उद्योगपर्व - अध्याय 023
॥ श्रीः ॥
5.23. अध्यायः 023
Mahabharata - Udyoga Parva - Chapter Topics
सञ्जयेनोपप्लाव्यं गत्वा पाण्डवान्प्रति धृतराष्ट्रकृतकुशलप्रश्नकथनम् ॥ 1 ॥ युधिष्ठिरेण सञ्जयंप्रति धृतराष्ट्रादीनां कुशलादिप्रश्नः ॥ 2 ॥Mahabharata - Udyoga Parva - Chapter Text
5-23-0 (32398)
वैशम्पायन उवाच। 5-23-0x (3422)
राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य सञ्जयः।
उपप्लाव्यं ययौ द्रष्टुं पाण्डवानमितौजसः ॥ 5-23-1 (32399)
स तु राजानमासाद्य कुन्तीपुत्रं युधिष्ठिरम् ।
अभिवाद्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत ॥ 5-23-2 (32400)
गवल्गणिः सञ्जयः सूतसूनु-
रजातशत्रुमवदत्प्रतीतः।
दिष्ट्या राजंस्त्वामरोगं प्रपश्ये
सहायवन्तं च महेन्द्रकल्पम् ॥ 5-23-3 (32401)
अनामयं पृच्छति त्वाम्बिकेयो
वृद्धो राजा धृतराष्ट्रो मनीषी ।
कच्चिद्भीमः कुशली पाण्डवाग्र्यो
धनञ्जयस्तौ च माद्रीतनूजौ ॥ 5-23-4 (32402)
कच्चित्कृष्णा द्रौपदी राजपुत्री
सत्यव्रता वीरपत्नी सुपुत्रा।
मनस्विनी यत्र च वाञ्छसि त्व-
मिष्टान्कामान्भारत स्वस्तिकामः ॥ 5-23-5 (32403)
युधिष्ठिर उवाच। 5-23-6x (3423)
गावल्गणे सञ्जय स्वागतं ते
प्रीतात्माऽहं त्वाऽभिनन्दामि सूत।
अनामयं प्रतिमाने तवाहं
सहानुजैः कुशली चास्मि विद्वन् ॥ 5-23-6 (32404)
चिरादिदं कुशलं भारतस्य
श्रुत्वा राज्ञः कुरुवृद्धस्य सूत।
मन्ये साक्षाद्दृष्टमहं नरेन्द्रं
दृष्ट्वैव त्वां सञ्जय प्रीतियोगात् ॥ 5-23-7 (32405)
पितामहो नः स्थविरो मनस्वी
महाप्राज्ञः सर्वधर्मोपपन्नः।
सकौरव्यः कुशली तात भीष्मो
यथापूर्वं वृत्तिरस्त्यस्य कच्चित् ॥ 5-23-8 (32406)
कच्चिद्राजा धृतराष्ट्रः सपुत्रो
वैचित्रवीर्यः कुशली महात्मा।
महाराजो बाह्लिकः प्रातिपेयः
कच्चिद्विद्वान्कुशली सूतपुत्र ॥ 5-23-9 (32407)
स सोमदत्तः कुशली तात कच्चि-
द्भूरिश्रवाः सत्यसन्धः शलश्च।
द्रोणः सपुत्रश्च कृपश्च विप्रो
महेष्वासाः कच्चिदेतेऽप्यरोगाः ॥ 5-23-10 (32408)
सर्वे कुरुभ्यः स्पृहयन्ति सञ्जय
धनुर्धरा ये पृथिव्यां प्रधानाः ।
महाप्रज्ञाः सर्वशास्त्रावदाता
धनुर्भृतां मुख्यतमाः पृथिव्याम् ॥ 5-23-11 (32409)
कच्चिन्मानं तात लभन्त एते
धनुर्भृतः कचिदेतेऽप्यरोगाः।
येषां राष्ट्रे निवसति दर्शनीयो
महेष्वासः शीलवान्द्रोणपुत्रः ॥ 5-23-12 (32410)
वैश्यापुत्रः कुशली तात कच्चित्
महाप्राज्ञो राजपुत्रो युयुत्सुः ।
कर्णो मानी कुशली तात कच्चित्
सुयोधनो यस्य मन्दो विधेयः ॥ 5-23-13 (32411)
स्त्रियो वृद्धा भारतानां जनन्यो
