उद्योगपर्व - अध्याय 027

 

॥ श्रीः ॥

5.27. अध्यायः 027

Mahabharata - Udyoga Parva - Chapter Topics

सञ्जयेन युधिष्ठिरंप्रति युद्धे दोषोद्भावनपूर्वकं परैभोगाप्रदानेपि शमाश्रयगम्यैव .....कथनम् ॥ 1 ॥

Mahabharata - Udyoga Parva - Chapter Text

5-27-0 (32484) सञ्जय उवाच। 5-27-0x (3428) धर्मनित्या पाण्डव ते विचेष्टा लोके श्रुता दृश्यते चापि पार्थ । महाश्रावं जीवित चाप्यनित्यं संपश्य त्वं पाण्डव मा व्यनीनशः ॥ 5-27-1 (32485) नचेद्भागं कुरवोऽन्यत्र युद्धा- त्प्रयच्छेरंस्तुभ्यमजातशत्रो। भैक्षचर्यामन्धकवृष्णिराज्ये श्रेयो मन्ये न तु युद्धेन राज्यम् ॥ 5-27-2 (32486) अल्पकालं जीवितं यन्मनुष्ये महास्रावं नित्यदुःखं चलं च। भूयश्च तद्यशसो नानुरूपं तस्मात्पापं पाण्डव मा कृथास्त्वम् ॥ 5-27-3 (32487) कामा मनुष्यं प्रसजन्त एते धर्मस्य ये विघ्नमूलं नरेन्द्र । पूर्वं नरस्तान्मतिमान्प्रणिघ्नन् लोके प्रशंसां लभतेऽनवद्याम् ॥ 5-27-4 (32488) निबन्धनी ह्यर्थतृष्णेह पार्थ तामिच्छतां बाध्यते धर्म एव। धर्मं तु यः प्रणृणीते स बुद्धः कामे गृध्नो हीयतेऽर्थानुरोधात् ॥ 5-27-5 (32489) धर्मं कृत्वा कर्मणां तात मुख्यं महाप्रतापः सवितेव भाति। हीनो हि धर्मेण महीमपीमां लब्ध्वा नरः सीदति पापबुद्धिः ॥ 5-27-6 (32490) वेदोऽधीतश्चरितं ब्रह्मचर्यं यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम् । परं स्थानं मन्यमानेन भूय आत्मा दत्तो वर्षपूगं सुखेभ्यः ॥ 5-27-7 (32491) सुखप्रिये सेवमानोऽतिवेलं योगाभ्यासे यो न करोति कर्म। वित्तक्षये हीनसुखोऽतिवेलं दुःखं शेते कामवेगप्रणुन्नः ॥ 5-27-8 (32492) एवं पुनर्ब्रह्मचर्याऽप्रसक्तो हित्वा धर्मं यः प्रकरोत्यधर्मम्। अश्रद्दधत्परलोकाय मूढो हित्वा देहं तप्यते प्रेत्य मन्दः ॥ 5-27-9 (32493) न कर्मणां विप्रणाशोऽस्त्यमुत्र पुण्यानां वाऽप्यथवा पापकानाम् । पूर्वं कर्तुर्गच्छति पुण्यपापं पश्चात्त्वेनमनुयात्येव कर्ता ॥ 5-27-10 (32494) न्यायोपेतं ब्राह्मणेभ्योऽथ दत्तं श्रद्धापूतं गन्धरसोपपन्नम् । अन्वाहार्येषूत्तमदक्षिणेषु तथारूपं कर्म विख्यायते ते ॥ 5-27-11 (32495) इह क्षेत्रे क्रियते पार्थ कार्यं न वै किंचित्क्रियते प्रेत्य कार्यम् । कृतं त्वया पारलोक्यं च कर्म पुण्यं महत्सद्भिरतिप्रशस्तम् ॥ 5-27-12 (32496) जहाति मृत्युं च जरां भयं च न क्षुत्पिपासे मनसोऽप्रियाणि। न कर्तव्यं विद्यते तत्र किंचि- दन्यत्र वै चेन्द्रियप्रीणनाद्धि ॥ 