Posts

Showing posts from January, 2025

उद्योगपर्व - अध्याय 040

  ॥ श्रीः ॥ 5.40. अध्यायः 040 Mahabharata - Udyoga Parva - Chapter Topics विदुरेण धृतराष्ट्रं प्रति तत्तद्वर्णवर्मणां तैत्तैश्वश्यानुष्ठेयत्वकथनपूर्वकं युधिष्ठिरस्य राज्यं प्रदाय क्षात्रधर्मे नियोजनचोदनम् ॥ 1 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-40-0 (33286) विदुर उवाच। 5-40-0x (3496) योऽभ्यर्चितः मद्भिरसञ्जमानः करोत्यर्थं शक्तिमहापयित्वा। क्षिप्रं यशस्तं समुपैति मन्त- मलं प्रसन्ना हि सुखाय सन्तः ॥ 5-40-1 (33287) महान्तमप्यर्थमधर्मयुक्तं यः मन्त्यजत्यनपाकृष्ट एव। सुखं सुदुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य ॥ 5-40-2 (33288) अनृते च समुत्कर्पो राजगामि च पैशुनम् । गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ 5-40-3 (33289) असूयैकपदं मृत्युरतिवादः श्रियो वधः। अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रः ॥ 5-40-4 (33290) आलस्यं मदमोहौ च चापलं गोष्ठिरेव च। स्तब्धता चाभिमानित्वं तथा त्यागित्वमेव च ॥ 5-40-5 (33291) एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः । सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखं। सुखार्थी वा त्यजेद्विद्यां विद...

उद्योगपर्व - अध्याय 039

  ॥ श्रीः ॥ 5.39. अध्यायः 039 Mahabharata - Udyoga Parva - Chapter Topics विदुरेण धृतराष्ट्रंप्रति ज्ञातिसंग्रहे गुणवर्णनपूर्वकं पुनः कुरुपाण्डवेषु साम्येन वर्तनविधानम् ॥ 1 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-39-0 (33199) धृतराष्ट्र उवाच। 5-39-0x (3492) अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा। धात्रा तु दिष्टस्य वशे कृतोऽयं तस्माद्वद त्वं श्रवणे धृतोऽहम् ॥ 5-39-1 (33200) विदुर उवाच। 5-39-2x (3493) अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन्। लभते बुध्द्यवज्ञानमवमानं च भारत ॥ 5-39-2 (33201) प्रियो भवति दानेन प्रियवादेन चापरः । मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः ॥ 5-39-3 (33202) द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः। प्रिये शुभानि कार्याणि द्वेष्ये पापानि चैव ह ॥ 5-39-4 (33203) उक्तं मया जातमात्रेऽपि राजन् दुर्योधनं त्यज पुत्रं त्वमेकम्। तस्य त्यागात्पुत्रशतस्य वृद्धि- रस्यात्यागात्पुत्रशतस्य नाशः ॥ 5-39-5 (33204) न वृद्धिर्बहुमन्तव्या या वृद्धिः क्षयमावहेत्। क्षयोऽपि बहुमन्तव्यो यः क्षयो वृद्धिमावहेत् ॥ 5-39-6 (33205) न स क्षय...

उद्योगपर्व - अध्याय 038

  ॥ श्रीः ॥ 5.38. अध्यायः 038 Mahabharata - Udyoga Parva - Chapter Topics विदुरेण धृतराष्ट्रंप्रति नीतिकथनपूर्वकं पाण्डवेभ्यो राज्याप्रदाने दुर्योधनस्य राज्यभ्रंशकथनम् ॥ 1 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-38-0 (33151) विदुर उवाच। 5-38-0x (3491) ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति। प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ 5-38-1 (33152) पीठं दत्त्वा साधवेऽभ्यागताय आनीयापः परिनिर्णिज्य पादौ। सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थां ततो दद्यादन्नमवेक्ष्य धीरः ॥ 5-38-2 (33153) यस्योदकं मधुपर्कं च गां च न मन्त्रवित्प्रतिगृह्णाति गेहे । लोभाद्भयादथ कार्पण्यतो वा तस्यानर्थं जीवितमाहुरर्याः ॥ 5-38-3 (33154) चिकित्सकः शल्यकर्तावकीर्णी स्तेनः क्रूरो मद्यपो भ्रूणहा च। सेनाजीवी श्रुतिविक्रायकश्च भृशं प्रियोऽप्यतिथिर्नोदकार्हः ॥ 5-38-4 (33155) अविक्रेयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च। तिला मांसं फलमूलानि शाकं रक्तं वासः सर्वगन्धा गुडाश्च॥ 5-38-5 (33156) अरोषणो यः समलोष्ठाश्मकाञ्चनः प्रहीणशोको गतसन्धिविग्रहः । निन्दाप्रशंसोपर...

