Posts

उद्योगपर्व - अध्याय 042

  ॥ श्रीः ॥ 5.42. अध्यायः 042 Mahabharata - Udyoga Parva - Chapter Topics सनत्सुजातेन धृतराष्ट्रंप्रति तत्त्वोपदेशः ॥ 1 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-42-0 (33332) वैशम्पायन उवाच। 5-42-0x (3504) ततो राजा धृतराष्ट्रो मनीषी संपूज्य वाक्यं विदुरेरितं तत्। सनत्सुजातं रहिते महात्मा पप्रच्छ बुद्धिं परमां बुभूषन् ॥ 5-42-1 (33333) धृतराष्ट्र उवाच। 5-42-2x (3505) सनत्सुजात यदिमं शृणोमि न मृत्युरस्तीति तवोपदेशम्। देवासुरा ह्याचरन्ब्रह्मचर्य- ममृत्यवे तत्कतरन्नु सत्यम् ॥ 5-42-2 (33334) सनत्सुजात उवाच। 5-42-3x (3506) अमृत्युं कर्मणा केचिन्मृत्युर्नास्तीति चापरे। शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥ 5-42-3 (33335) उभे सत्ये क्षत्रियाद्य प्रवृत्ते मोहो मृत्युः संमतोऽयं कवीनाम्। प्रमादं वै मृत्युमहं ब्रवीमि तथाऽप्रमादममृतत्वं ब्रवीमि ॥ 5-42-4 (33336) प्रमादाद्वै असुराः पराभव- न्नप्रमादाद्ब्रह्मभूताः सुराश्च। नैव मृत्युर्व्याघ्र इवात्ति जन्तू- न्न ह्यस्य रूपमुपलभ्यते हि ॥ 5-42-5 (33337) यमं त्वेके मृत्युमतोऽन्यमाहु- रात्मावासममृतं ब्रह्मचर्य...

उद्योगपर्व - अध्याय 041

  ॥ श्रीः ॥ 5.41. अध्यायः 041 Mahabharata - Udyoga Parva - Chapter Topics धृतराष्ट्रेण पुनर्धर्मरहस्यकथनं चोदितेन विदुरेण स्वस्य शूद्रयोनिजातत्वेन तत्कथनानौचित्यकथनम् ॥ 1 ॥ तथा स्मरण मात्रसंनिहितं सनत्सुजातंप्रति धृतराष्ट्राय तत्वोपदेशप्रार्थना ॥ 2 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-41-0 (33319) धृतराष्ट्र उवाच। 5-41-0x (3498) अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते। तन्मे शुश्रूषतो ब्रूहि विचित्राणि हि भाषसे ॥ 5-41-1 (33320) विदुर उवाच। 5-41-2x (3499) धृतराष्ट्र कुमारो वै यः पुराणः सनातनः। तनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत ॥ 5-41-2 (33321) स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान्। प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ॥ 5-41-3 (33322) धृतराष्ट्र उवाच। 5-41-4x (3500) किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः। त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव ॥ 5-41-4 (33323) विदुर उवाच। 5-41-5x (3501) शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे। कुमारस्य तु याबुद्धिर्वेद तां शाश्वतीमहम् ॥ 5-41-5 (33324) ब्राह्मीं हि योनिमापन्नः सगुह...

उद्योगपर्व - अध्याय 040

  ॥ श्रीः ॥ 5.40. अध्यायः 040 Mahabharata - Udyoga Parva - Chapter Topics विदुरेण धृतराष्ट्रं प्रति तत्तद्वर्णवर्मणां तैत्तैश्वश्यानुष्ठेयत्वकथनपूर्वकं युधिष्ठिरस्य राज्यं प्रदाय क्षात्रधर्मे नियोजनचोदनम् ॥ 1 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-40-0 (33286) विदुर उवाच। 5-40-0x (3496) योऽभ्यर्चितः मद्भिरसञ्जमानः करोत्यर्थं शक्तिमहापयित्वा। क्षिप्रं यशस्तं समुपैति मन्त- मलं प्रसन्ना हि सुखाय सन्तः ॥ 5-40-1 (33287) महान्तमप्यर्थमधर्मयुक्तं यः मन्त्यजत्यनपाकृष्ट एव। सुखं सुदुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य ॥ 5-40-2 (33288) अनृते च समुत्कर्पो राजगामि च पैशुनम् । गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ 5-40-3 (33289) असूयैकपदं मृत्युरतिवादः श्रियो वधः। अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रः ॥ 5-40-4 (33290) आलस्यं मदमोहौ च चापलं गोष्ठिरेव च। स्तब्धता चाभिमानित्वं तथा त्यागित्वमेव च ॥ 5-40-5 (33291) एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः । सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखं। सुखार्थी वा त्यजेद्विद्यां विद...

उद्योगपर्व - अध्याय 039

  ॥ श्रीः ॥ 5.39. अध्यायः 039 Mahabharata - Udyoga Parva - Chapter Topics विदुरेण धृतराष्ट्रंप्रति ज्ञातिसंग्रहे गुणवर्णनपूर्वकं पुनः कुरुपाण्डवेषु साम्येन वर्तनविधानम् ॥ 1 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-39-0 (33199) धृतराष्ट्र उवाच। 5-39-0x (3492) अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा। धात्रा तु दिष्टस्य वशे कृतोऽयं तस्माद्वद त्वं श्रवणे धृतोऽहम् ॥ 5-39-1 (33200) विदुर उवाच। 5-39-2x (3493) अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन्। लभते बुध्द्यवज्ञानमवमानं च भारत ॥ 5-39-2 (33201) प्रियो भवति दानेन प्रियवादेन चापरः । मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः ॥ 5-39-3 (33202) द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः। प्रिये शुभानि कार्याणि द्वेष्ये पापानि चैव ह ॥ 5-39-4 (33203) उक्तं मया जातमात्रेऽपि राजन् दुर्योधनं त्यज पुत्रं त्वमेकम्। तस्य त्यागात्पुत्रशतस्य वृद्धि- रस्यात्यागात्पुत्रशतस्य नाशः ॥ 5-39-5 (33204) न वृद्धिर्बहुमन्तव्या या वृद्धिः क्षयमावहेत्। क्षयोऽपि बहुमन्तव्यो यः क्षयो वृद्धिमावहेत् ॥ 5-39-6 (33205) न स क्षय...