5-27-13 (32497) एवंरूपं कर्मफलं नरेन्द्र मातापित्रोर्हृदयस्याप्रियेण। त्यज क्रोधं पाण्डव हर्षजं च लोकावुभौ मा प्रहासीश्चिराया ॥ 5-27-14 (32498) अन्तं गत्वा कर्मणां या प्रशंसा सत्यं दमं चार्जवमानृशंस्यम् । अश्वमेधं राजसूयं तथेष्ट्वा पापस्यान्तं कर्मणो मा पुनर्गाः ॥ 5-27-15 (32499) तच्चेदेवं द्वेषरूपेण पार्थाः करिष्यध्वं कर्म पापं चिराय। निवसध्वं वर्षपूगान्वनेषु दुःखं वासं पाण्डवा धर्म एव ॥ 5-27-16 (32500) प्रव्रज्यया यातयित्वा पुरस्ता- दात्माधीनं यद्बलं ते तदाऽसीत्। नित्यं च वश्याः सचिवास्तवेमे जनार्दनो युयुधाश्च वीरः ॥ 5-27-17 (32501) मत्स्यो राजा रुक्मरथः सपुत्रः प्रहारिभिः सहपुत्रैर्विराटः। राजानस्ते ये विजिताः पुरस्ता- त्त्वामेव ते संश्रयेयुः समस्ताः ॥ 5-27-18 (32502) महासहायः प्रतपन्बलस्थः पुरस्कृतो वासुदेवार्जुनाभ्याम्। वरान्हनिष्यन्द्विषतो रङ्गमध्ये व्यनेष्यथा धार्तराष्ट्रस्य दर्पम् ॥ 5-27-19 (32503) बलं कस्माद्वर्धयित्वा परस्य निजान्कस्मात्कर्शयित्वा सहायान्। निरुष्य कस्माद्वर्षपूगान्वनेषु युयुत्ससे पाण्डव हीनकाले॥ 5-27-20 (32504) अप्राज्ञो वा पाण्डव युद्ध्यमानो- ऽधर्मज्ञो वा भूतिमथोऽभ्युपैति। प्रज्ञावान्वा बुद्ध्यमानोऽपि धर्मं संस्तम्भाद्वा सोऽपि भूतेरपैति ॥ 5-27-21 (32505) नाधर्मे ते धीयते पार्थ बुद्धि- र्न संरम्भात्कर्म चकर्थ पापम् । आत्थ किं तत्कारणं यस्य हेतोः प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् ॥ 5-27-22 (32506) अव्याधिजं कटुकं शीर्षरोगि यशोमुषं पापफलोदयं वा। सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥ 5-27-23 (32507) पापानुबन्धं को नु तं कामयेत क्षमैव ते ज्यायसी नोत भोगाः । यत्र भीष्मः शान्तनवो हतः स्या- द्यत्र द्रोणः सहपुत्रो हतः स्यात् ॥ 5-27-24 (32508) कृपः शल्यः सौमदत्तिर्विकर्णो विविंशतिः कर्णदुर्योधनौ च। एतान्हत्वा कीदृशं तत्सुखं स्या- द्यद्विन्देथास्तदनुब्रूहि पार्थ ॥ 5-27-25 (32509) लब्ध्वाऽपीमां पृथिवीं सागरान्तां जरामृत्यू नैव हि त्वं प्रजह्याः। प्रियाप्रिये सुखदुःखे च राज- न्नैवं विद्वान्नैव युद्धं कुरु त्वम् ॥ 5-27-26 (32510) अमात्यानां यदि कामस्य हेतो- रेवं युक्तं कर्म चिकीर्षसि त्वम्। अपक्रमेः स्वं प्रदायैव तेषां मागास्त्वं वै देवयानात्पथोऽद्य ॥ ॥ 5-27-27 (32511) इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि सप्तविंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes

