उद्योगपर्व - अध्याय 032
॥ श्रीः ॥ 5.32. अध्यायः 032 Mahabharata - Udyoga Parva - Chapter Topics पाण्डवानुज्ञातेन सञ्जयेन रात्रौ धृतराष्ट्रमुपगम्य अभिवादनपूर्वकं युधिष्ठिरकृतकुशलप्रश्नादिकथनम् ॥ 1 ॥ तथा धृतराष्ट्रं विगर्ह्य युधिष्ठिरवत्तनस्य श्वःकथनकथनपूर्वकं स्वभवनगमनम् ॥ 2 ॥ Mahabharata - Udyoga Parva - Chapter Text वैशम्पायन उवाच। ` धर्मराजस्य वचनं श्रुत्वा पार्थो धनञ्जयः । उवाच सञ्जयं तत्र वासुदेवस्य शृण्वतः ॥ 5-32-1 (32665) पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय। द्रोणं सपुत्रं शल्यं च महाराजं च बाह्लिकम् ॥ 5-32-2 (32666) विकर्णं सोमदत्तं च शकुनिं चैव सौबलम् । विविंशतिं चित्रसेनं जयत्सेनं च सञ्जय । भगदत्तं तथा चैव शूरं रणकृतां वरम् ॥ 5-32-3 (32667) ये चाप्यन्ये कुरवस्तत्र सन्ति राजानश्चेद्भूमिपालाः समेताः। युयुत्सवः सैन्धवाः पार्थिवाश्च समानीता धार्तराष्ट्रेण सूत ॥ 5-32-4 (32668) यथान्यायं कुशलं वन्दनं च समागमे मद्वचनेन वाच्याः। ततो ब्रूयाः सञ्जय राजमध्ये दुर्योधनं पापकृतां प्रधानम् ॥ 5-32-5 (32669) एवं प्रतिष्ठाप्य धनञ्जयस्तं ततोऽर्थवद्धर्मवच्चापि पार्थः । उवाच वाक्यं स्...