उद्योगपर्व - अध्याय 037

  ॥ श्रीः ॥ 5.37. अध्यायः 037 Mahabharata - Udyoga Parva - Chapter Topics धृतराष्ट्रेण अल्पायुष्ट्वकारणप्रश्ने विदुरेण तदभिधाय नीतिकथनपूर्वकं कुरुपाण्डवसन्धिकरणविधानम् ॥ 1 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-37-0 (33086) विदुर उवाच। 5-37-0x (3488) सप्तदशेमान्राजेन्द्र मनुः स्वायंभुवोऽब्रवीत्। वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ॥ 5-37-1 (33087) तानेवेन्द्रस्य च धनुरनाम्यं नमतो ब्रवीत्। अथो मरीचिनः पादानग्राह्यान्गृह्णतस्तथा ॥ 5-37-2 (33088) यश्चाशिष्यं शास्ति वै यश्च तुष्ये- द्यश्चातिवेलं भजते द्विषन्तम् । स्त्रियश्च यो रक्षति भद्रमश्रुते यश्चायाच्यं याचते कत्थते वा ॥ 5-37-3 (33089) यश्चाभिजातः प्रकरोत्यकार्यं यश्चाबलो बलिना नित्यवैरी। अश्रद्दधानाय च यो ब्रवीति यश्चाकाम्यं कामयते नरेन्द्र । 5-37-4 (33090) वध्वाऽवहासं श्वशुरो मन्यते यो वध्वाऽवसन्नभयो मानकामः । परक्षेत्रे निर्वपति यश्च बीजं स्त्रियं च यः परिवदतेऽतिवेलम् ॥ 5-37-5 (33091) यश्चापि लब्ध्वा न स्मरामीति वादी दत्त्वा च यः कत्थति याच्यमानः। यश्चासतः सान्त्वमुपानयीत एतान्नयन्ति न...

उद्योगपर्व - अध्याय 036

  ॥ श्रीः ॥ 5.36. अध्यायः 036 Mahabharata - Udyoga Parva - Chapter Topics विदुरेण धृतराष्ट्रंप्रति आत्रेयेण साध्यान्प्रत्युपदिष्टनीतिकथनम् ॥ 1 ॥ तथा महाकुललक्षणाद्यभिधानपूर्वकं पाण्डवैः सह सन्धिकरणविधानम् ॥ 2 ॥ Mahabharata - Udyoga Parva - Chapter Text विदुर उवाच। अत्रैवोदाहरन्तीममितिहासं पुरातनम्। आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ॥ 5-36-1 (33013) चरन्तं हंसरूपेण महर्षिं संशितव्रतम्। साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा ॥ 5-36-2 (33014) साध्या ऊचुः । 5-36-3x (3482) साध्या देवा वयमेते महर्षे दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम्। श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः काव्यां वाचं वक्तुमर्हस्युदाराम् ॥ 5-36-3 (33015) हंस उवाच। 5-36-4x (3483) एतत्कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः। ग्रन्थिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मसमं नयीत ॥ 5-36-4 (33016) आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः। आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ 5-36-5 (33017) नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी। न चाभिमानी न च...

