उद्योगपर्व - अध्याय 037
॥ श्रीः ॥
5.37. अध्यायः 037
Mahabharata - Udyoga Parva - Chapter Topics
धृतराष्ट्रेण अल्पायुष्ट्वकारणप्रश्ने विदुरेण तदभिधाय नीतिकथनपूर्वकं कुरुपाण्डवसन्धिकरणविधानम् ॥ 1 ॥Mahabharata - Udyoga Parva - Chapter Text
5-37-0 (33086)
विदुर उवाच। 5-37-0x (3488)
सप्तदशेमान्राजेन्द्र मनुः स्वायंभुवोऽब्रवीत्।
वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ॥ 5-37-1 (33087)
तानेवेन्द्रस्य च धनुरनाम्यं नमतो ब्रवीत्।
अथो मरीचिनः पादानग्राह्यान्गृह्णतस्तथा ॥ 5-37-2 (33088)
यश्चाशिष्यं शास्ति वै यश्च तुष्ये-
द्यश्चातिवेलं भजते द्विषन्तम् ।
स्त्रियश्च यो रक्षति भद्रमश्रुते
यश्चायाच्यं याचते कत्थते वा ॥ 5-37-3 (33089)
यश्चाभिजातः प्रकरोत्यकार्यं
यश्चाबलो बलिना नित्यवैरी।
अश्रद्दधानाय च यो ब्रवीति
यश्चाकाम्यं कामयते नरेन्द्र । 5-37-4 (33090)
वध्वाऽवहासं श्वशुरो मन्यते यो
वध्वाऽवसन्नभयो मानकामः ।
परक्षेत्रे निर्वपति यश्च बीजं
स्त्रियं च यः परिवदतेऽतिवेलम् ॥ 5-37-5 (33091)
यश्चापि लब्ध्वा न स्मरामीति वादी
दत्त्वा च यः कत्थति याच्यमानः।
यश्चासतः सान्त्वमुपानयीत
एतान्नयन्ति निरयं पाशहस्ताः ॥ 5-37-6 (33092)
यस्मिन्यथा वर्तते यो मनुष्य-
स्तस्मिंस्तथा वर्तितव्यं स धर्मः।
मायाचारो मायया वर्तितव्यः
साध्वाचारः साधुना प्रत्युपेयः ॥ 5-37-7 (33093)
जरा रूपं हरति हि धैर्यमाशा
मृत्युः प्राणान्धर्मचर्यामसूया
कामो ह्रियं वृत्तमनार्यसेवा
क्रोधः श्रियं सर्वमेवाभिमानः ॥ 5-37-8 (33094)
धृतराष्ट्र उवाच। 5-37-9x (3489)
शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा।
नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना ॥ 5-37-9 (33095)
विदुर उवाच। 5-37-10x (3490)
अतिमानोऽतिवादश्च तथाऽत्यागो नराधिप।
क्रोधश्चात्मविधित्सा च मित्रद्रोहश्च तानि षट् ॥ 5-37-10 (33096)
एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम्।
एतानि मानवान्ध्नन्ति न मृत्युर्भद्रमस्तु ते ॥ 5-37-11 (33097)
विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः।
वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत ॥ 5-37-12 (33098)
आदेशकृद्वृत्तिहन्ता द्विजानां प्रेषकश्च यः।
शरणागतहा चैव सर्वे ब्रह्महणः समाः।
एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः ॥ 5-37-13 (33099)
गृहीतवाक्यो नयविद्वदान्यः
शेषान्नभोक्ता ह्यविहिंसकश्च।
नानर्थकृत्याकुलितः कृतज्ञः
सत्यो मृदुः स्वर्गमुपैति विद्वान् ॥ 5-37-14 (33100)
सुलभाः पुरुषा राजन्सततं प्रियवादिनः।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ 5-37-15 (33101)
यो हि धर्मं समाश्रित्य हित्वा भर्तुः प्रियाप्रिये।
अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ 5-37-16 (33102)
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ 5-37-17 (33103)
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ 5-37-18 (33104)
द्यूतमेतत्पुरा कल्पे दृष्टं वैरकरं नृणाम्।
तस्माद्द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् ॥ 5-37-19 (33105)
उक्तं मया द्यूतकालेऽपि राज-
न्नेदं युक्तं वचनं प्रातिपेय।
तदौषधं पथ्यमिवातुरस्य
न रोचते तव वैचित्रवीर्य ॥ 5-37-20 (33106)
काकैरिमांश्चित्रबर्हान्मयूरान्
