उद्योगपर्व - अध्याय 031

 

॥ श्रीः ॥

5.31. अध्यायः 031

Mahabharata - Udyoga Parva - Chapter Topics

युधिष्ठिरेण सञ्जयंप्रति धृतराष्ट्रभीष्मयोरभिवादनपूर्वकं सन्धिकरणविज्ञापननिवेदनचोदनम् ॥ 1 ॥ तथा दुर्योधनंप्रति तत्कृतानयोपेक्षणकथनपूर्वकं ग्रामपञ्चकदानेन सन्धिकरणसन्देशः ॥ 2 ॥

Mahabharata - Udyoga Parva - Chapter Text

5-31-0 (32641) युधिष्ठिर उवाच। 5-31-0x (3433) उत सन्तमसन्तं वा बालं वृद्धं च सञ्जय। उताबलं बलीयांसं धाता प्रकुरुते वशे ॥ 5-31-1 (32642) उत बालाय पाण्डित्यं पण्डितायोत बालताम्। ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥ 5-31-2 (32643) बलं जिज्ञासमानस्य आचक्षीथा यथातथम्। अथ मन्त्र मन्त्रयित्वा याथातथ्येन हृष्टवत् ॥ 5-31-3 (32644) गावल्गणे कुरून्गत्वा धृतराष्ट्रं महाबलम् । अभिवाद्योपसंगृह्य ततः पृच्छेरनामयम् ॥ 5-31-4 (32645) ब्रूयाश्चैनं त्वमासीनं कुरुभिः परिवारितम् । तवैव राजन्वीर्येण सुखं जीवन्ति पाण्डवाः ॥ 5-31-5 (32646) तव प्रसादाद्बालास्ते प्राप्ता राज्यमरिन्दम। राज्ये तान्स्थापयित्वाऽग्रे नोपेक्षस्व विनश्यतः ॥ 5-31-6 (32647) सर्वमप्येतदेकस्य नालं सञ्जय कस्यचित् । तात संहत्य जीवामो द्विषतां मा वशं गमः ॥ 5-31-7 (32648) तथा भीष्मं शान्तनवं भारतानां पितामहम्। शिरसाऽभिवदेथास्त्वं मम नाम प्रकीर्तयन् ॥ 5-31-8 (32649) अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहः । भवता शन्तनोर्वंशो निमग्नः पुनरुद्धृतः ॥ 5-31-9 (32650) स त्वं कुरु तथा तात स्वमतेन पितामह । यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम् ॥ 5-31-10 (32651) तथैव विदुरं ब्रूयाः कुरूणां मन्त्रधारिणम्। अयुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरे ॥ 5-31-11 (32652) अथ दुर्योधनं ब्रूया राजपुत्रममर्षणम्। मध्ये कुरूणामासीनमनुनीय पुनः पुनः ॥ 5-31-12 (32653) अपापां यदुपैक्षस्त्वं कृष्णामेतां सभागताम् । तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति ॥ 5-31-13 (32654) एवं पूर्वापरान्क्लेशानतितिक्षन्त पाण्डवाः। बलीयांसोऽपि सन्तो यत्तत्सर्वं कुरवो विदुः ॥ 5-31-14 (32655) यन्नः प्रव्राजयेः सौम्य अजिनैः प्रतिवासितान्। तद्दुःखमतितिक्षाम मा वधीषय कुरूनिति ॥ 5-31-15 (32656) यत्कुन्तीं समतिक्रम्य कृष्णां केशेष्वधर्षयत्। दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षितम् ॥ 5-31-16 (32657) अथोचितं स्वकं भागं लभेमहि परन्तप। निवर्तय परद्रव्याद्बुद्धिं गृद्धां नरर्षभ ॥ 5-31-17 (32658) शान्तिरेवं भवेद्राजन्प्रीतिश्चैव परस्परम् । राज्यैकदेशमपि नः प्रयच्छ शममिच्छताम् ॥ 5-31-18 (32659) अविस्थलं वृकस्थलं माकन्दीं वारणावतम्। अवसानं भवत्वत्र किंचिदेकं च पञ्चमम् ॥ 5-31-19 (32660) भ्रातॄणां देहि पञ्चानां पञ्च ग्रामान्सुयोधन। शान्तिर्नोस्तु महाप्राज्ञ ज्ञातिभिः सह सञ्जय॥ 5-31-20 (32661) भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम्। स्मयमानाः समायान्तु पाञ्चालाः कुरुभिः सह ॥ 5-31-21 (32662) अक्षतान्कुरु पाञ्चालान्पश्येयमिति कामये। सर्वे सुमनसस्तात शाम्याय भरतर्षभ ॥ 5-31-22 (32663) अलमेव शमायास्मि तथा युद्धाय सञ्जय। धर्मार्थयोरलं चाहं मृदवे दारुणाय च ॥ ॥ 5-31-23 (32664) इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि एकत्रिंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes

5-31-1 सन्तं साधुम्। असन्तं दुष्टम् । धाता ईश्वरः ॥ 1 ॥ 5-31-2 शुक्रं बीजभूतं प्राचीनं कर्म उच्चरन् उद्दीपयन् ॥ 2 ॥ 5-31-7 सर्वं ब्रह्माण्डम्। संहत्य एकीभूय ॥ 7 ॥ 5-31-13 अतितिक्षाम क्षान्तवन्तो वयम् तत्र हेतुः मां वधीष्मेति ॥ 13 ॥ 5-31-17 गृद्धां लुब्धाम् ॥ 17 ॥ 5-31-18 अवसानं वसतिस्थानम् ॥

Comments

Popular posts from this blog

कुंडलिनी ऊर्जा और सूक्ष्म नाड़ियाँ – सुषुम्ना, इडा और पिंगला

॥ दक्षिणामूर्ति स्तोत्रं ॥

॥ भक्तिवर्धिनी ॥