनपरिच्छदैः ||२०|| अग्राम्यसमवच्छन्नैरगुरूत्तमवासितैः | हंसाच्छवर्णैर्बहुभिरायोजनसुगन्धिभिः ||२१|| असम्बाधशतद्वारैः शयनासनशोभितैः | बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव ||२२|| तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः | स्पर्धमानास्तदान्योन्यं निषेदुः सर्वपार्थिवाः ||२३|| तत्रोपविष्टान्ददृशुर्महासत्त्वपराक्रमान् | राजसिंहान्महाभागान्कृष्णागुरुविभूषितान् ||२४|| महाप्रसादान्ब्रह्मण्यान्स्वराष्ट्रपरिरक्षिणः | प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः ||२५|| मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः | कृष्णादर्शनतुष्ट्यर्थं सर्वतः समुपाविशन् ||२६|| ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन् | ऋद्धिं पाञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् ||२७|| ततः समाजो ववृधे स राजन्दिवसान्बहून् | रत्नप्रदानबहुलः शोभितो नटनर्तकैः ||२८|| वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे | आप्लुताङ्गी सुवसना सर्वाभरणभूषिता ||२९|| वीरकांस्यमुपादाय काञ्चनं समलङ्कृतम् | अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ ||३०|| पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः | परिस्तीर्य जुहावाग्निमाज्येन विधिना तदा ||३१|| स तर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च | वारयामास सर्वाणि वादित्राणि समन्ततः ||३२|| निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशां पते | रङ्गमध्यगतस्तत्र मेघगम्भीरया गिरा ||३३|| वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् ||३३|| इदं धनुर्लक्ष्यमिमे च बाणाः; शृण्वन्तु मे पार्थिवाः सर्व एव | यन्त्रच्छिद्रेणाभ्यतिक्रम्य लक्ष्यं; समर्पयध्वं खगमैर्दशार्धैः ||३४|| एतत्कर्ता कर्म सुदुष्करं यः; कुलेन रूपेण बलेन युक्तः | तस्याद्य भार्या भगिनी ममेयं; कृष्णा भवित्री न मृषा ब्रवीमि ||३५|| तानेवमुक्त्वा द्रुपदस्य पुत्रः; पश्चादिदं द्रौपदीमभ्युवाच | नाम्ना च गोत्रेण च कर्मणा च; सङ्कीर्तयंस्तान्नृपतीन्समेतान् ||३६||

    १७७ धृष्टद्युम्न उवाच|| दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः | विविंशतिर्विकर्णश्च सहो दुःशासनः समः ||१|| युयुत्सुर्वातवेगश्च भीमवेगधरस्तथा | उग्रायुधो बलाकी च कनकायुर्विरोचनः ||२|| सुकुण्डलश्चित्रसेनः सुवर्चाः कनकध्वजः | नन्दको बाहुशाली च कुण्डजो विकटस्तथा ||३|| एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः | कर्णेन सहिता वीरास्त्वदर्थं समुपागताः ||४|| शतसङ्ख्या महात्मानः प्रथिताः क्षत्रियर्षभाः ||४|| शकुनिश्च बलश्चैव वृषकोऽथ बृहद्बलः | एते गान्धारराजस्य सुताः सर्वे समागताः ||५|| अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ | समवेतौ महात्मानौ त्वदर्थे समलङ्कृतौ ||६|| बृहन्तो मणिमांश्चैव दण्डधारश्च वीर्यवान् | सहदेवो जयत्सेनो मेघसन्धिश्च मागधः ||७|| विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च | वार्धक्षेमिः सुवर्चाश्च सेनाबिन्दुश्च पार्थिवः ||८|| अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा | सुमित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा ||९|| सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा | अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः ||१०|| समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान् | जलसन्धः पितापुत्रौ सुदण्डो दण्ड एव च ||११|| पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान् | कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा ||१२|| मद्रराजस्तथा शल्यः सहपुत्रो महारथः | रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च ||१३|| कौरव्यः सोमदत्तश्च पुत्राश्चास्य महारथाः | समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः ||१४|| सुदक्षिणश्च काम्बोजो दृढधन्वा च कौरवः | बृहद्बलः सुषेणश्च शिबिरौशीनरस्तथा ||१५|| सङ्कर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान् | साम्बश्च चारुदेष्णश्च सारणोऽथ गदस्तथा ||१६|| अक्रूरः सात्यकिश्चैव उद्धवश्च महाबलः | कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च ||१७|| विडूरथश्च कङ्कश्च समीकः सारमेजयः | वीरो वातपतिश्चैव झिल्ली पिण्डारकस्तथा ||१८|| उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः ||१८|| भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः | बृहद्रथो बाह्लिकश्च श्रुतायुश्च महारथः ||१९|| उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ | वत्सराजश्च धृतिमान्कोसलाधिपतिस्तथा ||२०|| एते चान्ये च बहवो नानाजनपदेश्वराः | त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि ||२१|| एते वेत्स्यन्ति विक्रान्तास्त्वदर्थं लक्ष्यमुत्तमम् | विध्येत य इमं लक्ष्यं वरयेथाः शुभेऽद्य तम् ||२२||

    १७८ वैशम्पायन उवाच|| तेऽलङ्कृताः कुण्डलिनो युवानः; परस्परं स्पर्धमानाः समेताः | अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुरहङ्कृतेन ||१|| रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च यौवनेन | समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः ||२|| परस्परं स्पर्धया प्रेक्षमाणाः; सङ्कल्पजेनापि परिप्लुताङ्गाः | कृष्णा ममैषेत्यभिभाषमाणा; नृपासनेभ्यः सहसोपतस्थुः ||३|| ते क्षत्रिया रङ्गगताः समेता; जिगीषमाणा द्रुपदात्मजां ताम् | चकाशिरे पर्वतराजकन्या; मुमां यथा देवगणाः समेताः ||४|| कन्दर्पबाणाभिनिपीडिताङ्गाः; कृष्णागतैस्ते हृदयैर्नरेन्द्राः | रङ्गावतीर्णा द्रुपदात्मजार्थं; द्वेष्यान्हि चक्रुः सुहृदोऽपि तत्र ||५|| अथाययुर्देवगणा विमानै; रुद्रादित्या वसवोऽथाश्विनौ च | साध्याश्च सर्वे मरुतस्तथैव; यमं पुरस्कृत्य धनेश्वरं च ||६|| दैत्याः सुपर्णाश्च महोरगाश्च; देवर्षयो गुह्यकाश्चारणाश्च | विश्वावसुर्नारदपर्वतौ च; गन्धर्वमुख्याश्च सहाप्सरोभिः ||७|| हलायुधस्तत्र च केशवश्च; वृष्ण्यन्धकाश्चैव यथा प्रधानाः | प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते; स्थिताश्च कृष्णस्य मते बभूवुः ||८|| दृष्ट्वा हि तान्मत्तगजेन्द्ररूपा; न्पञ्चाभिपद्मानिव वारणेन्द्रान् | भस्मावृताङ्गानिव हव्यवाहा; न्पार्थान्प्रदध्यौ स यदुप्रवीरः ||९|| शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ | शनैः शनैस्तांश्च निरीक्ष्य रामो; जनार्दनं प्रीतमना ददर्श ||१०|| अन्ये तु नानानृपपुत्रपौत्राः; कृष्णागतैर्नेत्रमनःस्वभावैः | व्यायच्छमाना ददृशुर्भ्रमन्तीं; संदष्टदन्तच्छदताम्रवक्त्राः ||११|| तथैव पार्थाः पृथुबाहवस्ते; वीरौ यमौ चैव महानुभावौ | तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे; कन्दर्पबाणाभिहता बभूवुः ||१२|| देवर्षिगन्धर्वसमाकुलं त; त्सुपर्णनागासुरसिद्धजुष्टम् | दिव्येन गन्धेन समाकुलं च; दिव्यैश्च माल्यैरवकीर्यमाणम् ||१३|| महास्वनैर्दुन्दुभिनादितैश्च; बभूव तत्सङ्कुलमन्तरिक्षम् | विमानसम्बाधमभूत्समन्ता; त्सवेणुवीणापणवानुनादम् ||१४|| ततस्तु ते राजगणाः क्रमेण; कृष्णानिमित्तं नृप विक्रमन्तः | तत्कार्मुकं संहननोपपन्नं; सज्यं न शेकुस्तरसापि कर्तुम् ||१५|| ते विक्रमन्तः स्फुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः | विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्नचित्ताः ||१६|| हाहाकृतं तद्धनुषा दृढेन; निष्पिष्टभग्नाङ्गदकुण्डलं च | कृष्णानिमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलमार्तमासीत् ||१७|| तस्मिंस्तु सम्भ्रान्तजने समाजे; निक्षिप्तवादेषु नराधिपेषु | कुन्तीसुतो जिष्णुरियेष कर्तुं; सज्यं धनुस्तत्सशरं स वीरः ||१८||

    १७९ वैशम्पायन उवाच|| यदा निवृत्ता राजानो धनुषः सज्यकर्मणि | अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः ||१|| उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च | दृष्ट्वा सम्प्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् ||२|| केचिदासन्विमनसः केचिदासन्मुदा युताः | आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः ||३|| यत्कर्णशल्यप्रमुखैः पार्थिवैर्लोकविश्रुतैः | नानतं बलवद्भिर्हि धनुर्वेदपरायणैः ||४|| तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा | बटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः ||५|| अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु | कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते ||६|| यद्येष दर्पाद्धर्षाद्वा यदि वा ब्रह्मचापलात् | प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत् ||७|| नावहास्या भविष्यामो न च लाघवमास्थिताः | न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् ||८|| केचिदाहुर्युवा श्रीमान्नागराजकरोपमः | पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव ||९|| सम्भाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते | शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत् ||१०|| न च तद्विद्यते किञ्चित्कर्म लोकेषु यद्भवेत् | ब्राह्मणानामसाध्यं च त्रिषु संस्थानचारिषु ||११|| अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः | दुर्बला हि बलीयांसो विप्रा हि ब्रह्मतेजसा ||१२|| ब्राह्मणो नावमन्तव्यः सद्वासद्वा समाचरन् | सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् ||१३|| एवं तेषां विलपतां विप्राणां विविधा गिरः | अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः ||१४|| स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत् | प्रणम्य शिरसा हृष्टो जगृहे च परन्तपः ||१५|| सज्यं च चक्रे निमिषान्तरेण; शरांश्च जग्राह दशार्धसङ्ख्यान् | विव्याध लक्ष्यं निपपात तच्च; छिद्रेण भूमौ सहसातिविद्धम् ||१६|| ततोऽन्तरिक्षे च बभूव नादः; समाजमध्ये च महान्निनादः | पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि द्विषतां निहन्तुः ||१७|| चेलावेधांस्ततश्चक्रुर्हाहाकारांश्च सर्वशः | न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः ||१८|| शताङ्गानि च तूर्याणि वादकाश्चाप्यवादयन् | सूतमागधसङ्घाश्च अस्तुवंस्तत्र सुस्वनाः ||१९|| तं दृष्ट्वा द्रुपदः प्रीतो बभूवारिनिषूदनः | सहसैन्यश्च पार्थस्य साहाय्यार्थमियेष सः ||२०|| तस्मिंस्तु शब्दे महति प्रवृत्ते; युधिष्ठिरो धर्मभृतां वरिष्ठः | आवासमेवोपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् ||२१|| विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा; पार्थं च शक्रप्रतिमं निरीक्ष्य | आदाय शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतमुत्स्मयन्ती ||२२|| स तामुपादाय विजित्य रङ्गे; द्विजातिभिस्तैरभिपूज्यमानः | रङ्गान्निरक्रामदचिन्त्यकर्मा; पत्न्या तया चाप्यनुगम्यमानः ||२३||

    १८० वैशम्पायन उवाच|| तस्मै दित्सति कन्यां तु ब्राह्मणाय महात्मने | कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात् ||१|| अस्मानयमतिक्रम्य तृणीकृत्य च सङ्गतान् | दातुमिच्छति विप्राय द्रौपदीं योषितां वराम् ||२|| निहन्मैनं दुरात्मानं योऽयमस्मान्न मन्यते | न ह्यर्हत्येष सत्कारं नापि वृद्धक्रमं गुणैः ||३|| हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम् | अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् ||४|| गुणवद्भोजयित्वा च ततः पश्चाद्विनिन्दति ||४|| अस्मिन्राजसमावाये देवानामिव संनये | किमयं सदृशं कञ्चिन्नृपतिं नैव दृष्टवान् ||५|| न च विप्रेष्वधीकारो विद्यते वरणं प्रति | स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः ||६|| अथ वा यदि कन्येयं नेह कञ्चिद्बुभूषति | अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः ||७|| ब्राह्मणो यदि वा बाल्याल्लोभाद्वा कृतवानिदम् | विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथञ्चन ||८|| ब्राह्मणार्थं हि नो राज्यं जीवितं च वसूनि च | पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम् ||९|| अवमानभयादेतत्स्वधर्मस्य च रक्षणात् | स्वयंवराणां चान्येषां मा भूदेवंविधा गतिः ||१०|| इत्युक्त्वा राजशार्दूला हृष्टाः परिघबाहवः | द्रुपदं सञ्जिघृक्षन्तः सायुधाः समुपाद्रवन् ||११|| तान्गृहीतशरावापान्क्रुद्धानापततो नृपान् | द्रुपदो वीक्ष्य सन्त्रासाद्ब्राह्मणाञ्शरणं गतः ||१२|| वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान् | पाण्डुपुत्रौ महावीर्यौ प्रतीयतुररिंदमौ ||१३|| ततः समुत्पेतुरुदायुधास्ते; महीक्षितो बद्धतलाङ्गुलित्राः | जिघांसमानाः कुरुराजपुत्रा; वमर्षयन्तोऽर्जुनभीमसेनौ ||१४|| ततस्तु भीमोऽद्भुतवीर्यकर्मा; महाबलो वज्रसमानवीर्यः | उत्पाट्य दोर्भ्यां द्रुममेकवीरो; निष्पत्रयामास यथा गजेन्द्रः ||१५|| तं वृक्षमादाय रिपुप्रमाथी; दण्डीव दण्डं पितृराज उग्रम् | तस्थौ समीपे पुरुषर्षभस्य; पार्थस्य पार्थः पृथुदीर्घबाहुः ||१६|| तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धे; र्जिष्णोः सहभ्रातुरचिन्त्यकर्मा | दामोदरो भ्रातरमुग्रवीर्यं; हलायुधं वाक्यमिदं बभाषे ||१७|| य एष मत्तर्षभतुल्यगामी; महद्धनुः कर्षति तालमात्रम् | एषोऽर्जुनो नात्र विचार्यमस्ति; यद्यस्मि सङ्कर्षण वासुदेवः ||१८|| य एष वृक्षं तरसावरुज्य; राज्ञां विकारे सहसा निवृत्तः | वृकोदरो नान्य इहैतदद्य; कर्तुं समर्थो भुवि मर्त्यधर्मा ||१९|| योऽसौ पुरस्तात्कमलायताक्ष; स्तनुर्महासिंहगतिर्विनीतः | गौरः प्रलम्बोज्ज्वलचारुघोणो; विनिःसृतः सोऽच्युत धर्मराजः ||२०|| यौ तौ कुमाराविव कार्त्तिकेयौ; द्वावश्विनेयाविति मे प्रतर्कः | मुक्ता हि तस्माज्जतुवेश्मदाहा; न्मया श्रुताः पाण्डुसुताः पृथा च ||२१|| तमब्रवीन्निर्मलतोयदाभो; हलायुधोऽनन्तरजं प्रतीतः | प्रीतोऽस्मि दिष्ट्या हि पितृष्वसा नः; पृथा विमुक्ता सह कौरवाग्र्यैः ||२२||

    १८१ वैशम्पायन उवाच|| अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः | ऊचुस्तं भीर्न कर्तव्या वयं योत्स्यामहे परान् ||१|| तानेवं वदतो विप्रानर्जुनः प्रहसन्निव | उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः ||२|| अहमेनानजिह्माग्रैः शतशो विकिरञ्शरैः | वारयिष्यामि सङ्क्रुद्धान्मन्त्रैराशीविषानिव ||३|| इति तद्धनुरादाय शुल्कावाप्तं महारथः | भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः ||४|| ततः कर्णमुखान्क्रुद्धान्क्षत्रियांस्तान्रुषोत्थितान् | सम्पेततुरभीतौ तौ गजौ प्रतिगजानिव ||५|| ऊचुश्च वाचः परुषास्ते राजानो जिघांसवः | आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः ||६|| ततो वैकर्तनः कर्णो जगामार्जुनमोजसा | युद्धार्थी वाशिताहेतोर्गजः प्रतिगजं यथा ||७|| भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली | दुर्योधनादयस्त्वन्ये ब्राह्मणैः सह सङ्गताः ||८|| मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे ||८|| ततोऽर्जुनः प्रत्यविध्यदापतन्तं त्रिभिः शरैः | कर्णं वैकर्तनं धीमान्विकृष्य बलवद्धनुः ||९|| तेषां शराणां वेगेन शितानां तिग्मतेजसाम् | विमुह्यमानो राधेयो यत्नात्तमनुधावति ||१०|| तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ | अयुध्येतां सुसंरब्धावन्योन्यविजयैषिणौ ||११|| कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे | इति शूरार्थवचनैराभाषेतां परस्परम् ||१२|| ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि | ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् ||१३|| अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा | प्रतिहत्य ननादोच्चैः सैन्यास्तमभिपूजयन् ||१४|| कर्ण उवाच|| तुष्यामि ते विप्रमुख्य भुजवीर्यस्य संयुगे | अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च ||१५|| किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम | अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः ||१६|| आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः | विप्ररूपं विधायेदं ततो मां प्रतियुध्यसे ||१७|| न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः | पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः ||१८|| वैशम्पायन उवाच|| तमेवंवादिनं तत्र फल्गुनः प्रत्यभाषत | नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् ||१९|| ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः ||१९|| ब्राह्मे पौरंदरे चास्त्रे निष्ठितो गुरुशासनात् | स्थितोऽस्म्यद्य रणे जेतुं त्वां वीराविचलो भव ||२०|| एवमुक्तस्तु राधेयो युद्धात्कर्णो न्यवर्तत | ब्रह्मं तेजस्तदाजय्यं मन्यमानो महारथः ||२१|| युद्धं तूपेयतुस्तत्र राजञ्शल्यवृकोदरौ | बलिनौ युगपन्मत्तौ स्पर्धया च बलेन च ||२२|| अन्योन्यमाह्वयन्तौ तौ मत्ताविव महागजौ | मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् ||२३|| मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम् ||२३|| ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे | न्यवधीद्बलिनां श्रेष्ठो जहसुर्ब्राह्मणास्ततः ||२४|| तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः | यच्छल्यं पतितं भूमौ नाहनद्बलिनं बली ||२५|| पातिते भीमसेनेन शल्ये कर्णे च शङ्किते | शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम् ||२६|| ऊचुश्च सहितास्तत्र साध्विमे ब्राह्मणर्षभाः | विज्ञायन्तां क्वजन्मानः क्वनिवासास्तथैव च ||२७|| को हि राधासुतं कर्मं शक्तो योधयितुं रणे | अन्यत्र रामाद्द्रोणाद्वा कृपाद्वापि शरद्वतः ||२८|| कृष्णाद्वा देवकीपुत्रात्फल्गुनाद्वा परन्तपात् | को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे ||२९|| तथैव मद्रराजानं शल्यं बलवतां वरम् | बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात् ||३०|| क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंयुतात् | अथैनानुपलभ्येह पुनर्योत्स्यामहे वयम् ||३१|| तत्कर्म भीमस्य समीक्ष्य कृष्णः; कुन्तीसुतौ तौ परिशङ्कमानः | निवारयामास महीपतींस्ता; न्धर्मेण लब्धेत्यनुनीय सर्वान् ||३२|| त एवं संनिवृत्तास्तु युद्धाद्युद्धविशारदाः | यथावासं ययुः सर्वे विस्मिता राजसत्तमाः ||३३|| वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता | इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः ||३४|| ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः | कृच्छ्रेण जग्मतुस्तत्र भीमसेनधनञ्जयौ ||३५|| विमुक्तौ जनसम्बाधाच्छत्रुभिः परिविक्षतौ | कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः ||३६|| तेषां माता बहुविधं विनाशं पर्यचिन्तयत् | अनागच्छत्सु पुत्रेषु भैक्षकालेऽतिगच्छति ||३७|| धार्तराष्ट्रैर्हता न स्युर्विज्ञाय कुरुपुङ्गवाः | मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः ||३८|| विपरीतं मतं जातं व्यासस्यापि महात्मनः | इत्येवं चिन्तयामास सुतस्नेहान्विता पृथा ||३९|| महत्यथापराह्णे तु घनैः सूर्य इवावृतः | ब्राह्मणैः प्राविशत्तत्र जिष्णुर्ब्रह्मपुरस्कृतः ||४०||

