उद्योगपर्व - अध्याय 044
॥ श्रीः ॥ 5.44. अध्यायः 044 Mahabharata - Udyoga Parva - Chapter Topics सनत्सुजातेन धृतराष्ट्रंप्रति सत्त्वोपदेशः ॥ 1 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-44-0 (33442) धृतराष्ट्र उवाच। 5-44-0x (3527) सनत्सुजात यामिमां परां त्वं ब्राह्मीं वाचं वदसे विश्वरूपाम्। परां हि कामेन सुदुर्लभां कथां प्रब्रूहि मे वाक्यमिदं कुमार । 5-44-1 (33443) सनत्सुजात उवाच। 5-44-2x (3528) नैतद्ब्रह्म त्वरमाणेन लभ्यं यन्मां पृच्छन्नतिहृष्यस्यतीव। बुद्धौ विलीने मनसि प्रचिन्त्य विद्या हि सा ब्रह्मचर्येण लभ्या ॥ 5-44-2 (33444) धृतराष्ट्र उवाच। 5-44-3x (3529) अत्यन्तविद्यामिति यत्सनातनीं ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम्। अनारभ्यां वसतीह कार्यकाले कथं ब्राह्मण्यममृतत्वं लभेत ॥ 5-44-3 (33445) सनत्सुजात उवाच। 5-44-4x (3530) अव्यक्तविद्यामभिधास्ये पराणीं बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम्। यां प्राप्यैनं मर्त्यलोकं त्यजन्ति या वै विद्या गुरुवृद्धेषु नित्या ॥ 5-44-4 (33446) धृतराष्ट्र उवाच। 5-44-5x (3531) ब्रह्मचर्येण या विद्या शक्या वेदितुमञ्चसा। तत्कथं ब्रह्मच...