उद्योगपर्व - अध्याय 038

  ॥ श्रीः ॥ 5.38. अध्यायः 038 Mahabharata - Udyoga Parva - Chapter Topics विदुरेण धृतराष्ट्रंप्रति नीतिकथनपूर्वकं पाण्डवेभ्यो राज्याप्रदाने दुर्योधनस्य राज्यभ्रंशकथनम् ॥ 1 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-38-0 (33151) विदुर उवाच। 5-38-0x (3491) ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति। प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ 5-38-1 (33152) पीठं दत्त्वा साधवेऽभ्यागताय आनीयापः परिनिर्णिज्य पादौ। सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थां ततो दद्यादन्नमवेक्ष्य धीरः ॥ 5-38-2 (33153) यस्योदकं मधुपर्कं च गां च न मन्त्रवित्प्रतिगृह्णाति गेहे । लोभाद्भयादथ कार्पण्यतो वा तस्यानर्थं जीवितमाहुरर्याः ॥ 5-38-3 (33154) चिकित्सकः शल्यकर्तावकीर्णी स्तेनः क्रूरो मद्यपो भ्रूणहा च। सेनाजीवी श्रुतिविक्रायकश्च भृशं प्रियोऽप्यतिथिर्नोदकार्हः ॥ 5-38-4 (33155) अविक्रेयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च। तिला मांसं फलमूलानि शाकं रक्तं वासः सर्वगन्धा गुडाश्च॥ 5-38-5 (33156) अरोषणो यः समलोष्ठाश्मकाञ्चनः प्रहीणशोको गतसन्धिविग्रहः । निन्दाप्रशंसोपर...

उद्योगपर्व - अध्याय 037

  ॥ श्रीः ॥ 5.37. अध्यायः 037 Mahabharata - Udyoga Parva - Chapter Topics धृतराष्ट्रेण अल्पायुष्ट्वकारणप्रश्ने विदुरेण तदभिधाय नीतिकथनपूर्वकं कुरुपाण्डवसन्धिकरणविधानम् ॥ 1 ॥ Mahabharata - Udyoga Parva - Chapter Text 5-37-0 (33086) विदुर उवाच। 5-37-0x (3488) सप्तदशेमान्राजेन्द्र मनुः स्वायंभुवोऽब्रवीत्। वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ॥ 5-37-1 (33087) तानेवेन्द्रस्य च धनुरनाम्यं नमतो ब्रवीत्। अथो मरीचिनः पादानग्राह्यान्गृह्णतस्तथा ॥ 5-37-2 (33088) यश्चाशिष्यं शास्ति वै यश्च तुष्ये- द्यश्चातिवेलं भजते द्विषन्तम् । स्त्रियश्च यो रक्षति भद्रमश्रुते यश्चायाच्यं याचते कत्थते वा ॥ 5-37-3 (33089) यश्चाभिजातः प्रकरोत्यकार्यं यश्चाबलो बलिना नित्यवैरी। अश्रद्दधानाय च यो ब्रवीति यश्चाकाम्यं कामयते नरेन्द्र । 5-37-4 (33090) वध्वाऽवहासं श्वशुरो मन्यते यो वध्वाऽवसन्नभयो मानकामः । परक्षेत्रे निर्वपति यश्च बीजं स्त्रियं च यः परिवदतेऽतिवेलम् ॥ 5-37-5 (33091) यश्चापि लब्ध्वा न स्मरामीति वादी दत्त्वा च यः कत्थति याच्यमानः। यश्चासतः सान्त्वमुपानयीत एतान्नयन्ति न...

उद्योगपर्व - अध्याय 036

  ॥ श्रीः ॥ 5.36. अध्यायः 036 Mahabharata - Udyoga Parva - Chapter Topics विदुरेण धृतराष्ट्रंप्रति आत्रेयेण साध्यान्प्रत्युपदिष्टनीतिकथनम् ॥ 1 ॥ तथा महाकुललक्षणाद्यभिधानपूर्वकं पाण्डवैः सह सन्धिकरणविधानम् ॥ 2 ॥ Mahabharata - Udyoga Parva - Chapter Text विदुर उवाच। अत्रैवोदाहरन्तीममितिहासं पुरातनम्। आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ॥ 5-36-1 (33013) चरन्तं हंसरूपेण महर्षिं संशितव्रतम्। साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा ॥ 5-36-2 (33014) साध्या ऊचुः । 5-36-3x (3482) साध्या देवा वयमेते महर्षे दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम्। श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः काव्यां वाचं वक्तुमर्हस्युदाराम् ॥ 5-36-3 (33015) हंस उवाच। 5-36-4x (3483) एतत्कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः। ग्रन्थिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मसमं नयीत ॥ 5-36-4 (33016) आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः। आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ 5-36-5 (33017) नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी। न चाभिमानी न च...