उद्योगपर्व - अध्याय 029
॥ श्रीः ॥
5.29. अध्यायः 029
Mahabharata - Udyoga Parva - Chapter Topics
श्रीकृष्णेन स्वस्य कुरुपाण्डेषु तुल्यवृत्तित्वकथनपूर्वकं कर्मणामवश्यानुष्ठेयत्वसमर्थनम् ॥ 1 ॥ तथा सञ्जयंप्रति दुर्योधनादिकृत्यनयस्मारणपूर्वकं स्वस्य सन्ध्यर्थं तत्रागमनकथनम् ॥ 2 ॥ तथा पाण्डवानां शमाशमान्यतरपक्षानुसारित्वकथनपूर्वकं धृतराष्ट्रंप्रति यथाभिलषितकरणकथनचोदनम् ॥ 3 ॥Mahabharata - Udyoga Parva - Chapter Text
5-29-0 (32527)
वासुदेव उवाच। 5-29-0x (3430)
अविनाशं सञ्जय पाण्डवाना-
मिच्छाम्यहं भूतिमेषां प्रियं च।
तथा राज्ञो धृतराष्ट्रस्य सूत
समाशंसे बहुपुत्रस्य वृद्धिम् ॥ 5-29-1 (32528)
कामो हि मे सञ्जय नित्यमेव
नान्यद्ब्रूयां तान्प्रति शाम्यतेति।
राज्ञश्च हि प्रियमेतच्छृणोमि
मन्ये चैतत्पाण्डवानां समक्षम् ॥ 5-29-2 (32529)
सुदुष्करस्तत्र शमो हि नूनं
प्रदर्शितः सञ्जय पाण्डवेन।
यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः
कस्मादेषां कलहो नावमूर्च्छेत् ॥ 5-29-3 (32530)
न त्वं धर्मं विचरं सञ्जयेह
मत्तश्च जानामि युधिष्ठिराच्च
अथो कस्मात्सज्जय पाण्डवस्य
उत्साहिनः पूरयतः स्वकर्म ॥ 5-29-4 (32531)
यथाख्यातमावमतः कुटुम्बे
पुरा कस्मान्साधुविलोपमात्थ।
अस्मिन्विधौ वर्तमाने यथाव-
दुच्चावचा मतयो ब्राह्मणानाम् ॥ 5-29-5 (32532)
कर्मणाऽऽहुः सिद्धिमेके परत्र
हिन्वा कर्म विद्यया सिद्धिमेके।
नाभुञ्जानो भक्ष्यभोज्यस्य तृप्ये-
द्विद्वानपीह विहितं ब्राह्मणानाम् ॥ 5-29-6 (32533)
या वै विद्याः साधयन्तीह कर्म
तासां फलं विद्यते नेतरासाम्।
तत्रेह वै दृष्टफलं तु कर्म
पीत्वोदकं शाम्यति तृष्णयाऽऽर्तः ॥ 5-29-7 (32534)
सोऽयं विधिर्विहितः कर्मणैव
संवर्तते सञ्जय तत्र कर्म।
तत्र योऽन्यत्कर्मणः साधु मन्ये-
न्मोघं तस्यालपितं दुर्बलस्य ॥ 5-29-8 (32535)
कर्मणाऽमी भान्ति देवाः परत्र
कर्मणैवेह प्लवते मातरिश्वा।
अहोरात्रे विदधत्कर्मणैव
अतन्द्रितो नित्यमुदेति सूर्यः ॥ 5-29-9 (32536)
मासार्धमासानथ नक्षत्रयोगा-
नतन्द्रितश्चन्द्रमाश्चाभ्युपैति।
अतन्द्रितो दहते जातवेदाः
समिद्ध्यमानः कर्म कुर्वन्प्रजाभ्यः ॥ 5-29-10 (32537)
अतन्द्रिता भारमिमं महान्तं
बिभर्ति देवी पृथिवी वलेन।
अतन्द्रिताः शीघ्रसपो वहन्ति
सन्तर्पयन्त्यः सर्वभूतानि नद्यः ॥ 5-29-11 (32538)
अतन्द्रितो वर्षति भूरितेजाः
सन्नादयन्नन्तरिक्षं दिशश्च।
अतन्द्रितो ब्रह्मचर्यं चचार
श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम् ॥ 5-29-12 (32539)
हित्वा सुखं मनसश्च प्रियाणि
तेन शक्रः कर्मणा श्रैष्ठ्यमाप।
सत्यं धर्मं पालयन्नप्रमत्तो
दमं तितिक्षां समतां प्रियं च ॥ 5-29-13 (32540)