    १८२ वैशम्पायन उवाच|| गत्वा तु तां भार्गवकर्मशालां; पार्थौ पृथां प्राप्य महानुभावौ | तां याज्ञसेनीं परमप्रतीतौ; भिक्षेत्यथावेदयतां नराग्र्यौ ||१|| कुटीगता सा त्वनवेक्ष्य पुत्रा; नुवाच भुङ्क्तेति समेत्य सर्वे | पश्चात्तु कुन्ती प्रसमीक्ष्य कन्यां; कष्टं मया भाषितमित्युवाच ||२|| साधर्मभीता हि विलज्जमाना; तां याज्ञसेनीं परमप्रतीताम् | पाणौ गृहीत्वोपजगाम कुन्ती; युधिष्ठिरं वाक्यमुवाच चेदम् ||३|| इयं हि कन्या द्रुपदस्य राज्ञ; स्तवानुजाभ्यां मयि संनिसृष्टा | यथोचितं पुत्र मयापि चोक्तं; समेत्य भुङ्क्तेति नृप प्रमादात् ||४|| कथं मया नानृतमुक्तमद्य; भवेत्कुरूणामृषभ ब्रवीहि | पाञ्चालराजस्य सुतामधर्मो; न चोपवर्तेत नभूतपूर्वः ||५|| मुहूर्तमात्रं त्वनुचिन्त्य राजा; युधिष्ठिरो मातरमुत्तमौजाः | कुन्तीं समाश्वास्य कुरुप्रवीरो; धनञ्जयं वाक्यमिदं बभाषे ||६|| त्वया जिता पाण्डव याज्ञसेनी; त्वया च तोषिष्यति राजपुत्री | प्रज्वाल्यतां हूयतां चापि वह्नि; र्गृहाण पाणिं विधिवत्त्वमस्याः ||७|| अर्जुन उवाच|| मा मां नरेन्द्र त्वमधर्मभाजं; कृथा न धर्मो ह्ययमीप्सितोऽन्यैः | भवान्निवेश्यः प्रथमं ततोऽयं; भीमो महाबाहुरचिन्त्यकर्मा ||८|| अहं ततो नकुलोऽनन्तरं मे; माद्रीसुतः सहदेवो जघन्यः | वृकोदरोऽहं च यमौ च राज; न्नियं च कन्या भवतः स्म सर्वे ||९|| एवङ्गते यत्करणीयमत्र; धर्म्यं यशस्यं कुरु तत्प्रचिन्त्य | पाञ्चालराजस्य च यत्प्रियं स्या; त्तद्ब्रूहि सर्वे स्म वशे स्थितास्ते ||१०|| वैशम्पायन उवाच|| ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम् | सम्प्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन् ||११|| तेषां हि द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम् | सम्प्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः ||१२|| काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं स्वयम् | बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम् ||१३|| तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः | द्वैपायनवचः कृत्स्नं संस्मरन्वै नरर्षभ ||१४|| अब्रवीत्स हि तान्भ्रातृन्मिथोभेदभयान्नृपः | सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा ||१५||

    १८३ वैशम्पायन उवाच|| भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे; ज्येष्ठस्य पाण्डोस्तनयास्तदानीम् | तमेवार्थं ध्यायमाना मनोभि; रासां चक्रुरथ तत्रामितौजाः ||१|| वृष्णिप्रवीरस्तु कुरुप्रवीरा; नाशङ्कमानः सहरौहिणेयः | जगाम तां भार्गवकर्मशालां; यत्रासते ते पुरुषप्रवीराः ||२|| तत्रोपविष्टं पृथुदीर्घबाहुं; ददर्श कृष्णः सहरौहिणेयः | अजातशत्रुं परिवार्य तांश्च; उपोपविष्टाञ्ज्वलनप्रकाशान् ||३|| ततोऽब्रवीद्वासुदेवोऽभिगम्य; कुन्तीसुतं धर्मभृतां वरिष्ठम् | कृष्णोऽहमस्मीति निपीड्य पादौ; युधिष्ठिरस्याजमीढस्य राज्ञः ||४|| तथैव तस्याप्यनु रौहिणेय; स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन् | पितृष्वसुश्चापि यदुप्रवीरा; वगृह्णतां भारतमुख्य पादौ ||५|| अजातशत्रुश्च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्य | कथं वयं वासुदेव त्वयेह; गूढा वसन्तो विदिताः स्म सर्वे ||६|| तमब्रवीद्वासुदेवः प्रहस्य; गूढोऽप्यग्निर्ज्ञायत एव राजन् | तं विक्रमं पाण्डवेयानतीत्य; कोऽन्यः कर्ता विद्यते मानुषेषु ||७|| दिष्ट्या तस्मात्पावकात्सम्प्रमुक्ता; यूयं सर्वे पाण्डवाः शत्रुसाहाः | दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः; सहामात्यो न सकामोऽभविष्यत् ||८|| भद्रं वोऽस्तु निहितं यद्गुहायां; विवर्धध्वं ज्वलन इवेध्यमानः | मा वो विद्युः पार्थिवाः केचनेह; यास्यावहे शिबिरायैव तावत् ||९|| सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः; प्रायाच्छीघ्रं बलदेवेन सार्धम् ||९||

    १८४ वैशम्पायन उवाच|| धृष्टद्युम्नस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ | अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशनम् ||१|| सोऽज्ञायमानः पुरुषानवधाय समन्ततः | स्वयमारान्निविष्टोऽभूद्भार्गवस्य निवेशने ||२|| सायेऽथ भीमस्तु रिपुप्रमाथी; जिष्णुर्यमौ चापि महानुभावौ | भैक्षं चरित्वा तु युधिष्ठिराय; निवेदयां चक्रुरदीनसत्त्वाः ||३|| ततस्तु कुन्ती द्रुपदात्मजां ता; मुवाच काले वचनं वदान्या | अतोऽग्रमादाय कुरुष्व भद्रे; बलिं च विप्राय च देहि भिक्षाम् ||४|| ये चान्नमिच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितो मनुष्याः | ततश्च शेषं प्रविभज्य शीघ्र; मर्धं चतुर्णां मम चात्मनश्च ||५|| अर्धं च भीमाय ददाहि भद्रे; य एष मत्तर्षभतुल्यरूपः | श्यामो युवा संहननोपपन्न; एषो हि वीरो बहुभुक्सदैव ||६|| सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्वविशङ्कमाना | यथावदुक्तं प्रचकार साध्वी; ते चापि सर्वेऽभ्यवजह्रुरन्नम् ||७|| कुशैस्तु भूमौ शयनं चकार; माद्रीसुतः सहदेवस्तरस्वी | यथात्मीयान्यजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर्धरण्याम् ||८|| अगस्त्यशास्तामभितो दिशं तु; शिरांसि तेषां कुरुसत्तमानाम् | कुन्ती पुरस्तात्तु बभूव तेषां; कृष्णा तिरश्चैव बभूव पत्तः ||९|| अशेत भूमौ सह पाण्डुपुत्रैः; पादोपधानेव कृता कुशेषु | न तत्र दुःखं च बभूव तस्या; न चावमेने कुरुपुङ्गवांस्तान् ||१०|| ते तत्र शूराः कथयां बभूवुः; कथा विचित्राः पृतनाधिकाराः | अस्त्राणि दिव्यानि रथांश्च नागा; न्खड्गान्गदाश्चापि परश्वधांश्च ||११|| तेषां कथास्ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस्तदानीम् | शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर्मनुष्याः ||१२|| धृष्टद्युम्नो राजपुत्रस्तु सर्वं; वृत्तं तेषां कथितं चैव रात्रौ | सर्वं राज्ञे द्रुपदायाखिलेन; निवेदयिष्यंस्त्वरितो जगाम ||१३|| पाञ्चालराजस्तु विषण्णरूप; स्तान्पाण्डवानप्रतिविन्दमानः | धृष्टद्युम्नं पर्यपृच्छन्महात्मा; क्व सा गता केन नीता च कृष्णा ||१४|| कच्चिन्न शूद्रेण न हीनजेन; वैश्येन वा करदेनोपपन्ना | कच्चित्पदं मूर्ध्नि न मे निदिग्धं; कच्चिन्माला पतिता न श्मशाने ||१५|| कच्चित्सवर्णप्रवरो मनुष्य; उद्रिक्तवर्णोऽप्युत वेह कच्चित् | कच्चिन्न वामो मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतोऽद्य पुत्र ||१६|| कच्चिच्च यक्ष्ये परमप्रतीतः; संयुज्य पार्थेन नरर्षभेण | ब्रवीहि तत्त्वेन महानुभावः; कोऽसौ विजेता दुहितुर्ममाद्य ||१७|| विचित्रवीर्यस्य तु कच्चिदद्य; कुरुप्रवीरस्य धरन्ति पुत्राः | कच्चित्तु पार्थेन यवीयसाद्य; धनुर्गृहीतं निहतं च लक्ष्यम् ||१८||

    १८५ वैशम्पायन उवाच|| ततस्तथोक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः | धृष्टद्युम्नः सोमकानां प्रबर्हो; वृत्तं यथा येन हृता च कृष्णा ||१|| योऽसौ युवा स्वायतलोहिताक्षः; कृष्णाजिनी देवसमानरूपः | यः कार्मुकाग्र्यं कृतवानधिज्यं; लक्ष्यं च तत्पातितवान्पृथिव्याम् ||२|| असज्जमानश्च गतस्तरस्वी; वृतो द्विजाग्र्यैरभिपूज्यमानः | चक्राम वज्रीव दितेः सुतेषु; सर्वैश्च देवैरृषिभिश्च जुष्टः ||३|| कृष्णा च गृह्याजिनमन्वयात्तं; नागं यथा नागवधूः प्रहृष्टा | अमृष्यमाणेषु नराधिपेषु; क्रुद्धेषु तं तत्र समापतत्सु ||४|| ततोऽपरः पार्थिवराजमध्ये; प्रवृद्धमारुज्य महीप्ररोहम् | प्रकालयन्नेव स पार्थिवौघा; न्क्रुद्धोऽन्तकः प्राणभृतो यथैव ||५|| तौ पार्थिवानां मिषतां नरेन्द्र; कृष्णामुपादाय गतौ नराग्र्यौ | विभ्राजमानाविव चन्द्रसूर्यौ; बाह्यां पुराद्भार्गवकर्मशालाम् ||६|| तत्रोपविष्टार्चिरिवानलस्य; तेषां जनित्रीति मम प्रतर्कः | तथाविधैरेव नरप्रवीरै; रुपोपविष्टैस्त्रिभिरग्निकल्पैः ||७|| तस्यास्ततस्तावभिवाद्य पादा; वुक्त्वा च कृष्णामभिवादयेति | स्थितौ च तत्रैव निवेद्य कृष्णां; भैक्षप्रचाराय गता नराग्र्याः ||८|| तेषां तु भैक्षं प्रतिगृह्य कृष्णा; कृत्वा बलिं ब्राह्मणसाच्च कृत्वा | तां चैव वृद्धां परिविष्य तांश्च; नरप्रवीरान्स्वयमप्यभुङ्क्त ||९|| सुप्तास्तु ते पार्थिव सर्व एव; कृष्णा तु तेषां चरणोपधानम् | आसीत्पृथिव्यां शयनं च तेषां; दर्भाजिनाग्र्यास्तरणोपपन्नम् ||१०|| ते नर्दमाना इव कालमेघाः; कथा विचित्राः कथयां बभूवुः | न वैश्यशूद्रौपयिकीः कथास्ता; न च द्विजातेः कथयन्ति वीराः ||११|| निःसंशयं क्षत्रियपुङ्गवास्ते; यथा हि युद्धं कथयन्ति राजन् | आशा हि नो व्यक्तमियं समृद्धा; मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात् ||१२|| यथा हि लक्ष्यं निहतं धनुश्च; सज्यं कृतं तेन तथा प्रसह्य | यथा च भाषन्ति परस्परं ते; छन्ना ध्रुवं ते प्रचरन्ति पार्थाः ||१३|| ततः स राजा द्रुपदः प्रहृष्टः; पुरोहितं प्रेषयां तत्र चक्रे | विद्याम युष्मानिति भाषमाणो; महात्मनः पाण्डुसुताः स्थ कच्चित् ||१४|| गृहीतवाक्यो नृपतेः पुरोधा; गत्वा प्रशंसामभिधाय तेषाम् | वाक्यं यथावन्नृपतेः समग्र; मुवाच तान्स क्रमवित्क्रमेण ||१५|| विज्ञातुमिच्छत्यवनीश्वरो वः; पाञ्चालराजो द्रुपदो वरार्हाः | लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः ||१६|| तदाचड्ढ्वं ज्ञातिकुलानुपूर्वीं; पदं शिरःसु द्विषतां कुरुध्वम् | प्रह्लादयध्वं हृदयं ममेदं; पाञ्चालराजस्य सहानुगस्य ||१७|| पाण्डुर्हि राजा द्रुपदस्य राज्ञः; प्रियः सखा चात्मसमो बभूव | तस्यैष कामो दुहिता ममेयं; स्नुषा यदि स्यादिति कौरवस्य ||१८|| अयं च कामो द्रुपदस्य राज्ञो; हृदि स्थितो नित्यमनिन्दिताङ्गाः | यदर्जुनो वै पृथुदीर्घबाहु; र्धर्मेण विन्देत सुतां ममेति ||१९|| तथोक्तवाक्यं तु पुरोहितं तं; स्थितं विनीतं समुदीक्ष्य राजा | समीपस्थं भीममिदं शशास; प्रदीयतां पाद्यमर्घ्यं तथास्मै ||२०|| मान्यः पुरोधा द्रुपदस्य राज्ञ; स्तस्मै प्रयोज्याभ्यधिकैव पूजा | भीमस्तथा तत्कृतवान्नरेन्द्र; तां चैव पूजां प्रतिसङ्गृहीत्वा ||२१|| सुखोपविष्टं तु पुरोहितं तं; युधिष्ठिरो ब्राह्मणमित्युवाच | पाञ्चालराजेन सुता निसृष्टा; स्वधर्मदृष्टेन यथानुकामम् ||२२|| प्रदिष्टशुल्का द्रुपदेन राज्ञा; सानेन वीरेण तथानुवृत्ता | न तत्र वर्णेषु कृता विवक्षा; न जीवशिल्पे न कुले न गोत्रे ||२३|| कृतेन सज्येन हि कार्मुकेण; विद्धेन लक्ष्येण च संनिसृष्टा | सेयं तथानेन महात्मनेह; कृष्णा जिता पार्थिवसङ्घमध्ये ||२४|| नैवङ्गते सौमकिरद्य राजा; सन्तापमर्हत्यसुखाय कर्तुम् | कामश्च योऽसौ द्रुपदस्य राज्ञः; स चापि सम्पत्स्यति पार्थिवस्य ||२५|| अप्राप्यरूपां हि नरेन्द्रकन्या; मिमामहं ब्राह्मण साधु मन्ये | न तद्धनुर्मन्दबलेन शक्यं; मौर्व्या समायोजयितुं तथा हि ||२६|| न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तथा पातयितुं हि शक्यम् ||२६|| तस्मान्न तापं दुहितुर्निमित्तं; पाञ्चालराजोऽर्हति कर्तुमद्य | न चापि तत्पातनमन्यथेह; कर्तुं विषह्यं भुवि मानवेन ||२७|| एवं ब्रुवत्येव युधिष्ठिरे तु; पाञ्चालराजस्य समीपतोऽन्यः | तत्राजगामाशु नरो द्वितीयो; निवेदयिष्यन्निह सिद्धमन्नम् ||२८||

    १८६ दूत उवाच|| जन्यार्थमन्नं द्रुपदेन राज्ञा; विवाहहेतोरुपसंस्कृतं च | तदाप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम् ||१|| इमे रथाः काञ्चनपद्मचित्राः; सदश्वयुक्ता वसुधाधिपार्हाः | एतान्समारुह्य परैत सर्वे; पाञ्चालराजस्य निवेशनं तत् ||२|| वैशम्पायन उवाच|| ततः प्रयाताः कुरुपुङ्गवास्ते; पुरोहितं तं प्रथमं प्रयाप्य | आस्थाय यानानि महान्ति तानि; कुन्ती च कृष्णा च सहैव याते ||३|| श्रुत्वा तु वाक्यानि पुरोहितस्य; यान्युक्तवान्भारत धर्मराजः | जिज्ञासयैवाथ कुरूत्तमानां; द्रव्याण्यनेकान्युपसञ्जहार ||४|| फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथासनानि | गाश्चैव राजन्नथ चैव रज्जू; र्द्रव्याणि चान्यानि कृषीनिमित्तम् ||५|| अन्येषु शिल्पेषु च यान्यपि स्युः; सर्वाणि कॢप्तान्यखिलेन तत्र | क्रीडानिमित्तानि च यानि तानि; सर्वाणि तत्रोपजहार राजा ||६|| रथाश्ववर्माणि च भानुमन्ति; खड्गा महान्तोऽश्वरथाश्च चित्राः | धनूंषि चाग्र्याणि शराश्च मुख्याः; शक्त्यृष्टयः काञ्चनभूषिताश्च ||७|| प्रासा भुशुण्ड्यश्च परश्वधाश्च; साङ्ग्रामिकं चैव तथैव सर्वम् | शय्यासनान्युत्तमसंस्कृतानि; तथैव चासन्विविधानि तत्र ||८|| कुन्ती तु कृष्णां परिगृह्य साध्वी; मन्तःपुरं द्रुपदस्याविवेष | स्त्रियश्च तां कौरवराजपत्नीं; प्रत्यर्चयां चक्रुरदीनसत्त्वाः ||९|| तान्सिंहविक्रान्तगतीनवेक्ष्य; महर्षभाक्षानजिनोत्तरीयान् | गूढोत्तरांसान्भुजगेन्द्रभोग; प्रलम्बबाहून्पुरुषप्रवीरान् ||१०|| राजा च राज्ञः सचिवाश्च सर्वे; पुत्राश्च राज्ञः सुहृदस्तथैव | प्रेष्याश्च सर्वे निखिलेन राज; न्हर्षं समापेतुरतीव तत्र ||११|| ते तत्र वीराः परमासनेषु; सपादपीठेष्वविशङ्कमानाः | यथानुपूर्व्या विविशुर्नराग्र्या; स्तदा महार्हेषु न विस्मयन्तः ||१२|| उच्चावचं पार्थिवभोजनीयं; पात्रीषु जाम्बूनदराजतीषु | दासाश्च दास्यश्च सुमृष्टवेषाः; भोजापकाश्चाप्युपजह्रुरन्नम् ||१३|| ते तत्र भुक्त्वा पुरुषप्रवीरा; यथानुकामं सुभृशं प्रतीताः | उत्क्रम्य सर्वाणि वसूनि तत्र; साङ्ग्रामिकान्याविविशुर्नृवीराः ||१४|| तल्लक्षयित्वा द्रुपदस्य पुत्रो; राजा च सर्वैः सह मन्त्रिमुख्यैः | समर्चयामासुरुपेत्य हृष्टाः; कुन्तीसुतान्पार्थिवपुत्रपौत्रान् ||१५||

    १८७ वैशम्पायन उवाच|| तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् | परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः ||१|| पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् | कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत ||२|| वैश्यान्वा गुणसम्पन्नानुत वा शूद्रयोनिजान् | मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम् ||३|| कृष्णाहेतोरनुप्राप्तान्दिवः संदर्शनार्थिनः | ब्रवीतु नो भवान्सत्यं संदेहो ह्यत्र नो महान् ||४|| अपि नः संशयस्यान्ते मनस्तुष्टिरिहाविशेत् | अपि नो भागधेयानि शुभानि स्युः परन्तप ||५|| कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते | इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु ||६|| श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिंदम | ध्रुवं विवाहकरणमास्थास्यामि विधानतः ||७|| युधिष्ठिर उवाच|| मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते | ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् ||८|| वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः | ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ ||९|| याभ्यां तव सुता राजन्निर्जिता राजसंसदि ||९|| यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता | व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ ||१०|| पद्मिनीव सुतेयं ते ह्रदादन्यं ह्रदं गता ||१०|| इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते | भवान्हि गुरुरस्माकं परमं च परायणम् ||११|| वैशम्पायन उवाच|| ततः स द्रुपदो राजा हर्षव्याकुललोचनः | प्रतिवक्तुं तदा युक्तं नाशकत्तं युधिष्ठिरम् ||१२|| यत्नेन तु स तं हर्षं संनिगृह्य परन्तपः | अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम् ||१३|| पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा | स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः ||१४|| तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् | विगर्हयामास तदा धृतराष्ट्रं जनेश्वरम् ||१५|| आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम् | प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः ||१६|| ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि | यमौ च राज्ञा संदिष्टौ विविशुर्भवनं महत् ||१७|| तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः | प्रत्याश्वस्तांस्ततो राजा सह पुत्रैरुवाच तान् ||१८|| गृह्णातु विधिवत्पाणिमद्यैव कुरुनन्दनः | पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् ||१९|| ततस्तमब्रवीद्राजा धर्मपुत्रो युधिष्ठिरः | ममापि दारसम्बन्धः कार्यस्तावद्विशां पते ||२०|| द्रुपद उवाच|| भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम | यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश ||२१|| युधिष्ठिर उवाच|| सर्वेषां द्रौपदी राजन्महिषी नो भविष्यति | एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते ||२२|| अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः | पार्थेन विजिता चैषा रत्नभूता च ते सुता ||२३|| एष नः समयो राजन्रत्नस्य सहभोजनम् | न च तं हातुमिच्छामः समयं राजसत्तम ||२४|| सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति | आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम् ||२५|| द्रुपद उवाच|| एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन | नैकस्या बहवः पुंसो विधीयन्ते कदाचन ||२६|| लोकवेदविरुद्धं त्वं नाधर्मं धार्मिकः शुचिः | कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी ||२७|| युधिष्ठिर उवाच|| सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् | पूर्वेषामानुपूर्व्येण यातं वर्त्मानुयामहे ||२८|| न मे वागनृतं प्राह नाधर्मे धीयते मतिः | एवं चैव वदत्यम्बा मम चैव मनोगतम् ||२९|| एष धर्मो ध्रुवो राजंश्चरैनमविचारयन् | मा च तेऽत्र विशङ्का भूत्कथञ्चिदपि पार्थिव ||३०|| द्रुपद उवाच|| त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश्च मे सुतः | कथयन्त्वितिकर्तव्यं श्वः काले करवामहे ||३१|| वैशम्पायन उवाच|| ते समेत्य ततः सर्वे कथयन्ति स्म भारत | अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया ||३२||