उद्योगपर्व - अध्याय 035

  ॥ श्रीः ॥ 5.35. अध्यायः 035 Mahabharata - Udyoga Parva - Chapter Topics विदुरेण धृतराष्ट्रंप्रति सुधन्वविरोचनसंवादादिकथनपूर्वकं पाण्डवेषु पुत्रतौल्येन वृत्तिविधानम् ॥ 1 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-35-0 (32924) धृतराष्ट्र उवाच। 5-35-0x (3452) ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः। श्रृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥ 5-35-1 (32925) विदुर उवाच। 5-35-2x (3453) सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम्। उभे त्वेते समे स्यातामार्जवं वा विशिष्यते। 5-35-2 (32926) आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो। इह कीर्ति परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ 5-35-3 (32927) यावत्कीर्तिर्मनुष्यस्य पुण्या लोके प्रगीयते। तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते॥ 5-35-4 (32928) अत्राप्युदाहरन्तीममितिहासं पुरातनम्। विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ॥ 5-35-5 (32929) स्वयंवरे स्थिता कन्या केशिनी नाम नामतः। रूपेणाप्रतिमा राजन्विशिष्टपतिकाम्यया ॥ 5-35-6 (32930) विरोचनोऽथ दैतेयस्तदा तत्राजगाम ह। प्राप्तुमिच्छंस्ततस्तत्र दैत्येन्द्रं प्राह केशि...

उद्योगपर्व - अध्याय 034

  ॥ श्रीः ॥ 5.34. अध्यायः 034 Mahabharata - Udyoga Parva - Chapter Topics धृतराष्ट्रेण दुर्योधनादिश्रेयस्साधनप्रश्ने विदुरेण नीतिकथनपूर्वकं युधिष्ठिराय राज्यदानस्य तत्साधनत्वकथनम् ॥ 1 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-34-0 (32836) धृतराष्ट्र उवाच। 5-34-0x (3450) जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि। तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः ॥ 5-34-1 (32837) तस्माद्यथावद्विदुर प्रशाधि प्रज्ञापूर्वं सर्वमजातशत्रोः। यन्मन्यसे पथ्यमदीनसत्व श्रेयस्करं ब्रूहि तद्वै कुरूणाम् ॥ 5-34-2 (32838) पापाशङ्की पापमेवानुपश्यन् पृच्छामि त्वां व्याकुलेनात्मनाहम् । कजे तन्मे ब्रूहि तत्पं यथाव- न्मनीषितं सर्वमजातशत्रोः ॥ 5-34-3 (32839) विदुर उवाच। 5-34-4x (3451) शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम्। नापृष्टः कस्यचिद्ब्रूयाद्यः स नेच्छेत्पराभवम् ॥ 5-34-4 (32840) तस्माद्वक्ष्यामि ते राजन्हितं यत्स्यान्कुरून्प्रति। वचः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे ॥ 5-34-5 (32841) मिथ्योपेतानि कर्माणि सिद्ध्येतादीनि भारत। अनुपायप्रयुक्तानि मा स्म ते....मनः क...

उद्योगपर्व - अध्याय 033

  ॥ श्रीः ॥ 5.33. अध्यायः 033 Mahabharata - Udyoga Parva - Chapter Topics धृतराष्ट्रेण रात्रौ विदुरानयनम् ॥ 1 ॥ चिन्तया प्रजागरंगतेन धृतराष्ट्रेण दुर्योधनादिसुखोपायप्रश्ने विदुरेण नीतिकथन पूर्वकं पाण्डवेभ्यो राज्यदानस्य तदुपायत्वकथनम् ॥ 2 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-33-0 (32705) वैशंपानय उवाच। 5-33-0x (3441) द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः । विदुरं द्रष्टुमिच्छामि तमिहानय मा चिरम् ॥ 5-33-1 (32706) प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् । ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति ॥ 5-33-2 (32707) एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् । अब्रवीद्धृतराष्ट्राय द्वाःस्थं मां प्रतिवेदय ॥ 5-33-3 (32708) द्वाःस्थ उवाच। 5-33-4x (3442) विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात्। द्रुष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम् ॥ 5-33-4 (32709) धृतराष्ट्र उवाच। 5-33-5x (3443) प्रवेशय महाप्रज्ञं विदुरं दीर्घदर्शिनम् । अहं हि विदुरस्यास्य नाकल्पो जातु दर्शने ॥ 5-33-5 (32710) द्वाःस्थ उवाच। 5-33-6x (3444) प्रविशान्तःपुरं क्षत्तर्म...