एतानि सर्वाण्युपसेवमानो
यो देवराज्यं मघवान्प्राप मुख्यम्।
बृहस्पतिर्ब्रह्मचर्यं चचार
समीहितः संशिमात्मा यथावत् ॥ 5-29-14 (32541)
हित्वा सुख प्रतिरुध्येन्द्रियाणि
तेन देवानामगमद्गौरवं सः।
तथा नक्षत्राणि कर्मणाऽमुत्र भान्ति
रुद्रादित्या वसवोऽथापि विश्वे ॥ 5-29-15 (32542)
यमो राजा वैश्रवणः कुबेरो
गन्धर्वयक्षाप्सरसश्च सूत।
ब्रह्मविद्यां ब्रह्मचर्यं क्रियां च
निपेवमाणा ऋषयोऽमुत्र भान्ति ॥ 5-29-16 (32543)
जानन्निमं सर्वलोकस्य धर्मं
विप्रेन्द्राणां क्षत्रियाणां विशां च।
स कस्मात्त्वं जानतां ज्ञानवान्सन्
व्यायच्छसेक सञ्जय कौरवार्थे ॥ 5-29-17 (32544)
आम्नायेषु नित्यसंयोगमस्य
तथाऽश्वमेधे राजसूये च विद्धि।
संयुज्यते धनुपा वर्मणा च
हस्त्यश्वाद्यै रथशस्त्रैश्च भूयः ॥ 5-29-18 (32545)
ते चेदिमे कौरवाणाम्रुपाय-
मवगच्छेयुवधेनैव पार्थाः।
धर्मत्राणं पुण्यमेषां कृतं स्या-
दार्ये वृत्ते भीमसेनं निगृह्य ॥ 5-29-19 (32546)
ते चेत्पित्र्ये कर्मणि वर्तमाना
आपद्येरन्दिष्टवशेन मृत्युम्।
यथाशक्त्यापूरयन्तः स्वकर्म
तदप्येषां निधनं स्यात्प्रशस्तम् ॥ 5-29-20 (32547)
उताहो त्वं मन्यसे शाम्यमेव
राज्ञां युद्धे वर्तते धर्मतन्त्रम्।
अयुद्धे वा वर्तते धर्मतन्त्रं
तथैव ते वाचमिमां श्रृणोमि ॥ 5-29-21 (32548)
चातुर्वर्ण्यस्य प्रथमं संविभाग-
मवेक्ष्य त्वं सञ्जय स्वं च कर्म।
निशम्याथो पाण्डवानां च कर्म
प्रशंस वा निन्द वा या मतिस्ते॥ 5-29-22 (32549)
अधीयीत ब्राह्मणो वै यजेत
दद्यादीयात्तीर्थमुख्यानि चैव।
अध्याप्रयेद्याजयेच्चापि याज्यान्
प्रतिग्रहान्वा विहितान्प्रतीच्छेत् ॥ 5-29-23 (32550)
` अधीयीत क्षत्रियोऽथो यजेत
दद्याद्धनं न तु याचेत किंचित्।
न याजयेन्न तु चाध्यापयीत
एवं स्मृतः क्षत्रधर्मः पुराणः ॥' 5-29-24 (32551)
तथा राजन्यो रक्षणं वै प्रजानां
कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा।
यज्ञैदिष्ट्वा सर्ववेदानधीत्य
दारान्कृवा पुण्यकृदावसेद्गृहान् ॥ 5-29-25 (32552)
स धर्मात्मा धर्ममधीत्य पुण्यं
यदृच्छया व्रजति ब्रह्मलोकम्।
वैश्योऽधीत्य कृषिगोरक्षपण्यै-
र्वित्तं चिन्वन्पालयन्नप्रमत्तः ॥ 5-29-26 (32553)
प्रियं कुर्वन्ब्राह्मणक्षत्रियाणां
धर्मशीलः पुण्यकृदावसेद्गृहान्।
परिचर्या वन्दनं ब्राह्मणानां
नाधीयीत प्रतिषिद्धोऽस्य यज्ञः ।
नित्योत्थितो भूतयेऽतन्द्रितः स्या-
देवं स्मृतः शूद्रधर्मः पुराणः ॥ 5-29-27 (32554)
एतान्राजा पालयन्नप्रमत्तो
नियोजयन्सर्ववर्णान्स्वधर्मे।
अकामात्मा समवृत्तिः प्रजासु
नाधार्मिकाननुरुध्येत कामात् ॥ 5-29-28 (32555)
श्रेयांस्तस्माद्यदि विद्येत कश्चि-
दभिज्ञातः सर्वधर्मोपपन्नः ।