पराजयेथाः पाण्डवान्धार्तराष्ट्रैः ।
हित्वा सिंहान्क्रोष्टुकान्गूहमानः
प्राप्ते काले शोचिता त्वं नरेन्द्रः ॥ 5-37-21 (33107)
यस्तात न क्रुध्यति सर्वकालं
भृत्यस्य भक्तस्य हिते रतस्य।
तस्मिन्भृत्या भर्तरि विश्वसन्ति
न चैनमापत्सु परित्यजन्ति ॥ 5-37-22 (33108)
न भृत्यानां वृत्तिसंरोधनेन
राज्यं धनं सञ्जिघृक्षेदपूर्वम्।
त्यजन्ति ह्येनं वञ्चिता वै विरुद्धाः
स्निग्धा ह्यमात्या परिहीनभोगाः ॥ 5-37-23 (33109)
कृत्यानि पूर्वं परिसङ्ख्याय सर्वा-
ण्यायव्यये चानुरूपां च वृत्तिम्।
सङ्गृह्णीयादनुरूपान्सहायान्
सहायसाध्यानि हि दुष्कराणि ॥ 5-37-24 (33110)
अभिप्रायं यो विदित्वा तु भर्तुः
सर्वाणि कार्याणि करोत्यतन्द्री।
वक्ता हितानामनुरक्त आर्यः
शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ॥ 5-37-25 (33111)
वाक्यं तु यो नाद्रियतेऽनुशिष्टः
प्रत्याह यश्चापि नियुज्यमानः।
प्रज्ञाभिमानी प्रतिकूलवादी
त्याज्यः स तादृक् त्वरयैव भृत्यः ॥ 5-37-26 (33112)
अस्तब्धमक्लीबमदीर्घसूत्रं
सानुक्रोशं श्लक्ष्णमहार्यमन्यैः।
अरोगजातीयमुदारवाक्यं
दूतं वदन्त्यष्टगुणोपपन्नम् ॥ 5-37-27 (33113)
न विश्वासाञ्जातु परस्य गेहे
गच्छेन्नरश्चेतयानो विकाले।
न चत्वरे निशि तिष्ठेन्निगूढो
न राजकाम्यां योषितं प्रार्थयीत ॥ 5-37-28 (33114)
न निह्नवं मन्त्रगतस्य गच्छे-
त्संसृष्टमन्त्रस्य कुसङ्गतस्य।
न च ब्रूयान्नाश्वसिमि त्वयीति
सकारणं व्यपदेशं तु कुर्यात् ॥ 5-37-29 (33115)
घृणी राजा पुंश्चली राजभृत्यः
पुत्रो भ्राता विधवा बालपुत्रा।
सेनाजीवी चोद्धृतभूरिरेव
व्यवहारेषु वर्जनीयाः स्युरेते ॥ 5-37-30 (33116)
अष्टौ गुणाः पुरुषं दीपयन्ति
प्रज्ञा च कौल्यं च श्रुतं दमश्च।
पराक्रमश्चाबहुभाषिता च
दानं यथाशक्ति कृतज्ञता च ॥ 5-37-31 (33117)
एतान्गुणांस्तात महानुभावा-
नेको गुणः संश्रयते प्रसह्य।
राजा यदा सत्कुरुते मनुष्यं
सर्वान्गुणनेष गुणो बिभर्ति ॥ 5-37-32 (33118)
गुणा दश स्नानशीलं भजन्ते
बलं रूपं स्वरवर्णप्रशुद्धिः।
स्पर्शश्च गन्धश्च विशुद्धता च
श्रीः सौकुमार्यं प्रवराश्च नार्यः ॥ 5-37-33 (33119)
गुणाश्च षण्मितभुक्तं भजन्ते
आरोग्यमायुश्च बलं सुखं च।
अनाविलं चास्य भवत्यपत्यं
न चैनमाद्यून इति क्षिपन्ति ॥ 5-37-34 (33120)
अकर्मशीलं च महाशनं च
लोकद्विष्टं बहुमायं नृशंसम्।
अदेशकालज्ञममिष्टवेष-
मेतान्गृहे न प्रतिवासयेत ॥ 5-37-35 (33121)
कदर्यमाक्रोशकमश्रुतं च
वनौकसं धूर्तममान्यमानिनम्।
निष्ठूरिणं कृतवैरं कृतघ्न-
मेतान्भृशार्तोपि न जातु याचेत् ॥ 5-37-36 (33122)
संक्लिष्टकर्माणमतिप्रमादं
नित्यानृतं चादृढभक्तिकं च।
विसृष्टरागं पटुमानिनं चा-
प्येतान्न सेवेत नराधमान्षट् ॥ 5-37-37 (33123)
सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः। 5-37-38 अन्योन्यबन्धनावेतौ विनान्योन्यं न सिद्ध्यतः ॥ 5-37-38 (33124)
उत्पाद्य पुत्राननृणांश्च कृत्वा
वृत्तिं च तेभ्योऽनुविधाय कांचित्।
स्थाने कुमारीः प्रतिपाद्य सर्वा
अरण्यसंस्थोऽथ मुनिर्बुभूषेत् ॥ 5-37-39 (33125)
हितं यत्सर्वभूतानामात्मनश्च सुखावहम्।
तत्कुर्यादीश्वरो ह्येतन्मूलं सर्वार्थसिद्धये ॥ 5-37-40 (33126)
वृद्धिः प्रभावस्तेजश्च सत्वमुत्थानमेव च।
व्यवसायश्च यस्य स्यात्तस्यावृत्तिभयं कुतः ॥ 5-37-41 (33127)
पश्य दोषान्पाण्डवैर्विग्रहे त्वं