5-27-1 महान् श्रावः श्रवणं यण महाकीर्तीत्यर्थः। मा व्यनीनशः क्रोधेन धार्तराष्ट्रन् मा नाशय ॥ 1 ॥ 5-27-4 प्रसजन्ते स्पृशन्ति ॥ 4 ॥ 5-27-5 गृघ्नः स्पृहावान् ॥ 5 ॥ 5-27-6 कर्मणां अर्थकामाद्यर्थानां मध्ये ॥ 6 ॥ 5-27-7 परं स्थानं परलोकं मन्यमानेन मानयता। पर्षपूगं वर्षगणम्। तत्रत्यसुखेभ्यस्तदर्थं त्वया आत्मापि दत्तः ॥ 7 ॥ 5-27-8 सुखप्रिये भोगान् पुत्रादींश्च सेवमानः । योगाभ्यासे चित्तवृत्तिनिरोधमभ्यसितुं कर्म आसनप्राणायामादिकं न करोति ॥ 8 ॥ 5-27-9 धर्मं च यज्ञादिरूपं हित्वा यः अधर्ममेव प्रकरोति संचिनोति ॥ 9 ॥ 5-27-10 कृतं कर्म भोगं विना आत्मज्ञानं विना वा न नश्यतीत्यर्थः ॥ 10 ॥ 5-27-11 अन्वाहार्येष्वित्यनेन श्रौतमिष्ट्यादिकं लक्ष्यते। तत्रहि अन्वाहार्यो दक्षिणात्वेन दीयते ॥ 11 ॥ 5-27-12 कार्यं धर्मः । प्रेत्य मृत्वा ॥ 12 ॥ 5-27-13 परलोके कर्म नास्तीत्याह जहातीति ॥ 13 ॥ 5-27-14 अत्र कर्म कुर्वन् कामवशादमुत्र फलं न प्रार्थयेतेत्यर्थः । कर्मजं फलं त्यक्त्वा परेण वैराग्येण संपन्नो मोक्षार्थं योगाभ्यासमेव कुरुष्व किं राज्येन बन्धुनाशलभ्येनेत्यर्थः ॥ 14 ॥ 5-27-16 तच्चेदिति। भो पार्थाः भो पाण्डवाः तत्पापं कर्म गोत्रवधरूपं द्वेषरूपेण चिराय प्रागेव चेत्करिष्यध्वं तर्हि यद्वने वर्षपूगान् दुःखं वासं निवसध्वं तद्धर्म एवेति यत्तत्पदाध्याहारेण योज्यम्। राज्यार्थं सर्वलोकनाशमिच्छतां भवतां दुर्योधनेन यो वनवासः कारितः स धर्म एवेत्यर्थः ॥ 16 ॥ 5-27-17 पुरस्तात् प्रव्रजनकाले एव यत् यतः पुरस्तादपि एतद्बलं आत्माधीनमेवासीत्। ज्ञातिवधेनापि राज्यसुखमावश्यकं चेत्तर्हि पूर्वमेव सहायसत्वात्कुतो न युद्धं कृतमिति एतदादिश्लोकचतुष्टयर्थः ॥ 17 ॥ 5-27-20 हीनकाले गते काले इत्यर्थः ॥ 20 ॥ 5-27-21 सर्वथापि युद्धं न कर्तव्यं जयपराजययोरव्यवस्थितत्वादित्याह अप्राह इति। भूतेरपैति दैवादिति शेषः ॥ 21 ॥ 5-27-23 अव्याधिजं कटुकं पित्तादिकं विनाप्यरोचकम् । यशोमुषं यशोहरम्। पेयं गिलनीयम्। मन्युं क्रोधम्। प्रशाम्य शान्तो भव ॥ 23 ॥ 5-27-27 देवयानात्पथोऽर्चिरादिमार्गादपुनरावृत्तिफलात् गोत्रद्रोहेण मागा इत्यर्थः ॥ 27 ॥

Comments

Popular posts from this blog

कुंडलिनी ऊर्जा और सूक्ष्म नाड़ियाँ – सुषुम्ना, इडा और पिंगला

॥ दक्षिणामूर्ति स्तोत्रं ॥

॥ भक्तिवर्धिनी ॥