स तं द्रष्टुमनुशिष्यन्प्रजानां
न चैतद्बुध्येदिति तस्मिन्नसाधुः ॥ 5-29-29 (32556)
यदा गृध्येत्परभूतौ नृशंसो
विधिप्रकोपाद्बलमाददानः।
ततो राज्ञामभवद्युद्धमेत-
त्तत्र जातं वर्म शस्त्रं धनुश्च।
इन्द्रेणैतद्दस्युवधाय कर्म
उत्पादितं वर्म शस्त्रं धनुश्च ॥ 5-29-30 (32557)
तत्र पुण्यं दस्युवधेन लभ्यते
सोऽयं दोषः कुरुभिस्तीव्ररूपः ।
अधर्मज्ञैर्धर्ममबुध्यमानैः
प्रादुर्भूतः सञ्जय साधु तन्न ॥ 5-29-31 (32558)
तत्र राजा धृतराष्ट्रः सपुत्रो
धर्म्यं हरेत्पाण्डवानामकस्मात्।
नावेक्षन्ते राजधर्मं पुराणं
तदन्वयाः कुरवः सर्व एव ॥ 5-29-32 (32559)
स्तेनो हरेद्यत्र धनं ह्यदृष्टः
प्रसह्य वा यत्र हरेत दृष्टः ।
उभौ गर्ह्यौ भवतः सञ्जयैतौ
किं वै पृथत्कं धृतराष्ट्रस्य पुत्रे ॥ 5-29-33 (32560)
सोऽयं लोभान्मन्यते धर्ममेतं
यमिच्छति क्रोधवशानुगामी।
भागः पुनः पाण्डवानां निविष्ट-
स्तं नः कस्मादाददीरन्परे वै ॥ 5-29-34 (32561)
अस्मिन्पदे युध्यतां नो वधोऽपि
श्लाघ्यः पित्र्यं पपराज्याद्विशिष्टम्।
एतान्धर्मान्कौरवाणां पुराणा-
नाचक्षीथाः सञ्जय राजमध्ये ॥ 5-29-35 (32562)
एते मदान्मृत्युवशाभिपन्नाः
समानीता धार्तराष्ट्रेण मूढाः।
इदं पुनः कर्म पापीय एव
सभामध्ये पश्य वत्तं कुरूणाम् ॥ 5-29-36 (32563)
प्रियं भार्यां द्रौपदीं पाण्डवानां
यशस्विनीं शीलवृत्तोपपन्नाम्।
यदुपैक्षन्त कुरवो भीष्ममुख्याः
कामानिगेनोपरुद्धां व्रजन्तीम् ॥ 5-29-37 (32564)
तां चेत्तदा ते सकुमारवृद्धा
अवारयिष्यन्कुरवः समेताः ।
मम प्रियं धृतराष्ट्रोऽकरिष्यत्
पुत्राणां च कृतमस्याभविष्यत् ॥ 5-29-38 (32565)
दुःशासनः प्रतिलोम्यान्निनाय
सभामध्ये श्वशुराणां च कृष्णाम्।
सा तत्र नीता करुणं व्यपेक्ष्य
नान्यं क्षत्तुर्नाथमवाप किंचित् ॥ 5-29-39 (32566)
कार्पण्यादेव सहितास्तत्र भूपा
नाशक्नुवन्प्रतिवक्तुं सभायाम्।
एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो
धर्मबुद्ध्या प्रत्युवाचाल्पबुद्धिम् ॥ 5-29-40 (32567)
अबुद्ध्वा त्वं धर्ममेतं सभाया-
अथेच्छसे पाण्डवस्योपदेष्टुम् ।
कृष्णा त्वेतत्कर्म चकार शुद्धं
सुदुष्करं तत्र सभां समेत्य ॥ 5-29-41 (32568)
येन कृच्छ्रात्पाण्डवानुज्जहार
तथाऽऽत्मानं नौरिव सागरौघात्।
यत्राब्रवीत्सूतपुत्रः सभायां
कृष्णां स्थितां श्वशुराणां समीपे ॥ 5-29-42 (32569)
न ते गतिर्विद्यते याज्ञसेनि
प्रपद्येथा धार्तराष्ट्रस्य वेश्म।
पराजितास्ते पतयो न सन्ति
पतिं चान्यं भामिनि त्वं वृणीष्व ॥ 5-29-43 (32570)
यो बीभत्सोर्हृदये प्रोत आसी-
दस्थि छिन्दन्मर्मघाती सुघोरः ।
कर्णाच्छरो वाङ्भयस्तिग्मतेजाः
प्रतिष्ठितो हृदये फाल्गुनस्य ॥ 5-29-44 (32571)
कृष्णाजिनानि परिधित्समानान्