    १८८ वैशम्पायन उवाच|| ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः | प्रत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन् ||१|| प्रतिनन्द्य स तान्सर्वान्पृष्ट्वा कुशलमन्ततः | आसने काञ्चने शुभ्रे निषसाद महामनाः ||२|| अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा | आसनेषु महार्हेषु निषेदुर्द्विपदां वराः ||३|| ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः | पप्रच्छ तं महात्मानं द्रौपद्यर्थे विशां पतिः ||४|| कथमेका बहूनां स्यान्न च स्याद्धर्मसङ्करः | एतन्नो भगवान्सर्वं प्रब्रवीतु यथातथम् ||५|| व्यास उवाच|| अस्मिन्धर्मे विप्रलम्भे लोकवेदविरोधके | यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत् ||६|| द्रुपद उवाच|| अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः | न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम ||७|| न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः | न च धर्मोऽप्यनेकस्थश्चरितव्यः सनातनः ||८|| अतो नाहं करोम्येवं व्यवसायं क्रियां प्रति | धर्मसंदेहसंदिग्धं प्रतिभाति हि मामिदम् ||९|| धृष्टद्युम्न उवाच|| यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ | ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन ||१०|| न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथञ्चन | अधर्मो धर्म इति वा व्यवसायो न शक्यते ||११|| कर्तुमस्मद्विधैर्ब्रह्मंस्ततो न व्यवसाम्यहम् | पञ्चानां महिषी कृष्णा भवत्विति कथञ्चन ||१२|| युधिष्ठिर उवाच|| न मे वागनृतं प्राह नाधर्मे धीयते मतिः | वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथञ्चन ||१३|| श्रूयते हि पुराणेऽपि जटिला नाम गौतमी | ऋषीनध्यासितवती सप्त धर्मभृतां वर ||१४|| गुरोश्च वचनं प्राहुर्धर्मं धर्मज्ञसत्तम | गुरूणां चैव सर्वेषां जनित्री परमो गुरुः ||१५|| सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति | तस्मादेतदहं मन्ये धर्मं द्विजवरोत्तम ||१६|| कुन्त्युवाच|| एवमेतद्यथाहायं धर्मचारी युधिष्ठिरः | अनृतान्मे भयं तीव्रं मुच्येयमनृतात्कथम् ||१७|| व्यास उवाच|| अनृतान्मोक्ष्यसे भद्रे धर्मश्चैष सनातनः | न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम् ||१८|| यथायं विहितो धर्मो यतश्चायं सनातनः | यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः ||१९|| वैशम्पायन उवाच|| तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः | करे गृहीत्वा राजानं राजवेश्म समाविशत् ||२०|| पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः | विचेतसस्ते तत्रैव प्रतीक्षन्ते स्म तावुभौ ||२१|| ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने | आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता ||२२||

    पञ्चेन्द्रोपाख्यानम् १८९ व्यास उवाच|| पुरा वै नैमिषारण्ये देवाः सत्रमुपासते | तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा ||१|| ततो यमो दीक्षितस्तत्र राज; न्नामारयत्किञ्चिदपि प्रजाभ्यः | ततः प्रजास्ता बहुला बभूवुः; कालातिपातान्मरणात्प्रहीणाः ||२|| ततस्तु शक्रो वरुणः कुबेरः; साध्या रुद्रा वसवश्चाश्विनौ च | प्रणेतारं भुवनस्य प्रजापतिं; समाजग्मुस्तत्र देवास्तथान्ये ||३|| ततोऽब्रुवँल्लोकगुरुं समेता; भयं नस्तीव्रं मानुषाणां विवृद्ध्या | तस्माद्भयादुद्विजन्तः सुखेप्सवः; प्रयाम सर्वे शरणं भवन्तम् ||४|| ब्रह्मोवाच|| किं वो भयं मानुषेभ्यो यूयं सर्वे यदामराः | मा वो मर्त्यसकाशाद्वै भयं भवतु कर्हिचित् ||५|| देवा ऊचुः|| मर्त्या ह्यमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन | अविशेषादुद्विजन्तो विशेषार्थमिहागताः ||६|| ब्रह्मोवाच|| वैवस्वतो व्यापृतः सत्रहेतो; स्तेन त्विमे न म्रियन्ते मनुष्याः | तस्मिन्नेकाग्रे कृतसर्वकार्ये; तत एषां भवितैवान्तकालः ||७|| वैवस्वतस्यापि तनुर्विभूता; वीर्येण युष्माकमुत प्रयुक्ता | सैषामन्तो भविता ह्यन्तकाले; तनुर्हि वीर्यं भविता नरेषु ||८|| व्यास उवाच|| ततस्तु ते पूर्वजदेववाक्यं; श्रुत्वा देवा यत्र देवा यजन्ते | समासीनास्ते समेता महाबला; भागीरथ्यां ददृशुः पुण्डरीकम् ||९|| दृष्ट्वा च तद्विस्मितास्ते बभूवु; स्तेषामिन्द्रस्तत्र शूरो जगाम | सोऽपश्यद्योषामथ पावकप्रभां; यत्र गङ्गा सततं सम्प्रसूता ||१०|| सा तत्र योषा रुदती जलार्थिनी; गङ्गां देवीं व्यवगाह्यावतिष्ठत् | तस्याश्रुबिन्दुः पतितो जले वै; तत्पद्ममासीदथ तत्र काञ्चनम् ||११|| तदद्भुतं प्रेक्ष्य वज्री तदानी; मपृच्छत्तां योषितमन्तिकाद्वै | का त्वं कथं रोदिषि कस्य हेतो; र्वाक्यं तथ्यं कामयेह ब्रवीहि ||१२|| स्त्र्युवाच|| त्वं वेत्स्यसे मामिह यास्मि शक्र; यदर्थं चाहं रोदिमि मन्दभाग्या | आगच्छ राजन्पुरतोऽहं गमिष्ये; द्रष्टासि तद्रोदिमि यत्कृतेऽहम् ||१३|| व्यास उवाच|| तां गच्छन्तीमन्वगच्छत्तदानीं; सोऽपश्यदारात्तरुणं दर्शनीयम् | सिंहासनस्थं युवतीसहायं; क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि ||१४|| तमब्रवीद्देवराजो ममेदं; त्वं विद्धि विश्वं भुवनं वशे स्थितम् | ईशोऽहमस्मीति समन्युरब्रवी; द्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम् ||१५|| क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो; जहास शक्रं च शनैरुदैक्षत | संस्तम्भितोऽभूदथ देवराज; स्तेनेक्षितः स्थाणुरिवावतस्थे ||१६|| यदा तु पर्याप्तमिहास्य क्रीडया; तदा देवीं रुदतीं तामुवाच | आनीयतामेष यतोऽहमारा; न्मैनं दर्पः पुनरप्याविशेत ||१७|| ततः शक्रः स्पृष्टमात्रस्तया तु; स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम् | तमब्रवीद्भगवानुग्रतेजा; मैवं पुनः शक्र कृथाः कथञ्चित् ||१८|| विवर्तयैनं च महाद्रिराजं; बलं च वीर्यं च तवाप्रमेयम् | विवृत्य चैवाविश मध्यमस्य; यत्रासते त्वद्विधाः सूर्यभासः ||१९|| स तद्विवृत्य शिखरं महागिरे; स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श | स तानभिप्रेक्ष्य बभूव दुःखितः; कच्चिन्नाहं भविता वै यथेमे ||२०|| ततो देवो गिरिशो वज्रपाणिं; विवृत्य नेत्रे कुपितोऽभ्युवाच | दरीमेतां प्रविश त्वं शतक्रतो; यन्मां बाल्यादवमंस्थाः पुरस्तात् ||२१|| उक्तस्त्वेवं विभुना देवराजः; प्रवेपमानो भृशमेवाभिषङ्गात् | स्रस्तैरङ्गैरनिलेनेव नुन्न; मश्वत्थपत्रं गिरिराजमूर्ध्नि ||२२|| स प्राञ्जलिर्विनतेनाननेन; प्रवेपमानः सहसैवमुक्तः | उवाच चेदं बहुरूपमुग्रं; द्रष्टा शेषस्य भगवंस्त्वं भवाद्य ||२३|| तमब्रवीदुग्रधन्वा प्रहस्य; नैवंशीलाः शेषमिहाप्नुवन्ति | एतेऽप्येवं भवितारः पुरस्ता; त्तस्मादेतां दरिमाविश्य शेध्वम् ||२४|| शेषोऽप्येवं भविता वो न संशयो; योनिं सर्वे मानुषीमाविशध्वम् | तत्र यूयं कर्म कृत्वाविषह्यं; बहूनन्यान्निधनं प्रापयित्वा ||२५|| आगन्तारः पुनरेवेन्द्रलोकं; स्वकर्मणा पूर्वजितं महार्हम् | सर्वं मया भाषितमेतदेवं; कर्तव्यमन्यद्विविधार्थवच्च ||२६|| पूर्वेन्द्रा ऊचुः|| गमिष्यामो मानुषं देवलोका; द्दुराधरो विहितो यत्र मोक्षः | देवास्त्वस्मानादधीरञ्जनन्यां; धर्मो वायुर्मघवानश्विनौ च ||२७|| व्यास उवाच|| एतच्छ्रुत्वा वज्रपाणिर्वचस्तु; देवश्रेष्ठं पुनरेवेदमाह | वीर्येणाहं पुरुषं कार्यहेतो; र्दद्यामेषां पञ्चमं मत्प्रसूतम् ||२८|| तेषां कामं भगवानुग्रधन्वा; प्रादादिष्टं सन्निसर्गाद्यथोक्तम् | तां चाप्येषां योषितं लोककान्तां; श्रियं भार्यां व्यदधान्मानुषेषु ||२९|| तैरेव सार्धं तु ततः स देवो; जगाम नारायणमप्रमेयम् | स चापि तद्व्यदधात्सर्वमेव; ततः सर्वे सम्बभूवुर्धरण्याम् ||३०|| स चापि केशौ हरिरुद्बबर्ह; शुक्लमेकमपरं चापि कृष्णम् | तौ चापि केशौ विशतां यदूनां; कुले स्त्रियौ रोहिणीं देवकीं च ||३१|| तयोरेको बलदेवो बभूव; कृष्णो द्वितीयः केशवः सम्बभूव ||३१|| ये ते पूर्वं शक्ररूपा निरुद्धा; स्तस्यां दर्यां पर्वतस्योत्तरस्य | इहैव ते पाण्डवा वीर्यवन्तः; शक्रस्यांशः पाण्डवः सव्यसाची ||३२|| एवमेते पाण्डवाः सम्बभूवु; र्ये ते राजन्पूर्वमिन्द्रा बभूवुः | लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा; भार्या यैषा द्रौपदी दिव्यरूपा ||३३|| कथं हि स्त्री कर्मणोऽन्ते महीतला; त्समुत्तिष्ठेदन्यतो दैवयोगात् | यस्या रूपं सोमसूर्यप्रकाशं; गन्धश्चाग्र्यः क्रोशमात्रात्प्रवाति ||३४|| इदं चान्यत्प्रीतिपूर्वं नरेन्द्र; ददामि ते वरमत्यद्भुतं च | दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं; पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् ||३५|| वैशम्पायन उवाच|| ततो व्यासः परमोदारकर्मा; शुचिर्विप्रस्तपसा तस्य राज्ञः | चक्षुर्दिव्यं प्रददौ तान्स सर्वा; न्राजापश्यत्पूर्वदेहैर्यथावत् ||३६|| ततो दिव्यान्हेमकिरीटमालिनः; शक्रप्रख्यान्पावकादित्यवर्णान् | बद्धापीडांश्चारुरूपांश्च यूनो; व्यूढोरस्कांस्तालमात्रान्ददर्श ||३७|| दिव्यैर्वस्त्रैररजोभिः सुवर्णै; र्माल्यैश्चाग्र्यैः शोभमानानतीव | साक्षात्त्र्यक्षान्वसवो वाथ दिव्या; नादित्यान्वा सर्वगुणोपपन्नान् ||३८|| तान्पूर्वेन्द्रानेवमीक्ष्याभिरूपा; न्प्रीतो राजा द्रुपदो विस्मितश्च ||३८|| दिव्यां मायां तामवाप्याप्रमेयां; तां चैवाग्र्यां श्रियमिव रूपिणीं च | योग्यां तेषां रूपतेजोयशोभिः; पत्नीमृद्धां दृष्टवान्पार्थिवेन्द्रः ||३९|| स तद्दृष्ट्वा महदाश्चर्यरूपं; जग्राह पादौ सत्यवत्याः सुतस्य | नैतच्चित्रं परमर्षे त्वयीति; प्रसन्नचेताः स उवाच चैनम् ||४०|| व्यास उवाच|| आसीत्तपोवने काचिदृषेः कन्या महात्मनः | नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ||४१|| तोषयामास तपसा सा किलोग्रेण शङ्करम् | तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम् ||४२|| सैवमुक्ताब्रवीत्कन्या देवं वरदमीश्वरम् | पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ||४३|| ददौ तस्यै स देवेशस्तं वरं प्रीतिमांस्तदा | पञ्च ते पतयः श्रेष्ठा भविष्यन्तीति शङ्करः ||४४|| सा प्रसादयती देवमिदं भूयोऽभ्यभाषत | एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति वै तदा ||४५|| तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः ||४५|| पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः | तत्तथा भविता भद्रे तव तद्भद्रमस्तु ते ||४६|| देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ||४६|| द्रुपदैषा हि सा जज्ञे सुता ते देवरूपिणी | पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता ||४७|| स्वर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे | सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता ||४८|| सैषा देवी रुचिरा देवजुष्टा; पञ्चानामेका स्वकृतेन कर्मणा | सृष्टा स्वयं देवपत्नी स्वयम्भुवा; श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व ||४९||

    वैवाहिकपर्व १९० द्रुपद उवाच|| अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यतितं कार्यमेतत् | न वै शक्यं विहितस्यापयातुं; तदेवेदमुपपन्नं विधानम् ||१|| दिष्टस्य ग्रन्थिरनिवर्तनीयः; स्वकर्मणा विहितं नेह किञ्चित् | कृतं निमित्तं हि वरैकहेतो; स्तदेवेदमुपपन्नं बहूनाम् ||२|| यथैव कृष्णोक्तवती पुरस्ता; न्नैकान्पतीन्मे भगवान्ददातु | स चाप्येवं वरमित्यब्रवीत्तां; देवो हि वेद परमं यदत्र ||३|| यदि वायं विहितः शङ्करेण; धर्मोऽधर्मो वा नात्र ममापराधः | गृह्णन्त्विमे विधिवत्पाणिमस्या; यथोपजोषं विहितैषां हि कृष्णा ||४|| वैशम्पायन उवाच|| ततोऽब्रवीद्भगवान्धर्मराज; मद्य पुण्याहमुत पाण्डवेय | अद्य पौष्यं योगमुपैति चन्द्रमाः; पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वम् ||५|| ततो राजा यज्ञसेनः सपुत्रो; जन्यार्थ युक्तं बहु तत्तदग्र्यम् | समानयामास सुतां च कृष्णा; माप्लाव्य रत्नैर्बहुभिर्विभूष्य ||६|| ततः सर्वे सुहृदस्तत्र तस्य; समाजग्मुः सचिवा मन्त्रिणश्च | द्रष्टुं विवाहं परमप्रतीता; द्विजाश्च पौराश्च यथाप्रधानाः ||७|| तत्तस्य वेश्मार्थिजनोपशोभितं; विकीर्णपद्मोत्पलभूषिताजिरम् | महार्हरत्नौघविचित्रमाबभौ; दिवं यथा निर्मलतारकाचितम् ||८|| ततस्तु ते कौरवराजपुत्रा; विभूषिताः कुण्डलिनो युवानः | महार्हवस्त्रा वरचन्दनोक्षिताः; कृताभिषेकाः कृतमङ्गलक्रियाः ||९|| पुरोहितेनाग्निसमानवर्चसा; सहैव धौम्येन यथाविधि प्रभो | क्रमेण सर्वे विविशुश्च तत्सदो; महर्षभा गोष्ठमिवाभिनन्दिनः ||१०|| ततः समाधाय स वेदपारगो; जुहाव मन्त्रैर्ज्वलितं हुताशनम् | युधिष्ठिरं चाप्युपनीय मन्त्रवि; न्नियोजयामास सहैव कृष्णया ||११|| प्रदक्षिणं तौ प्रगृहीतपाणी; समानयामास स वेदपारगः | ततोऽभ्यनुज्ञाय तमाजिशोभिनं; पुरोहितो राजगृहाद्विनिर्ययौ ||१२|| क्रमेण चानेन नराधिपात्मजा; वरस्त्रियास्ते जगृहुस्तदा करम् | अहन्यहन्युत्तमरूपधारिणो; महारथाः कौरववंशवर्धनाः ||१३|| इदं च तत्राद्भुतरूपमुत्तमं; जगाद विप्रर्षिरतीतमानुषम् | महानुभावा किल सा सुमध्यमा; बभूव कन्यैव गते गतेऽहनि ||१४|| कृते विवाहे द्रुपदो धनं ददौ; महारथेभ्यो बहुरूपमुत्तमम् | शतं रथानां वरहेमभूषिणां; चतुर्युजां हेमखलीनमालिनाम् ||१५|| शतं गजानामभिपद्मिनां तथा; शतं गिरीणामिव हेमशृङ्गिणाम् | तथैव दासीशतमग्र्ययौवनं; महार्हवेषाभरणाम्बरस्रजम् ||१६|| पृथक्पृथक्चैव दशायुतान्वितं; धनं ददौ सौमकिरग्निसाक्षिकम् | तथैव वस्त्राणि च भूषणानि; प्रभावयुक्तानि महाधनानि ||१७|| कृते विवाहे च ततः स्म पाण्डवाः; प्रभूतरत्नामुपलभ्य तां श्रियम् | विजह्रुरिन्द्रप्रतिमा महाबलाः; पुरे तु पाञ्चालनृपस्य तस्य ह ||१८||

    १९१ वैशम्पायन उवाच|| पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु | न बभूव भयं किञ्चिद्देवेभ्योऽपि कथञ्चन ||१|| कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः | नाम सङ्कीर्तयन्त्यस्ताः पादौ जग्मुः स्वमूर्धभिः ||२|| कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला | कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः ||३|| रूपलक्षणसम्पन्नां शीलाचारसमन्विताम् | द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम् ||४|| यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ | रोहिणी च यथा सोमे दमयन्ती यथा नले ||५|| यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती | यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु ||६|| जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता | सुभगा भोगसम्पन्ना यज्ञपत्नी स्वनुव्रता ||७|| अतिथीनागतान्साधून्बालान्वृद्धान्गुरूंस्तथा | पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः ||८|| कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च | अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सलम् ||९|| पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः | कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ ||१०|| पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते | तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम् ||११|| यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम् | तथा भूयोऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम् ||१२|| ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः | मुक्तावैडूर्यचित्राणि हैमान्याभरणानि च ||१३|| वासांसि च महार्हाणि नानादेश्यानि माधवः | कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च ||१४|| शयनासनयानानि विविधानि महान्ति च | वैडूर्यवज्रचित्राणि शतशो भाजनानि च ||१५|| रूपयौवनदाक्षिण्यैरुपेताश्च स्वलङ्कृताः | प्रेष्याः सम्प्रददौ कृष्णो नानादेश्याः सहस्रशः ||१६|| गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान् | रथांश्च दान्तान्सौवर्णैः शुभैः पट्टैरलङ्कृतान् ||१७|| कोटिशश्च सुवर्णं स तेषामकृतकं तथा | वीतीकृतममेयात्मा प्राहिणोन्मधुसूदनः ||१८|| तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः | मुदा परमया युक्तो गोविन्दप्रियकाम्यया ||१९||

