उद्योगपर्व - अध्याय 044
॥ श्रीः ॥
5.44. अध्यायः 044
Mahabharata - Udyoga Parva - Chapter Topics
सनत्सुजातेन धृतराष्ट्रंप्रति सत्त्वोपदेशः ॥ 1 ॥Mahabharata - Udyoga Parva - Chapter Text
5-44-0 (33442)
धृतराष्ट्र उवाच। 5-44-0x (3527)
सनत्सुजात यामिमां परां त्वं
ब्राह्मीं वाचं वदसे विश्वरूपाम्।
परां हि कामेन सुदुर्लभां कथां
प्रब्रूहि मे वाक्यमिदं कुमार । 5-44-1 (33443)
सनत्सुजात उवाच। 5-44-2x (3528)
नैतद्ब्रह्म त्वरमाणेन लभ्यं
यन्मां पृच्छन्नतिहृष्यस्यतीव।
बुद्धौ विलीने मनसि प्रचिन्त्य
विद्या हि सा ब्रह्मचर्येण लभ्या ॥ 5-44-2 (33444)
धृतराष्ट्र उवाच। 5-44-3x (3529)
अत्यन्तविद्यामिति यत्सनातनीं
ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम्।
अनारभ्यां वसतीह कार्यकाले
कथं ब्राह्मण्यममृतत्वं लभेत ॥ 5-44-3 (33445)
सनत्सुजात उवाच। 5-44-4x (3530)
अव्यक्तविद्यामभिधास्ये पराणीं
बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम्।
यां प्राप्यैनं मर्त्यलोकं त्यजन्ति
या वै विद्या गुरुवृद्धेषु नित्या ॥ 5-44-4 (33446)
धृतराष्ट्र उवाच। 5-44-5x (3531)
ब्रह्मचर्येण या विद्या शक्या वेदितुमञ्चसा।
तत्कथं ब्रह्मचर्यं स्यादेतद्ब्रह्मन्ब्रवीहि मे ॥ 5-44-5 (33447)
सनत्सुजात उवाच। 5-44-6x (3532)
आचार्ययोनिमिह ये प्रविश्य
भूत्वा गर्भे ब्रह्मचर्यं चरन्ति।
इहैव ते शास्त्रकारा भवन्ति
प्रहाय देहं परमं यान्ति योगम् ॥ 5-44-6 (33448)
अस्मिँल्लोके वै जयन्तीह कामा-
न्ब्राह्मीं स्थितिं ह्यनुतितिक्षमाणाः।
त आत्मानं निर्हरन्तीह देहा-
न्मुञ्जादिषीकामिव सत्वसंस्थाः ॥ 5-44-7 (33449)
शरीरमेतौ कुरुतः पिता माता च भारत।
आचार्यशास्ता या जातिः सा पुण्या साऽऽजराऽमम 5-44-8 (33450)
यः प्रावृणोत्यवितथेन वर्णा-
नृतं कुर्वन्नमृतं संप्रयच्छम्।
तं मन्येत पितरं मातरं च
तस्मै न द्रुह्येत्कतमस्य जानन् ॥ 5-44-9 (33451)
गुरुं शिष्यो नित्यमभिवादयीत
स्वाध्यायमिच्छेच्छुचिरप्रमत्तः।
मानं न कुर्यान्नादधीत रोप-
मेप प्रथमो ब्रह्मचर्यस्य पादः ॥ 5-44-10 (33452)
शिष्यवृत्तिक्रमेणैव विद्यामाप्नोति यः शुचिः ।
ब्रह्मचर्यव्रतस्यास्य प्रथमः पाद उच्यते ॥ 5-44-11 (33453)
आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि।
कर्मणा मनसा वाचा द्वितीयः पाद उच्यते ॥ 5-44-12 (33454)
समा गुरौ यथा वृत्तिर्गरुपत्न्यां तथा चरेत्।
तत्पुत्रे च तथा कुर्वन्द्वितीयः पाद उच्यते ॥ 5-44-13 (33455)
आचार्येणात्मकृतं विजानन्
ज्ञात्वा चार्थं भावितोऽस्मीत्यनेन ।
यन्मन्यते तं प्रति हृष्टबुद्धिः
स वै तृतीयो ब्रह्मचर्यस्य पादः ॥ 5-44-14 (33456)
नाचार्यस्यानपाकृत्य प्रवासं
प्राज्ञः कुर्वीत नैतदहं करोमि।
इतीव मन्येत न भाषयेत