यत्र व्यथेयुरपि देवाः सशक्रा।
पुत्रैर्वैरं नित्यमुद्विग्नवासो
यशःप्रणाशो द्विषतश्च हर्षः॥ 5-37-42 (33128)
भीष्मस्य कोपस्तव चैवेन्द्रकल्प
द्रोणस्य राज्ञश्च युधिष्ठिरस्य।
उत्सादयेल्लोकमिमं प्रवृद्धः
श्वेतो ग्रहस्तिर्यगिवापतन्खे ॥ 5-37-43 (33129)
तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः ।
पृथिवीमनुशासेयुरखिलां सागराम्बराम् ॥ 5-37-44 (33130)
धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः।
मा वनं छिन्धि सव्याघ्रं मा व्याघ्रा नीनशन्वनात् ॥ 5-37-45 (33131)
न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युर्ऋते वनम्।
वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् ॥ 5-37-46 (33132)
न तथेच्छन्ति कल्याणान्परेषां वेदितुं गुणान्।
यथेषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः ॥ 5-37-47 (33133)
अर्थसिद्धिं परामिच्छन्धर्ममेवादितश्चरेत्।
नहि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ॥ 5-37-48 (33134)
यस्यात्मा विरतः पापात्कल्याणे च निवेशितः।
तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या ॥ 5-37-49 (33135)
यो धर्ममर्थं कामं च यथाकालं निषेवते ।
धर्मार्थकामसंयोगं सोऽमुत्रेह च विन्दति ॥ 5-37-50 (33136)
सन्नियच्छति यो वेगमुत्थितं क्रोधहर्षयोः।
स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति ॥ 5-37-51 (33137)
बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे।
यत्तु बाहुबलं नाम प्रथमं वलमुच्यते ॥ 5-37-52 (33138)
अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते।
तृतीयं धनलाभं तु बलमाहुर्मनीषिणः ॥ 5-37-53 (33139)
यत्त्वस्य सहजं राजन्पितृपैतामहं बलम् ।
अभिजातबलं नाम तच्चतुर्थं बलं स्मृतम् ॥ 5-37-54 (33140)
येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत ।
यद्बलानां बलं श्रेष्ठं तत्प्रज्ञाबलमुच्यते ॥ 5-37-55 (33141)
महते योऽपकाराय नरस्य प्रभवेन्नरः ।
तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् ॥ 5-37-56 (33142)
स्त्रीषु राजसु सर्पेषु स्वाध्यायप्रभुशत्रुषु ।
भोगेष्वायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति ॥ 5-37-57 (33143)
प्रज्ञाशरेणाभिहतस्य जन्तो-
श्चिकित्सकाः सन्ति न चौषधानि ।
न होममन्त्रा न च मङ्गलानि
नाथर्वणा नाप्यगदाः सुसिद्धाः ॥ 5-37-58 (33144)
सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत।
नावज्ञेया मनुष्येण सर्वे ह्येतेऽतितेजसः ॥ 5-37-59 (33145)
अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु।
न चोपयुङ्क्ते तद्दारु यावन्नोद्दीप्यते परैः ॥ 5-37-60 (33146)
स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते।
तद्दारु च वनं चान्यन्निर्दहत्याशु तेजसा ॥ 5-37-61 (33147)
एवमेव कुले जाताः पावकोपमतेजसः।
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ 5-37-62 (33148)
लताधर्मा त्वं सपुत्रः सालः पाण्डुसुता मताः।
न लता वर्धते जातु महाद्रुममनाश्रिता ॥ 5-37-63 (33149)
वनं राजंस्तव पुत्रोऽम्बिकेय
सिंहान्वने पाण्डवांस्तात विद्धि।
सिंहैर्विहीनं हि वनं विनश्येत्
सिंहा विनश्येयुर्ऋते वनेन ॥ ॥ 5-37-64 (33150)
इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि सप्तत्रिंशोऽध्यायः ॥
Comments
Post a Comment