    विदुरागमनपर्व १९२ वैशम्पायन उवाच|| ततो राज्ञां चरैराप्तैश्चारः समुपनीयत | पाण्डवैरुपसम्पन्ना द्रौपदी पतिभिः शुभा ||१|| येन तद्धनुरायम्य लक्ष्यं विद्धं महात्मना | सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः ||२|| यः शल्यं मद्रराजानमुत्क्षिप्याभ्रामयद्बली | त्रासयंश्चापि सङ्क्रुद्धो वृक्षेण पुरुषान्रणे ||३|| न चापि सम्भ्रमः कश्चिदासीत्तत्र महात्मनः | स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः ||४|| ब्रह्मरूपधराञ्श्रुत्वा पाण्डुराजसुतांस्तदा | कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत ||५|| सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता | पुनर्जातानिति स्मैतान्मन्यन्ते सर्वपार्थिवाः ||६|| धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम् | कर्मणा सुनृशंसेन पुरोचनकृतेन वै ||७|| वृत्ते स्वयंवरे चैव राजानः सर्व एव ते | यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान् ||८|| अथ दुर्योधनो राजा विमना भ्रातृभिः सह | अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च ||९|| विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् | तं तु दुःशासनो व्रीडन्मन्दं मन्दमिवाब्रवीत् ||१०|| यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः | न हि तं तत्त्वतो राजन्वेद कश्चिद्धनञ्जयम् ||११|| दैवं तु परमं मन्ये पौरुषं तु निरर्थकम् | धिगस्मत्पौरुषं तात यद्धरन्तीह पाण्डवाः ||१२|| एवं सम्भाषमाणास्ते निन्दन्तश्च पुरोचनम् | विविशुर्हास्तिनपुरं दीना विगतचेतसः ||१३|| त्रस्ता विगतसङ्कल्पा दृष्ट्वा पार्थान्महौजसः | मुक्तान्हव्यवहाच्चैनान्संयुक्तान्द्रुपदेन च ||१४|| धृष्टद्युम्नं च सञ्चिन्त्य तथैव च शिखण्डिनम् | द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान् ||१५|| विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान् | व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् ||१६|| ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते | उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः ||१७|| वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत् | अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत ||१८|| मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया | दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः ||१९|| अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु | आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा ||२०|| अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान् | सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन च ||२१|| तेषां सम्बन्धिनश्चान्यान्बहून्बलसमन्वितान् ||२१|| धृतराष्ट्र उवाच|| यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम | सेयमभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मता ||२२|| यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः ||२२|| को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम् | न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः ||२३|| वैशम्पायन उवाच|| तं तथा भाषमाणं तु विदुरः प्रत्यभाषत | नित्यं भवतु ते बुद्धिरेषा राजञ्शतं समाः ||२४|| ततो दुर्योधनश्चैव राधेयश्च विशां पते | धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा ||२५|| संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः | विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् ||२६|| सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः | अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर ||२७|| अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ | तेषां बलविघातो हि कर्तव्यस्तात नित्यशः ||२८|| ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे | यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान् ||२९||

    १९३ धृतराष्ट्र उवाच|| अहमप्येवमेवैतच्चिन्तयामि यथा युवाम् | विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति ||१|| अतस्तेषां गुणानेव कीर्तयामि विशेषतः | नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः ||२|| यच्च त्वं मन्यसे प्राप्तं तद्ब्रूहि त्वं सुयोधन | राधेय मन्यसे त्वं च यत्प्राप्तं तद्ब्रवीहि मे ||३|| दुर्योधन उवाच|| अद्य तान्कुशलैर्विप्रैः सुकृतैराप्तकारिभिः | कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ ||४|| अथ वा द्रुपदो राजा महद्भिर्वित्तसञ्चयैः | पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः ||५|| परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम् | अथ तत्रैव वा तेषां निवासं रोचयन्तु ते ||६|| इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक् | ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः ||७|| अथवा कुशलाः केचिदुपायनिपुणा नराः | इतरेतरतः पार्थान्भेदयन्त्वनुरागतः ||८|| व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत् | अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम् ||९|| भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः | मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः ||१०|| तस्मिंस्तु निहते राजन्हतोत्साहा हतौजसः | यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः ||११|| अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे | तमृते फल्गुनो युद्धे राधेयस्य न पादभाक् ||१२|| ते जानमाना दौर्बल्यं भीमसेनमृते महत् | अस्मान्बलवतो ज्ञात्वा नशिष्यन्त्यबलीयसः ||१३|| इहागतेषु पार्थेषु निदेशवशवर्तिषु | प्रवर्तिष्यामहे राजन्यथाश्रद्धं निबर्हणे ||१४|| अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम् | एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम् ||१५|| प्रेष्यतां वापि राधेयस्तेषामागमनाय वै | ते लोप्त्रहारैः सन्धाय वध्यन्तामाप्तकारिभिः ||१६|| एतेषामभ्युपायानां यस्ते निर्दोषवान्मतः | तस्य प्रयोगमातिष्ठ पुरा कालोऽतिवर्तते ||१७|| यावच्चाकृतविश्वासा द्रुपदे पार्थिवर्षभे | तावदेवाद्य ते शक्या न शक्यास्तु ततः परम् ||१८|| एषा मम मतिस्तात निग्रहाय प्रवर्तते | साधु वा यदि वासाधु किं वा राधेय मन्यसे ||१९||

    १९४ कर्ण उवाच|| दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः | न ह्युपायेन ते शक्याः पाण्डवाः कुरुनन्दन ||१|| पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया | निग्रहीतुं यदा वीर शकिता न तदा त्वया ||२|| इहैव वर्तमानास्ते समीपे तव पार्थिव | अजातपक्षाः शिशवः शकिता नैव बाधितुम् ||३|| जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते | नोपायसाध्याः कौन्तेया ममैषा मतिरच्युत ||४|| न च ते व्यसनैर्योक्तुं शक्या दिष्टकृता हि ते | शङ्किताश्चेप्सवश्चैव पितृपैतामहं पदम् ||५|| परस्परेण भेदश्च नाधातुं तेषु शक्यते | एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम् ||६|| न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः | परिद्यूनान्वृतवती किमुताद्य मृजावतः ||७|| ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता | तं च प्राप्तवती कृष्णा न सा भेदयितुं सुखम् ||८|| आर्यवृत्तश्च पाञ्चाल्यो न स राजा धनप्रियः | न सन्त्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम् ||९|| तथास्य पुत्रो गुणवाननुरक्तश्च पाण्डवान् | तस्मान्नोपायसाध्यांस्तानहं मन्ये कथञ्चन ||१०|| इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ | यावन्न कृतमूलास्ते पाण्डवेया विशां पते ||११|| तावत्प्रहरणीयास्ते रोचतां तव विक्रमः ||११|| अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः | तावत्प्रहरणं तेषां क्रियतां मा विचारय ||१२|| वाहनानि प्रभूतानि मित्राणि बहुलानि च | यावन्न तेषां गान्धारे तावदेवाशु विक्रम ||१३|| यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः | सह पुत्रैर्महावीर्यैस्तावदेवाशु विक्रम ||१४|| यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम् | राज्यार्थे पाण्डवेयानां तावदेवाशु विक्रम ||१५|| वसूनि विविधान्भोगान्राज्यमेव च केवलम् | नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे महीपते ||१६|| विक्रमेण मही प्राप्ता भरतेन महात्मना | विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः ||१७|| विक्रमं च प्रशंसन्ति क्षत्रियस्य विशां पते | स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ ||१८|| ते बलेन वयं राजन्महता चतुरङ्गिणा | प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान् ||१९|| न हि साम्ना न दानेन न भेदेन च पाण्डवाः | शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि ||२०|| तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम् | नान्यमत्र प्रपश्यामि कार्योपायं जनाधिप ||२१|| वैशम्पायन उवाच|| श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान् | अभिपूज्य ततः पश्चादिदं वचनमब्रवीत् ||२२|| उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने | त्वयि विक्रमसम्पन्नमिदं वचनमीदृशम् ||२३|| भूय एव तु भीष्मश्च द्रोणो विदुर एव च | युवां च कुरुतां बुद्धिं भवेद्या नः सुखोदया ||२४|| तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः | धृतराष्ट्रो महाराज मन्त्रयामास वै तदा ||२५||

    १९५ भीष्म उवाच|| न रोचते विग्रहो मे पाण्डुपुत्रैः कथञ्चन | यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् ||१|| गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मताः | यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव ||२|| यथा च मम राज्ञश्च तथा दुर्योधनस्य ते | तथा कुरूणां सर्वेषामन्येषामपि भारत ||३|| एवं गते विग्रहं तैर्न रोचये; सन्धाय वीरैर्दीयतामद्य भूमिः | तेषामपीदं प्रपितामहानां; राज्यं पितुश्चैव कुरूत्तमानाम् ||४|| दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि | मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः ||५|| यदि राज्यं न ते प्राप्ताः पाण्डवेयास्तपस्विनः | कुत एव तवापीदं भारतस्य च कस्यचित् ||६|| अथ धर्मेण राज्यं त्वं प्राप्तवान्भरतर्षभ | तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः ||७|| मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् | एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च ||८|| अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति | तवाप्यकीर्तिः सकला भविष्यति न संशयः ||९|| कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम् | नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम् ||१०|| यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव | तावज्जीवति गान्धारे नष्टकीर्तिस्तु नश्यति ||११|| तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम् | अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु ||१२|| दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा | दिष्ट्या पुरोचनः पापो नसकामोऽत्ययं गतः ||१३|| तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम् | लोके प्राणभृतां कञ्चिच्छ्रुत्वा कुन्तीं तथागताम् ||१४|| न चापि दोषेण तथा लोको वैति पुरोचनम् | यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति ||१५|| तदिदं जीवितं तेषां तव कल्मषनाशनम् | संमन्तव्यं महाराज पाण्डवानां च दर्शनम् ||१६|| न चापि तेषां वीराणां जीवतां कुरुनन्दन | पित्र्योंऽशः शक्य आदातुमपि वज्रभृता स्वयम् ||१७|| ते हि सर्वे स्थिता धर्मे सर्वे चैवैकचेतसः | अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः ||१८|| यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे | क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम् ||१९||

    १९६ द्रोण उवाच|| मन्त्राय समुपानीतैर्धृतराष्ट्रहितैर्नृप | धर्म्यं पथ्यं यशस्यं च वाच्यमित्यनुशुश्रुमः ||१|| ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः | संविभज्यास्तु कौन्तेया धर्म एष सनातनः ||२|| प्रेष्यतां द्रुपदायाशु नरः कश्चित्प्रियंवदः | बहुलं रत्नमादाय तेषामर्थाय भारत ||३|| मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु | वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा ||४|| सम्प्रीयमाणं त्वां ब्रूयाद्राजन्दूर्योधनं तथा | असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत ||५|| उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत् | पुनः पुनश्च कौन्तेयान्माद्रीपुत्रौ च सान्त्वयन् ||६|| हिरण्मयानि शुभ्राणि बहून्याभरणानि च | वचनात्तव राजेन्द्र द्रौपद्याः सम्प्रयच्छतु ||७|| तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ | पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च ||८|| एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह | उक्त्वाथानन्तरं ब्रूयात्तेषामागमनं प्रति ||९|| अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम् | दुःशासनो विकर्णश्च पाण्डवानानयन्त्विह ||१०|| ततस्ते पार्थिवश्रेष्ठ पूज्यमानाः सदा त्वया | प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके ||११|| एवं तव महाराज तेषु पुत्रेषु चैव ह | वृत्तमौपयिकं मन्ये भीष्मेण सह भारत ||१२|| कर्ण उवाच|| योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ | न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः ||१३|| दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना | ब्रूयान्निःश्रेयसं नाम कथं कुर्यात्सतां मतम् ||१४|| न मित्राण्यर्थकृच्छ्रेषु श्रेयसे वेतराय वा | विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् ||१५|| कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः | ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति ||१६|| श्रूयते हि पुरा कश्चिदम्बुवीच इति श्रुतः | आसीद्राजगृहे राजा मागधानां महीक्षिताम् ||१७|| स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः | अमात्यसंस्थः कार्येषु सर्वेष्वेवाभवत्तदा ||१८|| तस्यामात्यो महाकर्णिर्बभूवैकेश्वरः पुरा | स लब्धबलमात्मानं मन्यमानोऽवमन्यते ||१९|| स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च | आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा ||२०|| तदादाय च लुब्धस्य लाभाल्लोभो व्यवर्धत | तथा हि सर्वमादाय राज्यमस्य जिहीर्षति ||२१|| हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च | यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतम् ||२२|| किमन्यद्विहितान्नूनं तस्य सा पुरुषेन्द्रता | यदि ते विहितं राज्यं भविष्यति विशां पते ||२३|| मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्ध्रुवम् | अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे ||२४|| एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम् | दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम् ||२५|| द्रोण उवाच|| विद्म ते भावदोषेण यदर्थमिदमुच्यते | दुष्टः पाण्डवहेतोस्त्वं दोषं ख्यापयसे हि नः ||२६|| हितं तु परमं कर्ण ब्रवीमि कुरुवर्धनम् | अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम् ||२७|| अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम् | कुरवो विनशिष्यन्ति नचिरेणेति मे मतिः ||२८||

    १९७ विदुर उवाच|| राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः | न त्वशुश्रूषमाणेषु वाक्यं सम्प्रतितिष्ठति ||१|| हितं हि तव तद्वाक्यमुक्तवान्कुरुसत्तमः | भीष्मः शान्तनवो राजन्प्रतिगृह्णासि तन्न च ||२|| तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् | तच्च राधासुतः कर्णो मन्यते न हितं तव ||३|| चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम् | आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः ||४|| इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च | समौ च त्वयि राजेन्द्र तेषु पाण्डुसुतेषु च ||५|| धर्मे चानवमौ राजन्सत्यतायां च भारत | रामाद्दाशरथेश्चैव गयाच्चैव न संशयः ||६|| न चोक्तवन्तावश्रेयः पुरस्तादपि किञ्चन | न चाप्यपकृतं किञ्चिदनयोर्लक्ष्यते त्वयि ||७|| ताविमौ पुरुषव्याघ्रावनागसि नृप त्वयि | न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ ||८|| प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप | त्वन्निमित्तमतो नेमौ किञ्चिज्जिह्मं वदिष्यतः ||९|| इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन ||९|| न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् | एतद्धि परमं श्रेयो मेनाते तव भारत ||१०|| दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव | तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः ||११|| तेषु चेदहितं किञ्चिन्मन्त्रयेयुरबुद्धितः | मन्त्रिणस्ते न ते श्रेयः प्रपश्यन्ति विशेषतः ||१२|| अथ ते हृदये राजन्विशेषस्तेषु वर्तते | अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम् ||१३|| एतदर्थमिमौ राजन्महात्मानौ महाद्युती | नोचतुर्विवृतं किञ्चिन्न ह्येष तव निश्चयः ||१४|| यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ | तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते ||१५|| कथं हि पाण्डवः श्रीमान्सव्यसाची परन्तपः | शक्यो विजेतुं सङ्ग्रामे राजन्मघवता अपि ||१६|| भीमसेनो महाबाहुर्नागायुतबलो महान् | कथं हि युधि शक्येत विजेतुममरैरपि ||१७|| तथैव कृतिनौ युद्धे यमौ यमसुताविव | कथं विषहितुं शक्यौ रणे जीवितुमिच्छता ||१८|| यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः | नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे ||१९|| येषां पक्षधरो रामो येषां मन्त्री जनार्दनः | किं नु तैरजितं सङ्ख्ये येषां पक्षे च सात्यकिः ||२०|| द्रुपदः श्वशुरो येषां येषां श्यालाश्च पार्षताः | धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः ||२१|| सोऽशक्यतां च विज्ञाय तेषामग्रेण भारत | दायाद्यतां च धर्मेण सम्यक्तेषु समाचर ||२२|| इदं निर्दिग्धमयशः पुरोचनकृतं महत् | तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः ||२३|| द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा | तस्य सङ्ग्रहणं राजन्स्वपक्षस्य विवर्धनम् ||२४|| बलवन्तश्च दाशार्हा बहवश्च विशां पते | यतः कृष्णस्ततस्ते स्युर्यतः कृष्णस्ततो जयः ||२५|| यच्च साम्नैव शक्येत कार्यं साधयितुं नृप | को दैवशप्तस्तत्कार्तुं विग्रहेण समाचरेत् ||२६|| श्रुत्वा च जीवतः पार्थान्पौरजानपदो जनः | बलवद्दर्शने गृध्नुस्तेषां राजन्कुरु प्रियम् ||२७|| दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः | अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः ||२८|| उक्तमेतन्मया राजन्पुरा गुणवतस्तव | दुर्योधनापराधेन प्रजेयं विनशिष्यति ||२९||

    १९८ धृतराष्ट्र उवाच|| भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः | हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् ||१|| यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः | तथैव धर्मतः सर्वे मम पुत्रा न संशयः ||२|| यथैव मम पुत्राणामिदं राज्यं विधीयते | तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः ||३|| क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान् | तया च देवरूपिण्या कृष्णया सह भारत ||४|| दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा | दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः ||५|| दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः | दिष्ट्या मम परं दुःखमपनीतं महाद्युते ||६|| वैशम्पायन उवाच|| ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् | सकाशं यज्ञसेनस्य पाण्डवानां च भारत ||७|| तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः | द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान् ||८|| स चापि प्रतिजग्राह धर्मेण विदुरं ततः | चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम् ||९|| ददर्श पाण्डवांस्तत्र वासुदेवं च भारत | स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः ||१०|| तैश्चाप्यमितबुद्धिः स पूजितोऽथ यथाक्रमम् | वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः ||११|| पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान् | प्रददौ चापि रत्नानि विविधानि वसूनि च ||१२|| पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशां पते | द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः ||१३|| प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः | द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च ||१४|| राजञ्शृणु सहामात्यः सपुत्रश्च वचो मम | धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः ||१५|| अब्रवीत्कुशलं राजन्प्रीयमाणः पुनः पुनः | प्रीतिमांस्ते दृढं चापि सम्बन्धेन नराधिप ||१६|| तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः | कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति ||१७|| भारद्वाजो महेष्वासो द्रोणः प्रियसखस्तव | समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति ||१८|| धृतराष्ट्रश्च पाञ्चाल्य त्वया सम्बन्धमीयिवान् | कृतार्थं मन्यतेऽऽत्मानं तथा सर्वेऽपि कौरवाः ||१९|| न तथा राज्यसम्प्राप्तिस्तेषां प्रीतिकरी मता | यथा सम्बन्धकं प्राप्य यज्ञसेन त्वया सह ||२०|| एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान् | द्रष्टुं हि पाण्डुदायादांस्त्वरन्ते कुरवो भृशम् ||२१|| विप्रोषिता दीर्घकालमिमे चापि नरर्षभाः | उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा ||२२|| कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः | द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः ||२३|| स भवान्पाण्डुपुत्राणामाज्ञापयतु माचिरम् | गमनं सहदाराणामेतदागमनं मम ||२४|| विसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु | ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् ||२५|| आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया ||२५||

    राज्यालम्भपर्व १९९ द्रुपद उवाच|| एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् | ममापि परमो हर्षः सम्बन्धेऽस्मिन्कृते विभो ||१|| गमनं चापि युक्तं स्याद्गृहमेषां महात्मनाम् | न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा ||२|| यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः | भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ ||३|| रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः | एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ ||४|| युधिष्ठिर उवाच|| परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः | यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वयम् ||५|| वैशम्पायन उवाच|| ततोऽब्रवीद्वासुदेवो गमनं मम रोचते | यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् ||६|| द्रुपद उवाच|| यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः | प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम ||७|| यथैव हि महाभागाः कौन्तेया मम साम्प्रतम् | तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः ||८|| न तद्ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः | यदेषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः ||९|| वैशम्पायन उवाच|| ततस्ते समनुज्ञाता द्रुपदेन महात्मना | पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः ||१०|| आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् | सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् ||११|| श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽपि कौरवः | प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् ||१२|| विकर्णं च महेष्वासं चित्रसेनं च भारत | द्रोणं च परमेष्वासं गौतमं कृपमेव च ||१३|| तैस्ते परिवृता वीराः शोभमाना महारथाः | नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा ||१४|| कौतूहलेन नगरं दीर्यमाणमिवाभवत् | यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः ||१५|| तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः | उदीरिता अशृण्वंस्ते पाण्डवा हृदयङ्गमाः ||१६|| अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् | यो नः स्वानिव दायादान्धर्मेण परिरक्षति ||१७|| अद्य पाण्डुर्महाराजो वनादिव वनप्रियः | आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः ||१८|| किं नु नाद्य कृतं तावत्सर्वेषां नः परं प्रियम् | यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः ||१९|| यदि दत्तं यदि हुतं विद्यते यदि नस्तपः | तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् ||२०|| ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः | अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् ||२१|| कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते | समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ||२२|| विश्रान्तास्ते महात्मानः कञ्चित्कालं महाबलाः | आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च ||२३|| धृतराष्ट्र उवाच|| भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम | पुनर्वो विग्रहो मा भूत्खाण्डवप्रस्थमाविश ||२४|| न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् | संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा ||२५|| अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविश ||२५|| वैशम्पायन उवाच|| प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च | प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः ||२६|| अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविशन् ||२६|| ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः | मण्डयां चक्रिरे तद्वै पुरं स्वर्गवदच्युताः ||२७|| ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः | नगरं मापयामासुर्द्वैपायनपुरोगमाः ||२८|| सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम् | प्राकारेण च सम्पन्नं दिवमावृत्य तिष्ठता ||२९|| पाण्डुराभ्रप्रकाशेन हिमराशिनिभेन च | शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ||३०|| द्विपक्षगरुडप्रख्यैर्द्वारैर्घोरप्रदर्शनैः | गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः ||३१|| विविधैरतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः | शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः ||३२|| तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् ||३२|| तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम् | आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम् ||३३|| सुविभक्तमहारथ्यं देवताबाधवर्जितम् | विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः ||३४|| तत्त्रिविष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत | मेघवृन्दमिवाकाशे वृद्धं विद्युत्समावृतम् ||३५|| तत्र रम्ये शुभे देशे कौरव्यस्य निवेशनम् | शुशुभे धनसम्पूर्णं धनाध्यक्षक्षयोपमम् ||३६|| तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः | निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा ||३७|| वणिजश्चाभ्ययुस्तत्र देशे दिग्भ्यो धनार्थिनः | सर्वशिल्पविदश्चैव वासायाभ्यागमंस्तदा ||३८|| उद्यानानि च रम्याणि नगरस्य समन्ततः | आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा ||३९|| पुंनागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा | शालतालकदम्बैश्च बकुलैश्च सकेतकैः ||४०|| मनोहरैः पुष्पितैश्च फलभारावनामितैः | प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः ||४१|| जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः | करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः ||४२|| नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतम् | मत्तबर्हिणसङ्घुष्टं कोकिलैश्च सदामदैः ||४३|| गृहैरादर्शविमलैर्विविधैश्च लतागृहैः | मनोहरैश्चित्रगृहैस्तथा जगतिपर्वतैः ||४४|| वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा ||४४|| सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः | हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः ||४५|| रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः | तडागानि च रम्याणि बृहन्ति च महान्ति च ||४६|| तेषां पुण्यजनोपेतं राष्ट्रमावसतां महत् | पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत ||४७|| तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते | पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः ||४८|| पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समन्वितम् | शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ||४९|| तान्निवेश्य ततो वीरो रामेण सह केशवः | ययौ द्वारवतीं राजन्पाण्डवानुमते तदा ||५०||