स वै चतुर्थो ब्रह्मचर्यस्य पादः ॥ 5-44-15 (33457)
कालेन पादं लभते तथार्थं
ततश्च पादं गुरुयोगतश्च।
उत्साहयोगेन च पादमृच्छे-
च्छास्त्रेण पादं च ततोऽभियाति ॥ 5-44-16 (33458)
धर्मादयो द्वादश यस्य रूप-
मन्यानि चाङ्गानि तथा बलं च।
आचार्ययोगे फलतीति चाहु-
र्ब्रह्मार्थयोगेन च ब्रह्मचर्यम् ॥ 5-44-17 (33459)
एवं प्रवृत्तो यदुपालभेत वै
धनमाचार्याय तदनुप्रयच्छेत्।
स तां वृत्तिं बहुगुणामेवमेति
गुरोः पुत्रे भवति च वृत्तिरेषा ॥ 5-44-18 (33460)
एवं वसन्सर्वतो वर्धतीह
बहून्पुत्रांल्लभते च प्रतिष्ठाम्।
वर्षन्ति चास्मै प्रदिशो दिशश्च
वसत्यस्मिन्ब्रह्मचर्ये जनाश्च ॥ 5-44-19 (33461)
एतेन ब्रह्मंचर्येण देवा देवत्वमाप्नुवन्।
ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः ॥ 5-44-20 (33462)
गन्धर्वाणामनेनैव रूपमप्सरसमभूत् ।
एतेन ब्रह्मचर्येण सूर्योऽप्यह्नाय जायते ॥ 5-44-21 (33463)
आकाङ्क्ष्यार्थस्य संयोगाद्रसभेदार्थिनामिव ।
एवं ह्येते समाज्ञाय तादृग्भावं गता इमे ॥ 5-44-22 (33464)
य आश्रयेत्पावयेच्चापि राज-
न्सर्वं शरीरं तपसा तप्यमानः।
एतेन वै बाल्यमभ्येति विद्वान्
मृत्युं तथा स जयत्यन्तकाले ॥ 5-44-23 (33465)
अन्तवतः क्षत्रिय ते जयन्ति
लोकाञ्जनाः कर्मणा निर्मलेन ।
ब्रह्मैव विद्वांस्तेन चाभ्येति सर्वं
नान्यः पन्था अयनाथ विद्यते ॥ 5-44-24 (33466)
धृतराष्ट्र उवाच। 5-44-25x (3533)
आभाति शुक्लमिव लोहितमि-
वाथो कृष्णमथाञ्जनं काद्रवं वा।
सद्ब्रह्मणः पश्यति योऽत्र विद्वा-
न्कथं रूपं तदमृतमक्षरं पदम् ॥ 5-44-25 (33467)
सनत्सुजात उवाच। 5-44-26x (3534)
आभाति शुक्लमिव लोहितमि-
वाथो कृष्णमायसमर्कवर्णम्।
न पृथिव्यां तिष्ठति नान्तरिक्षे
नैतत्समुद्रे सलिलं बिभर्ति ॥ 5-44-26 (33468)
न तारकासु न च विद्युदाश्रितं
न चाभ्रेषु दृश्यते रूपमस्य।
न चापि वायौ न च देवतासु
नैतच्चन्द्रे दृश्यते नोत सूर्ये ॥ 5-44-27 (33469)
नैवर्क्षु तन्न यजुष्षु नाप्यथर्वसु
न दृश्यते वै विमलेषु सामसु।
रथन्तरे बार्हद्रथे वापि राज-
न्महाव्रते नैव दृश्येद्भ्रुवं तत् ॥ 5-44-28 (33470)
अपारणीयं तमसः परस्ता-
त्तदन्तकोऽप्येति विनाशकाले।
अणीयो रूपं क्षुरधारया समं
महच्च रूपं तद्वै पर्वतेभ्यः ॥ 5-44-29 (33471)
सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः ।
भूतानि जझिरे तस्मात्प्रलयं यान्ति तत्र हि ॥ 5-44-30 (33472)
अनामयं तन्महदुद्यतं यशो
वाचो विकारं कवयो वदन्ति।
यस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं
ये तद्विदुरमृतास्ते भवन्ति ॥ 5-44-31 (33473)
` तदेतदह्ना संस्थितं भाति सर्वं
तदात्मवित्पश्यति ज्ञानयोगात्।
तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं
ये तद्विदुरमृतास्ते भवन्ति ॥' ॥ 5-44-32 (33474)
Comments
Post a Comment