महादास्यो दासभार्याश्च सूत।
वध्वः पुत्रा भागिनेया भगिन्यो
दौहित्रा वा कच्चिदप्यव्यलीकाः ॥ 5-23-14 (32412)
कच्चिद्राजा ब्राह्मणानां यथावत्
प्रवर्तते पूर्ववत्तात वृत्तिम्।
कच्चिद्दायान्मामकान्धार्तराष्ट्रो
द्विजातीनां सञ्जय नोपहन्ति ॥ 5-23-15 (32413)
कच्चिद्राजा धृतराष्ट्रः सपुत्र
उपेक्षते ब्राह्मणातिक्रमान्वै।
स्वर्गस्य कच्चिन्न तथा वर्त्मभूता-
मुपेक्षते तेषु सदैव वृत्तिम् ॥ 5-23-16 (32414)
एतञ्ज्योतिश्चोत्तमं जीवलोके
शुक्लं प्रजानां विहितं विधात्रा।
ते चेद्दोषं न नियच्छन्ति मन्दाः
कृत्स्नो नाशो भविता कौरवाणाम् ॥ 5-23-17 (32415)
कच्चिद्राजा धृतराष्ट्रः सपुत्रो
बुभूषते वृत्तिममात्यवर्गे।
कच्चिन्न भेदेन जिजीविषन्ति
मुहृद्रूपा दुर्हृदश्चैकमत्यात् ॥ 5-23-18 (32416)
कच्चिन्न पापं कथयन्ति तात
ते पाण्डवानां कुरवः सर्व एव।
द्रोणः सपुत्रश्च कृपश्च वीरो
नास्मासु पापानि वदन्ति कच्चित् ॥ 5-23-19 (32417)
कच्चिद्राज्ये धृतराष्ट्रं सपुत्रं
समेत्याहुः कुरवः सर्व एव।
कच्चिद्दृष्ट्वा दस्युसङ्घान्समेता-
न्स्मरन्ति पार्थस्य युधां प्रणेतुः ॥ 5-23-20 (32418)
मौर्वीभुजाग्रप्रहितान्स्म तात
दोधूयमानेन धनुर्धरेण।
गाण्डीवनुन्नांस्तनयित्नुघोषा-
नजिह्मगान्कच्चिदनुस्मरन्ति ॥ 5-23-21 (32419)
न चापश्यं कंचिदहं पृथिव्यां
योधं समं वाऽधिकमर्जुनेन।
यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः
सुवाससः समंतो हस्तवापः ॥ 5-23-22 (32420)
गदापाणिर्भीमसेनस्तरस्वी
प्रवेपयञ्छत्रुसङ्घाननीके।
नागः प्रभिन्न इव नङ्घलेषु
चंक्रम्यते कच्चिदेनं स्मरन्ति ॥ 5-23-23 (32421)
माद्रीपुत्रः सहदेवः कलिङ्गान्
समागतानजयद्दन्तकूरे।
वामेनास्यन्दक्षिणेनैव यो वै
महाबलं कच्चिदेनं स्मरन्ति ॥ 5-23-24 (32422)
पुरा जेतुं नकुलः प्रेषितोऽयं
शिबींस्त्रिगर्तान्सञ्जय पश्यतस्ते।
दिशं प्रतीचीं वशमानयन्मे
माद्रीसुतं कच्चिदेनं स्मरन्ति ॥ 5-23-25 (32423)
पराभवो द्वैतवने य आसी-
द्दुर्मन्विते घोपयात्रागतानाम् ।
यत्र मन्दाञ्छत्रुवशं प्रयाता-
नमोचयद्भीमसेनो जयश्च ॥ 5-23-26 (32424)
अहं पश्चादर्जुनमभ्यरक्षं
माद्रीपुत्रौ भीमसेनोऽप्यरक्षत्।
गाण्डीवधन्वा शत्रुसङ्घानुदस्य
स्वस्त्यागमत्कच्चिदेनं स्मरन्ति ॥ 5-23-27 (32425)
न कर्मणा साधुनैकेन नूनं
सुखं शक्यं वै भवतीह सञ्जय ।
सर्वात्मना परिजेतुं वयं चे-
न्न शक्नुमो धृतराष्ट्रस्य पुत्रम् ॥ ॥ 5-23-28 (32426)
इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि त्रयोविंशोऽध्यायः ॥
Comments
Post a Comment