    अर्जुनवनवासपर्व २०० जनमेजय उवाच|| एवं सम्प्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन | अत ऊर्ध्वं महात्मानः किमकुर्वन्त पाण्डवाः ||१|| सर्व एव महात्मानः पूर्वे मम पितामहाः | द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत ||२|| कथं वा पञ्च कृष्णायामेकस्यां ते नराधिपाः | वर्तमाना महाभागा नाभिद्यन्त परस्परम् ||३|| श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन | तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया तया ||४|| वैशम्पायन उवाच|| धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः | रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परन्तपाः ||५|| प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः | पालयामास धर्मेण पृथिवीं भ्रातृभिः सह ||६|| जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः | मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः ||७|| कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः | आसां चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च ||८|| अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु | नारदस्त्वथ देवर्षिराजगाम यदृच्छया ||९|| आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः ||९|| देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि | प्रादाद्युधिष्ठिरो धीमान्राज्यं चास्मै न्यवेदयत् ||१०|| प्रतिगृह्य तु तां पूजामृषिः प्रीतमनाभवत् | आशीर्भिर्वर्धयित्वा तु तमुवाचास्यतामिति ||११|| निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः | प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् ||१२|| श्रुत्वैव द्रौपदी चापि शुचिर्भूत्वा समाहिता | जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह ||१३|| तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी | कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा ||१४|| तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः | आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः ||१५|| गम्यतामिति होवाच भगवांस्तामनिन्दिताम् ||१५|| गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् | विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः ||१६|| पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी | यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम् ||१७|| सुन्दोपसुन्दावसुरौ भ्रातरौ सहितावुभौ | आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ ||१८|| एकराज्यावेकगृहावेकशय्यासनाशनौ | तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः ||१९|| रक्ष्यतां सौहृदं तस्मादन्योन्यप्रतिभाविकम् | यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर ||२०|| युधिष्ठिर उवाच|| सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने | उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् ||२१|| अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा | यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम् ||२२|| एतत्सर्वं यथावृत्तं विस्तरेण तपोधन | श्रोतुमिच्छामहे विप्र परं कौतूहलं हि नः ||२३||

    सुन्दोपसुन्दोपाख्यानम् २०१ नारद उवाच|| शृणु मे विस्तरेणेममितिहासं पुरातनम् | भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर ||१|| महासुरस्यान्ववाये हिरण्यकशिपोः पुरा | निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् ||२|| तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ | सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः ||३|| अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ | एकशीलसमाचारौ द्विधैवैकं यथा कृतौ ||४|| तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ | त्रैलोक्यविजयार्थाय समास्थायैकनिश्चयम् ||५|| कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस्तपः | तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः ||६|| क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ | मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः ||७|| आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ | ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ ||८|| तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः | धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत् ||९|| ततो देवाभवन्भीता उग्रं दृष्ट्वा तयोस्तपः | तपोविघातार्थमथो देवा विघ्नानि चक्रिरे ||१०|| रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः | न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ||११|| अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः | भगिन्यो मातरो भार्यास्तयोः परिजनस्तथा ||१२|| परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा | स्रस्ताभरणकेशान्ता एकान्तभ्रष्टवाससः ||१३|| अभिधाव्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः | न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ||१४|| यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः | ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत ||१५|| ततः पितामहः साक्षादभिगम्य महासुरौ | वरेण छन्दयामास सर्वलोकपितामहः ||१६|| ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ | दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा ||१७|| ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा | आवयोस्तपसानेन यदि प्रीतः पितामहः ||१८|| मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ | उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः ||१९|| पितामह उवाच|| ऋतेऽमरत्वमन्यद्वां सर्वमुक्तं भविष्यति | अन्यद्वृणीतां मृत्योश्च विधानममरैः समम् ||२०|| करिष्यावेदमिति यन्महदभ्युत्थितं तपः | युवयोर्हेतुनानेन नामरत्वं विधीयते ||२१|| त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः | हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्यहम् ||२२|| सुन्दोपसुन्दावूचतुः|| त्रिषु लोकेषु यद्भूतं किञ्चित्स्थावरजङ्गमम् | सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह ||२३|| पितामह उवाच|| यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् | मृत्योर्विधानमेतच्च यथावद्वां भविष्यति ||२४|| नारद उवाच|| ततः पितामहो दत्त्वा वरमेतत्तदा तयोः | निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह ||२५|| लब्ध्वा वराणि सर्वाणि दैत्येन्द्रावपि तावुभौ | अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ ||२६|| तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ | सर्वः सुहृज्जनस्ताभ्यां प्रमोदमुपजग्मिवान् ||२७|| ततस्तौ तु जटा हित्वा मौलिनौ सम्बभूवतुः | महार्हाभरणोपेतौ विरजोम्बरधारिणौ ||२८|| अकालकौमुदीं चैव चक्रतुः सार्वकामिकीम् | दैत्येन्द्रौ परमप्रीतौ तयोश्चैव सुहृज्जनः ||२९|| भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयतामिति | पीयतां दीयतां चेति वाच आसन्गृहे गृहे ||३०|| तत्र तत्र महापानैरुत्कृष्टतलनादितैः | हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम् ||३१|| तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् | समाः सङ्क्रीडतां तेषामहरेकमिवाभवत् ||३२||

    २०२ नारद उवाच|| उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ | मन्त्रयित्वा ततः सेनां तावाज्ञापयतां तदा ||१|| सुहृद्भिरभ्यनुज्ञातौ दैत्यवृद्धैश्च मन्त्रिभिः | कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा ||२|| गदापट्टिशधारिण्या शूलमुद्गरहस्तया | प्रस्थितौ सहधर्मिण्या महत्या दैत्यसेनया ||३|| मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः | चारणैः स्तूयमानौ तु जग्मतुः परया मुदा ||४|| तावन्तरिक्षमुत्पत्य दैत्यौ कामगमावुभौ | देवानामेव भवनं जग्मतुर्युद्धदुर्मदौ ||५|| तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः | हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः ||६|| ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तथा | खेचराण्यपि भूतानि जिग्यतुस्तीव्रविक्रमौ ||७|| अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महासुरौ | समुद्रवासिनः सर्वान्म्लेच्छजातीन्विजिग्यतुः ||८|| ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ | सैनिकांश्च समाहूय सुतीक्ष्णां वाचमूचतुः ||९|| राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः | तेजो बलं च देवानां वर्धयन्ति श्रियं तथा ||१०|| तेषामेवं प्रवृद्धानां सर्वेषामसुरद्विषाम् | सम्भूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः ||११|| एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः | क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखम् ||१२|| यज्ञैर्यजन्ते ये केचिद्याजयन्ति च ये द्विजाः | तान्सर्वान्प्रसभं दृष्ट्वा बलिनौ जघ्नतुस्तदा ||१३|| आश्रमेष्वग्निहोत्राणि ऋषीणां भावितात्मनाम् | गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धाः सैनिकास्तयोः ||१४|| तपोधनैश्च ये शापाः क्रुद्धैरुक्ता महात्मभिः | नाक्रामन्ति तयोस्तेऽपि वरदानेन जृम्भतोः ||१५|| नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्विव | नियमांस्तदा परित्यज्य व्यद्रवन्त द्विजातयः ||१६|| पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः | तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः ||१७|| मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः | शून्यमासीज्जगत्सर्वं कालेनेव हतं यथा ||१८|| राजर्षिभिरदृश्यद्भिरृषिभिश्च महासुरौ | उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ ||१९|| प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ | संलीनानपि दुर्गेषु निन्यतुर्यमसादनम् ||२०|| सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ | तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः ||२१|| निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा | उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा ||२२|| हाहाभूता भयार्ता च निवृत्तविपणापणा | निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता ||२३|| निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा | अस्थिकङ्कालसङ्कीर्णा भूर्बभूवोग्रदर्शना ||२४|| निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् | जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा ||२५|| चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः | जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः ||२६|| एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा | निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः ||२७||

    २०३ नारद उवाच|| ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः | जग्मुस्तदा परामार्तिं दृष्ट्वा तत्कदनं महत् ||१|| तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः | पितामहस्य भवनं जगतः कृपया तदा ||२|| ततो ददृशुरासीनं सह देवैः पितामहम् | सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम् ||३|| तत्र देवो महादेवस्तत्राग्निर्वायुना सह | चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः ||४|| वैखानसा वालखिल्या वानप्रस्था मरीचिपाः | अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः ||५|| ऋषयः सर्व एवैते पितामहमुपासते ||५|| ततोऽभिगम्य सहिताः सर्व एव महर्षयः | सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे ||६|| यथाकृतं यथा चैव कृतं येन क्रमेण च | न्यवेदयंस्ततः सर्वमखिलेन पितामहे ||७|| ततो देवगणाः सर्वे ते चैव परमर्षयः | तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ||८|| ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा | मुहूर्तमिव सञ्चिन्त्य कर्तव्यस्य विनिश्चयम् ||९|| तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् | दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः ||१०|| सृज्यतां प्रार्थनीयेह प्रमदेति महातपाः ||१०|| पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च | निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः ||११|| त्रिषु लोकेषु यत्किञ्चिद्भूतं स्थावरजङ्गमम् | समानयद्दर्शनीयं तत्तद्यत्नात्ततस्ततः ||१२|| कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशयत् | तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम् ||१३|| सा प्रयत्नेन महता निर्मिता विश्वकर्मणा | त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् ||१४|| न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसम्पदा | न युक्तं यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ||१५|| सा विग्रहवतीव श्रीः कान्तरूपा वपुष्मती | जहार सर्वभूतानां चक्षूंषि च मनांसि च ||१६|| तिलं तिलं समानीय रत्नानां यद्विनिर्मिता | तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः ||१७|| पितामह उवाच|| गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे | प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ||१८|| त्वत्कृते दर्शनादेव रूपसम्पत्कृतेन वै | विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु ||१९|| नारद उवाच|| सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् | चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् ||२०|| प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः | देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् ||२१|| कुर्वन्त्या तु तया तत्र मण्डलं तत्प्रदक्षिणम् | इन्द्रः स्थाणुश्च भगवान्धैर्येण प्रत्यवस्थितौ ||२२|| द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस्तदा | अन्यदञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् ||२३|| पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम् | गतायाश्चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् ||२४|| महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतोऽग्रतः | रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् ||२५|| एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा | तथा सहस्रनेत्रश्च बभूव बलसूदनः ||२६|| तथा देवनिकायानामृषीणां चैव सर्वशः | मुखान्यभिप्रवर्तन्ते येन याति तिलोत्तमा ||२७|| तस्या गात्रे निपतिता तेषां दृष्टिर्महात्मनाम् | सर्वेषामेव भूयिष्ठमृते देवं पितामहम् ||२८|| गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षयः | कृतमित्येव तत्कार्यं मेनिरे रूपसम्पदा ||२९|| तिलोत्तमायां तु तदा गतायां लोकभावनः | सर्वान्विसर्जयामास देवानृषिगणांश्च तान् ||३०||

    २०४ नारद उवाच|| जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ | कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः ||१|| देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् | आदाय सर्वरत्नानि परां तुष्टिमुपागतौ ||२|| यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन | निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव ||३|| स्त्रीभिर्माल्यैश्च गन्धैश्च भक्षैर्भोज्यैश्च पुष्कलैः | पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः ||४|| अन्तःपुरे वनोद्याने पर्वतोपवनेषु च | यथेप्सितेषु देशेषु विजह्रातेऽमराविव ||५|| ततः कदाचिद्विन्ध्यस्य पृष्ठे समशिलातले | पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः ||६|| दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ | वरासनेषु संहृष्टौ सह स्त्रीभिर्निषेदतुः ||७|| ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः | गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थमुपजग्मिरे ||८|| ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती | वेषमाक्षिप्तमाधाय रक्तेनैकेन वाससा ||९|| नदीतीरेषु जातान्सा कर्णिकारान्विचिन्वती | शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ ||१०|| तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ | दृष्ट्वैव तां वरारोहां व्यथितौ सम्बभूवतुः ||११|| तावुत्पत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता | उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम् ||१२|| दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना | उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम् ||१३|| वरप्रदानमत्तौ तावौरसेन बलेन च | धनरत्नमदाभ्यां च सुरापानमदेन च ||१४|| सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ | मदकामसमाविष्टौ परस्परमथोचतुः ||१५|| मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत | मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत ||१६|| नैषा तव ममैषेति तत्र तौ मन्युराविशत् | तस्या हेतोर्गदे भीमे तावुभावप्यगृह्णताम् ||१७|| तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ | अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः ||१८|| तौ गदाभिहतौ भीमौ पेततुर्धरणीतले | रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ ||१९|| ततस्ता विद्रुता नार्यः स च दैत्यगणस्तदा | पातालमगमत्सर्वो विषादभयकम्पितः ||२०|| ततः पितामहस्तत्र सह देवैर्महर्षिभिः | आजगाम विशुद्धात्मा पूजयिष्यंस्तिलोत्तमाम् ||२१|| वरेण छन्दिता सा तु ब्रह्मणा प्रीतिमेव ह | वरयामास तत्रैनां प्रीतः प्राह पितामहः ||२२|| आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि | तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन ||२३|| एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः | इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः ||२४|| एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ | तिलोत्तमार्थे सङ्क्रुद्धावन्योन्यमभिजघ्नतुः ||२५|| तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमान् | यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते ||२६|| तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ ||२६|| वैशम्पायन उवाच|| एवमुक्ता महात्मानो नारदेन महर्षिणा | समयं चक्रिरे राजंस्तेऽन्योन्येन समागताः ||२७|| समक्षं तस्य देवर्षेर्नारदस्यामितौजसः ||२७|| द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शयेत् | स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत् ||२८|| कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः | नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः ||२९|| एवं तैः समयः पूर्वं कृतो नरदचोदितैः | न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत ||३०||

    २०५ वैशम्पायन उवाच|| एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः | वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ||१|| तेषां मनुजसिंहानां पञ्चानाममितौजसाम् | बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी ||२|| ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः | बभूव परमप्रीता नागैरिव सरस्वती ||३|| वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु | व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः ||४|| अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते | कस्यचित्तस्कराः केचिज्जह्रुर्गा नृपसत्तम ||५|| ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः | आगम्य खाण्डवप्रस्थमुदक्रोशत पाण्डवान् ||६|| ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः | प्रसह्य वोऽस्माद्विषयादभिधावत पाण्डवाः ||७|| ब्राह्मणस्य प्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यते | शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति ||८|| ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते | रोरूयमाणे च मयि क्रियतामस्त्रधारणम् ||९|| रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः | तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः ||१०|| श्रुत्वा चैव महाबाहुर्मा भैरित्याह तं द्विजम् | आयुधानि च यत्रासन्पाण्डवानां महात्मनाम् ||११|| कृष्णया सह तत्रासीद्धर्मराजो युधिष्ठिरः ||११|| स प्रवेशाय चाशक्तो गमनाय च पाण्डवः | तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः ||१२|| आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः ||१२|| ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः | अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः ||१३|| उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः | यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् ||१४|| अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे | प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् ||१५|| अनापृच्छ्य च राजानं गते मयि न संशयः | अजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत् ||१६|| अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम | अधर्मो वा महानस्तु वने वा मरणं मम ||१७|| शरीरस्यापि नाशेन धर्म एव विशिष्यते ||१७|| एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः | अनुप्रविश्य राजानमापृच्छ्य च विशां पते ||१८|| धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत | ब्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः ||१९|| न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सह | यावदावर्तयाम्यद्य चोरहस्ताद्धनं तव ||२०|| सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी | शरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम् ||२१|| ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः | आजगाम पुरं वीरः सव्यसाची परन्तपः ||२२|| सोऽभिवाद्य गुरून्सर्वांस्तैश्चापि प्रतिनन्दितः | धर्मराजमुवाचेदं व्रतमादिश्यतां मम ||२३|| समयः समतिक्रान्तो भवत्संदर्शनान्मया | वनवासं गमिष्यामि समयो ह्येष नः कृतः ||२४|| इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम् | कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया ||२५|| युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् ||२५|| प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ | अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् ||२६|| सर्वं तदनुजानामि व्यलीकं न च मे हृदि ||२६|| गुरोरनुप्रवेशो हि नोपघातो यवीयसः | यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः ||२७|| निवर्तस्व महाबाहो कुरुष्व वचनं मम | न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता ||२८|| अर्जुन उवाच|| न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् | न सत्याद्विचलिष्यामि सत्येनायुधमालभे ||२९|| वैशम्पायन उवाच|| सोऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः | वने द्वादश वर्षाणि वासायोपजगाम ह ||३०||

    २०६ वैशम्पायन उवाच|| तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् | अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः ||१|| वेदवेदाङ्गविद्वांसस्तथैवाध्यात्मचिन्तकाः | चौक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये ||२|| कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः | दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः ||३|| एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः | वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः ||४|| रमणीयानि चित्राणि वनानि च सरांसि च | सरितः सागरांश्चैव देशानपि च भारत ||५|| पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ | स गङ्गाद्वारमासाद्य निवेशमकरोत्प्रभुः ||६|| तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय | कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो रथी ||७|| निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत | अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः ||८|| तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च | कृतपुष्पोपहारेषु तीरान्तरगतेषु च ||९|| कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथि स्थितैः | शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः ||१०|| तथा पर्याकुले तस्मिन्निवेशे पाण्डुनन्दनः | अभिषेकाय कौन्तेयो गङ्गामवततार ह ||११|| तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् | उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया ||१२|| अपकृष्टो महाबाहुर्नागराजस्य कन्यया | अन्तर्जले महाराज उलूप्या कामयानया ||१३|| ददर्श पाण्डवस्तत्र पावकं सुसमाहितम् | कौरव्यस्याथ नागस्य भवने परमार्चिते ||१४|| तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनञ्जयः | अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः ||१५|| अग्निकार्यं स कृत्वा तु नागराजसुतां तदा | प्रहसन्निव कौन्तेय इदं वचनमब्रवीत् ||१६|| किमिदं साहसं भीरु कृतवत्यसि भामिनि | कश्चायं सुभगो देशः का च त्वं कस्य चात्मजा ||१७|| उलूप्युवाच|| ऐरावतकुले जातः कौरव्यो नाम पन्नगः | तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी ||१८|| साहं त्वामभिषेकार्थमवतीर्णं समुद्रगाम् | दृष्टवत्येव कौन्तेय कन्दर्पेणास्मि मूर्च्छिता ||१९|| तां मामनङ्गमथितां त्वत्कृते कुरुनन्दन | अनन्यां नन्दयस्वाद्य प्रदानेनात्मनो रहः ||२०|| अर्जुन उवाच|| ब्रह्मचर्यमिदं भद्रे मम द्वादशवार्षिकम् | धर्मराजेन चादिष्टं नाहमस्मि स्वयंवशः ||२१|| तव चापि प्रियं कर्तुमिच्छामि जलचारिणि | अनृतं नोक्तपूर्वं च मया किञ्चन कर्हिचित् ||२२|| कथं च नानृतं तत्स्यात्तव चापि प्रियं भवेत् | न च पीड्येत मे धर्मस्तथा कुर्यां भुजङ्गमे ||२३|| उलूप्युवाच|| जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम् | यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः ||२४|| परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति | यो नोऽनुप्रविशेन्मोहात्स नो द्वादशवार्षिकम् ||२५|| वने चरेद्ब्रह्मचर्यमिति वः समयः कृतः ||२५|| तदिदं द्रौपदीहेतोरन्योन्यस्य प्रवासनम् | कृतं वस्तत्र धर्मार्थमत्र धर्मो न दुष्यति ||२६|| परित्राणं च कर्तव्यमार्तानां पृथुलोचन | कृत्वा मम परित्राणं तव धर्मो न लुप्यते ||२७|| यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः | स च ते धर्म एव स्याद्दात्त्वा प्राणान्ममार्जुन ||२८|| भक्तां भजस्व मां पार्थ सतामेतन्मतं प्रभो | न करिष्यसि चेदेवं मृतां मामुपधारय ||२९|| प्राणदानान्महाबाहो चर धर्ममनुत्तमम् | शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम ||३०|| दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः | साहं शरणमभ्येमि रोरवीमि च दुःखिता ||३१|| याचे त्वामभिकामाहं तस्मात्कुरु मम प्रियम् | स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि ||३२|| वैशम्पायन उवाच|| एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया | कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम् ||३३|| स नागभवने रात्रिं तामुषित्वा प्रतापवान् | उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात् ||३४||