दुःशासनः कटुकान्यभ्यभाषत्।
एते सर्वे षण्डतिला विनष्टाः
क्षयं गता नरकं दीर्घकालम् ॥ 5-29-45 (32572)
गान्धारराजः शकुनिर्निकृत्या
यदब्रवीद्द्यूतकाले स पार्थम्।
पराजितो नकुलः किं तवास्ति
कृष्णया त्वं दीव्य वै याज्ञसेन्या।
जानासि त्वं सञ्जय सर्वमेतत्
द्यूते वाक्यं गर्ह्यमेवं यथोक्तम् ॥ 5-29-46 (32573)
स्वयं त्वहं प्रार्थये तत्र गन्तुं
समाधातुं कार्यमेतद्विपन्नम् ।
` जानासि त्वं धार्तराष्ट्रस्य मोहं
दुरात्मनः पापवशानुगस्य ' ॥ 5-29-47 (32574)
अहापयित्वा यदि पाण्डवार्थं
शमं कुरूणामपि चेच्छकेयम्।
पुण्यं च मे स्याच्चरितं महोदयं
मुच्येरंश्च कुरवो मृत्युपाशात् ॥ 5-29-48 (32575)
अपि मे वाचं भाषमाणस्य काव्यां
धर्मारामामर्थवतीमहिंस्राम् ।
अवेक्षेरन्धार्तराष्ट्राः समक्षं
मां च प्राप्तं कुरवः पूजयेयुः ॥ 5-29-49 (32576)
अतोऽन्यथा रथिना फाल्गुनेन
भीमेन चैवाहवदंशितेन।
बलोत्सिक्तान्धार्तराष्ट्रांश्च विद्धि
प्रदह्यमानान्कर्मणा स्वेन पापान् ॥ 5-29-50 (32577)
पराजितान्पाण्डवेयांस्तु वाचो
रौद्रा रूक्षा भाषते धार्तराष्ट्रः ।
गदाहस्तो भीमसेनोऽप्रमत्तो
दुर्योधनं स्मारयिता हि काले ॥ 5-29-51 (32578)
सुयोधनो मन्युमयो महाद्रुमः
स्कन्धः कर्णः शकुनिस्तस्य शाखाः ।
दुःशासनः पुष्कफले समृद्धे
मूलं राजा धृतराष्ट्रोऽमनीषी ॥ 5-29-52 (32579)
युधिष्ठिरो धर्ममयो महाद्रुमः
स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः ।
माद्रीपुत्रौ पुष्पफले समृद्धे
मूलं त्वहं ब्रह्म च ब्राह्मणाश्च ॥ 5-29-53 (32580)
` वनं राजा धृतराष्ट्रः सपुत्रः
सिंहा वने सञ्जय पाण्डवेयाः।
सिंहाभिगुप्तं न वनं विनश्येत्
सिंहो न नश्येत वनाभिगुप्तः ॥ 5-29-54 (32581)
निर्वनो वध्यते सिंहो निःसिंहं वध्यते वनम्।
तस्मात्सिंहो वनं रक्षेद्वनं सिंहं च पालयेत् ॥' 5-29-55 (32582)
वनं राजा धृतराष्ट्रः वने व्याघ्राश्च पाण्डवाः।
मा वनं छिन्धि सव्याघ्रं व्याघ्रा नेशुर्वनं विना॥ 5-29-56 (32583)
निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम्।
तस्माद्व्याघ्रो वनं रक्षेद्वयं व्याघ्रं च पालयेत् ॥ 5-29-57 (32584)
लताधर्मा धार्तराष्ट्राः सालाः सञ्जय पाण्डवाः।
न लता वर्धते जातु महाद्रुममनाश्रिता ॥ 5-29-58 (32585)
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः।
यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः ॥ 5-29-59 (32586)
स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः।
योधाः समर्थास्तद्विद्वन्नाचक्षीथा यथातथम् ॥ ॥ 5-29-60 (32587)
इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि एकोनत्रिंशोऽध्यायः ॥
Comments
Post a Comment