    २०७ वैशम्पायन उवाच|| कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यः स भारत | प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः ||१|| अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् | भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः ||२|| प्रददौ गोसहस्राणि तीर्थेष्वायतनेषु च | निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः ||३|| हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः | दृष्टवान्पर्वतश्रेष्ठं पुण्यान्यायतनानि च ||४|| अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत | प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः ||५|| आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः | नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति ||६|| नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् | महानदीं गयां चैव गङ्गामपि च भारत ||७|| एवं सर्वाणि तीर्थानि पश्यमानस्तथाश्रमान् | आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ वसु ||८|| अङ्गवङ्गकलिङ्गेषु यानि पुण्यानि कानिचित् | जगाम तानि सर्वाणि तीर्थान्यायतनानि च ||९|| दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः ||९|| कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः | अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत ||१०|| स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः | सहायैरल्पकैः शूरः प्रययौ येन सागरम् ||११|| स कलिङ्गानतिक्रम्य देशानायतनानि च | धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः ||१२|| महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् | समुद्रतीरेण शनैर्मणलूरं जगाम ह ||१३|| तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च | अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् ||१४|| मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् ||१४|| तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना | तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया ||१५|| दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम् | अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम् ||१६|| तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः ||१६|| राजा प्रभङ्करो नाम कुले अस्मिन्बभूव ह | अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् ||१७|| उग्रेण तपसा तेन प्रणिपातेन शङ्करः | ईश्वरस्तोषितस्तेन महादेव उमापतिः ||१८|| स तस्मै भगवान्प्रादादेकैकं प्रसवं कुले | एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा ||१९|| तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे | कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम् ||२०|| पुत्रो ममेयमिति मे भावना पुरुषोत्तम | पुत्रिका हेतुविधिना सञ्ज्ञिता भरतर्षभ ||२१|| एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह | एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव ||२२|| स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च | उवास नगरे तस्मिन्कौन्तेयस्त्रिहिमाः समाः ||२३||

    २०८ वैशम्पायन उवाच|| ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः | अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः ||१|| वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः | आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः ||२|| अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् | कारन्धमं प्रसन्नं च हयमेधफलं च यत् ||३|| भारद्वाजस्य तीर्थं च पापप्रशमनं महत् ||३|| विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः | दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः ||४|| तपस्विनस्ततोऽपृच्छत्प्राज्ञलिः कुरुनन्दनः | तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः ||५|| तापसा ऊचुः|| ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् | अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन ||६|| वैशम्पायन उवाच|| तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः | जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः ||७|| ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् | विगाह्य तरसा शूरः स्नानं चक्रे परन्तपः ||८|| अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् | निजग्राह जले ग्राहः कुन्तीपुत्रं धनञ्जयम् ||९|| स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् | उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः ||१०|| उत्कृष्ट एव तु ग्राहः सोऽर्जुनेन यशस्विना | बभूव नारी कल्याणी सर्वाभरणभूषिता ||११|| दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा ||११|| तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः | तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् ||१२|| का वै त्वमसि कल्याणि कुतो वासि जलेचरी | किमर्थं च महत्पापमिदं कृतवती पुरा ||१३|| नार्युवाच|| अप्सरास्मि महाबाहो देवारण्यविचारिणी | इष्टा धनपतेर्नित्यं वर्गा नाम महाबल ||१४|| मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः | ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम् ||१५|| ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् | रूपवन्तमधीयानमेकमेकान्तचारिणम् ||१६|| तस्य वै तपसा राजंस्तद्वनं तेजसावृतम् | आदित्य इव तं देशं कृत्स्नं स व्यवभासयत् ||१७|| तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम् | अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया ||१८|| अहं च सौरभेयी च समीची बुद्बुदा लता | यौगपद्येन तं विप्रमभ्यगच्छाम भारत ||१९|| गायन्त्यो वै हसन्त्यश्च लोभयन्त्यश्च तं द्विजम् | स च नास्मासु कृतवान्मनो वीर कथञ्चन ||२०|| नाकम्पत महातेजाः स्थितस्तपसि निर्मले ||२०|| सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ | ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः ||२१||

    २०९ वर्गोवाच|| ततो वयं प्रव्यथिताः सर्वा भरतसत्तम | आयाम शरणं विप्रं तं तपोधनमच्युतम् ||१|| रूपेण वयसा चैव कन्दर्पेण च दर्पिताः | अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज ||२|| एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन | यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः ||३|| अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः | तस्माद्धर्मेण धर्मज्ञ नास्मान्हिंसितुमर्हसि ||४|| सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते | सत्यो भवतु कल्याण एष वादो मनीषिणाम् ||५|| शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् | शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि ||६|| वैशम्पायन उवाच|| एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत् | प्रसादं कृतवान्वीर रविसोमसमप्रभः ||७|| ब्राह्मण उवाच|| शतं सहस्रं विश्वं च सर्वमक्षयवाचकम् | परिमाणं शतं त्वेतन्नैतदक्षयवाचकम् ||८|| यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले | उत्कर्षति जलात्कश्चित्स्थलं पुरुषसत्तमः ||९|| तदा यूयं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ | अनृतं नोक्तपूर्वं मे हसतापि कदाचन ||१०|| तानि सर्वाणि तीर्थानि इतः प्रभृति चैव ह | नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः ||११|| पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम् ||११|| वर्गोवाच|| ततोऽभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम् | अचिन्तयामोपसृत्य तस्माद्देशात्सुदुःखिताः ||१२|| क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् | समागच्छेम यो नस्तद्रूपमापादयेत्पुनः ||१३|| ता वयं चिन्तयित्वैवं मुहूर्तादिव भारत | दृष्टवत्यो महाभागं देवर्षिमुत नारदम् ||१४|| सर्वा हृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम् | अभिवाद्य च तं पार्थ स्थिताः स्म व्यथिताननाः ||१५|| स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तत् | श्रुत्वा तच्च यथावृत्तमिदं वचनमब्रवीत् ||१६|| दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै | पुण्यानि रमणीयानि तानि गच्छत माचिरम् ||१७|| तत्राशु पुरुषव्याघ्रः पाण्डवो वो धनञ्जयः | मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः ||१८|| तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः | तदिदं सत्यमेवाद्य मोक्षिताहं त्वयानघ ||१९|| एतास्तु मम वै सख्यश्चतस्रोऽन्या जले स्थिताः | कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय ||२०|| वैशम्पायन उवाच|| ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते | तस्माच्छापाददीनात्मा मोक्षयामास वीर्यवान् ||२१|| उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम् | तास्तदाप्सरसो राजन्नदृश्यन्त यथा पुरा ||२२|| तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः | चित्राङ्गदां पुनर्द्रष्टुं मणलूरपुरं ययौ ||२३|| तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम् | तं दृष्ट्वा पाण्डवो राजन्गोकर्णमभितोऽगमत् ||२४||

    २१० वैशम्पायन उवाच|| सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च | सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः ||१|| समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च | तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् ||२|| प्रभासदेशं सम्प्राप्तं बीभत्सुमपराजितम् | तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः ||३|| ततोऽभ्यगच्छत्कौन्तेयमज्ञातो नाम माधवः | ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ ||४|| तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने | आस्तां प्रियसखायौ तौ नरनारायणावृषी ||५|| ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत | किमर्थं पाण्डवेमानि तीर्थान्यनुचरस्युत ||६|| ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा | श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः ||७|| तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ | महीधरं रैवतकं वासायैवाभिजग्मतुः ||८|| पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् | पुरुषाः समलञ्चक्रुरुपजह्रुश्च भोजनम् ||९|| प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः | सहैव वासुदेवेन दृष्टवान्नटनर्तकान् ||१०|| अभ्यनुज्ञाप्य तान्सर्वानर्चयित्वा च पाण्डवः | सत्कृतं शयनं दिव्यमभ्यगच्छन्महाद्युतिः ||११|| तीर्थानां दर्शनं चैव पर्वतानां च भारत | आपगानां वनानां च कथयामास सात्वते ||१२|| स कथाः कथयन्नेव निद्रया जनमेजय | कौन्तेयोऽपहृतस्तस्मिञ्शयने स्वर्गसंमिते ||१३|| मधुरेण स गीतेन वीणाशब्देन चानघ | प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा ||१४|| स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः | रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् ||१५|| अलङ्कृता द्वारका तु बभूव जनमेजय | कुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि ||१६|| दिदृक्षवश्च कौन्तेयं द्वारकावासिनो जनाः | नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः ||१७|| अवलोकेषु नारीणां सहस्राणि शतानि च | भोजवृष्ण्यन्धकानां च समवायो महानभूत् ||१८|| स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः | अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः ||१९|| कुमारैः सर्वशो वीरः सत्कारेणाभिवादितः | समानवयसः सर्वानाश्लिष्य स पुनः पुनः ||२०|| कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते | उवास सह कृष्णेन बहुलास्तत्र शर्वरीः ||२१||

    सुभद्राहरणपर्व २११ वैशम्पायन उवाच|| ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ | वृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप ||१|| तत्र दानं ददुर्वीरा ब्राह्मणानां सहस्रशः | भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा ||२|| प्रासादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः | स देशः शोभितो राजन्दीपवृक्षैश्च सर्वशः ||३|| वादित्राणि च तत्र स्म वादकाः समवादयन् | ननृतुर्नर्तकाश्चैव जगुर्गानानि गायनाः ||४|| अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसः | यानैर्हाटकचित्राङ्गैश्चञ्चूर्यन्ते स्म सर्वशः ||५|| पौराश्च पादचारेण यानैरुच्चावचैस्तथा | सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः ||६|| ततो हलधरः क्षीबो रेवतीसहितः प्रभुः | अनुगम्यमानो गन्धर्वैरचरत्तत्र भारत ||७|| तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् | उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् ||८|| रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ | दिव्यमाल्याम्बरधरौ विजह्रातेऽमराविव ||९|| अक्रूरः सारणश्चैव गदो भानुर्विडूरथः | निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च ||१०|| सत्यकः सात्यकिश्चैव भङ्गकारसहाचरौ | हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः ||११|| एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक् | तमुत्सवं रैवतके शोभयां चक्रिरे तदा ||१२|| तदा कोलाहले तस्मिन्वर्तमाने महाशुभे | वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः ||१३|| तत्र चङ्क्रम्यमाणौ तौ वासुदेवसुतां शुभाम् | अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा ||१४|| दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत | तं तथैकाग्रमनसं कृष्णः पार्थमलक्षयत् ||१५|| अथाब्रवीत्पुष्कराक्षः प्रहसन्निव भारत | वनेचरस्य किमिदं कामेनालोड्यते मनः ||१६|| ममैषा भगिनी पार्थ सारणस्य सहोदरा | यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् ||१७|| अर्जुन उवाच|| दुहिता वसुदेवस्य वासुदेवस्य च स्वसा | रूपेण चैव सम्पन्ना कमिवैषा न मोहयेत् ||१८|| कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् | यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव ||१९|| प्राप्तौ तु क उपायः स्यात्तद्ब्रवीहि जनार्दन | आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत् ||२०|| वासुदेव उवाच|| स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ | स च संशयितः पार्थ स्वभावस्यानिमित्ततः ||२१|| प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते | विवाहहेतोः शूराणामिति धर्मविदो विदुः ||२२|| स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम | हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम् ||२३|| वैशम्पायन उवाच|| ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् | शीघ्रगान्पुरुषान्राजन्प्रेषयामासतुस्तदा ||२४|| धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै | श्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः ||२५||

    २१२ वैशम्पायन उवाच|| ततः संवादिते तस्मिन्ननुज्ञातो धनञ्जयः | गतां रैवतके कन्यां विदित्वा जनमेजय ||१|| वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् | कृष्णस्य मतमाज्ञाय प्रययौ भरतर्षभः ||२|| रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि | सैन्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ||३|| सर्वशस्त्रोपपन्नेन जीमूतरवनादिना | ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना ||४|| संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् | मृगयाव्यपदेशेन यौगपद्येन भारत ||५|| सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्य सह रैवतम् | दैवतानि च सर्वाणि ब्राह्मणान्स्वस्ति वाच्य च ||६|| प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति | तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् ||७|| ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् | रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति ||८|| ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः | विक्रोशन्प्राद्रवत्सर्वो द्वारकामभितः पुरीम् ||९|| ते समासाद्य सहिताः सुधर्मामभितः सभाम् | सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम् ||१०|| तेषां श्रुत्वा सभापालो भेरीं सांनाहिकीं ततः | समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् ||११|| क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा | अन्नपानमपास्याथ समापेतुः सभां ततः ||१२|| ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च | मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च ||१३|| भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः | सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः ||१४|| तेषां समुपविष्टानां देवानामिव संनये | आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः ||१५|| तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्तलोचनाः | अमृष्यमाणाः पार्थस्य समुत्पेतुरहङ्कृताः ||१६|| योजयध्वं रथानाशु प्रासानाहरतेति च | धनूंषि च महार्हाणि कवचानि बृहन्ति च ||१७|| सूतानुच्चुक्रुशुः केच्चिद्रथान्योजयतेति च | स्वयं च तुरगान्केचिन्निन्युर्हेमविभूषितान् ||१८|| रथेष्वानीयमानेषु कवचेषु ध्वजेषु च | अभिक्रन्दे नृवीराणां तदासीत्सङ्कुलं महत् ||१९|| वनमाली ततः क्षीबः कैलासशिखरोपमः | नीलवासा मदोत्सिक्त इदं वचनमब्रवीत् ||२०|| किमिदं कुरुथाप्रज्ञास्तूष्णीं भूते जनार्दने | अस्य भावमविज्ञाय सङ्क्रुद्धा मोघगर्जिताः ||२१|| एष तावदभिप्रायमाख्यातु स्वं महामतिः | यदस्य रुचितं कर्तुं तत्कुरुध्वमतन्द्रिताः ||२२|| ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात् | तूष्णीं भूतास्ततः सर्वे साधु साध्विति चाब्रुवन् ||२३|| समं वचो निशम्येति बलदेवस्य धीमतः | पुनरेव सभामध्ये सर्वे तु समुपाविशन् ||२४|| ततोऽब्रवीत्कामपालो वासुदेवं परन्तपम् | किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन ||२५|| सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत | न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः ||२६|| को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हति | मन्यमानः कुले जातमात्मानं पुरुषः क्वचित् ||२७|| ईप्समानश्च सम्बन्धं कृतपूर्वं च मानयन् | को हि नाम भवेनार्थी साहसेन समाचरेत् ||२८|| सोऽवमन्य च नामास्माननादृत्य च केशवम् | प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः ||२९|| कथं हि शिरसो मध्ये पदं तेन कृतं मम | मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः ||३०|| अद्य निष्कौरवामेकः करिष्यामि वसुन्धराम् | न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः ||३१|| तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् | अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा ||३२||

    हरणहारिकपर्व २१३ वैशम्पायन उवाच|| उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः | ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् ||१|| नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् | संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम् ||२|| अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा | स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः ||३|| प्रदानमपि कन्यायाः पशुवत्कोऽनुमंस्यते | विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि ||४|| एतान्दोषांश्च कौन्तेयो दृष्टवानिति मे मतिः | अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः ||५|| उचितश्चैव सम्बन्धः सुभद्रा च यशस्विनी | एष चापीदृशः पार्थः प्रसह्य हृतवानिति ||६|| भरतस्यान्वये जातं शन्तनोश्च महात्मनः | कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम् ||७|| न च पश्यामि यः पार्थं विक्रमेण पराजयेत् | अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष ||८|| स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः | योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् ||९|| तमनुद्रुत्य सान्त्वेन परमेण धनञ्जयम् | निवर्तयध्वं संहृष्टा ममैषा परमा मतिः ||१०|| यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम् | प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः ||११|| तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप | निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः ||१२|| उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः | पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः ||१३|| पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमाविशत् ||१३|| अभिगम्य स राजानं विनयेन समाहितः | अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान् ||१४|| तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम् | तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा ||१५|| सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते ||१५|| तथा बहुविधं कृष्णां विलपन्तीं धनञ्जयः | सान्त्वयामास भूयश्च क्षमयामास चासकृत् ||१६|| सुभद्रां त्वरमाणश्च रक्तकौशेयवाससम् | पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ||१७|| साधिकं तेन रूपेण शोभमाना यशस्विनी | भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना ||१८|| ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी ||१८|| ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना | ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाब्रवीत् ||१९|| प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम् | सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः ||२०|| तथैव मुदिता भद्रा तामुवाचैवमस्त्विति ||२०|| ततस्ते हृष्टमनसः पाण्डवेया महारथाः | कुन्ती च परमप्रीता बभूव जनमेजय ||२१|| श्रुत्वा तु पुण्डरीकाक्षः सम्प्राप्तं स्वपुरोत्तमम् | अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा ||२२|| आजगाम विशुद्धात्मा सह रामेण केशवः | वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः ||२३|| भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः | सैन्येन महता शौरिरभिगुप्तः परन्तपः ||२४|| तत्र दानपतिर्धीमानाजगाम महायशाः | अक्रूरो वृष्णिवीराणां सेनापतिररिंदमः ||२५|| अनाधृष्टिर्महातेजा उद्धवश्च महायशाः | साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महायशाः ||२६|| सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः | प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च ||२७|| चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च | सारणश्च महाबाहुर्गदश्च विदुषां वरः ||२८|| एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा | आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु ||२९|| ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम् | प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा ||३०|| ताभ्यां प्रतिगृहीतं तद्वृष्णिचक्रं समृद्धिमत् | विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ||३१|| सिक्तसंमृष्टपन्थानं पुष्पप्रकरशोभितम् | चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् ||३२|| दह्यतागुरुणा चैव देशे देशे सुगन्धिना | सुसंमृष्टजनाकीर्णं वणिग्भिरुपशोभितम् ||३३|| प्रतिपेदे महाबाहुः सह रामेण केशवः | वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः ||३४|| सम्पूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः | विवेश भवनं राज्ञः पुरंदरगृहोपमम् ||३५|| युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि | मूर्ध्नि केशवमाघ्राय पर्यष्वजत बाहुना ||३६|| तं प्रीयमाणं कृष्णस्तु विनयेनाभ्यपूजयत् | भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् ||३७|| तांश्च वृष्ण्यन्धकश्रेष्ठान्धर्मराजो युधिष्ठिरः | प्रतिजग्राह सत्कारैर्यथाविधि यथोपगम् ||३८|| गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत् | कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः ||३९|| ततो ददौ वासुदेवो जन्यार्थे धनमुत्तमम् | हरणं वै सुभद्राया ज्ञातिदेयं महायशाः ||४०|| रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् | चतुर्युजामुपेतानां सूतैः कुशलसंमतैः ||४१|| सहस्रं प्रददौ कृष्णो गवामयुतमेव च ||४१|| श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् | वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् ||४२|| ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् ||४२|| तथैवाश्वतरीणां च दान्तानां वातरंहसाम् | शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च ||४३|| स्नापनोत्सादने चैव सुयुक्तं वयसान्वितम् | स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ||४४|| सुवर्णशतकण्ठीनामरोगाणां सुवाससाम् | परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः ||४५|| कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः | मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः ||४६|| गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् | गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ||४७|| कॢप्तानां पटुघण्टानां वराणां हेममालिनाम् | हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः ||४८|| रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली | प्रीयमाणो हलधरः सम्बन्धप्रीतिमावहन् ||४९|| स महाधनरत्नौघो वस्त्रकम्बलफेनवान् | महागजमहाग्राहः पताकाशैवलाकुलः ||५०|| पाण्डुसागरमाविद्धः प्रविवेश महानदः | पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ||५१|| प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्ठिरः | पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् ||५२|| ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः | विजह्रुरमरावासे नराः सुकृतिनो यथा ||५३|| तत्र तत्र महापानैरुत्कृष्टतलनादितैः | यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः ||५४|| एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् | पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं पुरीम् ||५५|| रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः | रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः ||५६|| वासुदेवस्तु पार्थेन तत्रैव सह भारत | उवास नगरे रम्ये शक्रप्रस्थे महामनाः ||५७|| व्यचरद्यमुनाकूले पार्थेन सह भारत ||५७|| ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा | जयन्तमिव पौलोमी द्युतिमन्तमजीजनत् ||५८|| दीर्घबाहुं महासत्त्वमृषभाक्षमरिंदमम् | सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् ||५९|| अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम् | अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षभम् ||६०|| स सात्वत्यामतिरथः सम्बभूव धनञ्जयात् | मखे निर्मथ्यमानाद्वा शमीगर्भाद्धुताशनः ||६१|| यस्मिञ्जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः | अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च तावतः ||६२|| दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत् | पितृणां चैव सर्वेषां प्रजानामिव चन्द्रमाः ||६३|| जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः | स चापि ववृधे बालः शुक्लपक्षे यथा शशी ||६४|| चतुष्पादं दशविधं धनुर्वेदमरिंदमः | अर्जुनाद्वेद वेदज्ञात्सकलं दिव्यमानुषम् ||६५|| विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः | क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत् ||६६|| आगमे च प्रयोगे च चक्रे तुल्यमिवात्मनः | तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनञ्जयः ||६७|| सर्वसंहननोपेतं सर्वलक्षणलक्षितम् | दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम् ||६८|| सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् | मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् ||६९|| कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ | ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा ||७०|| पाञ्चाल्यपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा | लेभे पञ्च सुतान्वीराञ्शुभान्पञ्चाचलानिव ||७१|| युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात् | अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् ||७२|| सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान् | पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा ||७३|| शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम् | परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम् ||७४|| सुते सोमसहस्रे तु सोमार्कसमतेजसम् | सुतसोमं महेष्वासं सुषुवे भीमसेनतः ||७५|| श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना | जातः पुत्रस्तवेत्येवं श्रुतकर्मा ततोऽभवत् ||७६|| शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः | चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् ||७७|| ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते | सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः ||७८|| एकवर्षान्तरास्त्वेव द्रौपदेया यशस्विनः | अन्वजायन्त राजेन्द्र परस्परहिते रताः ||७९|| जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च | चकार विधिवद्धौम्यस्तेषां भरतसत्तम ||८०|| कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः | जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् ||८१|| देवगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महाबलैः | अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् ||८२||

    खाण्डवदाहपर्व २१४ वैशम्पायन उवाच|| इन्द्रप्रस्थे वसन्तस्ते जघ्नुरन्यान्नराधिपान् | शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च ||१|| आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् | पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः ||२|| स समं धर्मकामार्थान्सिषेवे भरतर्षभः | त्रीनिवात्मसमान्बन्धून्बन्धुमानिव मानयन् ||३|| तेषां समविभक्तानां क्षितौ देहवतामिव | बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः ||४|| अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः | रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम् ||५|| अधिष्ठानवती लक्ष्मीः परायणवती मतिः | बन्धुमानखिलो धर्मस्तेनासीत्पृथिवीक्षिता ||६|| भ्रातृभिः सहितो राजा चतुर्भिरधिकं बभौ | प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः ||७|| तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे | बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः ||८|| धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले | प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च ||९|| न तु केवलदैवेन प्रजा भावेन रेमिरे | यद्बभूव मनःकान्तं कर्मणा स चकार तत् ||१०|| न ह्ययुक्तं न चासत्यं नानृतं न च विप्रियम् | भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः ||११|| स हि सर्वस्य लोकस्य हितमात्मन एव च | चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः ||१२|| तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः | अवसन्पृथिवीपालांस्त्रासयन्तः स्वतेजसा ||१३|| ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् | उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति ||१४|| सुहृज्जनवृतास्तत्र विहृत्य मधुसूदन | सायाह्ने पुनरेष्यामो रोचतां ते जनार्दन ||१५|| वासुदेव उवाच|| कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले | सुहृज्जनवृताः पार्थ विहरेम यथासुखम् ||१६|| वैशम्पायन उवाच|| आमन्त्र्य धर्मराजानमनुज्ञाप्य च भारत | जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः ||१७|| विहारदेशं सम्प्राप्य नानाद्रुमवदुत्तमम् | गृहैरुच्चावचैर्युक्तं पुरंदरगृहोपमम् ||१८|| भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्भिर्महाधनैः | माल्यैश्च विविधैर्युक्तं युक्तं वार्ष्णेयपार्थयोः ||१९|| आविवेशतुरापूर्णं रत्नैरुच्चावचैः शुभैः | यथोपजोषं सर्वश्च जनश्चिक्रीड भारत ||२०|| वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः | यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थयोः ||२१|| द्रौपदी च सुभद्रा च वासांस्याभरणानि च | प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे ||२२|| काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथापराः | जहसुश्चापरा नार्यः पपुश्चान्या वरासवम् ||२३|| रुरुदुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् | मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् ||२४|| वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः | शब्देनापूर्यते ह स्म तद्वनं सुसमृद्धिमत् ||२५|| तस्मिंस्तथा वर्तमाने कुरुदाशार्हनन्दनौ | समीपे जग्मतुः कञ्चिदुद्देशं सुमनोहरम् ||२६|| तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ | महार्हासनयो राजंस्ततस्तौ संनिषीदतुः ||२७|| तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च | बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ ||२८|| तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव | अभ्यगच्छत्तदा विप्रो वासुदेवधनञ्जयौ ||२९|| बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः | हरिपिङ्गो हरिश्मश्रुः प्रमाणायामतः समः ||३०|| तरुणादित्यसङ्काशः कृष्णवासा जटाधरः | पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ||३१|| उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् | अर्जुनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः ||३२||

    २१५ वैशम्पायन उवाच|| सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम् | लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः ||१|| ब्राह्मणो बहुभोक्तास्मि भुञ्जेऽपरिमितं सदा | भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छताम् ||२|| एवमुक्तौ तमब्रूतां ततस्तौ कृष्णपाण्डवौ | केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे ||३|| एवमुक्तः स भगवानब्रवीत्तावुभौ ततः | भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति ||४|| नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम् | यदन्नमनुरूपं मे तद्युवां सम्प्रयच्छतम् ||५|| इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति | तं न शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना ||६|| वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा | सगणस्तत्कृते दावं परिरक्षति वज्रभृत् ||७|| तत्र भूतान्यनेकानि रक्ष्यन्ते स्म प्रसङ्गतः | तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा ||८|| स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति | ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् ||९|| स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः | दहेयं खाण्डवं दावमेतदन्नं वृतं मया ||१०|| युवां ह्युदकधारास्ता भूतानि च समन्ततः | उत्तमास्त्रविदो सम्यक्सर्वतो वारयिष्यथः ||११|| एवमुक्ते प्रत्युवाच बीभत्सुर्जातवेदसम् | दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः ||१२|| उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च | यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून् ||१३|| धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम् | कुर्वतः समरे यत्नं वेगं यद्विषहेत मे ||१४|| शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः | न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान् ||१५|| अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः | रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम् ||१६|| तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् | येन नागान्पिशाचांश्च निहन्यान्माधवो रणे ||१७|| उपायं कर्मणः सिद्धौ भगवन्वक्तुमर्हसि | निवारयेयं येनेन्द्रं वर्षमाणं महावने ||१८|| पौरुषेण तु यत्कार्यं तत्कर्तारौ स्व पावक | करणानि समर्थानि भगवन्दातुमर्हसि ||१९||

    २१६ वैशम्पायन उवाच|| एवमुक्तस्तु भगवान्धूमकेतुर्हुताशनः | चिन्तयामास वरुणं लोकपालं दिदृक्षया ||१|| आदित्यमुदके देवं निवसन्तं जलेश्वरम् ||१|| स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् | तमब्रवीद्धूमकेतुः प्रतिपूज्य जलेश्वरम् ||२|| चतुर्थं लोकपालानां रक्षितारं महेश्वरम् ||२|| सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते | तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् ||३|| कार्यं हि सुमहत्पार्थो गाण्डीवेन करिष्यति | चक्रेण वासुदेवश्च तन्मदर्थे प्रदीयताम् ||४|| ददानीत्येव वरुणः पावकं प्रत्यभाषत ||४|| ततोऽद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् | सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च ||५|| सर्वायुधमहामात्रं परसेनाप्रधर्षणम् ||५|| एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् | चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् ||६|| देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः | प्रादाद्वै धनुरत्नं तदक्षय्यौ च महेषुधी ||७|| रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् | उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः ||८|| पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे ||८|| सर्वोपकरणैर्युक्तमजय्यं देवदानवैः | भानुमन्तं महाघोषं सर्वभूतमनोहरम् ||९|| ससर्ज यत्स्वतपसा भौवनो भुवनप्रभुः | प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव ||१०|| यं स्म सोमः समारुह्य दानवानजयत्प्रभुः | नगमेघप्रतीकाशं ज्वलन्तमिव च श्रिया ||११|| आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा | तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा ||१२|| तस्यां तु वानरो दिव्यः सिंहशार्दूललक्षणः | विनर्दन्निव तत्रस्थः संस्थितो मूर्ध्न्यशोभत ||१३|| ध्वजे भूतानि तत्रासन्विविधानि महान्ति च | नादेन रिपुसैन्यानां येषां सञ्ज्ञा प्रणश्यति ||१४|| स तं नानापताकाभिः शोभितं रथमुत्तमम् | प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च ||१५|| संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् | आरुरोह रथं पार्थो विमानं सुकृती यथा ||१६|| तच्च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा | गाण्डीवमुपसङ्गृह्य बभूव मुदितोऽर्जुनः ||१७|| हुताशनं नमस्कृत्य ततस्तदपि वीर्यवान् | जग्राह बलमास्थाय ज्यया च युयुजे धनुः ||१८|| मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह | येऽशृण्वन्कूजितं तत्र तेषां वै व्यथितं मनः ||१९|| लब्ध्वा रथं धनुश्चैव तथाक्षय्यौ महेषुधी | बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि ||२०|| वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः | आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा ||२१|| अब्रवीत्पावकश्चैनमेतेन मधुसूदन | अमानुषानपि रणे विजेष्यसि न संशयः ||२२|| अनेन त्वं मनुष्याणां देवानामपि चाहवे | रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा ||२३|| भविष्यसि न संदेहः प्रवरारिनिबर्हणे ||२३|| क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु | हत्वाप्रतिहतं सङ्ख्ये पाणिमेष्यति ते पुनः ||२४|| वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम् | दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं हरेः ||२५|| ततः पावकमब्रूतां प्रहृष्टौ कृष्णपाण्डवौ | कृतास्त्रौ शस्त्रसम्पन्नौ रथिनौ ध्वजिनावपि ||२६|| कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः | किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सुना ||२७|| अर्जुन उवाच|| चक्रमस्त्रं च वार्ष्णेयो विसृजन्युधि वीर्यवान् | त्रिषु लोकेषु तन्नास्ति यन्न जीयाज्जनार्दनः ||२८|| गाण्डीवं धनुरादाय तथाक्षय्यौ महेषुधी | अहमप्युत्सहे लोकान्विजेतुं युधि पावक ||२९|| सर्वतः परिवार्यैनं दावेन महता प्रभो | कामं सम्प्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि ||३०|| वैशम्पायन उवाच|| एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च | तैजसं रूपमास्थाय दावं दग्धुं प्रचक्रमे ||३१|| सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तदा | ददाह खाण्डवं क्रुद्धो युगान्तमिव दर्शयन् ||३२|| परिगृह्य समाविष्टस्तद्वनं भरतर्षभ | मेघस्तनितनिर्घोषं सर्वभूतानि निर्दहन् ||३३|| दह्यतस्तस्य विबभौ रूपं दावस्य भारत | मेरोरिव नगेन्द्रस्य काञ्चनस्य महाद्युतेः ||३४||

    २१७ वैशम्पायन उवाच|| तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौ | दिक्षु सर्वासु भूतानां चक्राते कदनं महत् ||१|| यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः | पलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम् ||२|| छिद्रं हि न प्रपश्यन्ति रथयोराशुविक्रमात् | आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ ||३|| खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः | उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश ||४|| दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे | स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः ||५|| समालिङ्ग्य सुतानन्ये पितृन्मातृंस्तथापरे | त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः ||६|| विकृतैर्दर्शनैरन्ये समुत्पेतुः सहस्रशः | तत्र तत्र विघूर्णन्तः पुनरग्नौ प्रपेदिरे ||७|| दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले | तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः ||८|| जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत | गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः ||९|| शरीरैः सम्प्रदीप्तैश्च देहवन्त इवाग्नयः | अदृश्यन्त वने तस्मिन्प्राणिनः प्राणसङ्क्षये ||१०|| तांस्तथोत्पततः पार्थः शरैः सञ्छिद्य खण्डशः | दीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि ||११|| ते शराचितसर्वाङ्गा विनदन्तो महारवान् | ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः ||१२|| शरैरभ्याहतानां च दह्यतां च वनौकसाम् | विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः ||१३|| वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषः | जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् ||१४|| ततो जग्मुर्महात्मानः सर्व एव दिवौकसः | शरणं देवराजानं सहस्राक्षं पुरंदरम् ||१५|| देवा ऊचुः|| किं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना | कच्चिन्न सङ्क्षयः प्राप्तो लोकानाममरेश्वर ||१६|| वैशम्पायन उवाच|| तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च | खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः ||१७|| महता मेघजालेन नानारूपेण वज्रभृत् | आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः ||१८|| ततोऽक्षमात्रा विसृजन्धाराः शतसहस्रशः | अभ्यवर्षत्सहस्राक्षः पावकं खाण्डवं प्रति ||१९|| असम्प्राप्तास्तु ता धारास्तेजसा जातवेदसः | ख एव समशुष्यन्त न काश्चित्पावकं गताः ||२०|| ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा | पुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्बहु ||२१|| अर्चिर्धाराभिसम्बद्धं धूमविद्युत्समाकुलम् | बभूव तद्वनं घोरं स्तनयित्नुसघोषवत् ||२२||

    २१८ वैशम्पायन उवाच|| तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् | शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् ||१|| शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः | छादयामास तद्वर्षमपकृष्य ततो वनात् ||२|| न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः | सञ्छाद्यमाने खगमैरस्यता सव्यसाचिना ||३|| तक्षकस्तु न तत्रासीत्सर्पराजो महाबलः | दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा ||४|| अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली | स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात् ||५|| न शशाक विनिर्गन्तुं कौन्तेयशरपीडितः | मोक्षयामास तं माता निगीर्य भुजगात्मजा ||६|| तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते | ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी ||७|| तस्यास्तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः | शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः ||८|| तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् | मोहयामास तत्कालमश्वसेनस्त्वमुच्यत ||९|| तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः | द्विधा त्रिधा च चिच्छेद खगतानेव भारत ||१०|| शशाप तं च सङ्क्रुद्धो बीभत्सुर्जिह्मगामिनम् | पावको वासुदेवश्च अप्रतिष्ठो भवेदिति ||११|| ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः | योधयामास सङ्क्रुद्धो वञ्चनां तामनुस्मरन् ||१२|| देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम् | स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः ||१३|| ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् | वियत्स्थोऽजनयन्मेघाञ्जलधारामुचोऽऽकुलान् ||१४|| तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् | वायव्यमेवाभिमन्त्र्य प्रतिपत्तिविशारदः ||१५|| तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् | जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः ||१६|| क्षणेन चाभवद्व्योम सम्प्रशान्तरजस्तमः | सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम् ||१७|| निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः | प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ्जगत् ||१८|| कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहङ्कृताः | समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः ||१९|| गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा | प्रहर्तुकामाः सम्पेतुराकाशात्कृष्णपाण्डवौ ||२०|| तथैवोरगसङ्घाताः पाण्डवस्य समीपतः | उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः ||२१|| तांश्चकर्त शरैः पार्थः सरोषान्दृश्य खेचरान् | विवशाश्चापतन्दीप्तं देहाभावाय पावकम् ||२२|| ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः | उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः ||२३|| अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः | कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः ||२४|| तेषामभिव्याहरतां शस्त्रवर्षं च मुञ्चताम् | प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः ||२५|| कृष्णश्च सुमहातेजाश्चक्रेणारिनिहा तदा | दैत्यदानवसङ्घानां चकार कदनं महत् ||२६|| अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा | वेलामिव समासाद्य व्यातिष्ठन्त महौजसः ||२७|| ततः शक्रोऽभिसङ्क्रुद्धस्त्रिदशानां महेश्वरः | पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत् ||२८|| अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत् | हतावेताविति प्राह सुरानसुरसूदनः ||२९|| ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् | जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा ||३०|| कालदण्डं यमो राजा शिबिकां च धनेश्वरः | पाशं च वरुणस्तत्र विचक्रं च तथा शिवः ||३१|| ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि | जगृहे च धनुर्धाता मुसलं च जयस्तथा ||३२|| पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः | अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् ||३३|| प्रगृह्य परिघं घोरं विचचारार्यमा अपि | मित्रश्च क्षुरपर्यन्तं चक्रं गृह्य व्यतिष्ठत ||३४|| पूषा भगश्च सङ्क्रुद्धः सविता च विशां पते | आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थावभिद्रुताः ||३५|| रुद्राश्च वसवश्चैव मरुतश्च महाबलाः | विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा ||३६|| एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ | कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः ||३७|| तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे | युगान्तसमरूपाणि भूतोत्सादाय भारत ||३८|| तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ | अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ ||३९|| आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्ततः | न्यवारयेतां सङ्क्रुद्धौ बाणैर्वज्रोपमैस्तदा ||४०|| असकृद्भग्नसङ्कल्पाः सुराश्च बहुशः कृताः | भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः ||४१|| दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च | आश्चर्यमगमंस्तत्र मुनयो दिवि विष्ठिताः ||४२|| शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे | बभूव परमप्रीतो भूयश्चैतावयोधयत् ||४३|| ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः | भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः ||४४|| तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः ||४४|| विफलं क्रियमाणं तत्सम्प्रेक्ष्य च शतक्रतुः | भूयः संवर्धयामास तद्वर्षं देवराडथ ||४५|| सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः | विलयं गमयामास हर्षयन्पितरं तदा ||४६|| समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत् | सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् ||४७|| ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः | बाणैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा ||४८|| गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ | सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः ||४९|| तेनावाक्पतता दावे शैलेन महता भृशम् | भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः ||५०||

    २१९ वैशम्पायन उवाच|| तथा शैलनिपातेन भीषिताः खाण्डवालयाः | दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः ||१|| द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा ||१|| मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा | समुद्विग्ना विससृपुस्तथान्या भूतजातयः ||२|| तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ | उत्पातनादशब्देन सन्त्रासित इवाभवन् ||३|| स्वतेजोभास्वरं चक्रमुत्ससर्ज जनार्दनः | तेन ता जातयः क्षुद्राः सदानवनिशाचराः ||४|| निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् ||४|| अदृश्यन्राक्षसास्तत्र कृष्णचक्रविदारिताः | वसारुधिरसम्पृक्ताः सन्ध्यायामिव तोयदाः ||५|| पिशाचान्पक्षिणो नागान्पशूंश्चापि सहस्रशः | निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत ||६|| क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्रघातिनः | हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः ||७|| तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत | बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा ||८|| समेतानां च देवानां दानवानां च सर्वशः | विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे ||९|| तयोर्बलात्परित्रातुं तं दावं तु यदा सुराः | नाशक्नुवञ्शमयितुं तदाभूवन्पराङ्मुखाः ||१०|| शतक्रतुश्च सम्प्रेक्ष्य विमुखान्देवतागणान् | बभूवावस्थितः प्रीतः प्रशंसन्कृष्णपाण्डवौ ||११|| निवृत्तेषु तु देवेषु वागुवाचाशरीरिणी | शतक्रतुमभिप्रेक्ष्य महागम्भीरनिःस्वना ||१२|| न ते सखा संनिहितस्तक्षकः पन्नगोत्तमः | दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ ||१३|| न च शक्यौ त्वया जेतुं युद्धेऽस्मिन्समवस्थितौ | वासुदेवार्जुनौ शक्र निबोधेदं वचो मम ||१४|| नरनारायणौ देवौ तावेतौ विश्रुतौ दिवि | भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ ||१५|| नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि | अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ ||१६|| पूजनीयतमावेतावपि सर्वैः सुरासुरैः | सयक्षरक्षोगन्धर्वनरकिंनरपन्नगैः ||१७|| तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव | दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् ||१८|| इति वाचमभिश्रुत्य तथ्यमित्यमरेश्वरः | कोपामर्षौ समुत्सृज्य सम्प्रतस्थे दिवं तदा ||१९|| तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः | त्वरिताः सहिता राजन्ननुजग्मुः शतक्रतुम् ||२०|| देवराजं तदा यान्तं सह देवैरुदीक्ष्य तु | वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः ||२१|| देवराजे गते राजन्प्रहृष्टौ कृष्णपाण्डवौ | निर्विशङ्कं पुनर्दावं दाहयामासतुस्तदा ||२२|| स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान् | व्यधमच्छरसम्पातैः प्राणिनः खाण्डवालयान् ||२३|| न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः | सञ्छिद्यमानमिषुभिरस्यता सव्यसाचिना ||२४|| नाशकंस्तत्र भूतानि महान्त्यपि रणेऽर्जुनम् | निरीक्षितुममोघेषुं करिष्यन्ति कुतो रणम् ||२५|| शतेनैकं च विव्याध शतं चैकेन पत्रिणा | व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव ||२६|| न चालभन्त ते शर्म रोधःसु विषमेषु च | पितृदेवनिवासेषु सन्तापश्चाप्यजायत ||२७|| भूतसङ्घसहस्राश्च दीनाश्चक्रुर्महास्वनम् | रुरुवुर्वारणाश्चैव तथैव मृगपक्षिणः ||२८|| तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः ||२८|| न ह्यर्जुनं महाबाहुं नापि कृष्णं महाबलम् | निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः ||२९|| एकायनगता येऽपि निष्पतन्त्यत्र केचन | राक्षसान्दानवान्नागाञ्जघ्ने चक्रेण तान्हरिः ||३०|| ते विभिन्नशिरोदेहाश्चक्रवेगाद्गतासवः | पेतुरास्ये महाकाया दीप्तस्य वसुरेतसः ||३१|| स मांसरुधिरौघैश्च मेदौघैश्च समीरितः | उपर्याकाशगो वह्निर्विधूमः समदृश्यत ||३२|| दीप्ताक्षो दीप्तजिह्वश्च दीप्तव्यात्तमहाननः | दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् ||३३|| तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः | बभूव मुदितस्तृप्तः परां निर्वृतिमागतः ||३४|| अथासुरं मयं नाम तक्षकस्य निवेशनात् | विप्रद्रवन्तं सहसा ददर्श मधुसूदनः ||३५|| तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः | देहवान्वै जटी भूत्वा नदंश्च जलदो यथा ||३६|| जिघांसुर्वासुदेवश्च चक्रमुद्यम्य विष्ठितः ||३६|| स चक्रमुद्यतं दृष्ट्वा दिधक्षुं च हुताशनम् | अभिधावार्जुनेत्येवं मयश्चुक्रोश भारत ||३७|| तस्य भीतस्वनं श्रुत्वा मा भैरिति धनञ्जयः | प्रत्युवाच मयं पार्थो जीवयन्निव भारत ||३८|| तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम् | न हन्तुमैच्छद्दाशार्हः पावको न ददाह च ||३९|| तस्मिन्वने दह्यमाने षडग्निर्न ददाह च | अश्वसेनं मयं चापि चतुरः शार्ङ्गकानिति ||४०||

    शार्ंगकोपाख्यानम् २२० जनमेजय उवाच|| किमर्थं शार्ङ्गकानग्निर्न ददाह तथागते | तस्मिन्वने दह्यमाने ब्रह्मन्नेतद्वदाशु मे ||१|| अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च | कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकानां न कीर्तितम् ||२|| तदेतदद्भुतं ब्रह्मञ्शार्ङ्गानामविनाशनम् | कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः ||३|| वैशम्पायन उवाच|| यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते | तत्ते सर्वं यथावृत्तं कथयिष्यामि भारत ||४|| धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः | आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः ||५|| स मार्गमास्थितो राजन्नृषीणामूर्ध्वरेतसाम् | स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः ||६|| स गत्वा तपसः पारं देहमुत्सृज्य भारत | जगाम पितृलोकाय न लेभे तत्र तत्फलम् ||७|| स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि | पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः ||८|| किमर्थमावृता लोका ममैते तपसार्जिताः | किं मया न कृतं तत्र यस्येदं कर्मणः फलम् ||९|| तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् | फलमेतस्य तपसः कथयध्वं दिवौकसः ||१०|| देवा ऊचुः|| ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु | क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः ||११|| तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः | तपस्वी यज्ञकृच्चासि न तु ते विद्यते प्रजा ||१२|| त इमे प्रसवस्यार्थे तव लोकाः समावृताः | प्रजायस्व ततो लोकानुपभोक्तासि शाश्वतान् ||१३|| पुन्नाम्नो नरकात्पुत्रस्त्रातीति पितरं मुने | तस्मादपत्यसन्ताने यतस्व द्विजसत्तम ||१४|| वैशम्पायन उवाच|| तच्छ्रुत्वा मन्दपालस्तु तेषां वाक्यं दिवौकसाम् | क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् ||१५|| स चिन्तयन्नभ्यगच्छद्बहुलप्रसवान्खगान् | शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् ||१६|| तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः | तानपास्य स तत्रैव जगाम लपितां प्रति ||१७|| बालान्सुतानण्डगतान्मात्रा सह मुनिर्वने ||१७|| तस्मिन्गते महाभागे लपितां प्रति भारत | अपत्यस्नेहसंविग्ना जरिता बह्वचिन्तयत् ||१८|| तेन त्यक्तानसन्त्याज्यानृषीनण्डगतान्वने | नाजहत्पुत्रकानार्ता जरिता खाण्डवे नृप ||१९|| बभार चैतान्सञ्जातान्स्ववृत्त्या स्नेहविक्लवा ||१९|| ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः | मन्दपालश्चरंस्तस्मिन्वने लपितया सह ||२०|| तं सङ्कल्पं विदित्वास्य ज्ञात्वा पुत्रांश्च बालकान् | सोऽभितुष्टाव विप्रर्षिर्ब्राह्मणो जातवेदसम् ||२१|| पुत्रान्परिददद्भीतो लोकपालं महौजसम् ||२१|| मन्दपाल उवाच|| त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् | त्वमन्तः सर्वभूतानां गूढश्चरसि पावक ||२२|| त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः | त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ||२३|| त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः | त्वदृते हि जगत्कृत्स्नं सद्यो न स्याद्धुताशन ||२४|| तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् | गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ||२५|| त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः | दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः ||२६|| जातवेदस्तवैवेयं विश्वसृष्टिर्महाद्युते | तवैव कर्म विहितं भूतं सर्वं चराचरम् ||२७|| त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत् | त्वयि हव्यं च कव्यं च यथावत्सम्प्रतिष्ठितम् ||२८|| अग्ने त्वमेव ज्वलनस्त्वं धाता त्वं बृहस्पतिः | त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः ||२९|| वैशम्पायन उवाच|| एवं स्तुतस्ततस्तेन मन्दपालेन पावकः | तुतोष तस्य नृपते मुनेरमिततेजसः ||३०|| उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते ||३०|| तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् | प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय ||३१|| तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः | खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया ||३२||

    २२१ वैशम्पायन उवाच|| ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः | व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् ||१|| निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी | जरिता दुःखसन्तप्ता विललाप नरेश्वर ||२|| अयमग्निर्दहन्कक्षमित आयाति भीषणः | जगत्संदीपयन्भीमो मम दुःखविवर्धनः ||३|| इमे च मां कर्षयन्ति शिशवो मन्दचेतसः | अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणम् ||४|| त्रासयंश्चायमायाति लेलिहानो महीरुहान् ||४|| अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम | आदाय च न शक्तास्मि पुत्रान्सरितुमन्यतः ||५|| न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे | कं नु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् ||६|| किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् | चिन्तयाना विमोक्षं वो नाधिगच्छामि किञ्चन ||७|| छादयित्वा च वो गात्रैः करिष्ये मरणं सह ||७|| जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम् | सारिसृक्वः प्रजायेत पितृणां कुलवर्धनः ||८|| स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदुत्तमः | इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा ||९|| कमुपादाय शक्येत गन्तुं कस्यापदुत्तमा | किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला ||१०|| नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात् | एवं ब्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुरथ मातरम् ||११|| स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् | अस्मासु हि विनष्टेषु भवितारः सुतास्तव ||१२|| त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः ||१२|| अन्ववेक्ष्यैतदुभयं क्षमं स्याद्यत्कुलस्य नः | तद्वै कर्तुं परः कालो मातरेष भवेत्तव ||१३|| मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः | न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः ||१४|| जरितोवाच|| इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः | तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम् ||१५|| ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः | एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः ||१६|| तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसञ्चयम् | रोचतामेष वोपायो विमोक्षाय हुताशनात् ||१७|| शार्ङ्गका ऊचुः|| अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् | पश्यमाना भयमिदं न शक्ष्यामो निषेवितुम् ||१८|| कथमग्निर्न नो दह्यात्कथमाखुर्न भक्षयेत् | कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः ||१९|| बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् | अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् ||२०|| गर्हितं मरणं नः स्यादाखुना खादता बिले | शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् ||२१||

    २२२ जरितोवाच|| अस्माद्बिलान्निष्पतितं श्येन आखुं जहार तम् | क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः ||१|| शार्ङ्गका ऊचुः|| न हृतं तं वयं विद्मः श्येनेनाखुं कथञ्चन | अन्येऽपि भवितारोऽत्र तेभ्योऽपि भयमेव नः ||२|| संशयो ह्यग्निरागच्छेद्दृष्टं वायोर्निवर्तनम् | मृत्युर्नो बिलवासिभ्यो भवेन्मातरसंशयम् ||३|| निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते | चर खे त्वं यथान्यायं पुत्रान्वेत्स्यसि शोभनान् ||४|| जरितोवाच|| अहं वै श्येनमायान्तमद्राक्षं बिलमन्तिकात् | सञ्चरन्तं समादाय जहाराखुं बिलाद्बली ||५|| तं पतन्तमहं श्येनं त्वरिता पृष्ठतोऽन्वगाम् | आशिषोऽस्य प्रयुञ्जाना हरतो मूषकं बिलात् ||६|| यो नो द्वेष्टारमादाय श्येनराज प्रधावसि | भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः ||७|| यदा स भक्षितस्तेन क्षुधितेन पतत्रिणा | तदाहं तमनुज्ञाप्य प्रत्युपायां गृहान्प्रति ||८|| प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् | श्येनेन मम पश्यन्त्या हृत आखुर्न संशयः ||९|| शार्ङ्गका ऊचुः|| न विद्म वै वयं मातर्हृतमाखुमितः पुरा | अविज्ञाय न शक्ष्यामो बिलमाविशतुं वयम् ||१०|| जरितोवाच|| अहं हि तं प्रजानामि हृतं श्येनेन मूषकम् | अत एव भयं नास्ति क्रियतां वचनं मम ||११|| शार्ङ्गका ऊचुः|| न त्वं मिथ्योपचारेण मोक्षयेथा भयं महत् | समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् ||१२|| न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् | पीड्यमाना भरस्यस्मान्का सती के वयं तव ||१३|| तरुणी दर्शनीयासि समर्था भर्तुरेषणे | अनुगच्छ स्वभर्तारं पुत्रानाप्स्यसि शोभनान् ||१४|| वयमप्यग्निमाविश्य लोकान्प्राप्स्यामहे शुभान् | अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः ||१५|| वैशम्पायन उवाच|| एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे | जगाम त्वरिता देशं क्षेममग्नेरनाश्रयम् ||१६|| ततस्तीक्ष्णार्चिरभ्यागाज्ज्वलितो हव्यवाहनः | यत्र शार्ङ्गा बभूवुस्ते मन्दपालस्य पुत्रकाः ||१७|| ते शार्ङ्गा ज्वलनं दृष्ट्वा ज्वलितं स्वेन तेजसा | जरितारिस्ततो वाचं श्रावयामास पावकम् ||१८||

    २२३ जरितारिरुवाच|| पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः | स कृच्छ्रकालं सम्प्राप्य व्यथां नैवैति कर्हिचित् ||१|| यस्तु कृच्छ्रमसम्प्राप्तं विचेता नावबुध्यते | स कृच्छ्रकाले व्यथितो न प्रजानाति किञ्चन ||२|| सारिसृक्व उवाच|| धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः | शूरः प्राज्ञो बहूनां हि भवत्येको न संशयः ||३|| स्तम्बमित्र उवाच|| ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः | ज्येष्ठश्चेन्न प्रजानाति कनीयान्किं करिष्यति ||४|| द्रोण उवाच|| हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम् | सप्तजिह्वोऽनलः क्षामो लेलिहानोपसर्पति ||५|| वैशम्पायन उवाच|| एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम् | तुष्टाव प्राञ्जलिर्भूत्वा यथा तच्छृणु पार्थिव ||६|| जरितारिरुवाच|| आत्मासि वायोः पवनः शरीरमुत वीरुधाम् | योनिरापश्च ते शुक्र योनिस्त्वमसि चाम्भसः ||७|| ऊर्ध्वं चाधश्च गच्छन्ति विसर्पन्ति च पार्श्वतः | अर्चिषस्ते महावीर्य रश्मयः सवितुर्यथा ||८|| सारिसृक्व उवाच|| माता प्रपन्ना पितरं न विद्मः; पक्षाश्च नो न प्रजाताब्जकेतो | न नस्त्राता विद्यतेऽग्ने त्वदन्य; स्तस्माद्धि नः परिरक्षैकवीर ||९|| यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः | तेन नः परिरक्षाद्य ईडितः शरणैषिणः ||१०|| त्वमेवैकस्तपसे जातवेदो; नान्यस्तप्ता विद्यते गोषु देव | ऋषीनस्मान्बालकान्पालयस्व; परेणास्मान्प्रैहि वै हव्यवाह ||११|| स्तम्बमित्र उवाच|| सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् | त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ||१२|| त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः | मनीषिणस्त्वां यजन्ते बहुधा चैकधैव च ||१३|| सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः | सर्वस्यास्य भुवनस्य प्रसूति; स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ||१४|| त्वमन्नं प्राणिनां भुक्तमन्तर्भूतो जगत्पते | नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् ||१५|| द्रोण उवाच|| सूर्यो भूत्वा रश्मिभिर्जातवेदो; भूमेरम्भो भूमिजातान्रसांश्च | विश्वानादाय पुनरुत्सर्गकाले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र ||१६|| त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः | जायन्ते पुष्करिण्यश्च समुद्रश्च महोदधिः ||१७|| इदं वै सद्म तिग्मांशो वरुणस्य परायणम् | शिवस्त्राता भवास्माकं मास्मानद्य विनाशय ||१८|| पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन | परेण प्रैहि मुञ्चास्मान्सागरस्य गृहानिव ||१९|| वैशम्पायन उवाच|| एवमुक्तो जातवेदा द्रोणेनाक्लिष्टकर्मणा | द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया ||२०|| ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया | ईप्सितं ते करिष्यामि न च ते विद्यते भयम् ||२१|| मन्दपालेन यूयं हि मम पूर्वं निवेदिताः | वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह ||२२|| यच्च तद्वचनं तस्य त्वया यच्चेह भाषितम् | उभयं मे गरीयस्तद्ब्रूहि किं करवाणि ते ||२३|| भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन्स्तोत्रेण ते विभो ||२३|| द्रोण उवाच|| इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः | एतान्कुरुष्व दंष्ट्रासु हव्यवाह सबान्धवान् ||२४|| वैशम्पायन उवाच|| तथा तत्कृतवान्वह्निरभ्यनुज्ञाय शार्ङ्गकान् | ददाह खाण्डवं चैव समिद्धो जनमेजय ||२५||

    २२४ वैशम्पायन उवाच|| मन्दपालोऽपि कौरव्य चिन्तयानः सुतांस्तदा | उक्तवानप्यशीतांशुं नैव स स्म न तप्यते ||१|| स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् | कथं न्वशक्ताः प्लवने लपिते मम पुत्रकाः ||२|| वर्धमाने हुतवहे वाते शीघ्रं प्रवायति | असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः ||३|| कथं न्वशक्ता त्राणाय माता तेषां तपस्विनी | भविष्यत्यसुखाविष्टा पुत्रत्राणमपश्यती ||४|| कथं नु सरणेऽशक्तान्पतने च ममात्मजान् | सन्तप्यमाना अभितो वाशमानाभिधावती ||५|| जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे | स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी ||६|| लालप्यमानं तमृषिं मन्दपालं तथा वने | लपिता प्रत्युवाचेदं सासूयमिव भारत ||७|| न ते सुतेष्ववेक्षास्ति तानृषीनुक्तवानसि | तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् ||८|| तथाग्नौ ते परीत्ताश्च त्वया हि मम संनिधौ | प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना ||९|| लोकपालोऽनृतां वाचं न तु वक्ता कथञ्चन | समर्थास्ते च वक्तारो न ते तेष्वस्ति मानसम् ||१०|| तामेव तु ममामित्रीं चिन्तयन्परितप्यसे | ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत् ||११|| न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने | पीड्यमान उपद्रष्टुं शक्तेनात्मा कथञ्चन ||१२|| गच्छ त्वं जरितामेव यदर्थं परितप्यसे | चरिष्याम्यहमप्येका यथा कापुरुषे तथा ||१३|| मन्दपाल उवाच|| नाहमेवं चरे लोके यथा त्वमभिमन्यसे | अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम ||१४|| भूतं हित्वा भविष्येऽर्थे योऽवलम्बेत मन्दधीः | अवमन्येत तं लोको यथेच्छसि तथा कुरु ||१५|| एष हि ज्वलमानोऽग्निर्लेलिहानो महीरुहान् | द्वेष्यं हि हृदि सन्तापं जनयत्यशिवं मम ||१६|| वैशम्पायन उवाच|| तस्माद्देशादतिक्रान्ते ज्वलने जरिता ततः | जगाम पुत्रकानेव त्वरिता पुत्रगृद्धिनी ||१७|| सा तान्कुशलिनः सर्वान्निर्मुक्ताञ्जातवेदसः | रोरूयमाणा कृपणा सुतान्दृष्टवती वने ||१८|| अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः | एकैकशश्च तान्पुत्रान्क्रोशमानान्वपद्यत ||१९|| ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत | अथ ते सर्व एवैनं नाभ्यनन्दन्त वै सुताः ||२०|| लालप्यमानमेकैकं जरितां च पुनः पुनः | नोचुस्ते वचनं किञ्चित्तमृषिं साध्वसाधु वा ||२१|| मन्दपाल उवाच|| ज्येष्ठः सुतस्ते कतमः कतमस्तदनन्तरः | मध्यमः कतमः पुत्रः कनिष्ठः कतमश्च ते ||२२|| एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे | कृतवानस्मि हव्याशे नैव शान्तिमितो लभे ||२३|| जरितोवाच|| किं ते ज्येष्ठे सुते कार्यं किमनन्तरजेन वा | किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि ||२४|| यस्त्वं मां सर्वशो हीनामुत्सृज्यासि गतः पुरा | तामेव लपितां गच्छ तरुणीं चारुहासिनीम् ||२५|| मन्दपाल उवाच|| न स्त्रीणां विद्यते किञ्चिदन्यत्र पुरुषान्तरात् | सापत्नकमृते लोके भवितव्यं हि तत्तथा ||२६|| सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता | अरुन्धती पर्यशङ्कद्वसिष्ठमृषिसत्तमम् ||२७|| विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् | सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् ||२८|| अपध्यानेन सा तेन धूमारुणसमप्रभा | लक्ष्यालक्ष्या नाभिरूपा निमित्तमिव लक्ष्यते ||२९|| अपत्यहेतोः सम्प्राप्तं तथा त्वमपि मामिह | इष्टमेवङ्गते हित्वा सा तथैव च वर्तसे ||३०|| नैव भार्येति विश्वासः कार्यः पुंसा कथञ्चन | न हि कार्यमनुध्याति भार्या पुत्रवती सती ||३१|| वैशम्पायन उवाच|| ततस्ते सर्व एवैनं पुत्राः सम्यगुपासिरे | स च तानात्मजान्राजन्नाश्वासयितुमारभत् ||३२||

    २२५ मन्दपाल उवाच|| युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया | अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम् ||१|| अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः | युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः ||२|| न सन्तापो हि वः कार्यः पुत्रका मरणं प्रति | ऋषीन्वेद हुताशोऽपि ब्रह्म तद्विदितं च वः ||३|| वैशम्पायन उवाच|| एवमाश्वास्य पुत्रान्स भार्यां चादाय भारत | मन्दपालस्ततो देशादन्यं देशं जगाम ह ||४|| भगवानपि तिग्मांशुः समिद्धं खाण्डवं वनम् | ददाह सह कृष्णाभ्यां जनयञ्जगतोऽभयम् ||५|| वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः | अगच्छत्परमां तृप्तिं दर्शयामास चार्जुनम् ||६|| ततोऽन्तरिक्षाद्भगवानवतीर्य सुरेश्वरः | मरुद्गणवृतः पार्थं माधवं चाब्रवीदिदम् ||७|| कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् | वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान् ||८|| पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः | ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह ||९|| यदा प्रसन्नो भगवान्महादेवो भविष्यति | तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः ||१०|| अहमेव च तं कालं वेत्स्यामि कुरुनन्दन | तपसा महता चापि दास्यामि तव तान्यहम् ||११|| आग्नेयानि च सर्वाणि वायव्यानि तथैव च | मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय ||१२|| वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् | ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा ||१३|| दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः | हुताशनमनुज्ञाप्य जगाम त्रिदिवं पुनः ||१४|| पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम् | अहानि पञ्च चैकं च विरराम सुतर्पितः ||१५|| जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च | युक्तः परमया प्रीत्या तावुवाच विशां पते ||१६|| युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम् | अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् ||१७|| एवं तौ समनुज्ञातौ पावकेन महात्मना | अर्जुनो वासुदेवश्च दानवश्च मयस्तथा ||१८|| परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ | रमणीये नदीकूले सहिताः समुपाविशन् ||१९||

    Mahabharata Critical Edition Only for Personal Studies Encoding: ISCII Electronic text (C) Bhandarkar Oriental Research Institute, Pune, India, 1999 http://bombay.indology.info/mahabharata/statement.html for further details


% File name : mbh01.itx %-------------------------------------------- % Text title : 1 mahAbhArate Adiparva.n % Author : Veda Vyasa % Language : sanskrit % Subject : religion % Description/comments : Access available at Prof John Smith's site % http://bombay.indology.info/mahabharata/statement.html % Transliterated by : Prof. Tokunaga % Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga % Latest update : September 16, 2013 % Send corrections to : (sanskrit at cheerful dot c om) % % Site access : https://sanskritdocuments.org/ %----------------------------------------------------- % The text is to be used for personal studies and research only. % Any use for commercial purpose is prohibited as a 'gentleman's' agreement. %--------------------------------------------------------

From https://sanskritdocuments.org
Questions, comments? Write to (sanskrit at cheerful dot c om) .

09/07/2023 12:53:10    

Comments

Popular posts from this blog

॥ चतुःश्लोकी स्तुति ॥

॥ काशी विश्वनाथाष्टकम ॥

॥ धन्याष्टकम् ॥